ऋभुगीता १९ ॥ ब्रह्मानन्द प्रकरणम् ॥

ऋभुः -

  • ब्रह्मानन्दं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् ।
  • यस्य श्रवणमात्रेण सदा मुक्तिमवाप्नुयात् ॥ १॥var was युक्तिमाप्नुयात्
  • परमानन्दोऽहमेवात्मा सर्वदानन्दमेव हि ।
  • पूर्णानन्दस्वरूपोऽहं चिदानन्दमयं जगत् ॥ २॥
  • सदानन्तमनन्तोऽहं बोधानन्दमिदं जगत् ।
  • बुद्धानन्दस्वरूपोऽहं नित्यानन्दमिदं मनः ॥ ३॥
  • केवलानन्दमात्रोऽहं केवलज्ञानवानहम् ।
  • इति भावय यत्नेन प्रपञ्चोपशमाय वै ॥ ४॥
  • सदा सत्यं परं ज्योतिः सदा सत्यादिलक्षणः ।
  • सदा सत्यादिहीनात्मा सदा ज्योतिः प्रियो ह्यहम् ॥ ५॥
  • नास्ति मिथ्याप्रपञ्चात्मा नास्ति मिथ्या मनोमयः ।
  • नास्ति मिथ्याभिधानात्मा नास्ति चित्तं दुरात्मवान् ॥ ६॥
  • नास्ति मूढतरो लोके नास्ति मूढतमो नरः ।
  • अहमेव परं ब्रह्म अहमेव स्वयं सदा ॥ ७॥
  • इदं परं च नास्त्येव अहमेव हि केवलम् ।
  • अहं ब्रह्मास्मि शुद्धोऽस्मि सर्वं ब्रह्मैव केवलम् ॥ ८॥
  • जगत्सर्वं सदा नास्ति चित्तमेव जगन्मयम् ।
  • चित्तमेव प्रपञ्चाख्यं चित्तमेव शरीरकम् ॥ ९॥
  • चित्तमेव महादोषं चित्तमेव हि बालकः ।
  • चित्तमेव महात्माऽयं चित्तमेव महानसत् ॥ १०॥
  • चित्तमेव हि मिथ्यात्मा चित्तं शशविषाणवत् ।
  • चित्तं नास्ति सदा सत्यं चित्तं वन्ध्याकुमारवत् ॥ ११॥
  • चित्तं शून्यं न सन्देहो ब्रह्मैव सकलं जगत् ।
  • अहमेव हि चैतन्यं अहमेव हि निर्गुणम् ॥ १२॥
  • मन एव हि संसारं मन एव हि मण्डलम् ।
  • मन एव हि बन्धत्वं मन एव हि पातकम् ॥ १३॥
  • मन एव महद्दुःखं मन एव शरीरकम् ।
  • मन एव प्रपञ्चाख्यं मन एव कलेवरम् ॥ १४॥
  • मन एव महासत्त्वं मन एव चतुर्मुखः ।
  • मन एव हरिः साक्षात् मन एव शिवः स्मृतः ॥ १५॥
  • मन एवेन्द्रजालाख्यं मनः सङ्कल्पमात्रकम् ।
  • मन एव महापापं मन एव दुरात्मवान् ॥ १६॥
  • मन एव हि सर्वाख्यं मन एव महद्भयम् ।
  • मन एव परं ब्रह्म मन एव हि केवलम् ॥ १७॥
  • मन एव चिदाकारं मन एव मनायते ।
  • चिदेव हि परं रूपं चिदेव हि परं पदम् ॥ १८॥
  • परं ब्रह्माहमेवाद्य परं ब्रह्माहमेव हि ।
  • अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥ १९॥
  • अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः ।
  • अहमेव हि शान्तात्मा अहमाद्यन्तवर्जितः ॥ २०॥
  • अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् ।
  • अहं नित्यो न सन्देह अहं बुद्धिः प्रियः सदा ॥ २१॥var was बुद्धिप्रियः सदा
  • अहमेवाहमेवैकः अहमेवाखिलामृतः ।
  • अहमेव स्वयं सिद्धः अहमेवानुमोदकः ॥ २२॥
  • अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः ।
  • अहमेव परं ब्रह्म अहमेव परात्परः ॥ २३॥
  • अहङ्कारं न मे दुःखं न मे दोषं न मे सुखम् ।
  • न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥ २४॥
  • न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् ।
  • न मे जपो न मे मन्त्रो न मे लोको न मे सुहृत् ॥ २५॥
  • न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता ।
  • न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कुलम् ॥ २६॥
  • न मे जातिर्न मे वर्णः न मे श्रोत्रं न मे क्वचित् ।
  • न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥ २७॥
  • न मे तत्त्वं न मे लोको न मे शान्तिर्न मे कुलम् ।
  • न मे कोपो न मे कामः केवलं ब्रह्ममात्रतः ॥ २८॥
  • केवलं ब्रह्ममात्रत्वात् केवलं स्वयमेव हि ।
  • न मे रागो न मे लोभो न मे स्तोत्रं न मे स्मृतिः ॥ २९॥
  • न मे मोहो न मे तृष्णा न मे स्नेहो न मे गुणः ।
  • न मे कोशं न मे बाल्यं न मे यौवनवार्धकम् ॥ ३०॥
  • सर्वं ब्रह्मैकरूपत्वादेकं ब्रह्मेति निश्चितम् ।
  • ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥ ३१॥
  • ब्रह्मणोऽन्यदिदं नास्ति ब्रह्मणोऽन्यदिदं न हि ।
  • आत्मनोऽन्यत् सदा नास्ति आत्मैवाहं न संशयः ॥ ३२॥
  • आत्मनोऽन्यत् सुखं नास्ति आत्मनोऽन्यदहं न च ।
  • ग्राह्यग्राहकहीनोऽहं त्यागत्याज्यविवर्जितः ॥ ३३॥
  • न त्याज्यं न च मे ग्राह्यं न बन्धो न च भुक्तिदम् ।var was मुक्तिदम्
  • न मे लोकं न मे हीनं न श्रेष्ठं नापि दूषणम् ॥ ३४॥
  • न मे बलं न चण्डालो न मे विप्रादिवर्णकम् ।
  • न मे पानं न मे ह्रस्वं न मे क्षीणं न मे बलम् ॥ ३५॥
  • न मे शक्तिर्न मे भुक्तिर्न मे दैवं न मे पृथक् ।
  • अहं ब्रह्मैकमात्रत्वात् नित्यत्वान्यन्न किञ्चन ॥ ३६॥
  • न मतं न च मे मिथ्या न मे सत्यं वपुः क्वचित् ।
  • अहमित्यपि नास्त्येव ब्रह्म इत्यपि नाम वा ॥ ३७॥
  • यद्यद्यद्यत्प्रपञ्चोऽस्ति यद्यद्यद्यद्गुरोर्वचः ।
  • तत्सर्वं ब्रह्म एवाहं तत्सर्वं चिन्मयं मतम् ॥ ३८॥
  • चिन्मयं चिन्मयं ब्रह्म सन्मयं सन्मयं सदा ।
  • स्वयमेव स्वयं ब्रह्म स्वयमेव स्वयं परः ॥ ३९॥
  • स्वयमेव स्वयं मोक्षः स्वयमेव निरन्तरः ।
  • स्वयमेव हि विज्ञानं स्वयमेव हि नास्त्यकम् ॥ ४०॥
  • स्वयमेव सदासारः स्वयमेव स्वयं परः ।
  • स्वयमेव हि शून्यात्मा स्वयमेव मनोहरः ॥ ४१॥
  • तूष्णीमेवासनं स्नानं तूष्णीमेवासनं जपः ।
  • तूष्णीमेवासनं पूजा तूष्णीमेवासनं परः ॥ ४२॥
  • विचार्य मनसा नित्यमहं ब्रह्मेति निश्चिनु ।
  • अहं ब्रह्म न सन्देहः एवं तूष्णींस्थितिर्जपः ॥ ४३॥
  • सर्वं ब्रह्मैव नास्त्यन्यत् सर्वं ज्ञानमयं तपः ।
  • स्वयमेव हि नास्त्येव सर्वातीतस्वरूपवान् ॥ ४४॥
  • वाचातीतस्वरूपोऽहं वाचा जप्यमनर्थकम् ।
  • मानसः परमार्थोऽयं एतद्भेदमहं न मे ॥ ४५॥
  • कुणपं सर्वभूतादि कुणपं सर्वसङ्ग्रहम् ।
  • असत्यं सर्वदा लोकमसत्यं सकलं जगत् ॥ ४६॥
  • असत्यमन्यदस्तित्वमसत्यं नास्ति भाषणम् ।
  • असत्याकारमस्तित्वं ब्रह्ममात्रं सदा स्वयम् ॥ ४७॥
  • असत्यं वेदवेदाङ्गं असत्यं शास्त्रनिश्चयः ।
  • असत्यं श्रवणं ह्येतदसत्यं मननं च तत् ॥ ४८॥
  • असत्यं च निदिध्यासः सजातीयमसत्यकम् ।
  • विजातीयमसत् प्रोक्तं सत्यं सत्यं न संशयः ।
  • सर्वं ब्रह्म सदा ब्रह्म एकं ब्रह्म चिदव्ययम् ॥ ४९॥
  • चेतोविलासजनितं किल विश्वमेत-
  • द्विश्वाधिकस्य कृपया परिपूर्णभास्यात् ।
  • नास्त्यन्यतः श्रुतिशिरोत्थितवाक्यमोघ-
  • शास्त्रानुसारिकरणैर्भवते विमुक्त्यै ॥ ५०॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मानन्दप्रकरणं नाम एकोनविंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com