ऋभुगीता ११ ॥ जीवनमुक्त-प्रकरणम् ॥

ऋभुः -

  • ब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् ।
  • आत्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ १॥
  • अहं ब्रह्मवदेवेदमहमात्मा न संशयः ।
  • चैतन्यात्मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ २॥
  • चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।
  • इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥ ३॥
  • देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् ।
  • ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ४॥
  • आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।
  • यश्चिदेवं परानन्दं स जीवन्मुक्त उच्यते ॥ ५॥
  • यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।
  • परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ६॥
  • यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।
  • परानन्दो मुदानन्दः स जीवन्मुक्त उच्यते ॥ ७॥
  • चैतन्यमात्रं यस्यान्तश्चिन्मात्रैकस्वरूपवान् ।
  • न स्मरत्यन्यकलनं स जीवन्मुक्त उच्यते ॥ ८॥var was कललं
  • सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः ।
  • सर्वत्र नित्यपूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९॥
  • परमात्मपरा नित्यं परमात्मेति निश्चितः ।
  • आनन्दाकृतिरव्यक्तः स जीवन्मुक्त उच्यते ॥ १०॥
  • शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः ।
  • नित्यानन्दप्रसन्नात्मा स जीवन्मुक्त उच्यते ॥ ११॥
  • एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः ।
  • किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ॥ १२॥
  • न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियः ।
  • केवलं ब्रह्ममात्रत्वात् स जीवन्मुक्त उच्यते ॥ १३॥
  • न मे दोषो न मे देहो ने मे प्राणो न मे क्वचित् ।
  • दृढनिश्चयवान् योऽन्तः स जीवन्मुक्त उच्यते ॥ १४॥
  • न मे माया न मे कामो न मे क्रोधोऽपरोऽस्म्यहम् ।
  • न मे किञ्चिदिदं वाऽपि स जीवन्मुक्त उच्यते ॥ १५॥
  • न मे दोषो न मे लिङ्गं न मे बन्धः क्वचिज्जगत् ।
  • यस्तु नित्यं सदानन्दः स जीवन्मुक्त उच्यते ॥ १६॥
  • न मे श्रोत्रं न मे नासा न मे चक्षुर्न मे मनः ।
  • न मे जिह्वेति यस्यान्तः स जीवन्मुक्त उच्यते ॥ १७॥
  • न मे देहो न मे लिङ्गं न मे कारणमेव च ।
  • न मे तुर्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ १८॥
  • इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ।
  • ब्रह्ममात्रेण यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ १९॥
  • न मे किञ्चिन्न मे कश्चिन्न मे कश्चित् क्वचिज्जगत् ।
  • अहमेवेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ २०॥
  • न मे कालो न मे देशो न मे वस्तु न मे स्थितिः ।
  • न मे स्नानं न मे प्रासः स जीवन्मुक्त उच्यते ॥ २१॥
  • न मे तीर्थं न मे सेवा न मे देवो न मे स्थलम् ।
  • न क्वचिद्भेदहीनोऽयं स जीवन्मुक्त उच्यते ॥ २२॥
  • न मे बन्धं न मे जन्म न मे ज्ञानं न मे पदम् ।
  • न मे वाक्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ २३॥
  • न मे पुण्यं न मे पापं न मे कायं न मे शुभम् ।
  • न मे दृश्यमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ २४॥
  • न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः ।
  • न मे जीव इति ज्ञात्वा स जीवन्मुक्त उच्यते ॥ २५॥
  • न मे सर्वं न मे किञ्चित् न मे जीवं न मे क्वचित् ।
  • न मे भावं न मे वस्तु स जीवन्मुक्त उच्यते ॥ २६॥
  • न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः ।
  • न मे दूरमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ २७॥
  • न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः ।
  • न मे श्रेष्ठं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ २८॥
  • न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः ।
  • न मे कर्म क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ २९॥
  • न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् ।
  • न मे कार्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ३०॥
  • न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलम् ।
  • न मे विद्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ३१॥
  • न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः ।
  • न मे ध्यानमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ३२॥
  • न मे शीतं न मे चोष्णं न मे मोहो न मे जपः ।
  • न मे सन्ध्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ३३॥
  • न मे जपो न मे मन्त्रो न मे होमो न मे निशा ।
  • न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ३४॥
  • न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा ।
  • न मे चात्मेति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ३५॥
  • न मे पूर्वं न मे पश्चात् न मे चोर्ध्वं न मे दिशः ।
  • न चित्तमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ३६॥
  • न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि ।
  • न मे मन्तव्यमीषद्वा स जीवन्मुक्त उच्यते ॥ ३७॥
  • न मे भोक्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ।
  • न मे स्मर्तव्यमेवायं स जीवन्मुक्त उच्यते ॥ ३८॥
  • न मे भोगो न मे रोगो न मे योगो न मे लयः ।
  • न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ३९॥
  • न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः ।
  • अध्यारोपो न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ४०॥
  • अध्यारोप्यं न मे किञ्चिदपवादो न मे क्वचित् ।
  • न मे किञ्चिदहं यत्तु स जीवन्मुक्त उच्यते ॥ ४१॥
  • न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु ।
  • न मे भूतं न मे कार्यं स जीवन्मुक्त उच्यते ॥ ४२॥
  • न मे कोऽहं न मे चेदं न मे नान्यं न मे स्वयम् ।
  • न मे कश्चिन्न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ४३॥
  • न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् ।
  • न मे कृपा न मेऽस्तीति स जीवन्मुक्त उच्यते ॥ ४४॥
  • न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् ।
  • न मे स्वस्थः स्वयं यो वा स जीवन्मुक्त उच्यते ॥ ४५॥
  • न मे तापं न मे लोभो न मे गौण न मे यशः ।
  • ने मे तत्त्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ४६॥
  • न मे भ्रान्तिर्न मे ज्ञानं न मे गुह्यं न मे कुलम् ।
  • न मे किञ्चिदिति ध्यायन् स जीवन्मुक्त उच्यते ॥ ४७॥
  • न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः ।
  • न मे दैवमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ४८॥
  • न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखम् ।
  • न मे न्यूनं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ४९॥
  • न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् ।
  • न मे सर्वमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ५०॥
  • न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहम् ।
  • न मे गुरुर्न मे यस्तु स जीवन्मुक्त उच्यते ॥ ५१॥
  • न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभम् ।
  • न मे न मेति यस्तिष्ठेत् स जीवन्मुक्त उच्यते ॥ ५२॥
  • न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा ।
  • न मे किञ्चिदिति ध्यायी स जीवन्मुक्त उच्यते ॥ ५३॥
  • न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलम् ।
  • न मे दूष्यं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ५४॥
  • न मेऽभ्यासो न मे विद्या न मे शान्तिर्न मे दमः ।
  • न मे पुरमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ५५॥
  • न मे शल्यं न मे शङ्का न मे सुप्तिर्न मे मनः ।
  • न मे विकल्प इत्याप्तः स जीवन्मुक्त उच्यते ॥ ५६॥
  • न मे जरा न मे बाल्यं न मे यौवनमण्वपि ।
  • न मे मृतिर्न मे ध्वान्तं स जीवन्मुक्त उच्यते ॥ ५७॥
  • न मे लोकं न मे भोगं न मे सर्वमिति स्मृतः ।
  • न मे मौनमिति प्राप्तं स जीवन्मुक्त उच्यते ॥ ५८॥
  • अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः ।
  • चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ५९॥
  • ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः ।
  • स्वयमेव स्वयं ज्योतिः स जीवन्मुक्त उच्यते ॥ ६०॥
  • स्वयमेव स्वयं पश्येत् स्वयमेव स्वयं स्थितः ।
  • स्वात्मन्येव स्वयं भूतः स जीवन्मुक्त उच्यते ॥ ६१॥
  • स्वात्मानन्दं स्वयं भुंक्ष्वे स्वात्मराज्ये स्वयं वसे ।
  • स्वात्मराज्ये स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ६२॥
  • स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः ।
  • स्वस्वरूपः स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ६३॥
  • जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
  • यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ६४॥
  • ये वेदवादविधिकल्पितभेदबुद्ध्या
  • पुण्याभिसन्धितधिया परिकर्शयन्तः ।
  • देहं स्वकीयमतिदुःखपरं पराभि-
  • स्तेषां सुखाय न तु जातु तवेश पादात् ॥ ६५॥
  • कः सन्तरेत भवसागरमेतदुत्य-
  • त्तरङ्गसदृशं जनिमृत्युरूपम् ।
  • ईशार्चनाविधिसुबोधितभेदहीन-
  • ज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ६६॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे जीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com