.. भीष्म स्तुति ..
(श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
प्रथम स्कन्धे युधिष्ठिरराज्यप्रलम्भः नाम नवमोऽध्यायः ..)
श्री भीष्म उवाच -
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि .
स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः .. ३२..
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने .
वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या .. ३३..
युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलंकृतास्ये .
मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा .. ३४..
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य .
स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थ सखे रतिर्ममास्तु .. ३५..
व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या.
कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु .. ३६..
स्वनिगममपहाय मत्प्रतिज्ञा मृतमधिकर्तुमवप्लुतो रथस्थः .
धृतरथचरणोऽभ्ययाच्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः .. ३७..
शितविशिखहतोविशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे .
प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः .. ३८..
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये.
भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हताः गताः सरूपम् .. ३९..
ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः .
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः .. ४०..
मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् .
अर्हणमुपपेद ईक्षणीयो मम दृशि गोचर एष आविरात्मा .. ४१..
तमिममहमजं शरीरभाजां हृदिहृदि
धिष्टितमात्मकल्पितानाम् .
प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः .. ४२..
श्री सूत उवाच -
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः .
आत्मन्यात्मानमावेश्य सोऽन्तः श्वासमुपारमत् .. ४३..
.. इति..
Encoded by Vijayaraghavan Bashyam vayasya@yahoo.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com