ऋभुगीता ५० ॥ सुदर्शनस्य मुक्तिलाभ वर्णनं च ॥

स्कन्दः -

  • विष्णुस्तवान्ते विप्रोऽसौ सुदर्शनसमाह्वयः ।
  • स्नात्वाऽथ मणिकर्ण्यां स भस्मरुद्राक्षभूषणः ॥ १॥
  • सञ्जपन् शतरुद्रीयं पञ्चाक्षरपरायणः ।
  • संपाद्य बिल्वपत्राणि कमलान्यमलान्यपि ॥ २॥
  • गन्धाक्षतैर्धूपदीपैर्नैवेद्यैर्विविधैरपि ।
  • विष्णूपदिष्टमार्गेण नित्यमन्तर्गृहस्य हि ॥ ३॥
  • प्रदक्षिणं चकारासौ लिङ्गान्यभ्यर्चयंस्तथा ।
  • विश्वेश्वराविमुक्तेशौ वीरेशं च त्रिलोचनम् ॥ ४॥
  • कृत्तिवासं वृद्धकाले केदारं शूलटङ्ककम् ।
  • रत्नेशं भारभूतेशं चन्द्रेशं सिद्धकेश्वरम् ॥ ५॥
  • घण्टाकर्णेश्वरं चैव नारदेशं यमेश्वरम् ।
  • पुलस्तिपुलहेशं च विकर्णेशं फलेश्वरम् ॥ ६॥
  • कद्रुद्रेशमखण्डेशं केतुमालिं गभस्तिकम् ।
  • यमुनेशं वर्णकेशं भद्रेशं ज्येष्ठशङ्करम् ॥ ७॥
  • नन्दिकेशं च रामेशं करमर्देश्वरं तथा ।
  • आवर्देशं मतङ्गेशं वासुकीशं द्रुतीश्वरम् ॥ ८॥
  • सूर्येशमर्यमेशं च तूणीशं गालवेश्वरम् ।
  • कण्वकात्यायनेशं च चन्द्रचूडेश्वरं तथा ॥ ९॥
  • उदावर्तेश्वरं चैव तृणज्योतीश्वरं सदा ।
  • कङ्कणेशं तङ्कणेशं स्कन्देशं तारकेश्वरम् ॥ १०॥
  • जम्बुकेशं च ज्ञानेशं नन्दीशं गणपेश्वरम् ।
  • एतान्यन्तर्गृहे विप्रः पूजयन् परया मुदा ॥ ११॥
  • ढुण्ढ्यादिगणपांश्चैव भैरवं चापि नित्यशः ।
  • अन्नपूर्णामन्नदात्रीं साक्षाल्लोकैकमातरम् ॥ १२॥
  • दण्डपाणिं क्षेत्रपालं सम्यगभ्यर्च्य तस्थिवान् ।
  • तीर्थान्यन्यान्यपि मुनिर्मणिकर्ण्यादि सत्तम ॥ १३॥
  • ज्ञानोदं सिद्धकूपं च वृद्धकूपं पिशाचकम् ।
  • ऋणमोचनतीर्थं च गर्गतीर्थं महत्तरम् ॥ १४॥
  • स्नात्वा सनियमं विप्रो नित्यं पञ्चनदे हृदे ।
  • किरणां धूतपापां च पञ्चगङ्गामपि द्विजः ॥ १५॥
  • गङ्गां मनोरमां तुङ्गां सर्वपापप्रणाशिनीम् ।
  • मुक्तिमण्टपमास्थाय स जपन् शतरुद्रियम् ॥ १६॥
  • अष्टोत्तरसहस्रं वै जपन् पञ्चाक्षरं द्विजः ।
  • पक्षे पक्षे तथा कुर्वन् पञ्चक्रोशप्रदक्षिणम् ॥ १७॥
  • अन्तर्गृहाद्बहिर्देशे चकारावसथं तदा ।
  • एवं संवसतस्तस्य कालो भूयानवर्तत ॥ १८॥
  • तत्र दृष्ट्वा तपोनिष्ठं सुदर्शनसमाह्वयम् ।
  • विष्णुस्तदा वै तं विप्रं समाहूय शिवार्चकम् ॥ १९॥
  • पुनः प्राह प्रसन्नेन चेतसा मुनिसत्तमम् ।

विष्णुः -

  • भोः सुदर्शनविप्रेन्द्र शिवार्चनपरायण ।
  • ज्ञानपात्रं भवानेव विश्वेशकृपयाऽधुना ॥ २०॥
  • त्वया तपांसि तप्तानि इष्टा यज्ञास्त्वयैव हि ।
  • अधीताश्च त्वया वेदाः काश्यां वासो यतस्तव ॥ २१॥
  • बहुभिर्जन्मभिर्येन कृतं क्षेत्रे महत्तपः ।
  • तस्यैव सिद्ध्यत्यमला काशीयं मुक्तिकाशिका ॥ २२॥
  • तव भाग्यस्य नान्तोऽस्ति मुने त्वं भाग्यवानसि ।
  • किञ्चैकं तव वक्ष्यामि हितमात्यन्तिकं शृणु ॥ २३॥
  • विश्वेशकृपया तेऽद्य मुक्तिरन्ते भविष्यति ।
  • रुद्राक्षनामपुण्यं यत् नाम्नां साहस्रमुत्तमम् ॥ २४॥
  • उपदेक्ष्यामि ते विप्र नामसाहस्रमीशितुः ।
  • तेनार्चयेशं विश्वेशं बिल्वपत्रैर्मनोहरैः ॥ २५॥
  • वर्षमेकं निराहारो विश्वेशं पूजयन् सदा ।
  • संवत्सरान्ते मुक्तस्त्वं भविष्यति न संशयः ॥ २६॥
  • त्वद्देहापगमे मन्त्रं पञ्चाक्षरमनुत्तमम् ।
  • ददाति देवो विश्वेशस्तेन मुक्तो भविष्यति ॥ २७॥
  • शैवेभ्यः सन्नजीवेभ्यो ददातीमं महामनुम् ।

स्कन्दः -

  • इति विष्णुवचः श्रुत्वा प्रणम्याह हरिं तदा ।
  • सुदर्शनो ययाचेत्थं नाम्नां साहस्रमुत्तमम् ॥ २८॥
  • भगवन् दैत्यवृन्दघ्न विष्णो जिष्णो नमोऽस्तु ते ।
  • सहस्रनाम्नां यद्दिव्यं विश्वेशस्याशु तद्वद ॥ २९॥
  • येन जप्तेन देवेशः पूजितो बिल्वपत्रकैः ।
  • ददाति मोक्षसाम्राज्यं देहान्ते तद्वदाशु मे ॥ ३०॥
  • तदा विप्रवचः श्रुत्वा तस्मै चोपादिशत् स्वयम् ।
  • सहस्रनाम्नां देवस्य हिरण्यस्येत्यादि सत्तम ॥ ३१॥
  • तेन संपूज्य विश्वेशं वर्षमेकमतन्द्रितः ।
  • कोमलारक्तबिल्वैश्च स्तोत्रेणानेन तुष्टुवे ॥ ३२॥

सुदर्शनः -

  • आशीविषाङ्गपरिमण्डलकण्ठभाग-
  • राजत्सुसागरभवोग्रविषोरुशोभ ।
  • फालस्फुरज्ज्वलनदीप्तिविदीपिताशा-
  • शोकावकाश तपनाक्ष मृगाङ्कमौले ॥ ३३॥
  • क्रुद्धोडुजायापतिधृतार्धशरीरशोभ
  • पाह्याशु शासितमखान्धकदक्षशत्रो ।
  • सुत्रामवज्रकरदण्डविखण्डितोरु-
  • पक्षाद्यघक्षितिधरोर्ध्वशयाव शंभो ॥ ३४॥
  • उत्फुल्लहल्लकलसत्करवीरमाला-
  • भ्राजत्सुकन्धरशरीर पिनाकपाणे ।
  • चञ्चत्सुचन्द्रकलिकोत्तमचारुमौलिं
  • लिङ्गे कुलुञ्चपतिमम्बिकया समेतम् ॥ ३५॥
  • छायाधवानुजलसच्छदनैः परिपूज्य भक्त्या
  • मुक्तेन स्वस्य च विराजितवंशकोट्या ।
  • सायं सङ्गवपुङ्गवोरुवहनं श्रीतुङ्गलिङ्गार्चकः
  • शाङ्गः पातकसङ्गभङ्गचतुरश्चासङ्गनित्यान्तरः ॥ ३६॥
  • फालाक्षस्फुरदक्षिजस्फुरदुरुस्फूलिङ्गदग्धाङ्गका-
  • नङ्गोत्तुङ्गमतङ्गकृत्तिवसनं लिङ्गं भजे शाङ्करम् ।
  • अच्छाच्छागवहां सुरतामीक्षाशिनान्ते विभो
  • वृष्यं शाङ्करवाहनामनिरताः सोमं तथा वाजिनम् ॥ ३७॥
  • त्यक्त्वा जन्मविनाशनं त्विति मुहुस्ते जिह्वया सत्तमाः
  • ये शंभोः सकृदेव नामनिरताः शाङ्गाः स्वतः पावनाः ॥ ३८॥
  • मृगाङ्क मौलिमीश्वरं मृगेन्द्रशत्रुजत्वचम् ।
  • वसानमिन्दुसप्रभं मृगाद्यबालसत्करम् ।
  • भजे मृगेन्द्रसप्रभं ..??... ॥ ३९॥

स्कन्दः -

  • एवं स्तुवन्तं विश्वेशं सुदर्शनमतन्द्रितम् ।
  • प्राहेत्थं शौरिमाभाष्य शंभोर्भक्तिविवर्धनम् ॥ ४०॥

विष्णुः -

  • अत्रैवामरणं विप्र वस त्वं नियताशनः ।
  • नाम्नां सहस्रं प्रजपन् शतरुद्रीयमेव च ॥ ४१॥
  • अन्तर्गृहात् बहिः स्थित्वा पूजयाशु महेश्वरम् ।
  • तवान्ते भूरिकरुणो मोक्षं दास्यत्यसंशयम् ॥ ४२॥
  • स प्रणम्याह विश्वेशं दृष्ट्वा प्राह सुदर्शनम् ।
  • धन्यस्त्वं लिङ्गेऽप्यनुदिनगलितस्वान्तरङ्गाघसङ्घः
  • पुंसां वर्याद्यभक्त्या यमनियमवरैर्विश्ववन्द्यं प्रभाते ।
  • दत्वा बिल्ववरं सदंबुजदलं किञ्चिज्जलं वा मुहुः
  • प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ ४३॥
  • को वा त्वत्सदृशो भवेदगपतिप्रेमैकलिङ्गार्चको
  • मुक्तानां प्रवरोर्ध्वकेशविलसच्छ्रीभक्तिबीजाङ्कुरैः ।
  • देवा वाप्यसुराः सुरा मुनिवरा भारा भुवः केवलं
  • वीरा वा करवीरपुष्पविलसन्मालाप्रदे नो समः ॥ ४४॥
  • वने वा राज्ये वाप्यगपतिसुतानायकमहो
  • स्फुरल्लिङ्गार्चायां नियममतभावेन मनसा ।
  • हरं भक्त्या साध्य त्रिभुवनतृणाडम्बरवर-
  • प्ररूढैर्भाग्यैर्वा न हि खलु स सज्जेत भुवने ॥ ४५॥
  • न दानैर्योगैर्वा विधिविहितवर्णाश्रमभरैः
  • अपारैर्वेदान्तप्रतिवचनवाक्यानुसरणैः ।
  • न मन्येऽहं स्वान्ते भवभजनभावेन मनसा
  • मुहुर्लिङ्गं शाङ्गं भजति परमानन्दकुहरः ॥ ४६॥
  • शर्वं परवतनन्दिनीपतिमहानन्दाम्बुधेः पारगा
  • रागत्यागहृदा विरागपरमा भस्माङ्गरागादराः ।
  • मारापारशराभिघातरहिता धीरोरुधारारसैः
  • पारावारमहाघसंसृतिभरं तीर्णाः शिवाभ्यर्चनात् ॥ ४७॥
  • मार्कण्डेयसुतं पुराऽन्तकभयाद्योऽरक्षदीशो हरः
  • तत्पादाम्बुजरागरञ्जितमना नाप्नोति किं वा फलम् ।
  • तं मृत्युञ्जयमञ्जसा प्रणमतामोजोजिमध्ये जयं
  • जेतारोतपराजयो जनिजरारोगैर्विमुक्तिं लभेत् ॥ ४८॥
  • भूतायां भूतनाथं त्वघमतितिलकाकारभिल्लोत्थशल्यैः
  • धावन् भल्लूकपृष्ठे निशि किल सुमहद्व्याघ्रभीत्याऽरुरोह ।
  • बिल्वं नल्वप्रभं तच्छदघनमसकृत् पातयामास मूले
  • निद्रातन्द्रोज्झितोऽसौ मृगगणकलने मूललिङ्गेऽथ शाङ्गे ॥ ४९॥
  • तेनाभूद्भगवान् गणोत्तमवरो मुक्ताघसङ्घस्तदा
  • चण्डांशोस्तनयेन पूजितपदः सारूप्यमापेशितुः ।
  • गङ्गाचन्द्रकलाकपर्दविलसत्फालस्फुलिङ्गोज्ज्वलद्
  • वालन्यङ्कुकराग्रसंगतमहाशूलाहि टंकोद्यतः ॥ ५०॥
  • चैत्रे चित्रैः पातकैर्विप्रमुक्तो वैशाखे वै दुःखशाखाविमुक्तः ।
  • ज्येष्ठे श्रेष्ठो भवतेषाढमासि पुत्रप्राप्तिः श्रावणे श्रान्तिनाशः ॥ ५१॥
  • भाद्रे भद्रो भवते चाश्विने वै अश्वप्राप्तिः कार्तिके कीर्तिलाभः ।
  • मार्गे मुक्तेर्मार्गमेतल्लभेत पुष्ये पुण्यं माघके चाघनाशः ॥ ५२॥
  • फल्गु त्वंहो फाल्गुने मासि
  • नश्येदीशार्चातो बिल्वपत्रैश्चलिङ्गे ।
  • एवं तत्तन्मासि पूज्येशलिङ्गं
  • चित्रैः पापैर्विप्रमुक्तो द्विजेन्द्रः ॥ ५३॥
  • दूर्वाङ्कुरैरभिनवैः शशिधामचूड-
  • लिङ्गार्चनेन परिशेषयदङ्कुराणि ।
  • संसारघोरतररूपकराणि सद्यः
  • मुक्त्यङ्कुराणि परिवर्धयतीह धन्यः ॥ ५४॥
  • गोक्षीरेक्षुक्षौद्रखण्डाज्यदध्ना
  • सन्नारेलैः पानसाम्रादिसारैः ।
  • विश्वेशानं सत्सितारत्नतोयैः
  • गन्धोदैर्वा सिञ्च्य दोषैर्विमुक्तः ॥ ५५॥
  • लिङ्गं चन्दनलेपसङ्गतमुमाकान्तस्य पश्यन्ति ये
  • ते संसारभुजङ्गभङ्गपतनानङ्गाङ्गसङ्गोज्झिताः ।
  • व्यङ्गं सर्वसमर्चनं भगवतः साङ्गं भवेच्छाङ्करं
  • शङ्गापाङ्गकृपाकटाक्षलहरी तस्मिंश्चिरं तिष्ठति ॥ ५६॥
  • मुरलिसरलिरागैर्मर्दलैस्तालशङ्खैः
  • पटुपटहनिनादध्वान्तसन्धानघोषैः ।
  • दुन्दुभ्याघातवादैर्वरयुवतिमहानृत्तसंरंभरङ्गैः
  • दर्शेष्वादर्शदर्शो भगवति गिरिजानायके मुक्तिहेतुः ॥ ५७॥
  • स्वच्छच्छत्रछवीनां विविधजितमहाच्छायया छन्नमैशं
  • शीर्षं विच्छिन्नपापो भवति भवहरः पूजकः शम्भुभक्त्या ।
  • चञ्चच्चन्द्राभकाण्डप्रविलसदमलस्वर्णरत्नाग्रभाभि-
  • र्दीप्यच्चामरकोटिभिः स्फुटपटघटितैश्चाकचक्यैः पताकैः ॥ ५८॥
  • संपश्यारुणभूरुहोत्तमशिखासंलेढितारागणं
  • तारानाथकलाधरोरुसुमहालिङ्गौघसंसेवितम् ।
  • बिल्वानां कुलमेतदत्र सुमहापापौघसंहारकृत्
  • वाराणां निखिलप्रमोदजनकं शम्भोः प्रियं केवलम् ॥ ५९॥
  • अन्नं पोत्रिमलायते धनरसं कौलेयमूत्रायते
  • संवेशो निगलायते मम सदानन्दो कन्दायते ।
  • शम्भो ते स्मरणान्तरायभरित प्राणः कृपाणायते ॥ ६०॥
  • कः कल्पद्रुमुपेक्ष्य चित्तफलदं तूलादिदानक्षयं
  • बब्बूलं परिसेवते क्षुदधिको वातूलदानक्षमम् ।
  • तद्वच्छङ्करकिङ्करो विधिहरिब्रह्मेन्द्रचन्द्रानलान्
  • सेवेद्यो विधिवञ्चितः कलिबलप्राचुर्यतो मूढधीः ॥ ६१॥
  • सुवर्णाण्डोद्भूतस्तुतिगतिसमर्च्याण्डजवर-
  • प्रपादं त्वां कश्चिद् भजति भुवने भक्तिपरमः ।
  • महाचण्डोद्दण्डप्रकटितभुवं ताण्डवपरं
  • विभुं सन्तं नित्यं भज भगणनाथामलजटम् ॥ ६२॥
  • अजगवकर विष्णुबाण शम्भो
  • दुरितहरान्तकनाश पाहि मामनाथम् ।
  • भवदभयपदाब्जवर्यमेत
  • मम चित्तसरस्तटान्नयातु चाद्य ॥ ६३॥
  • इत्थं विष्णुश्च काश्यां प्रमथपतिमगात् पूज्य विश्वेश्वरं तं
  • क्षितिसुरवरवर्यं चानुशास्येत्थमिष्टम् ।
  • स च मुनिगणमध्ये प्राप्य मुक्तिं तथान्ते
  • प्रमथपतिपदाब्‍जे लीनहीनाङ्गसङ्गः ॥ ६४॥

सूतः -

  • इत्थं श्रुत्वा मुनीन्द्रोऽसौ जैगीषव्योऽवदद्विभुम् ।
  • प्रणिपत्य प्रहृष्टात्मा षष्ठांशं वै षडास्यतः ॥ ६५॥

जैगीषव्यः -

  • मारमारकजानन्दवसतेर्महिमा कथम् ।
  • नाम्नां सहस्रमेतच्च वद मे करुणानिधे ॥ ६६॥
  • क्षेत्राणां चाप्यथान्यानां महिमां वद सद्गुरो ।
  • शूरतारकसंहर्तस्त्वत्तो नान्यो गुरुर्मम ॥ ६७॥
  • तच्छ्रुत्वा तु मुनेर्वाक्यं स्कन्दः प्राहाथ तं मुनिम् ।

स्कन्दः -

  • आगामिन्यंशकेऽस्मिंस्तव हृदयमहानन्दसिन्धौ विधूत्थ-
  • प्राचुर्यप्रकटैः करोपममहासप्तमांशे विशेषे ।
  • नाम्नां चापि सहस्रकं भगवतः शम्भोः प्रियं केवलं
  • अस्यानन्दवनस्य चैव महिमा त्वं वै शृणुष्वादरात् ॥ ६८॥
  • उग्रोंऽशः शशिशेखरेण कथितो वेदान्तसारात्मकः
  • षष्ठः षण्मुखसत्तमाय स ददौ तद्ब्रह्मणे सोऽप्यदात् ।
  • पुत्रायात्मभवाय तद्भवहरं श्रुत्वा भवेद् ज्ञानवित्
  • चोक्त्वा जन्मशतायुतार्जितमहापापैर्विमुक्तो भवेत् ॥ ६९॥
  • श्रुत्वांशमेतद् भवतापपापहं शिवास्पदज्ञानदमुत्तमं महत् ।
  • ध्यानेन विज्ञानदमात्मदर्शनं ददाति शम्भोः पदभक्तिभावतः ॥ ७०॥

सूतः -

  • अध्यायपादाध्ययनेऽपि विद्या बुद्ध्या हृदि ध्यायति बन्धमुक्त्यै ।
  • स्वाध्यायतान्ताय शमान्विताय दद्याद्यदद्यान्न विभेद्यमेतत् ॥ ७१॥
  • इत्थं सूतवचोद्यतमहानन्दैकमोदप्रभा
  • भास्वद्भास्करसप्रभा मुनिवराः संतुष्टुवुस्तं तदा ।
  • वेदोद्यद्वचनाशिषा प्रहृषिताः सूतं जयेत्युच्चरन्
  • प्याहो जग्मुरतीव हर्षितहृदा विश्वेश्वरं वीक्षितुम् ॥ ७२॥
  • ॥ शङ्कराख्यः षष्ठांशः समाप्तः॥
  • ॥ सर्वं श्रीरमणार्पणमस्तु ॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सुदर्शनस्य मुक्तिलाभवर्णनं अंशश्रवणफलनिरूपणं च नाम पञ्चाशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com