ऋभुगीता २२ ॥ नाम-रूप निषेध प्रकरणम् ॥

ऋभुः -

  • वक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्वं जगन्मृषा ।
  • अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥ १॥
  • अहं ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् ।
  • अहं ब्रह्म न मे वार्ता अहं ब्रह्म न मे द्वयम् ॥ २॥
  • अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः ।
  • अहं ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥ ३॥
  • अहं ब्रह्म न मे सोऽयमहं वैश्वानरो न हि ।
  • अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥ ४॥
  • सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽन्तरः ।
  • अहमेव शरीरान्तरहमेव स्थिरः सदा ॥ ५॥
  • एवं विज्ञानवान् मुक्त एवं ज्ञानं सुदुर्लभम् ।
  • अनेकशतसाहस्त्रेष्वेक एव विवेकवान् ॥ ६॥
  • तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः ।
  • ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥ ७॥
  • ज्ञानिनः चार्चनेनैव जीवन्मुक्तो भवेन्नरः ।
  • ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥ ८॥
  • अहं ब्रह्म न सन्देहः अहमेव गुरुः परः ।
  • अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥ ९॥
  • गुणातीतो जनातीतः परातीतो मनः परः ।
  • परतः परतोऽतीतो बुद्ध्यातीतो रसात् परः ॥ १०॥
  • भावातीतो मनातीतो वेदातीतो विदः परः ।
  • शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥ ११॥
  • अव्यक्तात् परतोऽतीत इत्येवं ज्ञाननिश्चयः ।
  • क्वचिदेतत्परित्यज्य सर्वं संत्यज्य मूकवत् ॥ १२॥
  • तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान् स्वयम् ।
  • ज्ञानिनो महिमा किञ्चिदणुमात्रमपि स्फुटम् ॥ १३॥
  • हरिणापि हरेणापि ब्रह्मणापि सुरैरपि ।
  • न शक्यते वर्णयितुं कल्पकोटिशतैरपि ॥ १४॥
  • अहं ब्रह्मेति विज्ञानं त्रिषु लोकेषु दुर्लभम् ।
  • विवेकिनं महात्मानं ब्रह्ममात्रेणावस्थितम् ॥ १५॥
  • द्रष्टुं च भाषितुं वापि दुर्लभं पादसेवनम् ।
  • कदाचित् पादतीर्थेन स्नातश्चेत् ब्रह्म एव सः ॥ १६॥
  • सर्वं मिथ्या न सन्देहः सर्वं ब्रह्मैव केवलम् ।
  • एतत् प्रकरणं प्रोक्तं सर्वसिद्धान्तसंग्रहः ॥ १७॥
  • दुर्लभं यः पठेद्भक्त्या ब्रह्म संपद्यते नरः ।
  • वक्ष्ये ब्रह्ममयं सर्वं नान्यत् सर्वं जगन्मृषा ॥ १८॥
  • ब्रह्मैव जगदाकारं ब्रह्मैव परमं पदम् ।
  • अहमेव परं ब्रह्म अहमित्यपि वर्जितः ॥ १९॥
  • सर्ववर्जितचिन्मात्रं सर्ववर्जितचेतनः ।
  • सर्ववर्जितशान्तात्मा सर्वमङ्गलविग्रहः ॥ २०॥
  • अहं ब्रह्म परं ब्रह्म असन्नेदं न मे न मे ।
  • न मे भूतं भविष्यच्च न मे वर्णं न संशयः ॥ २१॥
  • ब्रह्मैवाहं न मे तुच्छं अहं ब्रह्म परं तपः ।
  • ब्रह्मरूपमिदं सर्वं ब्रह्मरूपमनामयम् ॥ २२॥
  • ब्रह्मैव भाति भेदेन ब्रह्मैव न परः परः ।
  • आत्मैव द्वैतवद्भाति आत्मैव परमं पदम् ॥ २३॥
  • ब्रह्मैवं भेदरहितं भेदमेव महद्भयम् ।
  • आत्मैवाहं निर्मलोऽहमात्मैव भुवनत्रयम् ॥ २४॥
  • आत्मैव नान्यत् सर्वत्र सर्वं ब्रह्मैव नान्यकः ।
  • अहमेव सदा भामि ब्रह्मैवास्मि परोऽस्म्यहम् ॥ २५॥
  • निर्मलोऽस्मि परं ब्रह्म कार्याकार्यविवर्जितः ।
  • सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २६॥
  • निश्चयोऽस्मि परं ब्रह्म सत्योऽस्मि सकलोऽस्म्यहम् ।
  • अक्षरोऽस्मि परं ब्रह्म शिवोऽस्मि शिखरोऽस्म्यहम् ॥ २७॥
  • समरूपोऽस्मि शान्तोऽस्मि तत्परोऽस्मि चिदव्ययः ।
  • सदा ब्रह्म हि नित्योऽस्मि सदा चिन्मात्रलक्षणः ॥ २८॥
  • सदाऽखण्डैकरूपोऽस्मि सदामानविवर्जितः ।
  • सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २९॥
  • सदा सन्मानरूपोऽस्मि सदा सत्ताप्रकाशकः ।
  • सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥ ३०॥
  • एवं निश्चितवान् मुक्तः एवं नित्यपरो वरः ।
  • एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥ ३१॥
  • एवं ब्रह्मात्मवान् ज्ञानी ब्रह्माहमिति निश्चयः ।
  • स एव पुरुषो लोके ब्रह्माहमिति निश्चितः ॥ ३२॥
  • स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मवान् ।
  • ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥ ३३॥
  • नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः ।
  • नाहं मांसं न मेऽस्थीनि नाहंकारकलेवरः ॥ ३४॥
  • न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहम् ।
  • सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥ ३५॥
  • नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहम् ।
  • न वाच्योऽहं न मुक्तोऽहं न बुद्धोऽहं कदाचन ॥ ३६॥
  • न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहम् ।
  • सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥ ३७॥
  • न घ्राणोऽहं न गन्धोऽहं न चिह्नोऽयं न मे प्रियः ।
  • नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥ ३८॥
  • ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन ।
  • न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥ ३९॥
  • नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः ।
  • पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥ ४०॥
  • गुह्यं नाहं न चानन्दो न प्रजापतिदेवता ।
  • सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ ४१॥
  • नाहं मनो न सङ्कल्पो न चन्द्रो न च साक्षिकः ।
  • नाहं बुद्धीन्द्रियो ब्रह्मा नाहं निश्चयरूपवान् ॥ ४२॥
  • नाहंकारमहं रुद्रो नाभिमानो न साक्षिकः ।
  • चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥ ४३॥
  • नाहं विश्वो न जाग्रद्वा स्थूलदेहो न मे क्वचित् ।
  • न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥ ४४॥
  • न पारमार्थिको देवो नाहमन्नमयो जडः ।
  • न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥ ४५॥
  • न विज्ञानमयः कोशो नानन्दमयकोशवान् ।
  • ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥ ४६॥
  • एतावदुक्त्वा सकलं नामरूपद्वयात्मकम् ।
  • सर्वं क्षणेन विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥ ४७॥
  • एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् ।
  • शशशृङ्गवदेवेदं नरशृङ्गवदेव तत् ॥ ४८॥
  • आकाशपुष्पसदृशं यथा मरुमरीचिका ।
  • गन्धर्वनगरं यद्वदिन्द्रजालवदेव हि ॥ ४९॥
  • असत्यमेव सततं पञ्चरूपकमिष्यते ।
  • शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥ ५०॥
  • माता मृते रोदनाय द्रव्यं दत्वाऽऽह्वयेज्जनान् ।
  • तेषां रोदनमात्रं यत् केवलं द्रव्यपञ्चकम् ॥ ५१॥
  • तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् ।
  • अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥ ५२॥
  • अहमेव सुखं चेति अहमेव न चापरः ।
  • अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥ ५३॥
  • अहं निर्मलशुद्धेति अहं जीवविलक्षणः ।
  • अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥ ५४॥
  • अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ।
  • सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥ ५५॥
  • नित्यमङ्गलरूपात्मा नित्यमोक्षमयः पुमान् ।
  • एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥ ५६॥
  • ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ।
  • एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् ।
  • यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ५७॥
  • तं वेदादिवचोभिरीडितमहायागैश्च भोगैर्व्रतै-
  • र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।
  • तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं
  • तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ ५८॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com