||प्रश्नोत्तररत्नमालिका ||
कः खलु नालङ्क्रियते दृष्टादृष्टार्थसाधनपटीयान् |
अमुया कण्ठस्थितया प्रश्नोत्तररत्नमालिकया ||१||
भगवन् किमुपादेयं गुरुवचनं हेयमपि किमकार्यं |
को गुरुः अधिगततत्त्वः शिष्यहितायोद्यतः सततं ||२||
त्वरितं किं कर्तव्यं विदुषां संसारसन्ततिच्छेदः |
किं मोक्षतरोर्बीजं सम्यक्ज्ञानं क्रियासिद्धं ||३||
कः पथ्यतरो धर्मः कः शुचिरिह यस्य मानसं शुद्धं |
कः पण्डितो विवेकी किं विषमवधीरणा गुरुषु ||४||
किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव |
किं मनुजेष्विष्टतमं स्वपरहितायोद्यतं जन्म ||५||
मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः |
का भववल्लि तृष्णा को वैरी यस्त्वनुद्योगः ||६||
कस्माद्भयमिह मरणादन्धादिह को विशिष्यते रागी |
कः शूरो यो ललनालोचनबाणैर्न च व्यधितः ||७||
पान्तुं कर्णाञ्जलिभिः किममृतमिह युज्यते सदुपदेशः |
किं गुरुताया मूलं यदेतदप्रार्थनं नाम ||८||
किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन |
किं दुःखं असन्तोषः किं लाघवमधमतो याच्ञा ||९||
किं जीवितमनवद्यं किं जाड्यं पाठतोऽप्यनभ्यासः |
को जागर्ति विवेकी को निद्रा मूढता जन्तोः ||१०||
नलिनीदलगतजलवत्तरलं किं यौवनं धनं चायुः |
कथय पुनः के शशिनः किरणसमाः सज्जना एव ||११||
को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या |
किं सत्यं भूतहितं प्रियं च किं प्राणिनामसवः ||१२||
कोऽनर्थफलो मानः का सुखदा साधुजनमैत्री |
सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागी ||१३||
किं मरणं मूर्खत्वं किं चानर्घं यदवसरे दत्तं |
आमरणात् किं शल्यं प्रच्छन्नं यत्कृतं पापं ||१४||
कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने |
अवधीरणा क्व कार्या खलपरयोषित्परधनेषु ||१५||
काहर्निशमनुचिन्त्या संसारासारता न तु प्रमदा |
का प्रेयसी विधेया करणा दीनेषु सज्जने मैत्री ||१६||
कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुं |
मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ||१७||
कः साधुः सदवृत्तः कमधममाचक्षते त्वसद्वृत्तं |
केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ||१८||
कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय |
कस्मादुद्वेगः स्यात्संसारारण्यतः सुधियः ||१९||
कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य |
क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ||२०||
कोऽन्धो योऽकर्यरतः को बधिरो यो हितानि न शृणोति |
को मूको यः काले प्रियाणि वक्तुं न जानाति ||२१||
किं दानमनाकाङ्क्षं किं मित्रं यो निवारयति पापात् |
कोऽलङ्कारः शीलं किं वाचां मण्डनं सत्यं ||२२||
विद्युद्विलसितचपलं किं दुर्जनसङ्गतिर्युवतयश्च |
कुलशीलनिष्प्रकम्पाः के कलिकालेऽपि सज्जना एव ||२३||
चिन्तामणिरिव दुर्लभमिह किं कथयामि तच्चतुर्भद्रं |
किं तद्वदन्ति भूयो विधुततमसा विशेषेण ||२४||
दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यं |
वित्तं त्यागसमेतं दुर्लभमेतच्चतुर्भद्रं ||२५||
किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्तमौदार्यं |
कः पूज्यो विद्वद्भिः स्वभावतः सर्वदा विनीतो यः ||२६||
कः कुलकमलदिनेशः सति गुणाविभवेऽपि यो नम्रः |
कस्य वशे जगदेतत्प्रियहितवचनस्यधर्मनिरतस्य ||२७||
विद्वन्मनोहरा का सत्कविता बोधवनिता च |
कं न स्पृशति विपत्तिः प्रवृद्धवचनानुवर्तिनं दान्तं ||२८||
कस्मै स्पृहयति कमला त्वनलसचित्ताय नीतिवृत्ताय |
त्यजति च कं सहसा द्विजगुरुसुरनिन्दाकरं च सालस्यं ||२९||
कुत्र विधेयो वासः सज्जननिकटेऽथवा काश्यां |
कः परिहार्यो देशः पिशुनयुतो लुब्धभूपश्च ||३०||
केनाशोच्यः पुरुषः प्रणतकलत्रेण धीरविभवेन |
इह भुवने कः शोच्यः सत्यपि विभवे न यो दाता ||३१||
किं लघुताया मूलं प्राकृतपुरुषेषु या याच्ञा |
रामादपि कः शूरः स्मरशरनिहतो न यश्चलति ||३२||
किमहर्निशमनुचिन्त्यं भगवच्चरणं न संसारः |
चक्षुष्मन्तोऽप्यन्धाः के स्युः ये नास्तिका मनुजाः ||३३||
कः पङ्गुरिह प्रथितो व्रजति च यो वार्द्धके तीर्थं |
किं तीर्थमपि च मुख्यं चित्तमलं यन्निवर्तयति ||३४||
किं स्मर्त्तव्यं पुरुषैः हरिनाम सदा न यावनी भाषा |
को हि न वाच्यः सुधिया परदोषश्चानृतं तद्वत् ||३५||
किं संपाद्यं मनुजैः विद्या वित्तं बलं यशः पुण्यं |
कः सर्वगुणविनाशी लोभः शत्रुश्च कः कामः ||३६||
का च सभा परिहार्या हीना या वृद्धसचिवेन |
इह कुत्रावहितः स्यान्मनुजः किल राजसेवायां ||३७||
प्राणादपि को रम्यः कुलधर्मः साधुसङ्गश्च |
का संरक्ष्या कीर्तिः पतिव्रता नैजबुद्धिश्च ||३८||
का कल्पलता लोके सच्छिष्यायार्पिता विद्या |
कोऽक्षयवटवृक्षः स्यात्विधिवत्सत्पात्रदत्तदानं यत् ||३९||
किं शस्त्रं सर्वेषां युक्तिः माता च का धेनुः |
किं नु बलं यद्धैर्यं को मृत्युः यदवधानरहितत्वं ||४०||
कुत्र विषं दुष्टजने किमिहाशौचं भवेतृणं नृणां |
किमभयमिह वैराम्यं भयमपि किं वित्तमेव सर्वेषां ||४१||
का दुर्लभा नराणां हरिभक्तिः पातकं च किं हिंसा |
को हि भगवत्प्रियः स्यात्योऽन्यं नोद्वेजयेदनुद्विग्नः ||४२||
कस्मात् सिद्धिः तपसः बुद्धिः क्व नु भूसुरे कुतो बुद्धिः |
वृद्धोपसेवया के वृद्धा ये धर्मतत्त्वज्ञाः ||४३||
संभावितस्य मरणादधिकं किं दुर्यशो भवति |
लोके सुखी भवेत्को धनवान्धनमपि च किं यतश्चेष्टं ||४४||
सर्वसुखानां बीजं किं पुण्यं दुःखमपि कुतः पापात् |
कस्यैश्वर्यं यः किल शङ्करमाराधयेद्भक्त्या ||४५||
को वर्द्धते विनीतः को वा हीयेत यो दृप्तः |
को न प्रत्येतव्यो ब्रूते यश्चानृतं शश्वत् ||४६||
कुत्रानृतेऽप्यपापां यच्चोक्तं धर्मरक्षार्थं |
को धर्मोऽभिमतो यः शिष्टानां निजकुलीनानां ||४७||
साधुबलं किं दैवं कः साधुः सर्वदा तुष्टः |
दैवं किं यत्सुकृतं कः सुकृती श्लाघ्यते च यः सद्भिः ||४८||
गृहमेधिनश्च मित्रं किं भार्या को गृही च यो यजते |
को यज्ञो यः श्रुत्या विहितः श्रेयस्करो नृणां ||४९||
कस्य क्रिया हि सफला यः पुनराचारवां शिष्टः |
कः शिष्टो यो वेदप्रमाणवां को हतः क्रियाभ्रष्टः ||५०||
को धन्यः संन्यासी को मान्यः पण्डितः साधुः |
कः सेव्यो यो दाता को दाता योऽर्थितृप्तिमातनुते ||५१||
किं भाग्यं देहवतामारोग्यं कः फली कृषिकृत् |
कस्य न पापं जपतः कः पूर्णो यः प्रजावां स्यात् ||५२||
किं दुष्करं नराणां यन्मनसो निग्रहः सततं |
को ब्रह्मचर्यवां स्यात्यश्चास्खलितोर्ध्वरेतस्कः ||५३||
का च परदेवतोक्ता चिच्छक्तिः को जगत्भर्ता |
सूर्यः सर्वेषां को जीवनहेतुः स पर्जन्यः ||५४||
कः शुरो यो भीतत्राता त्राता च कः सद्गुरुः |
को हि जगद्गुरुरुक्तः शंभुः ज्ञानं कुतः शिवादेव ||५५||
मुक्तिं लभेत कस्मान्मुकुन्दभक्तेः मुकुन्दः कः |
यस्तारयेदविद्यां का चाविद्या यदात्मनोऽस्फूर्तिः ||५६||
कस्य न शोको यः स्याद्क्रोधः किं सुखं तुष्टिः |
को राजा रञ्चनकृत्कश्च श्वा नीचसेवको यः स्यात् ||५७||
को मायी परमेशः क इन्द्रजालायते प्रपञ्चोऽयं |
कः स्वप्ननिभो जाग्रद्व्यवहारः सत्यमपि च किं ब्रह्म ||५८||
किं मिथ्या यद्विद्यानाश्यं तुच्छं तु शशविषाणादि |
का चानिर्वाच्या माया किं कल्पितं द्वैतं ||५९||
किं पारमार्थिकं स्यादद्वैतं चाज्ञता कुतोऽनादिः |
वपुषश्च पोषकं किं प्रारब्धं चान्नदायि किं चायुः ||६०||
को ब्रह्मणैरुपास्यो गायत्र्यर्काग्निगोचरः शंभुः |
गायत्र्यामादित्ये चाग्नौ शंभ च किं नु तत्तत्त्वं ||६१||
प्रात्यक्षदेवता का माता पूज्यो गुरुश्च कः तातः |
कः सर्वदेवतात्मा विद्याकर्मान्वितो विप्रः ||६२||
कश्च कुलक्षयहेतुः सन्तापः सज्जनेषु योऽकारि |
केषाममोघ वचनं ये च पुनः सत्यमौनशमशीलाः ||६३||
किं जन्म विषयसङ्गः किमुत्तरं जन्म पुत्रः स्यात् |
कोऽपरिहार्यो मृत्युः कुत्र पदं विन्यसेच्च दृक्पूते ||६४||
पात्रं किमन्नदाने क्षुधितं कोऽर्च्यो हि भगवदवतारः |
कश्च भगवान्महेशः शञ्करनारायणात्मैकः ||६५||
फलमपि भगवद्भक्तेः किं तल्लोकस्वरुपसाक्षात्त्वं |
मोक्षश्च को ह्यविद्यास्तमयः कः सर्ववेदभूः अथ च ॐ ||६६||
इत्येषा कण्ठस्था प्रश्नोत्तररत्नमालिका येषां |
ते मुक्ताभरणा इव विमलाश्चाभान्ति सत्समाजेषु ||६७||
||इति श्रीमद् शङ्कराचार्यविरचिता प्रश्नोत्तररत्नमालिका समाप्ता ||
Encoded and proofread by Sorin Suciu aka SeSe at sorins at hotmail.com.
%@@1
% File name : prashnottara.itx
%--------------------------------------------
% Text title : prashnottararatnamAlikA
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : ????Source
% Transliterated by : Sorin Suciu aka SeSe at sorins at hotmail.com
% Proofread by : Sorin Suciu aka SeSe at sorins at hotmail.com
% Latest update : November 1, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .