ऋभुगीता ५ ॥ शिवेन कुमारोपदेश वर्णनम् ॥

निदाघः -

  • एवं स्थिते ऋभो को वै ब्रह्मभावाय कल्पते ।
  • तन्मे वद विशेषेण ज्ञानं शङ्करवाक्यजम् ॥ १॥

ऋभुः -

  • त्वमेव ब्रह्म एवासि त्वमेव परमो गुरुः ।
  • त्वमेवाकाशरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ २॥
  • त्वमेव सर्वभावोऽसि त्वमेवार्थस्त्वमव्ययः ।
  • त्वं सर्वहीनस्त्वं साक्षी साक्षिहीनोऽसि सर्वदा ॥ ३॥
  • कालस्त्वं सर्वहीनस्त्वं साक्षिहीनोऽसि सर्वदा ।
  • कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।
  • सर्वतत्त्वस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ४॥
  • सत्योऽसि सिद्धोऽसि सनातनोऽसि
  • मुक्तोऽसि मोक्षोऽसि सदाऽमृतोऽसि ।
  • देवोऽसि शान्तोऽसि निरामयोऽसि
  • ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५॥
  • समोऽसि सच्चासि सनातनोऽसि
  • सत्यादिवाक्यैः प्रतिपादितोऽसि ।
  • सर्वाङ्गहीनोऽसि सदास्थितोऽसि
  • ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ६॥var was परापरोऽसि
  • सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु सदोदितोऽसि ।
  • सर्वत्र संकल्पविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ७॥
  • सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र विद्वेषविवर्जितोऽसि ।
  • सर्वत्र कार्यादिविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ८॥
  • चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।
  • आत्मन्येवावस्थितोऽसि त्वं ब्रह्मासि न संशयः ॥ ९॥
  • आनन्दोऽसि परोऽसि त्वं सर्वशून्योऽसि निर्गुणः ।
  • एक एवाद्वितीयोऽसि त्वं ब्रह्मासि न संशयः ॥ १०॥
  • चिद्घनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा ।
  • परिपूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ११॥
  • तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि ।
  • चिदसि ब्रह्मभूतोऽसि त्वं ब्रह्मासि न संशयः ॥ १२॥
  • अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि ।
  • चञ्चलोष्ठकलङ्कोऽसि त्वं ब्रह्मासि न संशयः ॥ १३॥
  • सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि ।
  • कारणं त्वं प्रशान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ १४॥
  • सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि ।
  • नित्यशुद्धस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ १५॥
  • ईषण्मात्रविहीनोऽसि अणुमात्रविवर्जितः ।
  • अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ १६॥
  • योऽसि सोऽसि महान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ १७॥
  • लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः ।
  • अखण्डैकरसो नित्यं त्वं ब्रह्मासि न संशयः ॥ १८॥
  • सर्वाधारस्वरूपोऽसि सर्वतेजः स्वरूपकः ।
  • सर्वार्थभेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ १९॥
  • ब्रह्मैव भेदशून्योऽसि विप्लुत्यादिविवर्जितः ।
  • शिवोऽसि भेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ २०॥
  • प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि ।
  • स्वस्वरूपस्थितोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ २१॥
  • स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि ।
  • स्वानन्दसिन्धुमग्नोऽसि त्वं ब्रह्मासि न संशयः ॥ २२॥
  • स्वात्मराज्ये त्वमेवासि स्वयमात्मानमो ह्यसि ।
  • स्वयं पूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ २३॥
  • स्वस्मिन् सुखे स्वयं चासि स्वस्मात् किञ्चिन्न पश्यसि ।
  • स्वात्मन्याकाशवद्भासि त्वं ब्रह्मासि न संशयः ॥ २४॥
  • स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि ।
  • स्वस्वरूपामृतोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ २५॥
  • स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृंभसि ।
  • स्वस्वरूपादनन्योऽसि त्वं ब्रह्मासि न संशयः ॥ २६॥
  • स्वयं स्वयं सदाऽसि त्वं स्वयं सर्वत्र पश्यसि ।
  • स्वस्मिन् स्वयं स्वयं भुङ्क्षे त्वं ब्रह्मासि न संशयः ॥ २७॥

सूतः -

  • तदा निधाघवचसा तुष्टो ऋभुरुवाच तम् ।
  • शिवप्रेमरसे पात्रं तं वीक्ष्याब्जजनन्दनः ॥ २८॥

ऋभुः -

  • कैलासे शङ्करः पुत्रं कदाचिदुपदिष्टवान् ।
  • तदेव ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ २९॥
  • अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् ।
  • चित्रप्रपञ्च इत्याहुर्नास्ति नास्त्येव सर्वदा ॥ ३०॥
  • न प्रपञ्चो न चित्तादि नाहंकारो न जीवकः ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ३१॥
  • मायकार्यादिकं नास्ति मायाकार्यभयं नहि ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ३२॥
  • कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ३३॥
  • एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकं च न ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ३४॥
  • श्रवणं मननं नास्ति निदिध्यासनविभ्रमः ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ३५॥
  • समाधिद्विविधं नास्ति मातृमानादि नास्ति हि ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ३६॥
  • अज्ञानं चापि नास्त्येव अविवेककथा न च ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ३७॥
  • अनुबन्धचतुष्कं च संबन्धत्रयमेव न ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ३८॥
  • भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ३९॥
  • गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ४०॥
  • न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ४१॥
  • नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वदा ॥ ४२॥
  • न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः ।
  • नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ ४३॥
  • न मोक्षोऽस्ति न बन्धोऽस्ति न वार्तावसरोऽस्ति हि ।
  • क्वचिद्वा किञ्चिदेवं वा सदसद्वा सुखानि च ॥ ४४॥
  • द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् ।
  • न वृद्धिर्नोदयो मृन्युर्न गमागमविभ्रमः ॥ ४५॥
  • इह नास्ति परं नास्ति न गुरुर्न च शिष्यकः ।
  • सदसन्नास्ति भूर्नास्ति कार्यं नास्ति कृतं च न ॥ ४६॥
  • जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।
  • शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ ४७॥
  • सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि ।
  • चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ ४८॥
  • अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् ।
  • केवलं ब्रह्ममात्रत्वात् नास्ति नास्त्येव सर्वथा ॥ ४९॥
  • वाचा यदुच्यते किञ्चिन्मनसा मनुते च यत् ।
  • बुद्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ ५०॥
  • योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत् कृतम् ।
  • जाग्रत्स्वप्नसुषुप्तिं च स्वप्नं वा न तुरीयकम् ॥ ५१॥
  • सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितम् ।
  • स्नानाच्छुद्धिर्न हि क्वापि ध्यानात् शुद्धिर्न हि क्वचित् ॥ ५२॥
  • गुणत्रयं नास्ति किञ्चिद्गुणत्रयमथापि वा ।
  • एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ ५३॥
  • भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु ।
  • केवलं ब्रह्ममात्रत्वात् न किञ्चिदवशिष्यते ॥ ५४॥
  • इदं शृणोति यः सम्यक् स ब्रह्म भवति स्वयम् ॥ ५५॥

ईश्वरः -

  • वाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमा-
  • कान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः ।
  • भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजं
  • सम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ ५६॥
  • हरं विज्ञातारं निखिलतनुकार्येषु करणं
  • न जानन्ते मोहाद्यमितकरणा अप्यतितराम् ।
  • उमानाथाकारं हृदयदहरान्तर्गतसरा
  • पयोजाते भास्वद्भवभुजगनाशाण्डजवरम् ॥ ५७॥

  • ॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे शिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

@@

Complete text of the Ribhugita with options to [Change script] (right top) is available here in Gita collection https://sanskritdocuments.org/doc_giitaa/RGall.html