पूर्वम्: ५।४।१६०
अनन्तरम्: ६।१।२
 
सूत्रम्
एकाचो द्वे प्रथमस्य॥ ६।१।१
काशिका-वृत्तिः
एकाचो द्वे प्रथमस्य ६।१।१

अधिकारो ऽयम्। एकाचः इति च, द्वे इति च, प्रथमस्य इति च त्रितयम् अधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः प्राक् संप्रसारणविधानात् तत्र एकाचः प्रथमस्य द्वे भवतः इत्येवं तद् वेदितव्यम्। वक्ष्यति लिटि धातोरनभ्यासस्य ६।१।८ इति। तत्र धातोरवयवयस्य अनभ्यासस्य प्रथमस्य एकाचो द्वे भवतः। जजागार। पपाच। इयाय। आर। एकाच इति बहुव्रीहिनिर्देशः। एको ऽच् यस्य सो ऽयम् एकाचित्यवयवेन विग्रहः। तत्र समुदायः समासार्थः। अभ्यन्तरश्च समुदाये ऽवयवो भवति इति साच्कस्य एव द्विर्वचनं भवति। एवं च पचित्यत्र येन एव अचा समुदायः एकाच्, तेना एव तदवयवो ऽच्छब्दः पशब्दश्च। तत्र पृथगवयवैकाच् न द्विरुच्यते, किं तर्हि, समुदायैकाजेव। तथा हि सकृच्छास्त्रप्रवृत्त्या सावयवः समुदायो ऽनुगृह्यते। पपाच इत्यत्र प्रथमत्वं व्यपदेशिवद्भावात्। इयाय, आर इत्यत्र एकाच्त्वम् अपि व्यपदेशिभावादेव। द्विःप्रयोगश्च द्विर्वचनम् इदम्। आवृत्तिसङ्ख्या हि द्वे इति विधीयते। तेन स एव शब्दो द्विरुचार्यते, न च शब्दान्तरं तस्य स्थाने विधीयते।
न्यासः
एकाचो द्वे प्रथमस्य। , ६।१।१

इह केचित्? स्वार्था एव विधयो भवन्ति, न पदार्थाः, तद्यथा--"अण्कुटिलिकायाः" (४।४।१८) इति कुटिलिकाशब्दादण्? विधीयमानः स्वार्थो भवति। केचित्? पुनः स्वार्थाः, परार्थश्च तद्यथा--"पदरुजविशस्पृशो घञ्()" (३।३।१६) इति पदादिभ्यो घञ्? विधीयमानः स्वार्थो भवति, स्वरितलिङ्गासङ्गादुत्तरेषु योगेष्वनुवत्र्तमानः परार्थश्च। केचित्? पुनः परार्था एवाधिकारा भवन्ति, न स्वार्थाः, यथा--"समर्थानां प्रथमाद्वा" ४।१।८२ इति; तत्? किमयं स्वार्थ एव? अथोभयार्थ एवाधिकारः? उत परार्थ एवेति सन्देहापनयनाय परार्थतामेवास्य दर्शयितुमाह--"एकाच इति च" इत्यादि। एतद्ग्रहणकं वाक्यम्(), अस्य च "इत उत्तरम्()" इत्यादि। विवरणम्()। सिंहावलोकितन्यायेन पूर्वत्राप्यधिकाराणामनुवृत्तिर्भवति, अतस्तन्निवृत्तिरस्वरितत्वाद्विज्ञेया। कस्य पुनः "एकाचो द्वे भवतः" इत्येवं तद्वेदितव्यम्()? इत्यत यद्येषा धातोरेव्? समानाधिकरणा षष्ठी स्यात्(), तदा पचादीनामेव द्विर्वचनं स्यात्(), न जागर्त्त्यादीनाम्(), न हि तत्रैकाच इति मन्यमानो नैषैकाच इति सामानाधिकरणा षष्ठी--धातोरेकाच इति, अपि त्ववयवयोगा--धातोर्योऽवयव एकाच इति दर्शयितुमाह--"धातोरवयवस्य" इति। "जजागार" इत्यत्र जागित्येतद्()द्विरुच्यतदे, "पपाच" इत्यत्र पच्छब्दः; पूर्वत्र "अचो ञ्णिति" ७।२।११५ इति वृद्धिः, उत्तरत्र "अत उपधायाः" ७।२।११६ इति। "इयाय" इति। "इण्? गर्तौ (धा।पा।१०४५) "अचो ञ्णिति"७।२।११५ इति वृद्धौ कृतायां "द्विर्वचनेऽचि" १।१।५८ इति स्थानिवद्भावादिकारो द्विरुच्यते, आयादेशः, "अभ्यासस्यासवर्णो" ६।४।७८ इतीयङ्()। "आर इति। "ऋ गतौ" (धा। पा। १०९८) ऋ इत्येतस्य द्विर्वचनम्(), "उरत्()" (७।४।६६) इत्यत्त्वम्? रपरत्वम्(), "अत आदेः" ७।४।७० इति दीर्घः, सर्वर्णदीर्घत्वञ्च। एकाच इति तत्पुरुषोऽयं वा स्यात्? एकश्चासावच्चेति एकाच्(), बहुव्रीहिर्वा एकोऽञ्? यस्येति? तत्र यद्ययं तत्पुरुषः स्यात्(), इणादीनामेव द्विरुक्तिः स्यात्()--इयाय आरेत्येवमादौ; पचादीनां तु पपाचेत्यादौ न स्यात्(), तेषामज्झल्समुदायात्मकत्वादित्येतन्मनसि कृत्वाऽ‌ऽह--"एकाच इति बहुव्रीहनिर्देशोऽयम्()" इति। बहुव्रीहिणा विवक्षितस्यार्थस्य निर्देशः=कथनम्()। बहुव्रीहेर्निर्देशः=कथनम्(), उच्चारणं वा बहुव्रीहिनिर्देशः। कुतः पुनरेतदवसितम्()--बहुव्रीहेनिर्देशोऽयमिति? "हलादिः शेषः", ७।४।६० "शर्पूर्वाः खयः" ७।४।६१ इत्येवमादिलिङ्गात्()। ननु च तत्पुरुषस्यापि लिङ्गमस्ति--"दीर्घ इणः किति" (७।४।६९) इतीणोऽभ्यासस्य दीर्घविधानम्()? नैतदस्()ति; बहुव्रीहावपि ह्रस्मिन्? व्यपदेशिवद्भावादिणो द्विर्वचनेऽभ्यासस्य दीर्घविधानमुपपद्यत एव, न तु तत्पुरुषेऽस्मिन्? हलादिशेषादिकार्यमुपपद्यतेः पचादीनामज्झल्समुदायानां द्विर्वचनानुपपत्तेः। तस्माद्बहुव्रीहेरेव लिङ्गमस्ति, न तत्पुरुषस्येति बहुव्रीहिनिर्देश एवायम्()। यद्येवम्(); बहुव्रीहेरेवान्यपदार्थप्रधानत्वादुपलक्षणविनिर्मुक्तस्य शुद्धस्यैवान्यार्थस्य बहुव्रीहिणाभिधानादचावयवेन य उपलक्षितोऽन्यपदार्थस्तस्यैवानच्कस्य द्विर्वचनं प्राप्नोति, न तूपलक्षणभूतस्यापि। न ह्रुपलक्षणं कार्योपयोगि भवति। तथा हि यथा चित्रगुरानीयतामित्युक्ते यस्य चित्रागावः सन्ति स एव आनीयते, न तूपलक्षमभूता गावोऽपि। अत एव तस्य निरासाय तद्गुणसंविज्ञानोऽयं बहुव्रीहिरित दर्शयन्नाह--"तत्र" इत्यादि। "समुदायः समासार्थः" इति। सह तेनोपलक्षणभूतेनाचावयवेन समुदाय एवान्यपदार्थ इत्यर्थः। "उभ्यन्तरश्च" इति। तदन्तर्भूत इत्यर्थः। चशब्दोऽवधारणे। अभ्यन्तर एवेत्यर्थः। इतिकरणो हेतौ। यस्मात्? समुदाये समासार्थेऽवयवोऽभ्यन्तरो भवति, तस्मात्? साच्कस्यैव द्विर्वचनं भवति। लोकेऽपि क्वचिदुपलक्षणस्य समासेऽन्तर्भावात्? कार्योपयोगित्वं दृष्टमेव, यथा शुकलवाससमानयेत्युक्ते सहैव शुक्लेन वाससानीयते। पचित्यत्र यनैवाचा समुदाय एकाच्? तेनैव तदवयवोऽप्यच्छब्दः पशब्दश्चेति, तत()आआवयवानिमपि प्रत्येकं द्विर्वचनं प्राप्नोति। यथा यनैव हस्तेनावयवेन बाहुर्हस्तवान्? भवति, तेनैव देवदत्तोऽपि हस्तवान्? भवति; तथा पचतौ घातौ येनैवाकारेम पच्छब्दः समुदाय एकाच्? तेनैव तदवयवोऽप्यच्छब्दः पशब्दश्तेति। ततश्चावयवानमपि प्रत्येकं द्विर्वचनं प्राप्नोत्येव। द्विर्वचनञ्च कायिण एकाचः, सामान्येन निर्देशात्()। एवञ्च समुदायस्य तदवयवनाञ्चैकाचां पृथग्द्विर्वचने कृतेऽन्ष्यटं रूपं स्यात्(), अत एतद्द्वेष्यमपाकर्तुमाह--"तत्र" इत्यादि। तेषु समुदायेष्वेकाक्षु मध्ये पृथगवयवैकाचो न द्विरुच्यन्ते। किं तर्हि? समुदायैकाजेव। अवयवैकाजिति कर्मधारयः। "समुदायैकाच्()" इति। अयमपि कर्मधारय एव। कुतः पुनरयं सामान्याभिधाने विशेषो लभ्यते? इत्यत आह--"तथा हि" इत्यादि। यद्यपि समुदायीऽवयवश्चैकाच्(), तथापि यस्य द्विर्वचने कृते सर्वेषामनुग्रहो भवति तस्यैव द्विर्वचनं युक्तम्()। एवं शास्त्रहानिनं भवति; सर्वेषामेव शास्त्रविहितकार्यस्य निष्पत्तेः। अयमेवानुग्रहो या शास्त्रविहितकार्यस्य निष्पत्तिः। समुदायस्यैव द्विर्वचने कृते सर्वेषामनुग्रहो भवति। यथा वृक्षः प्रचलन्? सहावयवैः प्रचलति, तथैकयैव शास्त्रप्रवृत्त्या समुदायो द्विरुच्यमानः सहावयवैद्विरुच्यते, न हि विनावयवैः समुदायो द्विर्वक्तुं शक्यते; तस्य तदात्मकत्वात्। अवयवानां तु द्विर्वचनं नैकया प्रवृत्त्या सर्वेषां कर्त्तु शक्यते। न तद्()द्विरुक्तौ सर्वेषामनुग्रहो भवति। कथम्()? सर्वेषां हि तेषामेकाज्व्यपदेश एकोऽजिति हेतुः; तत्र यदा येनाचैकोऽवयव एकाजिति व्यपदिष्यते, तदा तेनैव तस्याक्षिप्तत्वान्न शक्यतेऽपर एकाजिति व्यपदेष्टुम्()। ततश्चैकस्य द्विर्वचने विधित्सिते तदेदानीं तेनाचा य एकगाच्? कश्चिदवयवस्तस्यैव द्विर्वचनं स्यात्(), नेतरस्य; अनच्कत्वात्()। अत्रैतत्? स्यात्? "एकाचः" (६।१।१) इति सर्वेषां पष्ठ()आ निर्दिष्टत्वात्? सर्वेषामेव तेषां द्विर्वचनं कर्तव्यम्(), न च तद्युगपत्? सम्भवति, अत एकस्य तावत्? क्रियते। एकस्मिन्? कृते पुनः प्रवृत्त्यन्तरेणापरस्यापि करिष्यत" इति? एतच्च न; यस्य ह्रवयवस्य पूर्वं द्विर्वचनं कृतं तेनैव सहाचो द्विरुक्तत्वान्न युज्यते पुनस्तस्यावयवान्तरेम द्विर्वचनं कर्त्तुम्()। अकृतद्विरुक्तस्य हि द्विर्वचनं क्रियते, न द्विरुक्तस्य; अन्यथा ह्रनवस्था स्यात्()। "अनभ्यासस्य" ६।१।८ इति वचनाच्चायुक्तमेवैकस्मिन्नवयवे द्विरुक्तेऽपरस्य द्विर्वचनं कर्तुम्()। अतो नावयवद्विर्वचने सर्वेषामनुग्रहः सम्भवति। तत्र यसय द्विर्वचनं न सम्भवति तस्य शास्त्रहानिः स्यात्()। तदयुक्तमवयवानां प्रत्येकं द्विर्वचनम्()। अथैषां युगपदवयवानां द्विर्वचनं न सम्भवतीति प्रयोगान्तरे पर्यायेण करिष्यते पूर्वोक्तदोषपरिहारार्थम्()? एवमपि यदा पचेरच्छब्दस्य द्विर्वचनं स्यात्(), तदा पपाचेत्येवमादि न सिध्येत्()। किञ्च "णिजिर्? शौचपोषणयोः" (धा।पा।१०९३) इत्यस्त्राल्लट्(), झि, शप्(), तस्य जुहोत्यादित्वात्? श्लुः, "श्लौ" ६।१।१० इति द्वर्वचनम्()। तत्र यदि निशब्दमात्रस्य द्विर्वचनं क्रियते तदा "णिजां त्रयाणाम्()" ७।४।७५ इति गुणः। अत्रेदानीम्? "अदभ्यस्तात्()" ७।१।४ इत्यदादेश इष्यते--तेनिजतीति रूपं यथा स्यादित्येवमर्थम्(), स च न प्राप्नोति; जकारेण व्यवहितत्वात्()। न हि जकारस्याभ्यस्तसंज्ञा, किं तर्हि? निशब्दस्य; द्विरुक्तत्वात्(), जकारस्य चाद्विरुक्तत्वात्()। अनेनिजुरिति--अत्र लङादेशस्य झेः "सिजभ्यस्तविदिभ्यश्च" (३।४।१०९) इति जुस्? न प्राप्नोति; पूर्वस्मादेव हेतोः। नेनिजदित्यत्र "नाभ्यस्ताच्छतुः" ७।१।७८ इति नुम्प्रतिषधो न स्यात्(), अत एव हेतोः। न च शक्यते वक्तुम्()--वचनसामथ्र्याद्व्यवधानेऽपि भविष्यतीति; यदा समुदायस्य द्विर्वचनं तदा वचनस्य सावकाशत्वात्()। यदा त्विकारसहितस्य जकारसय द्विर्वचनं तदा नेनिजतीत्यादिकं रूपमेव न स्यात्()। तस्मादयुक्तमवयवानां द्विर्वचनम्()। अतः समुदाय एव द्विर्वक्तव्यः। अथ पपाचेत्यत्र कथं द्विर्वचनम्(), यावता "एकाचो द्वे प्रथमस्य ६।१।१ इत्युच्यते, न चात्रैकाचः प्रथमव्यपदेशोऽस्ति, प्रथमशब्दो ह्रप्रथमापेक्षो भवति, सम्बन्धिशब्दत्वात्(); सत्स्वनेकेषु यस्मात्? पूर्वो नास्ति स प्रथमः, यः पुनरेक एव नासौ प्रथमव्यपदेशं लभते, एकश्चात्रैकाच्()। तेनात्र द्विर्वचनं न स्यात्(), जजागारेत्यादावेव स्यात्()? इयाय, आरेत्यत्रापि कथं द्विर्वचनम्(), यावतैकाचस्तदुच्यते, न चैकाच्त्वमस्ति, अज्व्यतिरिक्तस्यानच एकाज्व्यपदेशहेतोरभावात्()? इत्यत आह--"पपाचेत्यत्र" इत्यादि। एकसंख्याव्यवच्छिन्नस्वरसम्बनधहेतुको व्यपदेशः, स यस्यास्ति स व्यपदेशी। जागर्त्त्यादिषु धातुषु जागित्येवमादिः। "तेन तुल्यं वत्र्तते"५।१।११४ इति व्यपदेशिवत्(), तस्य भावो व्यपदेशिवद्भावः। एकाच्त्वमपीत्यपिशब्दादद्वितीयत्वमपीति। ततोऽनेन जजागारेत्यत्र यथा वास्तवे प्रथमत्वे जाग्? इत्येतस्य प्रथमस्यैकाचो द्विर्वचनं भवति, तथा परमार्थतो सत्यपि प्रथमत्वे प्रथमस्यैकाचो द्विर्वचनं भवति व्यपदेशिवद्भावेन पपाचेत्यत्र पच्छब्दस्य। इयाय, आरेत्यत्राप्यसति वास्तव एकाच्त्वे द्वितीयत्वे च व्यपदेशिवद्भावेन द्विर्वचनं भवति; यथा--अटिटिषतीत्यत्र वस्तुत एवैकाचो द्वितीयस्य टिशब्दस्येति। न चै तद्वक्तव्यम्()--"यस्मादप्रथमस्यापि पच्? इत्येवम्प्रकारस्य व्यपदेशिवद्भावेन द्विर्वचनं भवति" इति। अत्र "लिट()भ्यासस्योभयेषाम्()" ६।१।१७ इति वचनं ज्ञापकम्(), असत्यपि वास्तव एकाच्त्वे द्वितीयत्वे च पुनव्र्यपदेशिवद्भावेन चेण्प्रभृतनां द्विर्वचनं भवतति। अत्राभ्यासस्य दीर्घविधानार्थम्? "दीर्घ इणः किति" ७।४।६९ इति वचनं ज्ञापकम्। इह "आदशभ्यः संख्याः संख्येये वत्र्तन्ते न तु संख्यानमात्रे" इति द्विशब्दोऽत्र संख्येये वत्र्तते। तच्च संख्येयं शब्दरूपं वा स्यात्()? उच्चारणं वा? तत्र यदि शब्दरूपं संख्येयं स्यात्? तदा "द्वे" इत्यनेन द्विशब्दरूपे भाव्यमानतया निर्दिश्येते इति। अत एकाच इत्यस्य च स्चाने योगलक्षणः सम्बन्धो भवति, अतः "स्थाने द्विर्वचनम्()" इत्येष पक्षो भवति। तदैकाच इति स्थानषष्ठी जायते। अथ पुनरुच्चारणं सख्येयं तदा स्थान्यादेशसम्बन्धो न भवति। उच्चारणं नाम शब्दानुगतो धर्मः। यद्यसावदेशो विदीयते तदा निवृत्तिधर्मा स्थानी भवतीति शपब्दस्य स्थानिनो निवृत्त्या भवितव्यम्(), ततश्चोच्चारणमपि न स्यात्(); तस्य तद्धर्मत्वात्()। तस्मादुच्चारणे संख्येये स्थाने द्विर्वचनं न सम्भवतीति "द्विष्प्रयोगो द्विर्वचनम्" इत्येष पक्षो भवतीति। तदैकाच इति "कर्त्तृकर्मणोः कृति" २।३।६५ इति कर्मणि षष्ठी, सा ह्रैकाजुच्चारणक्रियया व्याप्तुमिष्टतमत्वात्? कर्म भवति। तत्र यदि "स्थाने द्विर्वचनम्()" इत्येष पक्ष आश्रीयेत, तदा जिघांसतीत हन्तः कुत्वं न स्यात्()। समुदायस्य हि सन्नन्तस्य समुदायः सन्नन्त आदेशः, तत्र कृत आश्रीयेत, तदा जीघांसतीति हन्तेः कुत्वं न स्यात्()। समुदायस्य हि सन्नन्तस्य समुदायः सन्नन्त आदेशः, तत्र कृत एतन्नास्ति। अयं प्रत्ययः इयं प्रकृतिरिति सन्दिग्धत्वात्? प्रकृतिप्रत्ययस्य हन्तिर्नष्टो भवतीति "अभ्यासाच्च" ७।३।५५ इति कुत्वं हन्तिहकारस्य न स्यादितीमं स्थानेद्विर्वचनपक्षे दोषं दृष्ट्वा द्विष्प्रयोगो द्विर्वचनमिति पक्षमाश्रित्याह--"द्विष्प्रयोगश्च" इत्यादि। चकारोऽवधारणे। द्विष्प्रयोग एवेत्यर्थः। न स्थाने द्विष्प्रयोग इत्यर्थः। अथ द्विष्प्रयोगद्विर्वचने कथमयं दोषो न भवति? इत्याह--"आवृत्तिसंख्या हि" इत्यादि। पुनः पुनरुच्चारणम्()ावृत्तिः। तत्? पुनः संख्याव्यवस्थितस्यैव धातोर्विधीयते। "तेन" इत्यादि। यस्मादावृत्तिः सख्याव्यवस्थितस्यैव धातोर्विधीयते, तेन स एव शब्दो व्यवस्थित एव द्विरुच्चार्यते, न तु तस्य स्ताने शब्दान्तरं विधीयत इति कुतः पुनः पूर्वोक्तदोषाव सरप्रसङ्गः! यदि तर्ही द्विष्प्रयोगो द्विर्वचनमित्येष पक्ष आक्षीयते, एवं च सति "वस्वेकाजाद्घसाम्()" ७।२।६७ इत्यत्रादिवान्(), आशिवान्(), पेचिवान्(), शेकिवान्(), इत्युदाह्मत्य यद्वक्ष्यति--"धात्वभ्यासयोरेकादेशे कृत एवाभ्यासलोपयोः कृतयोः कृतद्विर्वचना एत एकाचो न भवन्ति" इति, तन्न युज्यते; अकृतेऽपि धात्वभ्यासयोरेकादेशेऽकृतयोरपि चैत्वाभ्यासलोपयोः कृतद्विर्वचनानामष्येषामेकाच्त्वात्()। स्थाने द्विर्वचने हि शब्दान्तरमेवा नेकाजादिश्यत इति स्यादेषां कृतद्विर्वचनानामनेकाच्त्वम्(), न तु द्विष्प्रयोगपक्षे। तत्र हि स एव शब्दो द्विरुच्चार्यते। न चासौ शतकृत्वोऽप्युच्चार्यमाम एकाच्त्वं जहाति, किं पुनर्द्विरुच्यमानः। यदपि नियमस्य व्यवच्छेद्यचं दर्शयितुं बिभिद्वानित्यादि तत्रोपन्यसिष्यति, तदप्ययुक्तमेव; भिविप्रभृतीनामेव यथोक्तादेव हेतोः कृतद्विर्वचनानामप्येकाच्त्वात्()। यदप्याद्ग्रहणमनेकाजर्थमित्यभिधास्यति, तदप्ययुक्तमेव; तत एव हेतोराकारान्तानां कृतद्विर्वचनानामप्यनेकाच्त्वानुपपत्तेः। तस्मात्? स्थाने कृतद्विर्वचनपक्षोऽप्यङ्गीकत्र्तव्यः। एवं तह्र्रन्यथा व्याख्यायते। इह पक्षद्वयं पूर्वोक्तं, सम्भवति। तत्र किं द्विष्प्रयोगो द्विर्वचनमित्येष पक्ष आश्रीयते? उत स्थाने द्विर्वचनपक्षः()--इति प्रश्नावसर इदमाह--"द्विष्प्रयोगश्च द्विर्वचनम्()" इति। चकारः स्थाने द्विर्वचनमित्यमुमर्थं द्योतयति। ननु च "षष्ठी स्थानेयोगा" (१।१।४९) इति वचनात्? स्थाने द्विर्वचनपक्षेमात्र [द्विर्वचनपक्षे नात्र--मुद्रितः पाठः] भवितुं युक्तम्(), तत्? कथं द्विष्प्रयोगपक्षोऽप्युपपद्यत इत्यत आह--"आवृत्तिसंख्या हि" इत्यादि। यदि शब्दान्तरं तस्य स्थाने विधीयते तदा स्थान्यादेशसम्बन्धे प्रतिस्थाने द्विर्वचनमित्येष पक्षो जायत इत्यक्तम्()। यदा त्वावृत्तिसंख्या विधीयते तदेतरः पक्षो भवतीति। एदपि प्रतिपादितं प्राक्()। तस्मात्? द्विष्प्रयोगपक्षो यदाङ्ग#ईकर्तुमिष्यते, तदावृत्तिसंख्या द्वे इति विधीयते, तेन स एव शब्दो द्विरुच्चार्यते, न तु शब्दान्तरं तस्य स्थाने विदीयते। तस्माद्()द्विष्प्रयोगद्विर्वचनपक्षोऽप्यङ्गीकत्र्तव्यः। अथ कथं स्थाने द्विर्वचनमित्येषोऽपि पक्ष आश्रीयते, यावता जिघांसतीत्यत्र हन्तेर्हकारस्य कुत्वं न प्राप्नोतीत्युक्तम्()? नैष दोषः; उच्यते चेदम्()--अब्यासाच्च ७।३।५५ हन्तेः कुत्वं भवतीति। न च तस्य स्थाने शब्दान्तर एवादेशे कृते हन्तिरस्ति। तत्र वचनसामथ्र्यादादेशैकदेशे हन्तिप्रतिरूपके हन्तिशब्दो विज्ञास्यते। अन्ये त्वनयोः पक्षयोर्दोषा य आशङ्क्यन्ते ते भाष्य एवोत्क्षिप्य प्रतिक्षिप्ताः। इह त्वतिविस्तरग्रन्थभयान्न लिख्यन्ते॥
बाल-मनोरमा
एकाचो द्वे प्रथमस्य २५, ६।१।१

भूव्-अ इति स्थिते। एकाचः। अजादेः इत्यधिकृत्येति। षष्ठाध्यायारम्भे द्वे इमे सूत्रोते च न विधायके, अतिप्रसङ्गात्, किन्तु "ष्यङः संप्रसारण"मित्यतः प्रागनुवर्तेते एवेति भावः।

तत्त्व-बोधिनी
आस्पदं प्रतिष्ठायाम् ८७४, ६।१।१

आत्मयापनायेति। कालक्षेपाय, शरीरपक्षणाय वेत्यर्थः।