ऋभुगीता १० ॥ ब्रह्म-तर्पण आत्म-होमाख्य-प्रकरण-द्वय-वर्णनम् ॥

ऋभुः -

  • नित्यतर्पणमाचक्ष्ये निदाघ शृणु मे वचः ।
  • वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ १॥
  • सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि ।
  • ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ २॥
  • सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् ।
  • आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ ३॥
  • सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् ।
  • नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ ४॥
  • अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा ।
  • आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ ५॥
  • एकत्वसंख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः ।
  • नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ ६॥
  • आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् ।
  • सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ ७॥
  • परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् ।
  • सत्रामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ ८॥
  • यत् किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् ।
  • शुद्धमोक्षस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ ९॥
  • सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।
  • विज्ञानमात्ररूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ १०॥
  • ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे ।
  • तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ ११॥
  • त्वमित्येतत् तदित्येतन्नास्ति नास्तीह किञ्चन ।
  • शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १२॥
  • अत्यन्ताभावरूपोऽहमहमेव परात्परः ।
  • अहमेव सुखं नान्यत् इत्येवं ब्रह्मतर्पणम् ॥ १३॥
  • इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे ।
  • निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १४॥
  • साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा ।
  • केवलं ब्रह्मभावत्वात् इत्येवं ब्रह्मतर्पणम् ॥ १५॥
  • अहमेवाविशेषोऽहमहमेव हि नामकम् ।
  • अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ १६॥
  • इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् ।
  • बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ १७॥
  • सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् ।
  • नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १८॥
  • वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन ।
  • चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ १९॥
  • सर्वत्र पूर्णरूपोऽहं सर्वत्र सुखमस्म्यहम् ।
  • सर्वत्राचिन्त्यरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ २०॥
  • सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् ।
  • सर्वशून्यस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ २१॥
  • सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् ।
  • एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ २२॥
  • मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् ।
  • सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ २३॥
  • सर्वदा सत्स्वरूपोऽहं सर्वदा तुर्यवानहम् ।
  • तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ २४॥
  • सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।
  • निर्विकल्पस्वरूपोऽहम् इत्येवं ब्रह्मतर्पणम् ॥ २५॥
  • सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः ।
  • ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ २६॥
  • ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया ।
  • यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ २७॥
  • नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् ।
  • सर्वशास्त्रार्थमद्वैतं सावधानमनाः शृणु ॥ २८॥
  • अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।
  • ॐकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ २९॥
  • परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
  • चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ ३०॥
  • नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् ।
  • चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ ३१॥
  • न हि किञ्चित् स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ।
  • निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ ३२॥
  • निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ।
  • न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ ३३॥
  • न देहादिस्वारूपोऽस्मि त्रयादिपरिवर्जितः ।
  • न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ ३४॥
  • श्रवणं मननं नास्ति निदिध्यासनमेव हि ।
  • स्वगतं च न मे किञ्चिद् एवं होमं सुदुर्लभम् ॥ ३५॥
  • असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् ।
  • अहङ्कारमसद्विद्धि कालत्रयमसत् सदा ॥ ३६॥
  • गुणत्रयमसद्विद्धि एवं होमं सुदुर्लभम् ॥ ३७॥
  • श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत् सदा ।
  • सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ ३८॥
  • नानारूपमसद्विद्धि नानावर्णमसत् सदा ।
  • नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ ३९॥
  • शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् ।
  • सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ ४०॥
  • गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत् ततः ।
  • यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ ४१॥
  • सर्वान् भोगानसद्विद्धि यच्चिन्त्यं तदसत् सदा ।
  • यद् दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ ४२॥
  • सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत् त्विति ।
  • सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ ४३॥
  • जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि ।
  • मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ ४४॥
  • दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि ।
  • कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ ४५॥
  • दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि ।
  • सर्वकर्माण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ ४६॥
  • सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत् परे ।
  • सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ ४७॥
  • यथाधर्ममसद्विद्धि पुण्यापुण्यमसत् सदा ।
  • लाभालाभमसद्विद्धि सदा देहमसत् सदा ॥ ४८॥
  • सदा जयमसद्विद्धि सदा गर्वमसत् सदा ।
  • मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ ४९॥
  • शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत् सदा ।
  • रूपं सर्वमसद्विद्धि रसं सर्वमसत् सदा ॥ ५०॥
  • गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत् सदा ।
  • भूतं भव्यमसद्विद्धि असत् प्रकृतिरुच्यते ॥ ५१॥
  • असदेव सदा सर्वमसदेव भवोद्भवम् ।
  • असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ ५२॥
  • शशशृङ्गवदेव त्वं शशशृङ्गवदस्म्यहम् ।
  • शशशृङ्गवदेवेदं शशशृङ्गवदन्तरम् ॥ ५३॥
  • इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया ।
  • यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ५४॥

स्कन्दः -

  • यस्मिन् संच विचैति विश्वमखिलं द्योतन्ति सूर्येन्दवो
  • विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् ।
  • भूतं चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जगत्
  • जातं चापि जनिष्यति प्रतिभवं देवासुरैर्निर्यपि ।
  • तन्नेहास्ति न किञ्चिदत्र भगवद्ध्यानान्न किञ्चित् प्रियम् ॥ ५५॥
  • यः प्राणापानभेदैर्मननधिया धारणापञ्चकाद्यैः
  • मध्ये विश्वजनस्य सन्नपि शिवो नो दृश्यते सूक्ष्मया ।
  • बुद्धयादध्यातयापि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या
  • योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत् तथा ॥ ५६॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मतर्पणात्महोमाख्य प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com