ऋभुगीता ४ ॥ ऋभु-निदाध संवादः ॥

स्कन्दः -

  • हिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् ।
  • केदारेशं पूजयन्तं शांभवं मुनिसत्तमम् ।
  • भस्मरुद्राक्षसंपन्नं निःस्पृहं मुनयोऽब्रुवन् ॥ १॥

मुनयः -

  • पद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते ।
  • आराध्य देवमीशानं तस्मात् सूत्रश्रुतीरितम् ॥ २॥
  • ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये ।
  • येन संसारवाराशेः समुत्तीर्णा भवामहे ॥ ३॥

सूतः -

  • ऋभुर्मुनीनां वचसा तुष्टः शिष्टान् समीक्ष्य तान् ।
  • अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥ ४॥

ऋभुः -

  • विश्वस्य कारणमुमापतिरेव देवो
  • विद्योतको जडजगत्प्रमदैकहेतुः ।
  • न तस्य कार्यं करणं महेशितुः
  • स एव तत्कारणमीश्वरो हरः ॥ ८॥
  • सूतः सायकसंभवः समुदिताः सूताननेभ्यो हयाः
  • नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी ।
  • मौवीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः
  • योद्धुं केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ ९॥var was नः
  • निदाघमथ संबोध्य ततो ऋभुरुवाच ह ।
  • अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ १०॥
  • शिवोपदिष्टं संक्षिप्य गुह्यात् गुह्यतरं सदा ।
  • अनात्मेति प्रसङ्गात्मा अनात्मेति मनोऽपि वा ।
  • अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ ११॥
  • सर्वसंकल्पशून्यत्वात् सर्वाकारविवर्जनात्
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ १२॥
  • चित्ताभावे चिन्तनीयो देहाभावे जरा च न ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ १३॥var was ब्रह्ममात्रत्वात्
  • पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया च न ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ १४॥var was ब्रह्ममात्रत्वात्
  • ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ १५॥var was ब्रह्ममात्रत्वात्
  • मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ १६॥var was ब्रह्ममात्रत्वात्
  • धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ १७॥var was ब्रह्ममात्रत्वात्
  • अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ १८॥var was ब्रह्ममात्रत्वात्
  • गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ १९॥var was ब्रह्ममात्रत्वात्
  • एकाभावान्न द्वितीयं न द्वितीयान्न चैकता ।
  • सत्यत्वमस्ति चेत् किञ्चिदसत्यत्वं च संभवेत् ॥ २०॥
  • असत्यत्वं यदि भवेत् सत्यत्वं च घटिष्यति ।
  • शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ २१॥
  • भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ २२॥var was ब्रह्ममात्रत्वात्
  • बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता ।
  • मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ २३॥
  • त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।
  • इदं यदि तदेवापि तदभावे इदं न च ॥ २४॥
  • अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किंच न ।
  • कार्यं चेत् कारणं किञ्चित् कार्याभावे न कारणम् ॥ २५॥
  • द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न ।
  • दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ २६॥
  • अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च ।
  • पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते ॥ २७॥
  • किञ्चिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः ।
  • यत्किंचित् किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ २८॥
  • तस्मादेतत् क्वचिन्नास्ति त्वं नाहं वा इमे इदम् ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ २९॥var was ब्रह्ममात्रत्वात्
  • नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् ।
  • केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥ ३०॥var was ब्रह्ममात्रत्वात्
  • परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि ।
  • ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ ३१॥
  • चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ।
  • इत्यात्मनिर्णयं प्रोक्तं भवते सर्वसङ्ग्रहम् ॥ ३२॥var was निर्ण्यः प्रोक्तः
  • सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ ३३॥
  • निदाघः-var was ऋभुः-
  • भगवन् को भवान् को नु वद मे वदतां वर ।var was निदाघ
  • यच्छ्रुत्वा तत्क्षणान्मुच्येन्महासंसारसंकटात् ॥ ३४॥
  • ऋभुः-
  • अहमेव परं ब्रह्म अहमेव परं सुखम् ।
  • अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥ ३५॥
  • अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् ।
  • सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ३६॥
  • अहमर्थविहीनोऽस्मि इदमर्थविवर्जितः ।
  • सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ३७॥
  • नित्यशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः ।
  • नित्यानदस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ३८॥
  • नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।
  • केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ३९॥
  • अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः ।
  • अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४०॥
  • स्वस्वसंकल्पहीनोऽहं सर्वाविद्याविवर्जितः ।
  • सर्वमस्मि तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४१॥
  • सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः ।
  • सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४२॥
  • सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः ।
  • सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४३॥
  • सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् ।
  • सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४४॥
  • अहमेव सुखं नान्यदहमेव चिदव्ययः ।
  • अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४५॥
  • केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः ।
  • केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४६॥
  • केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् ।
  • केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४७॥
  • सत्स्वरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि ।
  • अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४८॥
  • अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् ।
  • अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४९॥
  • अरसस्युतरूपोऽस्मि अनुतापविवर्जितः ।
  • अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ५०॥
  • सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः ।
  • सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ५१॥
  • अहंभावविहीनोऽस्मि विहीनोऽस्मीति मे न च ।
  • सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ५२॥
  • ब्रह्म ब्रह्मादिहीनोऽस्मि केशवत्वादि न क्वचित् ।
  • शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ५३॥
  • तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् ।
  • किञ्चिन्नास्ति परो नास्ति किंचिदस्मि परोऽस्मि च ॥ ५४॥
  • न शरीरप्रकाशोऽस्मि जगद्भासकरो न च ।
  • चिद्घनोऽस्मि चिदंशोऽस्मि सत्स्वरूपोऽस्मि सर्वदा ॥ ५५॥
  • मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
  • न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात् परः ॥ ५६॥
  • न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।
  • इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥ ५७॥
  • यो वा को वा शृणोतीदं ब्रह्मैव भवति स्वयम् ॥ ५८॥
  • न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमा
  • भूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः ।
  • उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञ सर्वज्ञता
  • बुद्ध्या मोहितमायया श्रुतिशतैर्भो जानते शङ्करम् ॥ ५९॥

  • ॥ इति श्री शिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादो नाम चतुर्थोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com