.. बिल्वाष्तक ..
.. बिल्वाष्टकम् ..
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् .
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् .. १..
त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः .
शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् .. २..
अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे .
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् .. ३..
शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् .
सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् .. ४..
दन्तिकोटि सहस्राणि वाजपेय शतानि च .
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् .. ५..
लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् .
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् .. ६..
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् .
अघोरपापसंहारं एकबिल्वं शिवार्पणम् .. ७..
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् .
प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ..
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे .
अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् .. ८..
बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ .
सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ..
.. इति बिल्वाष्टकम् ..
Last updated on October 20 1998 for HTML version ; Send corrections to sg@tulblr.unisys.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com