ऋभुगीता ३९ ॥ सर्व-लय प्रकरणम् ॥

ऋभुः -

  • परं ब्रह्म प्रवक्ष्यामि निर्विकल्पं निरामयम् ।
  • तदेवाहं न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ १॥
  • चिन्मात्रममलं शान्तं सच्चिदानन्दविग्रहम् ।
  • आनन्दं परमानन्दं निर्विकल्पं निरञ्जनम् ॥ २॥
  • गुणातीतं जनातीतमवस्थातीतमव्ययम् ।
  • एवं भावय चैतन्यमहं ब्रह्मास्मि सोऽस्म्यहम् ॥ ३॥
  • सर्वातीतस्वरूपोऽस्मि सर्वशब्दार्थवर्जितः ।
  • सत्योऽहं सर्वहन्ताहं शुद्धोऽहं परमोऽस्म्यहम् ॥ ४॥
  • अजोऽहं शान्तरूपोऽहं अशरीरोऽहमान्तरः ।
  • सर्वहीनोऽहमेवाहं स्वयमेव स्वयं महः ॥ ५॥
  • आत्मैवाहं परात्माहं ब्रह्मैवाहं शिवोऽस्म्यहम् ।
  • चित्तहीनस्वरूपोऽहं बुद्धिहीनोऽहमस्म्यहम् ॥ ६॥
  • व्यापकोऽहमहं साक्षी ब्रह्माहमिति निश्चयः ।
  • निष्प्रपञ्चगजारूढो निष्प्रपञ्चाश्ववाहनः ॥ ७॥
  • निष्प्रपञ्चमहाराज्यो निष्प्रपञ्चायुधादिमान् ।
  • निष्प्रपञ्चमहावेदो निष्प्रपञ्चात्मभावनः ॥ ८॥
  • निष्प्रपञ्चमहानिद्रो निष्प्रपञ्चस्वभावकः ।
  • निष्प्रपञ्चस्तु जीवात्मा निष्प्रपञ्चकलेवरः ॥ ९॥
  • निष्प्रपञ्चपरीवारो निष्प्रपञ्चोत्सवो भवः ।
  • निष्प्रपञ्चस्तु कल्याणो निष्प्रपञ्चस्तु दर्पणः ॥ १०॥
  • निष्प्रपञ्चरथारूढो निष्प्रपञ्चविचारणम् ।
  • निष्प्रपञ्चगुहान्तस्थो निष्प्रपञ्चप्रदीपकम् ॥ ११॥
  • निष्प्रपञ्चप्रपूर्णात्मा निष्प्रपञ्चोऽरिमर्दनः ।
  • चित्तमेव प्रपञ्चो हि चित्तमेव जगत्त्रयम् ॥ १२॥
  • चित्तमेव महामोहश्चित्तमेव हि संसृतिः ।
  • चित्तमेव महापापं चित्तमेव हि पुण्यकम् ॥ १३॥
  • चित्तमेव महाबन्धश्चित्तमेव विमोक्षदम् ।
  • ब्रह्मभावनया चित्तं नाशमेति न संशयः ॥ १४॥
  • ब्रह्मभावनया दुःखं नाशमेति न संशयः ।
  • ब्रह्मभावनया द्वैतं नाशमेति न संशयः ॥ १५॥
  • ब्रह्मभावनया कामः नाशमेति न संशयः ।
  • ब्रह्मभावनया क्रोधः नाशमेति न संशयः ॥ १६॥
  • ब्रह्मभावनया लोभः नाशमेति न संशयः ।
  • ब्रह्मभावनया ग्रन्थिः नाशमेति न संशयः ॥ १७॥
  • ब्रह्मभावनया सर्वं ब्रह्मभावनया मदः ।
  • ब्रह्मभावनया पूजा नाशमेति न संशयः ॥ १८॥
  • ब्रह्मभावनया ध्यानं नाशमेति न संशयः ।
  • ब्रह्मभावनया स्नानं नाशमेति न संशयः ॥ १९॥
  • ब्रह्मभावनया मन्त्रो नाशमेति न संशयः ।
  • ब्रह्मभावनया पापं नाशमेति न संशयः ॥ २०॥
  • ब्रह्मभावनया पुण्यं नाशमेति न संशयः ।
  • ब्रह्मभावनया दोषो नाशमेति न संशयः ॥ २१॥
  • ब्रह्मभावनया भ्रान्तिः नाशमेति न संशयः ।
  • ब्रह्मभावनया दृश्यं नाशमेति न संशयः ॥ २२॥
  • ब्रह्मभावनया सङ्गो नाशमेति न संशयः ।
  • ब्रह्मभावनया तेजो नाशमेति न संशयः ॥ २३॥
  • ब्रह्मभावनया प्रज्ञा नाशमेति न संशयः ।
  • ब्रह्मभावनया सत्ता नाशमेति न संशयः ॥ २४॥
  • ब्रह्मभावनया भीतिः नाशमेति न संशयः ।
  • ब्रह्मभावनया वेदः नाशमेति न संशयः ॥ २५॥
  • ब्रह्मभावनया शास्त्रं नाशमेति न संशयः ।
  • ब्रह्मभावनया निद्रा नाशमेति न संशयः ॥ २६॥
  • ब्रह्मभावनया कर्म नाशमेति न संशयः ।
  • ब्रह्मभावनया तुर्यं नाशमेति न संशयः ॥ २७॥
  • ब्रह्मभावनया द्वन्द्वं नाशमेति न संशयः ।
  • ब्रह्मभावनया पृच्छेदहं ब्रह्मेति निश्चयम् ॥ २८॥
  • निश्चयं चापि सन्त्यज्य स्वस्वरूपान्तरासनम् ।
  • अहं ब्रह्म परं ब्रह्म चिद्ब्रह्म ब्रह्ममात्रकम् ॥ २९॥
  • ज्ञानमेव परं ब्रह्म ज्ञानमेव परं पदम् ।
  • दिवि ब्रह्म दिशो ब्रह्म मनो ब्रह्म अहं स्वयम् ॥ ३०॥
  • किञ्चिद्ब्रह्म ब्रह्म तत्त्वं तत्त्वं ब्रह्म तदेव हि ।
  • अजो ब्रह्म शुभं ब्रह्म आदिब्रह्म ब्रवीमि तम् ॥ ३१॥
  • अहं ब्रह्म हविर्ब्रह्म कार्यब्रह्म त्वहं सदा ।
  • नादो ब्रह्म नदं ब्रह्म तत्त्वं ब्रह्म च नित्यशः ॥ ३२॥
  • एतद्ब्रह्म शिखा ब्रह्म तद्ब्रह्म ब्रह्म शाश्वतम् ।
  • निजं ब्रह्म स्वतो ब्रह्म नित्यं ब्रह्म त्वमेव हि ॥ ३३॥
  • सुखं ब्रह्म प्रियं ब्रह्म मित्रं ब्रह्म सदामृतम् ।
  • गुह्यं ब्रह्म गुरुर्ब्रह्म ऋतं ब्रह्म प्रकाशकम् ॥ ३४॥
  • सत्यं ब्रह्म समं ब्रह्म सारं ब्रह्म निरञ्जनम् ।
  • एकं ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म न संशयः ॥ ३५॥
  • इदं ब्रह्म स्वयं ब्रह्म लोकं ब्रह्म सदा परः ।
  • आत्मब्रह्म परं ब्रह्म आत्मब्रह्म निरन्तरः ॥ ३६॥
  • एकं ब्रह्म चिरं ब्रह्म सर्वं ब्रह्मात्मकं जगत् ।
  • ब्रह्मैव ब्रह्म सद्ब्रह्म तत्परं ब्रह्म एव हि ॥ ३७॥
  • चिद्ब्रह्म शाश्वतं ब्रह्म ज्ञेयं ब्रह्म न चापरः ।
  • अहमेव हि सद्ब्रह्म अहमेव हि निर्गुणम् ॥ ३८॥
  • अहमेव हि नित्यात्मा एवं भावय सुव्रत ।
  • अहमेव हि शास्त्रार्थ इति निश्चित्य सर्वदा ॥ ३९॥
  • आत्मैव नान्यद्भेदोऽस्ति सर्वं मिथ्येति निश्चिनु ।
  • आत्मैवाहमहं चात्मा अनात्मा नास्ति नास्ति हि ॥ ४०॥
  • विश्वं वस्तुतया विभाति हृदये मूढात्मनां बोधतो-
  • ऽप्यज्ञानं न निवर्तते श्रुतिशिरोवार्तानुवृत्त्याऽपि च ।
  • विश्वेशस्य समर्चनेन सुमहालिङ्गार्चनाद्भस्मधृक्
  • रुद्राक्षामलधारणेन भगवद्ध्यानेन भात्यात्मवत् ॥ ४१॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com