ऋभुगीता १२ ॥ विदेहमुक्ति प्रकरण वर्णनम् ॥

ऋभुः -

  • देहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् ।
  • त्यक्तात्यक्तं न स्मरति विदेहान्मुक्त एव सः ॥ १॥
  • ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी ।
  • स्वस्थरूपो महामौनी विदेहान्मुक्त एव सः ॥ २॥
  • सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः ।
  • एकात्मवर्जितः साक्षी विदेहान्मुक्त एव सः ॥ ३॥
  • लक्ष्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः ।
  • तूष्णीमात्मा स्वभावात्मा विदेहान्मुक्त एव सः ॥ ४॥
  • शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः ।
  • अजात्मा चामृतात्मा हि विदेहान्मुक्त एव सः ॥ ५॥
  • आनन्दात्मा प्रियः स्वात्मा मोक्षात्मा कोऽपि निर्णयः ।
  • इत्येवमिति निध्यायी विदेहान्मुक्त एव सः ॥ ६॥
  • ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते ।
  • चिन्मात्रेणैव यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ ७॥
  • निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः ।
  • आनन्दभूरिदेहस्तु विदेहान्मुक्त एव सः ॥ ८॥
  • सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।
  • अहं ब्रह्मास्मि नान्योऽस्मि विदेहान्मुक्त एव सः ॥ ९॥
  • किञ्चित् क्वचित् कदाचिच्च आत्मानं न स्मरत्यसौ ।
  • स्वस्वभावेन यस्तिष्ठेत् विदेहान्मुक्त एव सः ॥ १०॥
  • अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते ।
  • स्थास्यामीत्यपि यो युक्तो विदेहान्मुक्त एव सः ॥ ११॥
  • तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किञ्चन ।
  • अहमर्थपरित्यक्तो विदेहान्मुक्त एव सः ॥ १२॥
  • परमात्मा गुणातीतः सर्वात्मापि न संमतः ।
  • सर्वभावान्महात्मा यो विदेहान्मुक्त एव सः ॥ १३॥
  • कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् ।
  • किञ्चिद्भेदं न यस्यास्ति विदेहान्मुक्त एव सः ॥ १४॥
  • अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते ।
  • अत्यन्तसुखमात्रोऽहं विदेहान्मुक्त एव सः ॥ १५॥
  • निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः ।
  • शून्यात्मा सूक्ष्मरूपो यो विदेहान्मुक्त एव सः ॥ १६॥
  • विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः ।
  • देवात्मा देवहीनो यो विदेहान्मुक्त एव सः ॥ १७॥
  • मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः ।
  • केवलात्मा परात्मा च विदेहान्मुक्त एव सः ॥ १८॥
  • सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।
  • सर्वेषामिति यस्तूक्तो विदेहान्मुक्त एव सः ॥ १९॥
  • सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः ।
  • स्थास्यामीति न यस्यान्तो विदेहान्मुक्त एव सः ॥ २०॥
  • सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा ।
  • प्रबुद्धो नास्ति यस्यान्तो विदेहान्मुक्त एव सः ॥ २१॥
  • केवलं परमात्मा यः केवलं ज्ञानविग्रहः ।
  • सत्तामात्रस्वरूपो यो विदेहान्मुक्त एव सः ॥ २२॥
  • जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति ।
  • ब्रह्मैवेति न यस्यान्तो विदेहान्मुक्त एव सः ॥ २३॥
  • ब्रह्मैव सर्वमेवाहं नान्यत् किञ्चिज्जगद्भवेत् ।
  • इत्येवं निश्चयो भावः विदेहान्मुक्त एव सः ॥ २४॥
  • इदं चैतन्यमेवेति अहं चैतन्यमेव हि ।
  • इति निश्चयशून्यो यो विदेहान्मुक्त एव सः ॥ २५॥
  • चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः ।
  • सुखमात्रान्तरङ्गो यो विदेहान्मुक्त एव सः ॥ २६॥
  • अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः ।
  • तुर्यातीतः परानन्दो विदेहान्मुक्त एव सः ॥ २७॥
  • नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः ।
  • परब्रह्मस्वरूपात्मा विदेहान्मुक्त एव सः ॥ २८॥
  • तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः ।
  • अशुभाशुभशान्तात्मा विदेहान्मुक्त एव सः ॥ २९॥
  • बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः ।
  • प्रपञ्चात्मा परो ह्यात्मा विदेहान्मुक्त एव सः ॥ ३०॥
  • सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः ।
  • अन्तरात्मा ह्यनन्तात्मा विदेहान्मुक्त एव सः ॥ ३१॥
  • अबोधबोधहीनात्मा अजडो जडवर्जितः ।
  • अतत्त्वातत्त्वसर्वात्मा विदेहान्मुक्त एव सः ॥ ३२॥
  • असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः ।
  • अभूतो भूत एवात्मा विदेहान्मुक्त एव सः ॥ ३३॥
  • चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदंबरः ।
  • चिन्मात्ररूप एवात्मा विदेहान्मुक्त एव सः ॥ ३४॥
  • सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः ।
  • सच्चिदानन्दपूर्णात्मा विदेहान्मुक्त एव सः ॥ ३५॥
  • सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः ।
  • सदाऽखण्डैकरूपात्मा विदेहान्मुक्त एव सः ॥ ३६॥
  • प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः ।
  • नित्यज्ञानपरानन्दो विदेहान्मुक्त एव सः ॥ ३७॥
  • यस्य देहः क्वचिन्नास्ति यस्य किञ्चित् स्मृतिश्च न ।
  • सदात्मा ह्यात्मनि स्वस्थो विदेहान्मुक्त एव सः ॥ ३८॥
  • यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः ।
  • योगात्मा योगयुक्तात्मा विदेहान्मुक्त एव सः ॥ ३९॥
  • चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि ।
  • गुणागुणविकारान्तो विदेहान्मुक्त एव सः ॥ ४०॥
  • कालदेशादि नास्त्यन्तो न ग्राह्यो नास्मृतिः परः ।
  • निश्चयं च परित्यक्तो विदेहान्मुक्त एव सः ॥ ४१॥
  • भूमानन्दापरानन्दो भोगानन्दविवर्जितः ।
  • साक्षी च साक्षिहीनश्च विदेहान्मुक्त एव सः ॥ ४२॥
  • सोऽपि कोऽपि न सो कोऽपि किञ्चित् किञ्चिन्न किञ्चन ।
  • आत्मानात्मा चिदात्मा च चिदचिच्चाहमेव च ॥ ४३॥
  • यस्य प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न ।
  • स्वस्वरूपः स्वयंज्योतिर्विदेहान्मुक्त एव सः ॥ ४४॥
  • वाचामगोचरानन्दः सर्वेन्द्रियविवर्जितः ।
  • अतीतातीतभावो यो विदेहान्मुक्त एव सः ॥ ४५॥
  • चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः ।
  • सर्ववृत्तिविहीनो यो विदेहान्मुक्त एव सः ॥ ४६॥
  • तस्मिन् काले विदेहो यो देहस्मरणवर्जितः ।
  • न स्थूलो न कृशो वापि विदेहान्मुक्त एव सः ॥ ४७॥
  • ईषण्मात्रस्थितो यो वै सदा सर्वविवर्जितः ।
  • ब्रह्ममात्रेण यस्तिष्ठेत् विदेहान्मुक्त एव सः ॥ ४८॥
  • परं ब्रह्म परानन्दः परमात्मा परात्परः ।
  • परैरदृष्टबाह्यान्तो विदेहान्मुक्त एव सः ॥ ४९॥
  • शुद्धवेदान्तसारोऽयं शुद्धसत्त्वात्मनि स्थितः ।
  • तद्भेदमपि यस्त्यक्तो विदेहान्मुक्त एव सः ॥ ५०॥
  • ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् ।
  • ब्रह्मामृतरसे मग्नो विदेहान्मुक्त एव सः ॥ ५१॥
  • ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयम् ।
  • ब्रह्मामृतरसे तृप्तो विदेहान्मुक्त एव सः ॥ ५२॥
  • ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः ।
  • ब्रह्मानन्दपरंज्योतिर्विदेहान्मुक्त एव सः ॥ ५३॥
  • ब्रह्मानन्दरसानन्दो ब्रह्मामृतनिरन्तरम् ।
  • ब्रह्मानन्दः सदानन्दो विदेहान्मुक्त एव सः ॥ ५४॥
  • ब्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् ।
  • ब्रह्मानन्दरसप्रीतो विदेहान्मुक्त एव सः ॥ ५५॥
  • ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः ।
  • ब्रह्मानन्दजनैर्युक्तो विदेहान्मुक्त एव सः ॥ ५६॥
  • ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः ।
  • ब्रह्मामृतजपो यस्य विदेहान्मुक्त एव सः ॥ ५७॥
  • ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्वचित् ।
  • ब्रह्मामृतमयी विद्या विदेहान्मुक्त एव सः ॥ ५८॥
  • ब्रह्मानदमदोन्मत्तो ब्रह्मामृतरसंभरः ।
  • ब्रह्मात्मनि सदा स्वस्थो विदेहान्मुक्त एव सः ॥ ५९॥
  • देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।
  • मयोक्तं ते महायोगिन् विदेहः श्रवणाद्भवेत् ॥ ६०॥

स्कन्दः -

  • अनाथ नाथ ते पदं भजाम्युमासनाथ स-
  • न्निशीथनाथमौलिसंस्फुटल्ललाटसङ्गज-
  • स्फुलिङ्गदग्धमन्मथं प्रमाथनाथ पाहि माम् ॥ ६१॥
  • विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात्
  • मनःसरोरुहं क्षणं तथेक्षणेन मे सदा ।
  • प्रबन्धसंसृतिभ्रमद्भ्रमज्जनौघसन्ततौ
  • न वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥ ६२॥

  • ॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे देहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

@@

Complete text of the Ribhugita with options to [Change script] (right top) is available here in Gita collection https://sanskritdocuments.org/doc_giitaa/RGall.html