पूर्वम्: १।१।६६
अनन्तरम्: १।१।६८
 
प्रथमावृत्तिः

सूत्रम्॥ स्वं रूपं शब्दस्याशब्दसंज्ञा॥ १।१।६७

पदच्छेदः॥ स्वम् १।१ ७१ रूपम् १।१ ७१ शब्दस्य ६।१ अशब्द-संज्ञा १।१

समासः॥

शब्दस्य संज्ञा, शब्दसंज्ञा, षष्ठीतत्पुरुषः। न शब्दसंज्ञा, अशब्दसंज्ञा, नञ्तत्पुरुषः।

अर्थः॥

इह व्याकरणे यस्य शब्दस्य कार्यम् उच्यते, तस्य स्वं रूपं ग्राह्यं, न तु शब्दार्थः, न च पर्यायवाचीशब्दः, शब्दसंज्ञां वर्जयित्वा।

उदाहरणम्॥

आग्नेयमष्टाकपालं निर्वपेत्।
काशिका-वृत्तिः
स्वं रूपं शब्दस्य अशब्दसंज्ञा १।१।६८

शास्त्रे स्वम् एव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्यो ऽर्थः, शब्दसंज्ञां वर्जयित्वा। शब्देन अर्थावगतेरर्थे कार्यस्य असम्भवात् तद्वाचिनाम् शब्दानाम् सम्प्रत्ययो मा भूतिति सूत्रम् इदम् आरभ्यते। अग्नेर् ढक् ४।२।३२ आग्नेयम् अष्टाकपालं निर्वपेत्। अग्निशब्दो ऽग्निशब्दस्यैव ग्राहको भवति, न ज्वलनः, पावकः, धूमकेतुः इति। न अतः प्रत्ययो भवति। उदश्वितो ऽन्यतरस्याम् ४।२।१८औदश्वित्कम्। औदश्वितम्। तक्रम्, अरिष्टं, कालशेयं, दण्डाहतं, मथितम्, इति न अतः प्रत्ययो भवति। अशब्दसंज्ञा इति किम्? दाधा घ्वदाप् १।१।१९ तरप्तमपौ घः १।१।२२, घुग्रहणेषु घग्रहनेषु च संज्ञिनां ग्रहनम्, न संज्ञायाः। सित्तद्विशेषाणां वृक्षाद्यर्थम्। सिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् तद्विशेषाणां ग्रहणं भवति इति किं प्रयोजनम्? वृक्षाद्यर्थम्। विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशु। शकुन्यश्ववडवपूर्वापराधरोत्तराणाम् २।४।१२ इति प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः। पित्पर्यायवचनस्य च स्वाऽद्यर्थम्। पिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् पर्यायवचनस्य ग्रहणं भवति, चकारात् स्वस्य रूपस्य तद्विशेषाणां च इति किं प्रयोजनम्? स्वाऽद्यर्थम्। स्वे पुशः ३।४।४०। स्वपोषं पुष्टः। रैपोशम्। धनपोशम्। अश्वपोषम्। गोपोशम्। जित्पर्यायवचनस्यैव राजाऽद्यर्थम्। जिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् पर्यायवचनस्यैव ग्रहनं भवति इति, न स्वरूपस्य, न अपि तद्विशेषाणाम् किं प्रयोजनम्? राजाऽद्यर्थम्। सभा राजा अमनुष्यपूर्वा २।४।२३ इनसभम्। ईश्वरसभम्। तस्यैव न भवतिराजसभा। तद्विशेषाणां च न भवति पुष्यमित्रसभा। चन्द्रगुप्तसभा। झैत्तद्विशेषाणां च मत्स्याऽद्यर्थम्। झिन्निर्देशः कर्तव्यः। ततो वक्तव्यम् तस्य च ग्रहणं भवति तद्विशषाणां च इति किं प्रयोजनम्? मत्स्याऽद्यर्थम्। पक्षिमत्स्यमृगान् हन्ति ४।४।३५ इति ठक्पाक्षिकः। मात्सियकः। तद्विशेषाणाम् शाकुनिकः। पर्यायाणां न भवतिअजिह्मान् हन्ति, अनिमिषान् हन्ति इति। अथैकस्यैश्यते, मीनान्, हन्ति इति मैनिकः।
न्यासः
स्वं रूपं शब्दस्याशब्दसंज्ञा। , १।१।६७

"शास्त्रे स्वमेव" इत्यादि। शास्त्रग्रहणं लोकेऽर्थस्यैव ग्राह्रत्वात्। शब्दस्येति "कृत्यानां कर्तरि वा" २।३।७१ इति कत्र्तरि षष्ठी, शब्दः स्वमेव रूपं ग्राहयति बोधयति, प्रत्याययतीत्यर्थः। कः पुनः शब्दस्य स्वरूपस्य च भेदः? येन शब्दस्येत व्यतिरेकनिबन्धना षष्ठी भवति। परमार्थतो वस्तुगतो नास्त्येव भेदः। तथा हि-- स्वं रूपं शब्दस्य स्वभावः। तच्चेत् ततोऽर्थान्तरं स्याच् शब्दस्य वैस्वभाव्यमेव स्यात्। असत्यपि तु वास्तवे भेदे बुद्धिविरचितं भेदमाश्रित्य षष्ठी भवति। बुद्धिर्हि स्वबीजपरिपाकवशादाकारविशेषपरिग्रहवत्युपजायमाना वस्तुनोऽसत्यपि भेदे भेदमापादयति, यथा-- राहोः शिरः, स्वस्य स्वभाव इति। "न बाह्रोऽर्थः" इति एवकारेण यद्व्यवच्छिन्नं तद्दर्शयति। अतिप्रसक्तस्यापवादमाह--"अशब्दसंज्ञा" इत्यादि। किमर्थं पुनरिदमारभ्यत इत्याह-- "शब्देन" इत्यादि। शब्देनोच्चारितेनार्थः कार्योपयोगितया गम्यते, न शब्द- स्वरूपम्। तथा हि-- गौरुपलभ्यतमित्युक्तेऽर्थमेवोपलब्धुमाद्रियते, न शब्दस्वरूपम्; व्याकरणे तु प्रत्ययविधानादिकार्यमर्थस्य न सम्भवति; तेन सह शब्दस्य पौर्वापर्याभावात्। न चार्थाद् विहितेन प्रत्ययेन कश्चित् प्रकृतोपयोगः। तेन "अग्नेर्ढक्" (४।२। ३३) इत्युक्ते नायं संप्रत्ययो भवति। अग्निशब्दस्य योऽर्थः, स इह कार्यी, तस्येदं कार्यं विधीयत इति। ततश्च तस्यार्थस्य ये वाचकाः विधेयमिति। यथा --आकृतिवादिनां गौर्दुह्रतामिति शब्देन जातौ चोदितायां तत्र तत्कार्यासम्भवात् तदाधारायां व्यक्तौ संभवात् तत्साहचर्याच्च तस्यामेव व्यक्तौ संप्रत्ययो भवति, न जातौ; तथेहापि तन्मा भूत् तद्वाचिनां संप्रत्यय इत्येवमर्थमिदमारभ्यते। तद्वाचिनामिति कर्मणि षष्ठी। तद्वाचिनो मा विज्ञायीत्येवमर्थमिदमारभ्यत इत्यर्थः। तत्र केचिदाहुः-- स्वरूपस्य पर्यायाणां च कार्ये प्रसक्ते श्रूयमाणस्यैव तद् यथा स्यात्, पर्यायाणां भूदिति नियमार्था परिभाषेयमिति। अन्ये तु-- " लिङ्गवती परिभाषा भवति" , यथा, "इको गुणवृद्धी" १।१।३ इति गुणवृद्धी लिङ्गम्। विध्यन्तरशेषभूता वा; यथा-- "विप्रतिषेधे परं कार्यम्" (कात।प।६७) इति परस्य विध्यन्तरस्य शेषभावमापद्यते। न वास्या लिङ्गं विध्यन्तरशेषभावो वा विद्यत इति संज्ञासूत्रमिदम्" इति प्रतिपन्नाः। यद्यपि वृत्तौ संज्ञाशब्दो नोच्चारिनः, तथापि "स्वमेव रूपं शब्दस्य ग्राह्रम्" इत्येवं ब्राउवता वृत्तिकारेण संज्ञैवेत्याख्यातं भवति। अग्निशब्दादौ शब्दान्तरैः साधारणमपि रूपमस्ति शब्दत्वादि, असाधारणमपि अग्निशब्दत्वादि, तत्र साधारणरूपव्युदासेनासाधारणस्याग्निशब्दत्वादि- रूपस्य परिग्रहार्थं "स्वम्" ग्रहणम्। तद्धि स्वमेव तस्य रूम्, इतरत् पुनः परस्यापि। प्रतीति प्रत्यनुपदेशाच्छब्दस्य स्वरूपमेवासन्नम्, नार्थः; विपर्ययात्, अहेयत्वा- च्च, तन्नित्यसम्बन्धित्वाच्च। तथा ह्रनुकरणशब्दा ह्रर्थं जहति, न तु स्वरूपम्। असाधारणञ्च रूपम्र्थस्तु साधारणः; शब्दान्तरैरपि प्रत्यायमानत्वात्। तदेवमासन्नत्वान्नित्यसम्बधित्वादसाधारणत्वाच्च रूपमेव शब्दस्य स्वम्, नार्थः। ततश्च स्वग्रहणादेव रूपपरिग्रहे सिद्धे व्याकरणे रूपवदर्थोऽप्यङ्गीक्रियत इति ज्ञापनार्थं रूपग्रहणम्। तेन-- "अर्थवद्()ग्रहणेन नानर्थकस्य" (व्या।प।१) इत्येतदुपपन्नं भवति। शब्दानुशासननप्रस्तावादेव च शब्दस्येति सिद्धे शब्दग्रहणम्-- यत्र शब्दपरो निर्देशस्तत्र स्वरूपं गृह्रते, नार्थपरो निर्देश इति ज्ञापनार्थम्। तेन " स्वे पुषः" ३।४।४० इत्यत्र स्वरूपस्य ग्रहणं न भवति। अर्थपरत्वं तु निर्देशस्याविच्छिन्नपारम्पर्यादाचार्योपदेशाद्()विज्ञायते। "आग्नेयम्" इति। अग्निर्देवताऽस्येत्यत्रार्थे ढक्। "औद()इआत्कम्" इति। आत्राप्युद()इआता संस्कृतमित्यत्रार्थे ढक्। "उद()इआतो- ऽन्यतरस्याम्" ४।२।१८ इत्यत्र "दध्नष्ठक्" ४।२।१७ इत्यस्यानुवत्तेः, "इसुसु- क्तान्तात्कः" ७।३।५१ इति ठकः कादेशः। "घग्रहणेषु" इत्यादि। यदि घुप्रभृतिरपि संज्ञाशब्द स्वरूपस्य ग्राहकः स्यात् "उपसर्गे घोः किः" ३।२।९२ इत्यत्र यद्यपि धात्वधिकारस्तथापि घुग्रहणाद् घुशब्दात् किप्रत्ययः स्यात्। उपसर्गग्रहणं तु प्राद्युपलक्षणार्थ स्यात्। यथा-- "अञ् नासिकायाः संज्ञायां, नसञ्चास्थूलात्" ५।४।११८ "उपसर्गाच्च" ५।४।११९ इत्यत्र। कुमारीघ इत्यत्र च घ इति संज्ञाशब्देन स्वरूपप्रत्यायने सति "घरूपकल्प" ६।४।४३ इत्यादिन घशब्दे परतो ह्यस्वत्वं प्रसज्येत। ननु च संज्ञाविधानसामथ्र्यात् संज्ञायाः स्वरूपग्रहणं न भवति, संज्ञा हि संज्ञिनः प्रत्यायनार्था क्रियते; यदि संज्ञाशब्दोऽपि स्वरूपं प्रत्याययेत् संज्ञाविधानमनर्थकं स्यात्, नैतदस्ति; संज्ञाविदानसामथ्र्याद्धि संज्ञिनं प्रत्याययेत्, परिभाषाविधानसामथ्र्याच्च स्वरूपम्। तस्मात् प्रतिषेधः कत्र्तव्यः? न कत्र्तव्यः, ज्ञापकात् संज्ञाशब्दो रूपस्य ग्राहको न भविष्यति। यदयं "ष्णान्ता षट्" १।४।२४ इति षकारान्तायाः संख्यायाः षट्संज्ञां विदधाति,तज्ज्ञापयति- संज्ञाशब्दः स्वरूपस्य ग्राहको न भवतीति; अन्यथा हि "ष()ड्भ्यो लुक्" ७।१।२२ इत्यत्र षट्शब्देन स्वरूपस्य प्रत्यायितत्वात् ततोऽपि लुग् भवतीति षकारन्तायायः संख्यायाः षडिति संज्ञा न कुर्यात्। षट्शब्दो हि षकारान्ता संख्या, नान्या, सत्यमेतत्; तथापि येषां ज्ञापकद्वारेणार्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्, तान् प्रतितत्परिहाराययाशब्द- संज्ञेति प्रतिषेधः कृतः। शब्दग्रहणम्- व्याकरणे या संज्ञा तस्या एव प्रतिषेधो न लौकिक्या इति प्रदर्शनार्थम्। "सित्त्दविशेषाणाम्" इत्यादि। यत्र विशेषाणां ग्रहणमिष्यते तत्र सकार इत्संज्ञकः कत्र्तव्यः "वृक्षस्य,मृगस्िति। "ततो वक्तवयः" इत्यादि। सिन्निर्देशं कृत्वा ततः प्रथमेऽध्यायेऽन्यत्र वा परिभाषेयं कत्र्तव्या-- सित्तद्विशेषाणामित्यादि। यस्य सकार इत्संज्ञकः, स तद्विशेषाणां वृक्षादिविशेणाणां खदिरादीनां प्रतिपादक इति वक्तव्यम्। एवं "पित्पर्यायवचनस्य च स्वाद्यर्थम्" (कात्या।वा।५१९) इत्यादावपि वेदितव्यम् न्यायादपि चैतत् प्रतिपाद्योऽर्थः सिध्यति। यथा सिध्यति तथा यथावससं पुरस्तात् प्रतिपादयिष्यामः सुखावबोधनार्थं सित्तद्विशेषाणामित्यादिग्रन्थोपन्यासः॥
बाल-मनोरमा
स्वं रूपं शब्दस्याऽशब्दसंज्ञा २७, १।१।६७

"अग्नेर्ढक्""वाय्वृतुपित्रुषसो यत्" "राज्ञो य"दित्यादौ लौकिकव्युत्त्पत्या उपस्थितानां वह्निवातादीनामर्थानां ढगादिप्रत्ययैः पौर्वापर्यासम्भवात्प्रातिपदिकादित्यनेनान्वयासंभवाच्च तत्तदर्थकपर्यायशब्दानां ग्रहणापत्तौ तन्नियमार्थमिदं सूत्रमारभ्यते--स्वं रूपम्। "अग्नेर्ढगित्यादौ अग्न्यादिशब्दस्य यत्स्वरूपं श्रुतं तदेव अग्न्यादिशब्दै प्रत्येतव्यं, नतु तदन्यस्तत्तत्पर्यायोऽपि। शब्दशास्त्रे संकेतिता वृद्धिगुणादिसंज्ञा शब्दसंज्ञा, तत्र नायं नियम" इत्यर्थः। तदाह--शब्दस्य स्व रूपं संज्ञीति। बोध्यमित्यर्थः। न च वृद्धिर्गुण इत्यादिसंज्ञाविधिबलादेव तत्र तदर्थग्रहणं भविष्यतीति किमशब्दसंज्ञेत्यनेनेति वाच्यम्, "उपसर्ग घोः कि"रित्यत्र "घु शब्दे" इति घुधातुनिवृत्त्यर्थत्वात् "दाधा ध्वदाप्" इति संज्ञाकरणस्य "घुमास्थागापाजहातिसां हलि" इत्यादौ आवश्यकतया संज्ञाकरणस्य सामर्थ्योपक्षयादित्यन्यत्र विस्तरः। इदं सूत्रं भाष्ये प्रत्याख्यातम्।

तत्त्व-बोधिनी
स्वं स्वं शब्दस्याऽशब्दसंज्ञा २४, १।१।६७

स्वं रूपं शब्दस्य। "अग्नेर्ढक्"। आग्नेयम्। "आङो यमहनः"। आयच्छते, आहते। इह-अग्नि, आङ्, यम्, हन्, -एते एव संज्ञिनः। नन्वग्न्यादिवाच्यादङ्गारादेर्ढगादिप्रत्ययो न संभवतीति स्वरूपादेव स्यात्, "प्रातिपदिका"दित्याद्यधिकाराच्च किमनेन सूत्रेणेति चेत्?, सत्यम्। अग्न्यादिशब्दपर्यायेभ्योवह्वयादिभ्यो मा भूदिति सूत्रस्याऽस्यारम्भः। नन्वत्र रूपग्रहणं विनापि स्वशब्देन रूपमेव ग्रहीष्यते, प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वादन्तरङ्गत्वान्नियतोपस्थितिकत्वाच्च। अर्थो हि प्रतीतौ संबन्धग्रहणमपेक्षते, पर्यायैरपि प्रत्यायनात्साधारणः , पदज्ञानजन्यवोधविषयत्वाद्बहिरङ्गः, अनुकरणदशायामप्रतीतेरनियतोपस्थितिकश्चेति किमनेन रूपग्रहणेन?।

उच्यते-"इह शास्त्रे अर्थोऽपि विवक्षितो रूपव"दिति ज्ञापनार्थं रूपग्रहणम्। तेन "अर्थवद्ग्रहणे नानर्थकस्ये"त्युपपन्नं भवति। तत्रोक्ताज्ञापकादर्थो ग्राह्रः, "स्व"मिति वचनात्स्वं रूपं चेति सामथ्र्यादर्थवतो रूपस्य ग्रहणम्। तेन "काशे" "कुशे" इत्यत्र "शे" इत्ययं प्रगृह्रसंज्ञो न भवति। "प्रादूहोढेइत्यत्र तु "ऊढग्रहणेन क्तान्तमेव गृह्रते नतु क्तवत्वन्तस्यैकदेशः" इत्यन्यत्र विस्तरः। अशब्दसंज्ञेति किम्? उपसर्गे घोः किः"-दाधाभ्यो यथा स्यात्, घुधातोः शब्दार्थकान्मा भूत्। नच "दाधा घु" इति घुसंज्ञाकरणसामथ्र्यादेव दाधाभ्यः किः स्यादिति वाच्यम्, "घुमास्थे"त्यादिना आत ईत्त्वविधौ संज्ञाकरणस्यावश्यकतया सामर्थ्योपक्षयात्। इह (अ) शब्दस्य संज्ञा (अ) शब्दसंज्ञेति न षष्ठीसमासः, "कर्म" "करण"मित्यादिष्वर्थसंज्ञासु स्वरूपग्रहणापत्तेः, किंतु शब्दः-शब्दशास्त्रं, तत्र संज्ञा शब्दसंज्ञेति सप्तमीसमासस्तदाह--शब्दशास्त्रे या संज्ञेति।