.. महोपनिषत् ..
यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम् .
परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः ..
ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिरकरणम-
स्त्वनिराकारणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु..
ॐ शान्तिः शान्तिः शान्तिः ..
अथातो महोपनिषदं व्याख्यास्यमस्तदाहुरेको ह वै नारायण
आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न
नक्षत्राणि न सूर्यो न चन्द्रमाः . स एकाकी न रमते . तस्य
ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते . तस्मिन्पुरुषाश्चतुर्दश
जायन्ते . एका कन्या . दशेन्द्रियाणि मन एकादशं तेजः .
द्वादशोऽहङ्कारः . त्रयोदशकः प्राणः . चतुर्दश आत्मा .
पञ्चदशी बुद्धिः . भूतानि पञ्च तन्मात्राणि . पञ्च महाभूतानि .
स एकः पञ्चविंशतिः पुरुषः . तत्पुरुषं पुरुषो निवेश्य नास्य
प्रधानसंवत्सरा जायन्ते . संवत्सरादधिजायन्ते . अथ पुनरेव
नारायणः सोऽन्यत्कामो मनसाध्यायत . तस्य ध्यानान्तःस्थस्य
ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते . बिभ्रच्छ्रियं यशः
सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय
ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि छन्दांसि तान्यङ्गे
समाश्रितानि . तस्मादीशानो महादेवो महादेवः . अथ पुनरेव
नारायणः सोऽन्यत्कामो मनसाध्यायत . तस्य ध्यानान्तःस्थस्य
ललाटात्स्वेदोऽपपत् . ता इमाः प्रतता आपः . ततस्तेजो हिरण्मयमन्डलम् .
तत्र ब्रह्मा चतुर्मुखोऽजायत . सोऽध्याय्त् . पूर्वाभिमुखो भूत्वा
भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदोऽग्निर्देवता . पश्चिमाभिमुखो
भूत्वा भुवरिति व्याहृतिस्त्रैष्टुभं छन्दो यजुर्वेदो वायुर्देवता .
उत्तराभिमुखो भूत्वा स्वरिति व्याहृतिर्जाग्रतं छन्दः सामवेदः सूर्यो
देवता . दक्षिणाभिमुखो भूत्वा महरितिव्याहृतिरानुष्टभ
छन्दोऽथर्ववेदाः सोमो देवता .
सहस्रशीर्षं देवं सहस्राक्षं विश्वसम्भुवम् .
विश्वतः परमं नित्यं विश्वं नारायणं हरिम् .
विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति .
पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् .
पद्मकोशप्रतीकाशं लम्बत्याकोशसंनिभम् .
हृदयं चाप्यधोमुखं सन्तत्यै सीत्कराभीश्च .
तस्य मध्ये महानर्चिर्विश्वर्चिर्विश्वतोमुखम् .
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता .
तस्याः शिखाया मध्ये परमात्मा व्यवस्थिता .
स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत् ..
इति प्रथमोध्यायः .. १..
शुको नाम महातेजाः स्वरूपानन्दतत्परः .
जातमात्रेण मुनिराड् यत्सत्यं तदवाप्तवान् .. १..
तेनासौ स्वविवेकेन स्वयमेव महामनाः .
प्रविचार्य चिरं साधु स्वात्मनिश्चयमाप्तवान् .. २..
अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः .
चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः .. ३..
चिदणोः परमस्यान्तः कोटिब्रह्माण्डरेणवः .
उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात् .. ४..
आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः .
न किंचिद्यदनिर्देश्यं वस्तु सत्तेति किंचन .. ५..
चेतनोऽसौ प्रकाशत्वाद्वेद्याभावाच्छिलोपमः .
स्वात्मनि व्योमनि स्वस्थे जगदुन्मेषचित्रकृत् .. ६..
तद्भामात्रमिदं विश्वमिति न स्यात्ततः पृथक् .
जगद्भेदोऽपि तद्भानमिति भेदोऽपि तन्मयः .. ७..
सर्वगः सर्वसम्बन्धो गत्यभावान्न गच्छति .
नास्त्यसावश्रयाभावात्सद्रूपत्वादथास्ति च .. ८..
विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम् .
सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः .. ९..
जाग्रतः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः .
यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः .. १०..
निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः .
अहं सच्चित्परानन्दब्रह्मैवास्मि न चेतरः .. ११..
स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवाञ्छुकः .
स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः .. १२..
इदं वस्त्विति विश्वासं नासावात्मन्युपाययौ .
केवलं विररामास्य चेतो विषयचापलम् .
भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः .. १३..
एकदा सोऽमलप्रज्ञो मेरावेकान्तसंस्थितः .
पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम् .. १४..
संसाराडम्बरमिदं कथमभ्युत्थितं मुने .
कथं च प्रशमं याति किं यत्कस्य कदा वद .. १५..
एवं पृष्टेन मुनिना व्यासेनाखिलमात्मजे .
यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना .. १६..
अज्ञासिषं पूर्वमेवमहमित्यथ तत्पितुः .
स शुकः स्वकया बुद्ध्या न वाक्यं बहु मन्यते .. १७..
व्यासोऽपि भगवान्बुद्ध्वा पुत्राभिप्रायमीदृशम् .
प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः .. १८..
जनको नाम भूपालो विद्यते मिथिलापुरे .
यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि .. १९..
पित्रेत्युक्तः शुकः प्रायात्सुमेरोर्वसुधातलम् .
विदेहनगरीं प्राप जनकेनाभिपालिताम् .. २०..
आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने .
द्वारि व्याससुतो राजञ्छुकोऽत्र स्थितवानिति .. २१..
जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया .
उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ .. २२..
ततः प्रवेशयामास जनकः शुकमङ्गणे .
तत्राहानि स सप्तैव तथैवावसदुन्मनाः .. २३..
ततः प्रवेशयामास जनकोऽन्तःपुराजिरे .
राजा न दृश्यते तावदिति सप्तदिनानि तम् .. २४..
तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः .
जनको लालयामास शुकं शशिनिभाननम् .. २५..
ते भोगास्तानि भोज्यानि व्यासपुत्रस्य तन्मनः .
नाजह्वुर्मन्दपवनो बद्धपीठमिवाचलम् .. २६..
केवलं सुसमः स्वच्छो मौनी मुदितमानसः .
संपूर्ण इव शीतांशुरतिष्ठदमलः शुकः .. २७..
परिज्ञातस्वभावं तं शुकं स जनको नृपः .
आनीय मुदितात्मानमवलोक्य ननाम ह .. २८..
निःशेषितजगत्कार्यः प्राप्ताखिलमनोरथः .
किमीप्सितं तवेत्याह कृतस्वागत आह तम् .. २९..
संसाराडम्बरमिदं कथमभ्युत्थितं गुरो .
कथं प्रशममायाति यथावत्कथयाशु मे ..३०..
यथावदखिलं प्रोक्तं जनकेन महात्मना .
तदेव तत्पुरा प्रोक्तं तस्य पित्रा महाधिया .. ३१..
स्वयमेव मया पूर्वमभिज्ञातं विशेषतः .
एतदेव हि पृष्टेन पित्रा मे समुदाहृतम् .. ३२..
भवताप्येष एवार्थः कथितो वाग्विदां वर .
एष एव हि वाक्यार्थः शास्त्रेषु परिदृश्यते .. ३३..
मनोविकल्पसंजातं तद्विकल्पपरिक्षयात् .
क्षीयते दग्धसंसारो निःसार इति निश्चितः .. ३४..
तत्किमेतन्महाभाग सत्यं ब्रूहि ममाचलम् .
त्वत्तो विश्रममाप्नोमि चेतसा भ्रमता जगत् .. ३५..
श्रुणु तावदिदानीं त्वं कथ्यमानमिदं मया .
श्रीशुकं ज्ञानविस्तारं बुद्धिसारान्तरान्तरम् .. ३६..
यद्विज्ञानात्पुमान्सद्यो जीवन्मुक्तत्वमाप्नुयात् .. ३७..
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् .
संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः .. ३८..
अशेषेण परित्यागो वासनायां य उत्तमः .
मोक्ष इत्युच्यते सद्भिः स एव विमलक्रमः .. ३९..
ये शुद्धवासना भूयो न जन्मानर्थभागिनः .
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः .. ४०..
पदार्थभावनादार्ढ्यं बन्ध इत्यभिधीयते .
वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते .. ४१..
तपः प्रभृतिना यस्मै हेतुनैव विना पुनः .
भोगा इह न रोचन्ते स जीवन्मुक्त उच्यते .. ४२..
आपतत्सु यथाकालं सुखदुःखेष्वनारतः .
न हृष्यति ग्लायति यः स जीवन्मुक्त उच्यते .. ४३..
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः .
न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते .. ४४..
अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः .
तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते .. ४५..
ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु .
सुषुप्तिवद्यश्चरति स जीवन्मुक्त उच्यते .. ४६..
अध्यात्मरतिरासीनः पूर्णः पावनमानसः .
प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति .
यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते .. ४७..
संवेद्येन हृदाकाशे मनागपि न लिप्यते .
यस्यासावजडा संवित्स जीवन्मुक्त उच्यते .. ४८..
रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले .
यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्यते .. ४९..
मौनवान्निरहंभावो निर्मानो मुक्तमत्सरः .
यः करोति गतोद्वेगः स जीवन्मुक्त उच्यते .. ५०..
सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः .
निरिच्छो वर्तते कार्ये स जीवन्मुक्त उच्यते .. ५१..
येन धर्ममधर्मं च मनोमननमीहितम् .
सर्वमन्तः परित्यक्तं स जीवन्मुक्त उच्यते .. ५२..
यावती दृश्यकलना सकलेयं विलोक्यते .
सा येन सुष्ठु संत्यक्ता स जीवन्मुक्त उच्यते .. ५३..
कट्वम्ललवणं तिक्तममृष्टं मृष्टमेव च .
सममेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते .. ५४..
जरामरणमापच्च राज्यं दारिद्र्यमेव च .
रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते .. ५५..
धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी .
धिया येन सुसंत्यक्तं स जीवन्मुक्त उच्यते .. ५६..
उद्वेगानन्दरहितः समया स्वच्छया धिया .
न शोचते न चोदेति स जीवन्मुक्त उच्यते .. ५७..
सर्वेच्छाः सकलाः शङ्काः सर्वेहाः सर्वनिश्चयाः .
धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते .. ५८..
जन्मस्थितिविनाशेषु सोदयास्तमयेषु च .
सममेव मनो यस्य स जीवन्मुक्त उच्यते .. ५९..
न किंचन द्वेष्टि तथा न किंचिदपि काङ्क्षति .
भुङ्क्ते यः प्रकृतान्भोगान्स जीवन्मुक्त उच्यते .. ६०..
शान्तसंसारकलनः कलावानपि निष्कलः .
यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते .. ६१..
यः समस्तार्थजालेषु व्यवहार्यपि निःस्पृहः .
परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते .. ६२..
जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते .
विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव .. ६३..
विदेहमुक्तो नोदेति नास्तमेति न शाम्यति .
न सन्नासन्न दूरस्थो न चाहं न च नेतरः .. ६४..
ततः स्तिमितगंभीरं न तेजो न तमस्ततम् .
अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते .. ६५..
न शून्यं नापि चाकारो न दृश्यं नापि दर्शनम् .
न च भूतपदार्थौघसदनन्ततया स्थितम् .. ६६..
किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृतिः .
न सन्नासन्न सदसन्न भावो भावनं न च .. ६७..
चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् .
अनादिमध्यपर्यन्तं यदनादि निरामयम् .. ६८..
द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्मृतम् .
नातः परतरं किंचिन्निश्चयोऽस्त्यपरो मुने .. ६९..
स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् .
स्वसंकल्पवशाद्बद्धो निःसंकल्पाद्विमुच्यते .. ७०..
तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य महात्मनः .
भोगेभ्यो ह्यरतिर्जाता दृश्याद्वा सकलादिह .. ७१..
प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा .
स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज .. ७२..
अतिबाह्यं तथा बाह्यमन्तराभ्यन्तरं धियः .
शुक पश्यन्न पश्येस्त्वं साक्षी संपूर्णकेवलः .. ७३..
विशश्राम शुकस्तूष्णीं स्वस्थे परमवस्तुनि .
वीतशोकभयायासो निरीहश्छिन्नसंशयः .. ७४..
जगाम शिखरं मेरोः समाध्यर्थमखण्डितम् .. ७५..
तत्र वर्षसहस्राणि निर्विकल्पसमाधिना .
देशे स्थित्वा शशामासावात्मन्यस्नेहदीपवत् .. ७६..
व्यपगतकलनाकलङ्कशुद्धः
स्वयममलात्मनि पावने पदेऽसौ .
सलिलकण इवांबुधौ महात्मा
विगलितवासनमेकतां जगाम .. ७७..
इति महोपनिषत् . इति द्वितीयोऽध्यायः .. २..
निदाघो नाम मुनिराट् प्राप्तविद्यश्च बालकः .
विहृतस्तीर्थयात्रार्थं पित्रानुज्ञातवान्स्वयम् .. १..
सार्धत्रिकोटितीर्थेषु स्नात्वा गृहमुपागतः .
स्वोदन्तं कथयामास ऋभुं नत्वा महायशाः .. २..
सार्धत्रिकोटितीर्थेषु स्नानपुण्यप्रभावतः .
प्रादुर्भूतोमनसि मे विचारः सोऽयमीदृशः .. ३..
जायते म्रियते लोको म्रियते जननाय च .
अस्थिरः सर्व एवेमे सचराचरचेष्टिताः .
सर्वापदां पदं पापा भावा विभवभूमयः .. ४..
अयःशलाकासदृशाः परस्परमसङ्गिनः .
शुष्यन्ते केवला भावा मनःकल्पनयानया .. ५..
भावेष्वरतिरायाता पथिकस्य मरुष्विव .
शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चेतसा .. ६..
चिन्तानिचयचक्राणि नानन्दाय धनानि मे .
संप्रसूतकलत्राणि गृहाण्युग्रापदामिव .. ७..
इयमस्मि स्थितोदारा संसारे परिपेलवा .
श्रीर्मुने परिमोहाय सापि नूनं न शर्मदा .. ८..
आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् .
उन्मत्त इव संत्यज्य याम्यकाण्डे शरीरकम् .. ९..
विषयाशी विषासङ्गपरिजर्जरचेतसाम् .
अप्रौढात्मविवेकानामायुरायासकारणम् .. १०..
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् .
ग्रन्थनं च तरङ्गाणामास्था नायुषि युज्यते .. ११..
प्राप्यं संप्राप्यते येन भूयो येन न शोच्यते .
पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते .. १२..
तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः .
स जीवति मनो यस्य मननेनोपजीवति .. १३..
जातास्त एव जगति जन्तवः साधुजीविताः .
ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः .. १४..
भारो विवेकिनः शास्त्रं भारो ज्ञानं च रागिणः .
अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः .. १५..
अहंकारवशादापदहंकाराद्दुराधयः .
अहंकारवशादीहा नाहंकारात्परो रिपुः .. १६..
अहंकारवशाद्यद्यन्मया भुक्तं चराचरम् .
तत्तत्सर्वमवस्त्वेव वस्त्वहंकाररिक्तता .. १७..
इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति .
मनो दूरतरं याति ग्रामे कौलेयको यथा .. १८..
क्रूरेण जडतां याता तृष्णाभार्यानुगामिना .
वशः कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि चेतसा .. १९..
अप्यब्धिपानान्महतः सुमेरून्मूलनादपि .
अपि वह्न्यशनाद्ब्रह्मन्विषमश्चित्तनिग्रहः .. २०..
चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् .
तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः .. २१..
यां यामहं मुनिश्रेष्ठ संश्रयामि गुणश्रियम् .
तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका .. २२..
पदं करोत्यलङ्घ्येऽपि तृप्ता विफलमीहते .
चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी .. २३..
क्षणमायाति पातालं क्षणं याति नभस्थलम् .
क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी .. २४..
सर्वसंसारदुःखानां तृष्णैका दीर्घदुःखदा .
अन्तःपुरस्थमपि या योजयत्यतिसंकटे .. २५..
तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि स द्विज .
स्तोकेनानन्दमायाति स्तोकेनायाति खेदताम् .. २६..
नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः .. २७..
कलेवरमहंकारगृहस्थस्य महागृहम् .
लुठत्वभ्येतु वा स्थैर्यं किमनेन गुरो मम .. २८..
पङ्क्तिबद्धेन्द्रियपशुं वल्गत्तृष्णागृहाङ्गणम् .
चित्तभृत्यजनाकीर्णं नेष्टं देहगृहं मम .. २९..
जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् .
दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम .. ३०..
रक्तमांसमयस्यास्य सबाह्याभ्यन्तरे मुने .
नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता .. ३१..
तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च .
स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे .. ३२..
शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा .
जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् .. ३३..
स्वचित्तबिलसंस्थेन नानाविभ्रमकारिणा .
बलात्कामपिशाचेन विवशः परिभूयते .. ३४..
दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा .
हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् .. ३५..
दैन्यदोषमयी दीर्घा वर्धते वार्धके स्पृहा .
सर्वापदामेकसखी हृदि दाहप्रदायिनी .. ३६..
क्वचिद्वा विद्यते यैषा संसारे सुखभावना .
आयुः स्तम्बमिवासाद्य कालस्तामपि कृन्तति .. ३७..
तृणं पांसुं महेन्द्रं च सुवर्णं मेरुसर्षपम् .
आत्मंभरितया सर्वमात्मसात्कर्तुमुद्यतः .
कालोऽयं सर्वसंहारी तेनाक्रान्तं जगत्त्रयम् .. ३८..
मांसपाञ्चालिकायास्तु यन्त्रलोलेअङ्गपञ्जरे .
स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियः किमिव शोभनम् .. ३९..
त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने .
समालोकय रम्यं चेत्किं मुधा परिमुह्यसि .. ४०..
मेरुशृङ्गतटोल्लासिगङ्गाचलरयोपमा .
दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लासशालिता .. ४१..
श्मशानेषु दिगन्तेषु स एव ललनास्तनः .
श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः .. ४२..
केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः .
दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् .. ४३..
ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः .
स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् .. ४४..
कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः .
नार्यो नरविहङ्गानामङ्गबन्धनवागुराः .. ४५..
जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् .
पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका .. ४६..
सर्वेषां दोषरत्नानां सुसमुद्गिकयानया .
दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया .. ४७..
यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः .
स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् .. ४८..
दिशोऽपि न हि दृश्यन्ते देशोऽप्यन्योपदेशकृत् .
शैला अपि विशीर्यन्ते शीर्यन्ते तारका अपि .. ४९..
शुष्यन्त्यपि समुद्राश्च ध्रुवोऽप्यध्रुवजीवनः .
सिद्धा अपि विनश्यन्ति जीर्यन्ते दानवादयः .. ५०..
परमेष्ठ्यपि निष्ठावान्हीयते हरिरप्यजः .
भावोऽप्यभावमायाति जीर्यन्ते वै दिगीश्वराः .. ५१..
ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः .
नाशमेवानुधावन्ति सलिलानीव वाडवम् .. ५२..
आपदः क्षणमायान्ति क्षणमायान्ति संपदः .
क्षणं जन्माथ मरणं सर्वं नश्वरमेव तत् .. ५३..
अशूरेण हताः शूरा एकेनापि शतं हतम् .
विषं विषयवैषम्यं न विषं विषमुच्यते .. ५४..
जन्मान्तरघ्ना विषया एकजन्महरं विषम् .
इति मे दोषदावाग्निदग्धे संप्रति चेतसि .. ५५..
स्फुरन्ति हि न भोगाशा मृगतृष्णासरःस्वपि .
अतो मां बोधयाशु त्वं तत्त्वज्ञानेन वै गुरो .. ५६..
नो चेन्मौनं समास्थाय निर्मानो गतमत्सरः .
भावयन्मनसा विष्णुं लिपिकर्मार्पितोपमः .. ५७..
इति महोपनिषत् . इति तृतीयोऽध्यायः .. ३..
निदाघ तव नास्तन्यज्ज्ञेयं ज्ञानवतां वर .
प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया .
चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने .. १..
मोक्षद्वारे द्वारपालश्चत्वारः परिकीर्तिताः .
शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः .. २..
एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत् .
एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं गताः .. ३..
शास्त्रैः सज्जनसंपर्कपूर्वकैश्च तपोदमैः .
आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् .. ४..
स्वानुभूतेश्च शास्त्रस्य गुरोश्चेवैकवाक्यता .
यस्याभ्यासेन तेनात्म सततं चावलोक्यते .. ५..
संकल्पाशानुसन्धानवर्जनं चेत्प्रतिक्षणम् .
करोषि तदचित्तत्वं प्राप्त एवासि पावनम् .. ६..
चेतसो यदकर्तृत्वं तत्समाधानमीरितम् .
तदेव केवलीभावं साशुभा निर्वृतिः परा .. ७..
चेतसा संपरित्यज्य सर्वभावात्मभावनाम् .
यथा तिष्ठसि तिष्ठ त्वं मूकान्धबधिरोपमः .. ८..
सर्वं प्रशान्तमजमेकमनादिमध्य-
माभास्वरं स्वदनमात्रमचैत्यचिह्नम् .
सर्वं प्रशान्तमिति शब्दमयी च दृष्टि-
र्बाधार्थमेव हि मुधैव तदोमितीदम् .. १०..
नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वापि जगत्क्रियाम् .
आत्मैकत्वं विदित्वा त्वं तिष्ठाक्षुब्धमहाब्धिवत् .. ११..
तत्त्वावबोध एवासौ वासनातृणपावकः .
प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः .. १२..
निरिच्छे संस्थिते रत्ने यथा लोकः प्रवर्तते .
सत्तामात्रे परे तत्त्वे तथैवायं जगद्गणः .. १३..
अतश्चात्मनि कर्तृत्वमकर्तृत्वं च वै मुने .
निरिच्छत्वादकर्तासौ कर्ता संनिधिमात्रतः .. १४..
ते द्वे ब्रह्मणि विन्देति कर्तृताकर्तृते मुने .
यत्रैवैष चमत्कारस्तमाश्रित्य स्थिरो भव .. १५..
तस्मान्नित्यमकर्ताहमिति भावनयेद्धया .
परमामृतनाम्नी सा समतैवावशिष्यते .. १६..
निदाघ शृणु सत्त्वस्था जाता भुवि महागुणाः .
ते नित्यमेवाभ्युदिता मुदिताः स्व इवेन्दवः .. १७..
नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा .
नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्त्मनि .. १८..
आकृत्यैव विराजन्ते मैत्र्यादिगुणवृत्तिभिः .
समाः समरसाः सौम्य सततं साधुवृत्तयः .. १९..
अब्धिवद्धतमर्याद भवति विशदाशयाः .
नियतिं न विमुञ्चन्ति महान्तो भास्करा इव .. २०..
कोऽहं कथमिदं चेति संसारमलमाततम् .
प्रविचार्यं प्रयत्नेन प्राज्ञेन सहसाधुना .. २१..
नाकर्मसु नियोक्तव्यं नानार्येण सहावसेत् .
द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया .. २२..
शरीरमस्थिमांसं च त्यक्त्वा रक्ताद्यशोभनम् .
भूतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत् .. २३..
उपादेयानुपतनं हेयैकान्तविसर्जनम् .
यदेतन्मनसो रूपं तद्बाह्यं विद्धि नेतरत् .. २४..
गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च चिद्घने .
ब्रह्मैवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः .. २५..
यत्र निशितासिशतपातनमुत्पलताडनवत्सोढव्यमग्निना
दाहो हिमसेचनमिवाङ्गारवर्तनं चन्दनचर्चेव
निरवधिनाराचविकिरपातो निदाघविनोदनधारा-
गृहशीकरवर्षणमिव स्वशिरच्छेदः सुखनिद्रेव
मूकीकरणमाननमुद्रेव बाधिर्यं महानुपचय इवेदं
नावहेलनया भवितव्यमेवं दृढवैराग्याद्बोधो भवति ..
गुरुवाक्यसमुद्भूतस्वानुभूत्यादिशुद्धया .
यस्याभ्यासेन तेनात्मा सततं चावलोक्यते .. २६..
विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् .
तथा विज्ञानविध्वस्तं जगन्नास्तीति भावय .. २७..
न धनान्य्पकुर्वन्ति न मित्राणि न बान्धवाः .
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः .
केवलं तन्मनोमात्रमयेनासाद्यते पदम् .. २८..
यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः .
शान्तचेतःसु तत्सर्वं तमोऽर्केष्विव नश्यति .. २९..
मातरीव परं यान्ति विषमाणि मृदूनि च .
विश्वासमिह भूतानि सर्वाणि शमशालिनि .. ३०..
न रसायनपानेन न लक्ष्म्यालिङ्गितेन च .
न तथा सुखमाप्नोति शमेनान्तर्यथा जनः .. ३१..
श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् .
न हृष्यति ग्लायति यः स शान्त इति कथ्यते .. ३२..
तुषारकरबिंबाच्छं मनो यस्य निराकुलम् .
मरणोत्सवयुद्धेषु स शान्त इति कथ्यते .. ३३..
तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च .
बलवत्सु गुणाढ्येषु शमवानेव राजते .. ३४..
सन्तोषामृतपानेन ये शान्तास्तृप्तिमागताः .
आत्मारामा महात्मानस्ते महापदमागताः .. ३५..
अप्राप्तं हि परित्यज्य संप्राप्ते समतां गतः .
अदृष्टखेदाखेदो यः सन्तुष्ट इति कथ्यते .. ३६..
नाभिनन्दत्यसंप्राप्तं प्राप्तं भुङ्क्ते यथेप्सितम् .
यः स सौम्यसमाचारः सन्तुष्ट इति कथ्यते .. ३७..
रमते धीर्यताप्राप्ते साध्वीवाऽन्तःपुराजिरे .
सा जीवन्मुक्ततोदेति स्वरूपानन्ददायिनी .. ३८..
यथाक्षणं यथाशास्त्रं यथादेशं यथासुखम् .
यथासंभवसत्सङ्गमिमं मोक्षपथक्रमम् .
तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि .. ३९..
तुर्यविश्रान्तियुक्तस्य निवृत्तस्य भवार्णवात् .
जीवतोऽजीवतश्चैव गृहस्थस्याथवा यतेः .. ४०..
नाकृतेन कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः .
निर्मन्दर इवाम्बोधिः स तिष्ठति यथास्थितः .. ४१..
सर्वात्मवेदनं शुद्धं यदोदेति तवात्मकम् .
भाति प्रसृतिदिक्कालबाह्यं चिद्रूपदेहकम् .. ४२..
एवमात्मा यथा यत्र समुल्लासमुपागतः .
तिष्ठत्याशु तथा तत्र तद्रूपश्च विराजते .. ४३..
यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् .
तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति .. ४४..
ऋतमात्मा परंब्रह्म सत्यमित्यादिका बुधैः .
कल्पिता व्यवहारार्थं यस्य संज्ञा महात्मनः .. ४५..
यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् .
न हेमकटकात्तद्वज्जगच्छब्दार्थता परा .. ४६..
तेनेयमिन्द्रजालश्रीर्जगति प्रवितन्यते .
द्रष्टुदृश्यस्य सत्तान्तर्बन्ध इत्यभिधीयते .. ४७..
द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते .
जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते .. ४८..
मनसैवेन्द्रजालश्रीर्जगति प्रवितन्यते .
यावदेतत्संभवति तावन्मोक्षो न विद्यते .. ४९..
ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा .
मनोमयमतो विश्वं यन्नाम परिदृश्यते .. ५०..
न बाह्ये नापि हृदये सद्रूपं विद्यते मनः .
यदर्थं प्रतिभानं तन्मन इत्यभिधीयते .. ५१..
संकल्पनं मनो विद्धि संकल्पस्तन्न विद्यते .
यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम् .. ५२..
संकल्पमनसी भिन्ने न कदाचन केनचित् .
संकल्पजाते गलिते स्वरूपमवशिष्यते .. ५३..
अहं त्वं जगतित्यादौ प्रशान्ते दृश्यसंभ्रमे .
स्यात्तादृशी केवलता दृश्ये सत्तामुपागते .. ५४..
महाप्रलयसंपत्तौ ह्यसत्तां समुपागते .
अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते .. ५५..
अस्त्यनस्तमितो भास्वानजो देवो निरामयः .
सर्वदा सर्वकृत्सर्वः परमात्मेत्युदाहृतः .. ५६..
यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते .
यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः .. ५७..
चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् .
द्वाभ्यां शून्यतरं विद्धि चिदाकाशं महामुने .. ५८..
देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् .
निमेषेण चिदाकाशं तद्विद्धि मुनिपुङ्गव .. ५९..
तस्मिन्निरस्तनिःशेषसंकल्पस्थितिमेषि चेत् .
सर्वात्मकं पदं शान्तं तदा प्राप्नोष्यसंशयः .. ६०..
उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी .
आनन्दस्यन्दिनी यैषा समाधिरभिधीयते .. ६१..
दृश्यासंभवबोधेन रागद्वेषादितानवे .
रतिर्बलोदिता यासौ समाधिरभिधीयते .. ६२..
दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं चिदात्मकम् .
तदेव केवलीभावं ततोऽन्यत्सकलं मृषा .. ६३..
मत्त ऐरावतो बद्धः सर्षपीकोणकोटरे .
मशकेन कृतं युद्धं सिंहौघैरेणुकोटरे .. ६४..
पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना .
निदाघ विद्धि तादृक्त्वं जगतेतद्भ्रमात्मकम् .. ६५..
चित्तमेव हि संसारो रोगादिक्लेशदूषितम् .
तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते .. ६६..
मनसा भाव्यमानो हि देहतां याति देहकः .
देहवासनया मुक्तो देहधर्मैर्न लिप्यते .. ६७..
कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् .
मनोविलाससंसार इति मे निश्चिता मतिः .. ६८..
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः .
नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् .. ६९..
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् .
विदित्वा स्वात्मनो रूपं न बिभेति कदाचन .. ७०..
परात्परं यन्महतो महान्तं
स्वरूपतेजोमयशाश्वतं शिवम् .
कविं पुराणं पुरुषं सनातनं
सर्वेश्वरं सर्वदेवैरुपास्यम् .. ७१..
अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् .
द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च .
ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते .. ७२..
जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् .
ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता .
जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः .. ७३..
त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः .
लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः .. ७४..
तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः .
कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् .. ७५..
अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् .
स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः .. ७६..
दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् .
दुर्लभा सहजावस्था सद्गुरोः करुणां विना .. ७७..
उत्पन्नशक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः .
योगिनः सहजावस्था स्वयमेवोपजायते .. ७८..
यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः .
विजानाति तदा तस्य भयं स्यान्नत्र संशयः .. ७९..
सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते .
अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्दह्वत् .. ८०..
प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् .
एवं ब्रह्मपरिज्ञानादेव मर्त्याऽमृतो भवेत् .. ८१..
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः .
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे .. ८२..
अनात्मतां परित्यज्य निर्विकारौ जगत्स्थितौ .
एकनिष्ठतयान्तस्थः संविन्मात्रपरो भव .. ८३..
मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् .
जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः .. ८४..
लक्ष्यालक्ष्यमतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना .
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः .. ८५..
अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् .
नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् .. ८६..
सर्वशक्तेर्महेशस्य विलासो हि मनो जगत् .
संयमासंयमाभ्यां च संसारं शान्तिमन्वगात् .. ८७..
मनोव्याधेश्चिकित्सार्थमुपायं कथयामि ते .
यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते .. ८८..
स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् .
यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् .. ८९..
स्वपौरुषेकसाध्येन स्वेप्सितत्यागरूपिणा .
मनःप्रशममात्रेण विना नास्ति शुभा गतिः .. ९०..
असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यदा .
सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा .. ९१..
भव भावनया मुक्तो मुक्तः परमया धिया .
धारयात्मानमव्यग्रो ग्रस्तचित्तं चितः पदम् .. ९२..
परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् .
ध्यानतो हृदयाकाशे चिति चिच्चक्रधारया .. ९३..
मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नारयः .. ९४..
अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः .
तदभावनमात्रेण दात्रेणेव विलीयते .. ९५..
छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते .
वातेन कल्पकेनैव तथान्तर्धूयते मनः .. ९६..
कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः .
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः .. ९७..
असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे .
असंकल्पातिसाम्राज्ये तिष्ठवष्टब्धतत्पदः .. ९८..
न हि चञ्चलताहीनं मनः क्वचन दृश्यते .
चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता .. ९९..
एषा हि चञ्चलास्पन्दशक्तिश्चित्तत्वसंस्थिता .
तां विद्धि मानसीं शक्तिं जगदाडंबरात्मिकाम् .. १००..
यत्तु चञ्चलताहीनं तन्मनोऽमृतमुच्यते .
तदेव च तपः शास्त्रसिद्धान्ते मोक्ष उच्यते .. १०१..
तस्य चञ्चलता यैषा त्वविद्या वासनात्मिका .
वासनापरनाम्नीं तां विचारेण विनाशय .. १०२..
पौरुषेण प्रयत्नेन यस्मिन्नैव पदे मनः .
योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ .. १०३..
अतः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा .
विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव .. १०४..
मन एव समर्थं हि मनसो दृढनिग्रहे .
अराजकः समर्थः स्याद्राज्ञो निग्रहकर्मणि .. १०५..
तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम् .
आवर्तैरूह्यमानानां दूरं स्वमन एव नौः .. १०६..
मनसैव मनश्छित्त्वा पाशं परमबन्धनम् .
भवादुत्तारयात्मानं नासावन्येन तार्यते .. १०७..
या योदेति मनोनाम्नी वासना वासितान्तरा .
तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् .. १०८..
भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् .
भावाभावौ ततस्त्यक्त्या निर्विकल्पः सुखी भव .. १०९..
एष एव मनोनाशस्त्वविद्यानाश एव च .
यत्तत्संवेद्यते किंचित्तत्रास्थापरिवर्जनम् .. ११०..
अनास्थैव हि निर्वाणं दुःखमास्थापरिग्रहः .. १११..
अविद्या विद्यमानैव नष्टप्रज्ञेषु दृश्यते .
नाम्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः .. ११२..
तावत्संसारभृगुषु स्वात्मना सह देहिनम् .
आन्दोलयति नीरन्ध्रं दुःखकण्टकशालिषु .. ११३..
अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी .
स्वयमात्मावलोकेच्छाअ मोहसंक्षयकारिणी .. ११४..
अस्याः परं प्रपश्यन्ताः स्वात्मनाशः प्रजायते .
दृष्टे सर्वगते बोधे स्वयं ह्येषा विलीयते .. ११५..
इच्छामात्रमविद्येयं तन्नाशो मोक्ष उच्यते .
स चासंकल्पमात्रेण सिद्धो भवति वै मुने .. ११६..
मनागपि मनोव्योम्नि वासनारजनी क्षये .
कालिका तनुतामेति चिदादित्याप्रकाशनात् .. ११७..
चैतान्युपातरहितं सामान्येन च सर्वगम् .
यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः .. ११८..
सर्वं च खल्विदं ब्रह्म नित्यचिद्घनमक्षतम् .
कल्पनान्या मनोनाम्नी विद्यते न हि काचन .. ११९..
न जायते न म्रियत्ते किंचिदत्र जगत्त्रये .
न च भावविकाराणां सत्ता क्वचन विद्यते .. १२०..
केवलं केवलाभासं सर्वसामान्यमक्षतम् .
चैत्यानुपातरहितं चिन्मात्रमिह विद्यते .. १२१..
तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे .
शान्ते शमसमाभोगे निर्विकारे चिदात्मनि .. १२२..
यैषा स्वभावाभिमतं स्वयं संकल्प्य धावति .
चिच्चैत्यं स्वयमम्लानं माननान्मन उच्यते .
अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति .. १२३..
नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः .
सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः .. १२४..
कृशोऽहं दुःखबद्धोऽहं हस्तपादादिमानहम् .
इति भावानुरूपेण व्यवहारेण बध्यते .. १२५..
नाहं दुःखी न मे देहो बन्धः कोऽस्यात्मनि स्थितः .
इति भावानुरूपेण व्यवहारेण मुच्यते .. १२६..
नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् .
इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते .. १२७..
कल्पितेयमविद्येयमनात्मन्यात्मभावनात् .
परं पौरुषमाश्रित्य यत्नात्परमया धिया .
भोगेच्छां दूरतस्त्यक्त्वा निर्विकल्पः सुखी भव .. १२८..
मम पुत्रो मम धनमहं सोऽयमिदं मम .
इतीयमिन्द्रजालेन वासनैव विवल्गति .. १२९..
मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् .
अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि .. १३०..
कस्तवायं जडो मूको देहो मांसमयोऽशुचिः .
यदर्थं सुखदुःखाभ्यामवशः परिभूयसे .. १३१..
अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् .
तिष्ठतस्तव कार्येषु मास्तु रागानुरञ्जना .. १३२..
अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः .
अविद्यमान या विद्या तया विश्वं खिलीकृतम् .. १३३..
इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रयम् ..
इत्युपनिषत् .. इति चतुर्थोऽध्यायः .. ४..
ऋभुः .. अथापरं प्रवक्ष्यामि शृणु तात यथायथम् .
अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि .. १..
पदान्तराण्यसंख्यानि प्रभवन्त्यन्यथैतयोः .
स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् .. २..
शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये .
रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः .. ३..
यः स्वरूपपरिभ्रंशश्चेत्वार्थे चिति मज्जनम् .
एतस्मादपरो मोहो न भूतो न भविष्यति .. ४..
अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः .
सा ध्वस्तमननाकारा स्वरूपस्थितिरुच्यते .. ५..
संशान्तसर्वसंकल्पा या शिलावदवस्थितिः .
जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा .. ६..
अहन्तांशे क्षते शान्ते भेदनिष्पन्दचित्तता .
अजडा या प्रचलति तत्स्वरूपमितीरितम् .. ७..
बीजं जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च .
जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तिकम् .. ८..
इति सप्तविधो मोहः पुनरेष परस्परम् .
श्लिष्टो भवत्यनेकाग्र्यं श्रुणु लक्षणमस्य तु .. ९..
प्रथमं चेतनं यत्स्यादनाख्यं निर्मलं चितः .
भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् .. १०..
बीजरूपस्थितं जाग्रद्बीजजाग्रत्तदुच्यते .
एषा ज्ञप्तेर्नवावस्था त्वजाग्रत्संस्थितिं श्रुणु .. ११..
नवप्रसूतस्य परादयं चाहमिदं मम .
इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् .. १२..
अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः .
पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुटम् .. १३..
अरूढमथवा रूढं सर्वथा तन्मयात्मकम् .
यज्जाग्रतो मनोराज्यं यज्जाग्रत्स्वप्न उच्यते .. १४..
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः .
अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् .. १५..
अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि .
परामर्षः प्रबुद्धस्य स स्वप्न इति कथ्यते .. १६..
चिरं संदर्शनाभावादप्रफुल्लं बृहद्वचः .
चिरकालानुवृत्तिस्तु स्वप्नो जाग्रदिवोदितः .. १७..
स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपि परिस्फुरत् .
षडवस्था परित्यागो जडा जीवस्य या स्थितिः .. १८..
भविष्यद्दुःखबोधाढ्या सौषुप्तिः सोच्यते गतिः .
जगत्तस्यामवस्थायामन्तस्तमसि लीयते .. १९..
सप्तावस्था इमाः प्रोक्ता मया ज्ञानस्य वै द्विज .
एकैका शतसंख्यात्र नानाविभवरूपिणी .. २०..
इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ .
नानया ज्ञातया भूयो मोहपङ्के निमज्जति .. २१..
वदन्ति बहुभेदेन वादिनो योगभूमिकाः .
मम त्वभिमता नूनमिमा एव शुभप्रदाः .. २२..
अवबोधं विदुर्ज्ञानं तदिदं साप्तभूमिकम् .
मुक्तिस्तु ज्ञेयमित्युक्ता भूमिकासप्तकात्परम् .. २३..
ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता .
विचारणा द्वितीया तु तृतीया तनुमानसी .. २४..
सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका .
पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता .. २५..
आसामन्तस्थिता मुक्तिर्यस्यां भूयो न शोचति .
एतासां भूमिकानां त्वमिदं निर्वचनं श्रुणु .. २६..
स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जनैः .
वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः .. २७..
शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् .
सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा .. २८..
विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता .
यत्र सा तनुतामेति प्रोच्यते तनुमानसी .. २९..
भूमिकात्रितयाभ्यासाच्चित्ते तु विरतेर्वशात् .
सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता .. ३०..
दशाचतुष्टयाभ्यासादसंसर्गकला तु या .
रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका .. ३१..
भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् .
आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् .. ३२..
परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् .
पदार्थभावना नाम षष्ठी भवति भूमिका .. ३३..
भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्बनात् .
यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः .. ३४..
एषा हि जीवन्मुक्तेषु तुर्यावस्थेति विद्यते .
विदेहमुक्तिविषयं तुर्यातीतमतः परम् .. ३५..
ये निदाघ महाभागाः साप्तमीं भूमिमाश्रिताः .
आत्मारामा महात्मानस्ते महत्पदमागताः .. ३६..
जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते .
प्रकृतेनाथ कार्येण किंचित्कुर्वन्ति वा न वा .. ३७..
पार्श्वस्थबोधिताः सन्तः पूर्वाचरक्रमागतम् .
आचारमाचरत्येव सुप्तबुद्धवदुत्थिताः .. ३८..
भूमिकासप्तकं चैतद्धीमतामेव गोचरम् .
प्राप्य ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये .. ३९..
सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः .
ज्ञप्तिर्हि ग्रन्थिविच्छेदस्तस्मिन्सति विमुक्तता .. ४०..
मृगतृष्णाम्बुबुद्ध्य्यादिशान्तिमात्रात्मकस्त्वसौ .
ये तु मोहार्णवात्तीर्णास्तैः प्राप्तं परमं पदम् .. ४१..
ते स्थिता भूमिकास्वासु स्वात्मलाभपरायणाः .
मनःप्रशमनोपायो योग इत्यभिधीयते .. ४२..
सप्तभूमिः स विज्ञेयः कथितास्ताश्च भूमिकाः .
एतासां भूमिकानां तु गमं ब्रह्माभिधं पदम् .. ४३..
त्वत्ताहन्तात्मता यत्र परता नास्ति काचन .
न क्वचिद्भावकलना न भावाभाव गोचरा .. ४४..
सर्वं शान्तं निरालम्बं व्योमस्थं शाश्वतं शिवम् .
अनामयमनाभासमनामकमकारणम् .. ४५..
न सन्नसन्न मध्यान्तं न सर्वं सर्वमेव च .
मनोवचोभिरग्राह्यं पूर्णात्पूर्णं सुखात्सुखम् .. ४६..
असंवेदनमाशान्तमात्मवेदनमाततम् .
सत्ता सर्वपदार्थानां नान्या संवेदनादृते .. ४७..
संबन्धे द्रष्टृदृश्यानां मध्ये दृष्टिर्हि यद्वपुः .
द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं पदम् .. ४८..
देशाद्देशं गते चित्ते मध्ये यच्चेतसो वओउः .
अजाड्यसंविन्मननं तन्मयो भव सर्वदा .. ४९..
अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् .
अचेतनं चाजडं च तन्मयो भव सर्वदा .. ५०..
जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् .
अमनस्कस्वरूपं यत्तन्मयो भव सर्वदा .
चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव .. ५१..
पूर्वं मनः समुदितं परमात्मतत्त्वा-
त्तेनाततं जगदिदं सविकल्पजालम् .
शून्येन शून्यमपि विप्र यथाम्बरेण
नीलत्वमुल्लसति चारुतराभिधानम् .. ५२..
संकल्पसंक्षयद्गलिते तु चित्ते
संसारमोहमिहिका गलिता भवन्ति .
स्वच्छं विभाति शरदीव खमागतायां
चिन्मात्रमेकमजमाद्यमनन्तमन्तः .. ५३..
अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् .
अद्रष्टृकं स्वानुभवमनिद्रस्वप्नदर्शनम् .. ५४..
साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि .
निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा .. ५५..
एकं ब्रह्म चिदाकाशं सर्वात्मकमखण्डितम् .
इति भावय यत्नेन चेतश्चाञ्चल्यशान्तये .. ५६..
रेखोपरेखावलिता यथैका पीवरी शिला .
तथा त्रैलोक्यवलितं ब्रह्मैकमिह दृश्यताम् .. ५७..
द्वितीयकारणाभावादनुत्पन्नमिदं जगत् .
ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमद्भुतम् .. ५८..
विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्मात्रान्नास्ति किंचन .
पश्य विश्रान्तसन्देहं विगताशेषकौतुकम् .. ५९..
निरस्तकल्पनाजालमचित्तत्वं परं पदम् .
त एव भूमतां प्राप्ताः संशान्ताशेषकिल्बिषाः .. ६०..
महाधियः शान्तधियो ये याता विमनस्कताम् .
जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः .. ६१..
मननं त्यजतो नित्यं किंचित्परिणतं मनः .
दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुषः .. ६२..
द्रष्टारं पश्यतो नित्यमद्रष्टारमपश्यतः .
विज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः .. ६३..
सुप्तस्य धनसंमोहमये संसारवर्त्मनि .
अत्यन्तपक्ववैराग्यादरसेषु रसेष्वपि .. ६४..
संसारवासनाजाले खगजाल इवाधुना .
त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा .. ६५..
कातकं फलमासाद्य यथा वारि प्रसीदति .
तथा विज्ञानवशतः स्वभावः संप्रसीदति .. ६६..
नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् .
विनिर्याति मनो मोहाद्विहङ्गः पञ्जरादिव .. ६७..
शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् .
परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते .. ६८..
नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम् .
इत्थं सदस्तोर्मध्याद्यः पश्यति स पश्यति .. ६९..
अयत्नोपतेष्वक्षिदृग्दृश्येषु यथा मनः .
नीरागमेव पतति तद्वत्कार्येषु धीरधीः .. ७०..
परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये .
विज्ञाय सेवितश्चोरो मैत्रीमेति न चोरताम् .. ७१..
अशङ्कितापि संप्राप्ता ग्रामयात्रा यथाध्वगैः .
प्रेक्ष्यते तद्वदेव ज्ञैर्भोगश्रीरवलोक्यते .. ७२..
मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपि यः .
तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते .. ७३..
बद्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति .
परैरबद्धो नाक्रान्तो न राष्ट्रं बहु मन्यते .. ७४..
हस्तं हतेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च .
अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः .. ७५..
मनसो विजयान्नान्या गतिरस्ति भवार्णवे .
महानरकसाम्राज्ये मत्तदुष्कृतवारणाः .. ७६..
आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः .
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः .. ७७..
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः .
तावन्निशीव वेताला वसन्ति हृदि वासनाः .
एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः .. ७८..
भृत्योऽभिमतकर्तृत्वान्मन्त्री सर्वार्थकारणात् .
सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः .. ७९..
लालनात्स्निग्धललना पालानात्पालकः पिता .
सुहृदुत्तमविन्यासान्मनो मन्ये मनीषिणः .. ८०..
स्वालोकतः शास्त्रदृशा स्वबुद्ध्या स्वानुभावतः .
प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता .. ८१..
सुहृष्टः सुदृढः स्वच्छः सुक्रान्तः सुप्रबोधितः .
स्वगुणेनोर्जितो भाति हृदि हृद्यो मनोमणिः .. ८२..
एनं मनोमणिं ब्रह्मन्बहुपङ्ककलङ्कितम् .
विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव .. ८३..
विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च .
इन्द्रियारीनलं छित्त्वा तीर्णो भव भवार्णवात् .. ८४..
आस्थामात्रमनन्तानां दुःखानामाकरं विदुः .
अनास्थामात्रमभितः सुखानामालयं विदुः .. ८५..
वासनातन्तुबद्धोऽयं लोको विपरिवर्तते .
सा प्रसिद्धातिदुःखाय सुखायोच्छेदमागता .. ८६..
धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि .
तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा .. ८७..
परमं पौरुषं यत्नमास्थादाय सृद्यमम् .
यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् .. ८८..
अहं सर्वमिदं विश्वं परमात्माहमच्युतः .
नान्यदस्तीति संवित्त्या परमा सा ह्यहङ्कृतिः .. ८९..
सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रादप्यहं तनुः .
इति या संविदो ब्रह्मन्द्वितीयाहङ्कृतिः शुभा .. ९०..
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते .. ९१..
पाणिपादादिमात्रोऽयमहमित्येष निश्चयः .
अहंकारस्तृतीयोऽसौ लैकिकस्तुच्छ एव सः .. ९२..
जीव एव दुरात्मासौ कन्दः संसारदुस्तरोः .
अनेनाभिहतो जन्तुरधोऽधः परिधावति .. ९३..
अनया दुरहंकृत्या भावात्संत्यक्तया चिरम् .
शिष्टाहंकारवाञ्जन्तुः शमवान्याति मुक्तताम् .. ९४..
प्रथमौ द्वावहंकारावङ्गीकृत्य त्वलौकिकौ .
तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी .. ९५..
अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः .
स तिष्ठति तथात्युच्चैः परमेवाधिरोहति .. ९६..
भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते .
मनसोऽभ्युदयो नाशो मनोनाशो महोदयः .. ९७..
ज्ञमनो नाशमभ्येति मनोऽज्ञस्य हि शृङ्खला .
नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् .
न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः .. ९८..
यथा सौक्ष्म्याच्चिदाभास्य आकाशो नोपलक्ष्यते .
तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते .. ९९..
सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता .
सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा .. १००..
आकाशशतभागाण्छा ज्ञेषु निष्कलरूपिणी .
सकलामलसंसारस्वरूपैकात्मदर्शिनी .. १०१..
नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति .
न च याति न चायाति न च नेह न चेह चित् .. १०२..
सैषा चियमलाकारा निर्विकल्पा निरास्पदा .. १०३..
आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् .
पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् .. १०४..
अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् .
महानरकजालेषु स तेन विनियोजितः .. १०५..
प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः .
नास्त्यविद्यामलमिति प्राज्ञस्तूपदिशेद्गुरुः .. १०६..
सति दीप इवालोकः सत्यर्क इव वासरः .
सति पुष्प इवामोदश्चिति सत्यं जगत्तथा .. १०७..
प्रतिभासत एवेदं न जगत्परमार्थतः .
ज्ञानदृष्टौ प्रसन्नायां प्रबोधविततोदये .. १०८..
यथावज्ज्ञास्यसि स्वस्थो मद्वाग्वृष्टिबलाबलम् .
अविद्ययैवोत्तमया स्वार्थनाशोद्यमार्थया .. १०९..
विद्या संप्राप्यते ब्रह्मन्सर्वदोषापहारिणी .
शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलम् .. ११०..
शमं विषं विषेणैति रिपुणा हन्यते रिपुः .
ईदृशी भूतमायेयं या स्वनाशेन हर्षदा .. १११..
न लक्ष्यते स्वभावोऽस्या वीक्ष्यमाणैव नश्यति .
नास्त्येषा परमार्थेनेत्येवं भावनयेद्धया .. ११२..
सर्वं ब्रह्मेति यस्यान्तर्भावना सा हि मुक्तिदा .
भेददृष्टिरविद्येयं सर्वथा तां विसर्जयेत् .. ११३..
मुने नासाद्यते तद्धि पदमक्षयमुच्यते .
कुतो जातेयमिति ते द्विज मास्तु विचारणा .. ११४..
इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा .
अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि तत्पदम् .. ११५..
यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् .
तदस्या रोगशालाया यत्नं कुरु चिकित्सने .. ११६..
यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति .
स्वात्मनि स्वपरिस्पन्दैः स्फुरत्यच्छैश्चिदर्णवः .. ११७..
एकात्मकमखण्डं तदित्यन्तर्भाव्यतां दृढम् .
किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्मयार्णवे.. ११८..
तन्मयैव स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे .
आत्मन्येवात्मना व्योम्नि यथा सरसि मारुतः .. ११९..
तथैवात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् .
क्षणं स्फुरति सा देवी सर्वशक्तितया तथा .. १२०..
देशकालक्रियाशक्तिर्न यस्याः संप्रकर्षणे .
स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता .. १२१..
रूपं परिमितेनासौ भावयत्यविभाविता .
यदैवं भावितं रूपं तया परमकान्तया .. १२२..
तदैवैनामनुगता नामसंख्यादिका दृशः .
विकल्पकलिताकारं देशकालक्रियास्पदम् .. १२३..
चितो रूपमिदं ब्रह्मन्क्षेत्रज्ञ इति कथ्यते .
वासनाः कल्पयन्सोऽपि यात्यहंकारतां पुनः .. १२४..
अहङ्कारो विनिर्णेता कलङ्की बुद्धिरुच्यते .
बुद्धिः संकल्पिताकारा प्रयाति मननास्पदम् .. १२५..
मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः .
पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः .. १२६..
एवं जीवो हि संकल्पवासनारज्जुवेष्टितः .
दुःखजालपरीतात्मा क्रमादायाति नीचताम् .. १२७..
इति शक्तिमयं चेतो घनाहंकारतां गतम् .
कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम् .. १२८..
स्वयं कल्पित तन्मात्राजालभ्यन्तरवर्ति च .
परां विवशतामेति शृङ्खलाबद्धसिंहवत् .. १२९..
क्वचिन्मनः क्वचिद्बुद्धिः क्वचिज्ज्ञानं क्वचित्क्रिया .
क्वचिदेतदहंकारः क्वचिच्चित्तमिति स्मृतम् .. १३०..
क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् .
क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्मृतम् .. १३१..
क्वचिद्बन्ध इति ख्यातं क्वचित्पुर्यष्टकं स्मृतम् .
प्रोक्तं क्वचिदविद्येति क्वचिदिच्छेति संमतम् .. १३२..
इअमं संसारमखिलमाशापाशविधायकम् .
दधदन्तःफलैर्हीनं वटधाना वटं यथा .. १३३..
चिन्तानलशिखादग्धं कोपाजगरचर्वितम् .
कामाब्धिकल्लोलरतं विस्मृतात्मपितामहम् .. १३४..
समुद्धर मनो ब्रह्मन्मातङ्गमिव कर्दमात् .
एवं जीवाश्रिता भावा भवभावनयाहिताः .. १३५..
ब्रह्मणा कल्पिताकारा लक्षशोऽप्यथ कोटिशः .
संख्यातीताः पुरा जाता जायन्तेऽद्यापि चाभितः .. १३६..
उत्पत्स्यन्तेऽपि चैवान्ये कणौघा इव निर्झरात् .
केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः .. १३७..
केचिच्चासंख्यजन्मानः केचिद्द्वित्रिभवान्तराः .
केचित्किन्नरगन्धर्वविद्याधरमहोरगाः .. १३८..
केचिदर्केन्दुवरुणास्त्र्यक्षाधोक्षजपद्मजाः .
केचिद्ब्रह्मणभूपालवैश्यशूद्रगणाः स्थिताः .. १३९..
केचित्तृणौषधीवृक्षफलमूलपतङ्गकाः .
केचित्कदम्बजम्बीरसालतालतमालकाः .. १४०..
केचिन्महेन्द्रमलयसह्यमन्दरमेरवः .
केचित्क्षारोदधिक्षीरघृतेक्षुजलराशयः .. १४१..
केचिद्विशालाः कुकुभः केचिन्नद्यो महारयाः .
विहायस्युच्चकैः केचिन्निपतन्त्युत्पतन्ति च .. १४२..
कन्तुका इव हस्तेन मृत्युनाऽविरतं हताः .
भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे .. १४३..
पतन्ति केचिदबुधाः संप्राप्यापि विवेकताम् .
दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः .. १४४..
लीलयैव यदादत्ते दिक्कालकलितं वपुः .
तदेव जीवपर्यायवासनावेशतः परम् .. १४५..
मनः संपद्यते लोलं कलनाकलनोन्मुखम् .
कलयन्ती मनःशक्तिरादौ भावयति क्षणात् .. १४६..
आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् .
ततस्तद्घनतां यातं घनस्पन्दक्रमान्मनः .. १४७..
भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् .
ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः .. १४८..
शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जन्यतेऽनलः .
रूपतन्मात्रसहितं त्रिभिस्तैः सह संमितम् .. १४९..
मनस्ताद्दृग्गुणगतं रसतन्मात्रवेदनम् .
क्षणाच्चेतत्यपां शैत्यं जलसंवित्ततो भवेत् .. १५०..
ततस्तादृग्गुणगतं मनो भावयति क्षणात् .
गन्धतन्मात्रमेतस्माद्भूमिसंवित्ततो भवेत् .. १५१..
अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् .
वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति .. १५२..
अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् .
तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् .. १५३..
तस्मिंस्तु तीव्रसंवेगाद्भावयद्भासुरं वपुः .
स्थूलतामेति पाकेन मनो बिल्वफलं यथा .. १५४..
मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे .
संनिवेशमथादत्ते तत्तेजः स्वस्वभावतः .. १५५..
ऊर्ध्वं शिरःपिण्डमयमधः पादमयं तथा .
पार्श्वयोर्हस्तसंस्थानं मध्ये चोदरधर्मिणम् .. १५६..
कालेन स्फुटतामेत्य भवत्यमलविग्रहम् .
बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः .. १५७..
स एव भगवान्ब्रह्मा सर्वलोकपितामहः .
अवलोक्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् .. १५८..
चिन्तामभ्येत्य भगवांस्त्रिकालामलदर्शनः .
एतस्मिन्परमाकाशे चिन्मात्रैकात्मरूपिणी .. १५९..
अदृष्टपारपर्यन्ते प्रथमं किं भवेदिति .
इति चिन्तितवान्ब्रह्मा सद्यो जातामलात्मदृक् .. १६०..
अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः .
स्मरत्यथो स सकलान्सर्वधर्मगुणक्रमात् .. १६१..
लीलया कल्पयामास चित्राः संकल्पतः प्रजाः .
नानाचारसमारम्भा गन्धर्वनगरं यथा .. १६२..
तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये .
अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् .. १६३..
विरञ्चिरूपान्मनसः कल्पितत्वाज्जगत्स्थितेः .
तावत्स्थितिरियं प्रोक्ता तन्नाशे नाशमाप्नुयात् .. १६४..
न जायते न म्रियते क्वचित्किंचित्कदाचन .
परमार्थेन विप्रेन्द्र मिथ्या सर्वं तु दृश्यते .. १६५..
कोशमाशाभुजङ्गानां संसाराडंबरं त्यज .
असदेतदिति ज्ञात्वा मातृभावं निवेशय .. १६६..
गन्धर्वनगरस्यार्थे भूषितेऽभूषिते तथा .
अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः .. १६७..
धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता .
वृद्धायां मोहमायायां कः समाश्वासवानिह .. १६८..
यैरेव जायते रागो मूर्खस्याधिकतां गतैः .
तैरेव भागैः प्राज्ञस्य विराग उपजायते .. १६९..
अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः .
नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर .. १७०..
अनागतानां भोगानामवाञ्छनमकृत्रिमम् .
आगतानां च संभोग इति पण्डितलक्षणम् .. १७१..
शुद्धं सदसतोर्मध्यं पदं बुद्ध्वावलंब्य च .
सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा .. १७२..
यस्य चेच्छा तथानिच्छा ज्ञस्य कर्मणि तिष्ठतः .
न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः .. १७३..
यदि ते नेन्द्रियार्थश्रीः स्पन्दते हृदि वै द्विज .
तदा विज्ञातविज्ञेया समुत्तीर्णो भवार्णवात् .. १७४..
उच्चैःपदाय परया प्रज्ञया वासनागणात् .
पुष्पाद्गन्धमपोह्यारं चेतोवृत्तिं पृथक्कुरु .. १७५..
संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते .
ये प्रज्ञानावमारूढास्ते तीर्णाः पण्डिताः परे .. १७६..
न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् .
सर्वमेवानुवर्तन्ते पारावारविदो जनाः .. १७७..
अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः .
चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः .. १७८..
लेशतः प्राप्तसत्ताकः स एव घनतां शनैः .
याति चित्तत्वमापूर्य दृढं जाड्याय मेघवत् .. १७९..
भावयन्ति चितिश्चैत्यं व्यतिरिक्तमिवात्मनः .
संकल्पतामिवायाति बीजमङ्कुरतामिव .. १८०..
संकल्पनं हि संकल्पः स्वयमेव प्रजायते .
वर्धते स्वयमेवाशु दुःखाय न सुखाय यत् .. १८१..
मा संकल्पय संकल्पं मा भावं भावय स्थितौ .
संकल्पनाशने यत्तो न भूयोऽननुगच्छति .. १८२..
भावनाभावमात्रेण संकल्पः क्षीयते स्वयम् .
संकल्पेनैव संकल्पं मनसैव मनो मुने .. १८३..
छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् .
यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि .. १८४..
तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा .
नश्यति क्रियया विप्र पुरुषस्य तथा मलम् .. १८५..
जीवस्य तण्डुलस्येव मलं सहजमप्यलम् .
नश्यत्येव न सन्देहस्तस्मादुद्योगवान्भवेत् .. १८६..
इति महोपनिषत् .. इति पञ्चमोऽध्यायः .. ५..
अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् .
योऽसि सोऽसि जगत्यस्मिंल्लीलया विहरानघ .. १..
सर्वत्राहमकर्तेति दृढभावनयानया .
परमामृतनाम्नी सा समतैवावशिष्यते .. २..
खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया .
स्वसंकल्पे क्षयं याते समतैवावशिष्यते .. ३..
समता सर्वभावेषु यासौ सत्यपरा स्थितिः .
तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् .. ४..
अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने .
सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव .. ५..
शेषस्थिरो समाधानो येन त्यजसि तत्त्यज .
चिन्मनःकलनाकारं प्रकाशतिमिरादिकम् .. ६..
वासनां वासितारं च प्राणस्पन्दनपूर्वकम् .
समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः .. ७..
हृदयात्संपरित्यज्य सर्ववासनपङ्क्तयः .
यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः .. ८..
दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश .
युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः .. ९..
सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च .
इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् .. १०..
न तदस्ति न यत्राहं न तदस्ति न तन्मयम् .
किमन्यदभिवाञ्छामि सर्वं सच्चिन्मयं ततम् .. ११..
समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम् .
अहमन्य इदं चान्यदिति भ्रान्तिं त्यजानघ .. १२..
तते ब्रह्मघने नित्ये संभवन्ति न कल्पिताः .
न शोकोऽस्ति न मोहोऽस्ति न जरास्ति न जन्म वा .. १३..
यदस्तीह तदेवास्ति विज्वरो भव सर्वदा .
यथाप्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् .. १४..
त्यागादानपरित्यागी विज्वरो भव सर्वदा .
यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते .. १५..
विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् .
विरक्तमनसां सम्यक्स्वप्रसङ्गादुदाहृतम् .. १६..
द्रष्टुर्दृश्यसमायोगात्प्रत्ययानन्दनिश्चयः .
यस्तं स्वमात्मतत्त्वोत्थं निष्पन्दं समुपास्महे .. १७..
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह .
दर्शनप्रत्ययाभासमात्मानं समुपास्महे .. १८..
द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः .
प्रकाशनं प्रकाशानामात्मानं समुपास्महे .. १९..
सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये .
ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः .. २०..
उत्थितानुत्थितानेतानिन्द्रियारीन्पुनः पुनः .
हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् .. २१..
संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे .
सर्वमेवापवित्रं तद्दृष्टं संसृतिविभ्रमम् .. २२..
अज्ञानोपहतो बाल्ये यौवने वनिताहतः .
शेषे कलत्रचिन्तार्तः किं करोति नराधमः .. २३..
सतोऽसत्ता स्थिता मूर्ध्नि रम्याणां मूर्ध्न्यरम्यता .
सुखानां मूर्ध्निदुःखानि किमेकं संश्रयाम्यहम् .. २४..
येषां निमेषणामेषौ जगतः प्रलयोदयौ .
तादृशाः पुरुषा यान्ति मादृशां गणनैव का .. २५..
संसार एव दुःखानां सीमान्त इति कथ्यते .
तन्मध्ये पतिते देहे सुखमासाद्यते कथम् .. २६..
प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्चोरोऽयमात्मनः .
मनो नाम निहन्म्येनं मनसास्मि चिरं हृतः .. २७..
मा खेदं भज हेयेषु नोपादेयपरो भव .
हेयादेयादृशौ त्यक्त्वा शेषस्थः सुस्थिरो भव .. २८..
निराशता निर्भयता नित्यता समता ज्ञता .
निरीहता निष्क्रियता सौम्यता निर्विकल्पता .. २९..
धृर्मैत्री मनस्तुष्टिर्मृदुता मृदुभाषिता .
हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् .. ३०..
गृहीततृष्णाशबरीवासनाजालमाततम् .
संसारवारिप्रसृतं चिन्तातन्तुभिराततम् .. ३१..
अनया तीक्ष्णया तात छिन्धि बुद्धिशलाकया .
वात्ययेवाम्बुदं जालं छित्त्वा तिष्ठ तते पदे .. ३२..
मनसैव मनश्छित्त्वा कुठारेणेव पादपम् .
पदं पावनमासाद्य सद्य एव स्थिरो भव .. ३३..
तिष्ठन्गच्छन्त्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् .
असदेवेदमित्यन्तं निश्चित्यास्तां परित्यज .. ३४..
दृश्यमाश्रयसीदं चेत्तत्सच्चितोऽसि बन्धवान् .
दृश्यं सन्त्यजसीदं चेत्तदाऽचित्तोऽसि मोक्षवान् .. ३५..
नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः .
आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे .. ३६..
दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव .
स्वाद्यस्वादकसंत्यक्तं स्वाद्यस्वादकमध्यगम् .. ३७..
स्वदनं केवलं ध्यायन्परमात्ममयो भव .
अवलम्ब्य निरालम्बं मध्येमध्ये स्थिरो भव .. ३८..
रज्जुबद्धा विमुच्यन्ते तृष्णाबद्धा न केनचित् .
तस्मान्निदाघ तृष्णा त्वं त्यज संकल्पवर्जनात् .. ३९..
एतामहंभावमयीपपुण्यां
छित्त्वानहंभाव शलाकयैव ..
स्वभावजां भव्यभवन्तभूमौ
भव प्रशान्ताखिलभूतभीतिः .. ४०..
अहमेषां पदार्थानामेते च मम जीवितम् .
नाहमेभिर्विना किंचिन्न मयैते विना किल .. ४१..
इत्यन्तर्निश्चयं त्यक्त्वा विचार्य मनसा सह .
नाहं पदार्थस्य न मे पदार्थ इति भाविते .. ४२..
अन्तःशीतलया बुद्ध्या कुर्वतो लीलया क्रियाम् .
यो नूनं वासनात्यागो ध्येयो ब्रह्मन्प्रकीर्तितः .. ४३..
सर्वं समतया बुद्ध्या यः कृत्वा वासनाक्षयम् .
जहाति निर्ममो देहं नेयोऽसौ वासनाक्षयः .. ४४..
अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः .
तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते .. ४५..
निर्मूलं कलनां त्यक्त्वा वासनां यः शमं गतः .
ज्ञेयं त्यागमिमं विद्धि मुक्तं तं ब्राह्मणोत्तमम् .. ४६..
द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ .
आपतत्सु यथाकालं सुखदुःखेष्वनारतौ .
संन्यासियोगिनौ दान्तौ विद्धि शान्तौ मुनीश्वर .. ४७..
ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु .
सुषुप्तवद्यश्चरति स जीवन्मुक्त उच्यते .. ४८..
हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः .
न हृष्यति ग्लायति यः परामर्शविवर्जितः .. ४९..
बाह्यार्थवासनोद्भूता तृष्णा बद्धेति कथ्यते .
सर्वार्थवासनोन्मुक्ता तृष्णा मुक्तेति भण्यते .. ५०..
इदमस्तु ममेत्यन्तमिच्छां प्रार्थनयान्विताम् .
तां तीक्ष्णां शृङ्खलां विद्धि दुःखजन्मभयप्रदाम् .. ५१..
तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा .
संत्यज्य परमोदारं पदमेति महामनाः .. ५२..
बन्धास्थामथ मोक्षास्थां सुखदुःखदशामपि .
त्यक्त्वा सदसदास्थां त्वं तिष्ठाक्षुब्धमहाब्धिवत् .. ५३..
जायते निश्चयः साधो पुरुषस्य चतुर्विधः .. ५४..
आपादमस्तकमहं मातापितृविनिर्मितः .
इत्येको निश्चयो ब्रह्मन्बन्धायासविलोकनात् .. ५५..
अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः .
इति द्वितीयो मोक्षाय निश्चयो जायते सताम् .. ५६..
जगज्जाल पदार्थात्मा सर्व एवाहमक्षयः .
तृतीयो निश्चयश्चोक्तो मोक्षायैव द्विजोत्तम .. ५७..
अहं जगद्वा सकलं शून्यं व्योम समं सदा .
एवमेष चतुर्थोऽपि निश्चयो मोक्षसिद्धिदः .. ५८..
एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोग्यया .
शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्ता विलासिनः .. ५९..
सर्वं चाप्यहमेवेति निश्चयो यो महामते .
तमादाय विषादाय न भूयो जायते मतिः .. ६०..
शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि .
शिवः पुरुष ईशानो नित्यमात्मेति कथ्यते .. ६१..
द्वैताद्वैतसमुद्भूतैर्जगन्निर्माणलीलया .
परमात्ममयीशक्तिरद्वैतैव विजृम्भते .. ६२..
सर्वातीतपदालम्बी परिपूर्णैकचिन्मयः .
नोद्वेगी न च तुष्टात्मा संसारे नावसीदति .. ६३..
प्राप्तकर्मकरो नित्यं शत्रुमित्रसमानदृक् .
ईहितानीहितैर्मुक्तो न शोचति न काङ्क्षति .. ६४..
सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् .
आशयज्ञश्च भूतानां संसारे नावसीदति .. ६५..
पूर्वां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् .
जीवन्मुक्ततया स्वस्थो लोके विहर विज्वरः .. ६६..
अन्तःसंत्यक्तसर्वाशो वीतरागो विवासनः .
बहिःसर्वसमाचारो लोके विहर विज्वरः .. ६७..
बहिःकृत्रिमसंरंभो हृदि संरम्भवर्जितः .
कर्ता बहिरकर्तान्तर्लोके विहर शुद्धधीः .. ६८..
त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः .
अगृहीतकलङ्काङ्को लोके विहर शुद्धधीः .. ६९..
उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् .
अन्तःसङ्गपरित्यागी बहिःसंभारवानिव .
अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः .. ७०..
अयं बन्धुरयं नेति गणना लघुचेतसाम् .
उदारचरितानां तु वसुधैव कुटुम्बकम् .. ७१..
भावाभावविनिर्मुक्तं जरामरणवर्जितम् .
प्रशान्तकलनारभ्यं नीरागं पदमाश्रय .. ७२..
एषा ब्राह्मी स्थितिः स्वच्छा निष्कामा विगतामया .
आदाय विहरन्नेवं संकटेषु न मुह्यति .. ७३..
वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि .
यत्संकल्पहरार्थं तत्स्वयमेवोन्नयेन्मनः .. ७४..
वैराग्यात्पूर्णतामेति मनो नाशवशानुगम् .
आशया रक्ततामेति शरदीव सरोऽमलम् .. ७५..
तमेव भुक्तिविरसं व्यापारौघं पुनः पुनः .
दिवसेदिवसे कुर्वन्प्राज्ञ कस्मान्न लज्जते .. ७६..
चिच्चैत्यकलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते .
चिदचैत्या किलात्मेति सर्वसिद्धान्तसंग्रहः .. ७७..
एतन्निश्चयमादाय विलोकय धियेद्धया .
स्वयमेवात्मनात्मानमानन्दं पदमाप्स्यसि .. ७८..
चिदहं चिदिमे लोकाश्चिदाशाश्चिदिमाः प्रजाः .
दृश्यदर्शननिर्मुक्तः केवलामलरूपवान् .. ७९..
नित्योदितो निराभासो द्रष्टा साक्षी चिदात्मकः .. ८०..
चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिःस्वरूपकम् .
संशान्तसर्वसंवेद्यं संविन्मात्रमहं महत् .. ८१..
संशान्तसर्वसंकल्पः प्रशान्तसकलेषणः .
निर्विकल्पपदं गत्वा स्वस्थो भव मुनीश्वर .. ८२.. इति .
य इमां महोपनिषदं ब्राह्मणो नित्यमधीते .
अश्रोत्रियः श्रोत्रियो भवति . अनुपनीत उपनीतो भवति .
सोऽग्निपूतो भवति . स वायुपूतो भवति . स सोमपूतो भवति .
स सत्यपूतो भवति . स सर्वपूतो भवति . स सर्वर्देवैर्ज्ञातो भवति .
स सर्वेषु तीर्थेषु स्नातो भवति . स सर्वैर्देवैरनुध्यातो भवति .
स सर्वक्रतुभिरिष्टवान्भवति . गायत्र्याः षष्टिसहस्राणि
जप्तानि फलानि भवन्ति . इतिहासपुराणानां शतसहस्राणि जप्तानि
फलानि भवन्ति . प्रणवानामयुतं जप्तं भवति .
आचक्षुषः पङ्क्तिं पुनाति . आसप्तमान्पुरुषयुगान्पुनाति .
इत्याह भगवान् हिरण्यगर्भः . जप्येनामृतत्त्वं च
गच्छतीत्युपनिषत् . .. इति षष्ठोऽध्यायः .. ६..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु .. ॐ शान्तिः शान्तिः शान्तिः ..
इति महोपनिषत्समाप्ता..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com