ऋभुगीता २७ ॥ आनन्द-रूपत्व निरूपण प्रकरणम् ॥

ऋभुः -

  • वक्ष्ये प्रकरणं सत्यं ब्रह्मानन्दमनोमयम् ।
  • कार्यकारणनिर्मुक्तं नित्यानन्दमयं त्विदम् ॥ १॥
  • अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् ।
  • ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥ २॥
  • विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः ।
  • वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥ ३॥
  • जडानन्दप्रकाशात्मा आत्मानन्दरसोऽस्म्यहम् ।
  • आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥ ४॥
  • कार्यानन्दविहीनोऽहं कार्यानन्दकलात्मकः ।
  • गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥ ५॥
  • गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहानहम् ।
  • ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥ ६॥
  • सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः ।
  • लोकानन्दो महानन्दो लोकातीतमहानयम् ॥ ७॥
  • भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः ।
  • क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥ ८॥
  • सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः ।
  • सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥ ९॥
  • वाक्यानन्दमहानन्दः शिवानन्दोऽहमद्वयः ।
  • शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥ १०॥
  • अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः ।
  • वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥ ११॥
  • कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः ।
  • सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥ १२॥
  • जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् ।
  • शुद्धानन्दस्वरूपात्मा बुद्ध्यानन्दो मनोमयः ॥ १३॥
  • शब्दानन्दो महानन्दश्चिदानन्दोऽहमद्वयः ।
  • आनन्दानन्दशून्यात्मा भेदानन्दविशून्यकः ॥ १४॥
  • द्वैतानन्दप्रभावात्मा चिदानन्दोऽहमद्वयः ।
  • एवमादिमहानन्द अहमेवेति भावय ॥ १५॥
  • शान्तानन्दोऽहमेवेति चिदानन्दप्रभास्वरः ।
  • एकानन्दपरानन्द एक एव चिदव्ययः ॥ १६॥
  • एक एव महानात्मा एकसंख्याविवर्जितः ।
  • एकतत्त्वमहानन्दस्तत्त्वभेदविवर्जितः ॥ १७॥
  • विजितानन्दहीनोऽहं निर्जितानन्दहीनकः ।
  • हीनानन्दप्रशान्तोऽहं शान्तोऽहमिति शान्तकः ॥ १८॥
  • ममतानन्दशान्तोऽहमहमादिप्रकाशकम् ।
  • सर्वदा देहशान्तोऽहं शान्तोऽहमिति वर्जितः ॥ १९॥
  • ब्रह्मैवाहं न संसारी इत्येवमिति शान्तकः ।
  • अन्तरादन्तरोऽहं वै अन्तरादन्तरान्तरः ॥ २०॥
  • एक एव महानन्द एक एवाहमक्षरः ।
  • एक एवाक्षरं ब्रह्म एक एवाक्षरोऽक्षरः ॥ २१॥
  • एक एव महानात्मा एक एव मनोहरः ।
  • एक एवाद्वयोऽहं वै एक एव न चापरः ॥ २२॥
  • एक एव न भूरादि एक एव न बुद्धयः ।
  • एक एव प्रशान्तोऽहं एक एव सुखात्मकः ॥ २३॥
  • एक एव न कामात्मा एक एव न कोपकम् ।
  • एक एव न लोभात्मा एक एव न मोहकः ॥ २४॥
  • एक एव मदो नाहं एक एव न मे रसः ।
  • एक एव न चित्तात्मा एक एव न चान्यकः ॥ २५॥
  • एक एव न सत्तात्मा एक एव जरामरः ।
  • एक एव हि पूर्णात्मा एक एव हि निश्चलः ॥ २६॥
  • एक एव महानन्द एक एवाहमेकवान् ।
  • देहोऽहमिति हीनोऽहं शान्तोऽहमिति शाश्वतः ॥ २७॥
  • शिवोऽहमिति शान्तोऽहं आत्मैवाहमिति क्रमः ।
  • जीवोऽहमिति शान्तोऽहं नित्यशुद्धहृदन्तरः ॥ २८॥
  • एवं भावय निःशङ्कं सद्यो मुक्तस्त्वमद्वये ।
  • एवमादि सुशब्दं वा नित्यं पठतु निश्चलः ॥ २९॥
  • कालस्वभावो नियतैश्च भूतैः
  • जगद्विजायेत इति श्रुतीरितम् ।
  • तद्वै मृषा स्याज्जगतो जडत्वतः
  • इच्छाभवं चैतदथेस्वरस्य ॥ ३०॥

  • ॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे आनन्दरूपत्वनिरूपणप्रकरणं नाम सप्तविंशोऽध्यायः ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com