ऋभुगीता ४८ ॥ स्कन्द-कृत शिवव्रतोपदेश वर्णनम् ॥
स्कन्दः -
- ज्ञानाङ्गसाधनं वक्ष्ये शृणु वक्ष्यामि ते हितम् ।
- यत् कृत्वा ज्ञानमाप्नोति तत् प्रादात् परमेष्ठिनः ॥ १॥
- जैगीषव्य शृणुष्वैतत् सावधानेन चेतसा ।
- प्रथमं वेदसंप्रोक्तं कर्माचरणमिष्यते ॥ २॥
- उपनीतो द्विजो वापि वैश्यः क्षत्रिय एव वा ।
- अग्निरित्यादिभिर्मन्त्रैर्भस्मधृक् पूयते त्वघैः ॥ ३॥
- त्रियायुषैस्त्र्यम्बकैश्च त्रिपुण्ड्रं भस्मनाऽऽचरेत् ।
- लिङ्गार्चनपरो नित्यं रुद्राक्षान् धारयन् क्रमैः ॥ ४॥
- कण्ठे बाह्वोर्वक्षसी च मालाभिः शिरसा तथा ।
- त्रिपुण्ड्रवद्धारयेत रुद्राक्षान् क्रमशो मुने ॥ ५॥
- एकाननं द्विवक्त्रं वा त्रिवक्त्रं चतुरास्यकम् ।
- पञ्चवक्त्रं च षट् सप्त तथाष्टदशकं नव ॥ ६॥
- एकादशं द्वादशं वा तथोर्ध्वं धारयेत् क्रमात् ।
- भस्मधारणमात्रेण प्रसीदति महेश्वरः ॥ ७॥
- रुद्राक्षधारणादेव नरो रुद्रत्वमाप्नुयात् ।
- भस्मरुद्राक्षधृङ्मर्त्यो ज्ञानाङ्गी भवति प्रियः ॥ ८॥
- रुद्राध्यायी भस्मनिष्ठः पञ्चाक्षरजपाधरः ।
- भस्मोद्धूलितदेहोऽयं श्रीरुद्रं प्रजपन् द्विजः ॥ ९॥
- सर्वपापैर्विमुक्तश्च ज्ञाननिष्ठो भवेन्मुने ।
- भस्मसंछन्नसर्वाङ्गो भस्मफालत्रिपुण्ड्रकः ॥ १०॥
- वेदमौलिजवाक्येषु विचाराधिकृतो भवेत् ।
- नान्यपुण्ड्रधरो विप्रो यतिर्वा विप्रसत्तम ॥ ११॥
- शमादिनियमोपेतः क्षमायुक्तोऽप्यसंस्कृतः ।
- शिरोव्रतमिदं प्रोक्तं भस्मधारणमेव हि ॥ १२॥
- शिरोव्रतं च विधिवद्यैश्चीर्णं मुनिसत्तम ।
- तेषामेव ब्रह्मविद्यां वदेत गुरुरास्तिकः ॥ १३॥
- शांभवा एव वेदेषु निष्ठा नष्टाशुभाः परम् ।
- शिवप्रसादसंपन्नो भस्मरुद्राक्षधारकः ॥ १४॥
- रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः ।
- स एव वेदवेदान्तश्रवणेऽधिकृतो भवेत् ॥ १५॥
- नान्यपुण्ड्रधरो विप्रः कृत्वापि श्रवणं बहु ।
- नैव लभ्येत तद्ज्ञानं प्रसादेन विनेशितुः ॥ १६॥
- प्रसादजनकं शम्भोर्भस्मधारणमेव हि ।
- शिवप्रसादहीनानां ज्ञानं नैवोपजायते ॥ १७॥
- प्रसादे सति देवस्य विज्ञानस्फुरणं भवेत् ।
- रुद्राध्यायजापिनां तु भस्मधारणपूर्वकम् ॥ १८॥
- प्रसादो जायते शम्भोः पुनरावृत्तिवर्जितः ।
- प्रसादे सति देवस्य वेदान्तस्फुरणं भवेत् ॥ १९॥
- तस्यैवाकथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
- पञ्चाक्षरजपादेव पञ्चास्यध्यानपूर्वकम् ॥ २०॥
- तस्यैव भवति ज्ञानं शिवप्रोक्तमिदं ध्रुवम् ।
- सर्वं शिवात्मकं भाति जगदेतत् चराचरम् ॥ २१॥
- स प्रसादो महेशस्य विज्ञेयः शांभवोत्तमैः ।
- शिवलिङ्गार्चनादेव प्रसादः शांभवोत्तमे ॥ २२॥
- नियमाद्बिल्वपत्रैश्च भस्मधारणपूर्वकम् ।
- प्रसादो जायते शम्भोः साक्षाद्ज्ञानप्रकाशकः ॥ २३॥
- शिवक्षेत्रनिवासेन ज्ञानं सम्यक् दृढं भवेत् ।
- शिवक्षेत्रनिवासे तु भस्मधार्यधिकारवान् ॥ २४॥
- नक्ताशनार्चनादेव प्रीयेत भगवान् भवः ।
- प्रदोषपूजनं शंभोः प्रसादजनकं परम् ॥ २५॥
- सोमवारे निशीथेषु पूजनं प्रियमीशितुः ।
- भूतायां भूतनाथस्य पूजनं परमं प्रियम् ॥ २६॥
- शिवशब्दोच्चारणं च प्रसादजनकं महत् ।
- ज्ञानाङ्गसाधनेष्वेवं शिवभक्तार्चनं महत् ॥ २७॥
- भक्तानामर्चनादेव शिवः प्रीतो भविष्यति ।
- इत्येतत्तं समासेन ज्ञानाङ्गं कथितं मया ।
- अकैतवेन भावेन श्रवणीयो महेश्वरः ॥ २८॥
सूतः -
- यः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालङ्कृतं
- लिङ्गं तुङ्गमपारपुण्यविभवैः पश्येदथार्चेत वा ।
- प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदि
- मुक्तिद्वारमपावृतं स तु लभेत् शम्भोः कटाक्षाङ्कुरैः ॥ २९॥
- अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशम् ।
- भजतामनलाक्षिपादपद्मं भवलीलं न भवेत चित्तबालम् ॥ ३०॥
- भस्मत्रिपुण्ड्ररचिताङ्गकबाहुफाल-
- रुद्राक्षजालकवचाः श्रुतिसूक्तिमालाः ।
- वेदोरुरत्नपदकाङ्कितशम्भुनाम-
- लोला हि शांभववराः परिशीलयन्ति ॥ ३१॥
- ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे स्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥
Special Thanks
The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.
Credits
Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma
@@Complete text of the Ribhugita with options to [Change script] (right top) is available here in Gita collection
https://sanskritdocuments.org/doc_giitaa/RGall.html