.. श्री सूर्य सहस्रनाम स्तोत्रम् १ ..
. अथ भविष्यपुराणान्तर्गत- सूर्यसहस्रनामस्तोत्रम् .
ॐ विश्वजिद् विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः .
विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः .. १..
कालाश्रयः कालकर्ता कालहा कालनाशनः .
महायोगी महाबुद्धिर्महात्मा सुमहाबलः .. २..
प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः .
भूतभव्यो भावितात्मा भूतान्तःकरणः शिवः .. ३..
शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः .
वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः .. ४..
वाक्प्राणः परमः प्राणः प्रीतात्मा प्रियतः प्रियः .
नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः .. ५..
अव्यङ्गधारी धीरात्मा प्रचेता वायुवाहनः .
समाहितमतिर्धाता विधाता कृतमङ्गलः .. ६..
कपर्दी कल्पकृद्रुद्रः सुमना धर्मवत्सलः .
समायुक्तो विमुक्तात्मा कृतात्मा कृतिनांवरः .. ७..
अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः .
कान्तः कामादिरादित्यो नियतात्मा निराकुलः .. ८..
कामः कारुणिकः कर्ता कमलाकरबोधनः .
सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः .. ९..
संजीवनो जीवनाथो जगज्जीवो जगत्पतिः .
अजयो विश्वनिलयः संविभागो वृषध्वजः .. १०..
वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः .
एकचक्ररथो मौनी सुरथो रथिनांवरः .. ११..
अक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः .
दिव्यकृद् दिनकृद् देवो देवदेवो दिवस्पतिः .. १२..
धीरानाथो हविर्होता दिव्यबाहुर्दिवाकरः .
यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावहः .. १३..
परापरज्ञस् तरणिरंशुमाली मनोहरः .
प्राज्ञः प्रजापतिः सूर्यः सविता विष्णुरंशुमान् .. १४..
सदागतिर्गन्धबाहुर्विहितो विधिराशुगः .
पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः .. १५..
हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः .
त्र्यंबकः सर्वदमनो भावितात्मा भिषग्वरः .. १६..
आलोककृल्लोकनाथो लोकालोकनमस्कृतः .
कालः कल्पान्तको वह्निस्तपनः सम्प्रतापनः .. १७..
विरोचनो विरूपाक्षः सहस्राक्षः पुरंदरः .
सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः .. १८..
खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः .
श्रीमांश्च शिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः .. १९..
श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः .
कामचारो महामायो महेशो विदिताशयः .. २०..
तीर्थक्रियावान् सुनयो विभवो भक्तवत्सलः .
कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी .. २१..
हिरण्यरेताः सप्ताश्वः प्रयतात्मा परंतपः .
बुद्धिमान् अमरश्रेष्ठो रोचिष्णुः पातशासनः .. २२..
समुद्रो धनदो धाता मान्धाता कश्मलापहः .
तमोघ्नो ध्वान्तहा वह्निर्होतान्तःकरणो गुहः .. २३..
पशुमान् प्रयतानन्दो भूतेशः श्रीमतांवरः .
नित्योऽदितो नित्यरथः सुरेशः सुरपूजितः .. २४..
अजितो विजयो जेता जङ्गमस्थावरात्मकः .
जीवानन्दो नित्यकामी विजेता विजयप्रदः .. २५..
पर्जन्योऽग्निः स्थितिस्थेयः स्थविरोऽणुर्निरञ्जनः .
प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः .. २६..
ध्रुवो मेधी महावीर्यो हंसः संसारतारकः .
सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतांपतिः .. २७..
मरुत्वान् दहनः स्पष्टा भगो भाग्योऽर्यमापतिः .
वरुणांशो जगन्नाथः कृतकृत्यः सुलोचनः .. २८..
विवस्वान् भानुमान् कार्यकारणं तेजसांनिधिः .
असङ्गवामी तिग्मांशुर्धर्मादिर्दीप्तदीधितिः .. २९..
सहस्रदीधितिर्भघ्नः सहस्रांशुर्दिवाकरः .
गभस्तिमान् दीधितिमान् स्रग्विमान् अतुलद्युतिः .. ३०..
भास्करः सुरकार्यज्ञः सर्वज्ञस् तीक्ष्णदीधितिः .
सुरज्येष्ठः सुरपतिर्बहुज्ञोवचसांपतिः .. ३१..
तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः .
अहिमानूर्जितो धीमान् आमुक्तः कीर्तिवर्धनः .. ३२..
महावैद्याग्रेणपतिर्गणेशो गणनायकः .
तीव्रप्रतापनस् तापी तापनो विश्वतापनः .. ३३..
कार्तस्वरो हृषीकेशः पद्मानन्दोऽभिनन्दितः .
पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः .. ३४..
अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणी विराट् .
आमुक्तः कवची वाग्मी कञ्चुकी विश्वभावनः .. ३५..
अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः .
विगाहीरेणुरसहः समायुक्तः समाहितः .. ३६..
धर्मकेतुर्धर्मरतिः संहर्ता संयमोयमः .
प्रणतार्तिहरो वादी सिद्धकार्यो जनेश्वरः .. ३७..
नभो विगाहनः सत्यः स्थामसः सुमनो हरः .
हारी हरिर्हरो वायुरृतुः कालानलद्युतिः .. ३८..
सुखसेव्यो महातेजा जगतामन्तकारणम् .
महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः .. ३९..
सहस्रकल आयुष्मान् अरोषः सुखदः सुखी .
व्याधिहा सुखदः सौख्यं कल्याणः कल्पिनांवरः .. ४०..
आरोग्यकर्मणां सिद्धिर्वृद्धिरृद्धिरहस्पतिः .
हिरण्यरेता आरोग्यं विद्वान् बन्धुर्बुधो महान् .. ४१..
प्रणवान् धृतिमान् धर्मो धर्मकर्ता रुचिप्रदः .
सर्वप्रियः सर्वसहः सर्वशत्रुनिवारुणः .. ४२..
प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृतिः .
केयूरभूषणोद्भासी भासितो भासनोऽनलः .. ४३..
शरण्यार्तिहरो होता खद्योतः खगसत्तमः .
सर्वद्योतोऽमवद्द्योतः सर्वद्युतिकरोऽमलः .. ४४..
कल्याणः कल्याणकरः कल्पः कल्पकरः कविः .
कल्याणकृत् कल्पवपुः सर्वकल्याणभाजनः .. ४५..
शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः .
उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः .. ४६..
वर्चस्वी वर्चसामीशस् त्रैलोक्येशो वशानुगः .
तेजस्वी सुयशावर्णिर्वर्णाध्यक्षो बलिप्रियः .. ४७..
यशस्वी वेदनिलयस् तेजस्वी प्रकृतिस्थितः .
आकाशगः शीघ्रगतिराशुगः श्रुतिमान् खगः .. ४८..
गोपतिर्ग्रहदेवेशो गोमान् एकः प्रभञ्जनः .
जनिताप्रजगण्डीवो दीपः सर्वप्रकाशकः .. ४९..
कर्मसाक्षी योगनित्यो नभस्वान् असुरान्तकः .
रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः .. ५०..
मरीचिमाली सुमतिः कृतातिथ्योऽविशेषतः .
शिष्टाचारः शुभाकारः स्वाचारा चारतत्परः .. ५१..
मन्दारो माठरो रेणुः क्षोभणः पक्षिणाङ्गुरुः .
स्वविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः .. ५२..
महाश्वेता प्रियो ज्ञेयः सामगो मोददायकः .
सर्ववेदप्रगीतात्मा सर्ववेदो गयालयः .. ५३..
वेदमूर्तिश्चतुर्वेदो वेदभृद् वेदपारगः .
क्रियावान् अतिरोचिष्णुर्वरीयांश्च वरप्रदः .. ५४..
व्रतधारी व्रतधरो लोकबन्धुरलंकृतः .
अलंकाराक्षरो दिव्यविद्यावान् विदिताशयः .. ५५..
अकारो भूषणो भूष्यो भूष्णुर्भवनपूजितः .
चक्रपाणिर्वज्रधरः सुवेशो लोकवत्सलः .. ५६..
राज्ञीपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः .
अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् .. ५७..
अप्रमेयः सदायोगी निरहंकार ईश्वरः .
शुभप्रदः शुभशोभा शुभकर्मा शुभास्पदः .. ५८..
सत्यवान् धृतिमान् अर्च्यो ह्यकारो वृद्धिदोऽनलः .
बलभृद् बलगो बन्धुर्बलवान् हरिणांवरः .. ५९..
अनङ्गोऽनागराणिन्द्रः पद्मयोनिर्गणेश्वरः .
संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः .. ६०..
पद्मेक्षरः पद्मयोनिः प्रभवोऽनसरद्युतिः .
सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः .. ६१..
पीतवासाः कृष्णवासा दिग्वासातीन्द्रियो हरिः .
अतीन्द्रोऽनेकरूपात्मा स्कन्दः परपुरंजयः .. ६२..
शक्तिमान् सूरधृग् भास्वान् मोक्षहेतुरयोनिजः .
सर्वदर्शोऽदितो दर्शो दुःस्वप्नाशुभनाशनः .. ६३..
माङ्गल्यकर्ता करणिर्वेगवान् कश्मलापहः .
स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः .. ६४..
विश्वकर्मा महाशक्तिर्ज्योतिरीशविहंगमः .
विचक्षणो दक्ष इन्द्रः प्रत्यूहः प्रियदर्शनः .. ६५..
अश्विनौ वेदनिलयो वेदविद् विदिताशयः .
प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः .. ६६..
कुबेरसुरथः स्कन्दो महितोऽभिहितो गुहुः .
ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डनः .. ६७..
भास्करः सततानन्दो नन्दनो नन्दिवर्धनः .
मङ्गलोऽप्यथ मङ्गलवान् माङ्गल्योऽमङ्गलापहः .. ६८..
मङ्गलाचारचरितः शीर्णः सर्वव्रतो व्रती .
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा .. ६९..
अकिञ्चनः सत्यसन्धो निर्गुणो गुणवान् गुणी .
सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः .. ७०..
सहस्रांशुः क्रतुपतिः सर्वस्वं सुमतिः सुवाक् .
सुभामनो माल्यदामा घृताहारो हरिप्रियः .. ७१..
ब्रह्मप्रचेता प्रथितः प्रतीतात्मा स्थिरात्मकः .
शतबिन्दुः शतमखो गरीयान् अनलप्रभुः .. ७२..
धीरो महत्तरो धन्यः पुरुषः पुरुषोत्तमः .
विद्याधराधिराजोऽहिविद्यावान् भूतिदस्थितः ..७३..
अनिर्देश्यवपुः श्रीमान् विश्वात्मा बहुमङ्गलः .
सुस्थितः सुरथः स्वर्णो मोक्षाधारनिकेतनः .. ७४..
निर्द्वन्द्वो द्वन्द्वहा सर्गः सर्वगः सम्प्रकाशयः .
दयालुः सूक्ष्मरीः शान्तिः क्षेमाक्षेमस्थितिप्रियः .. ७५..
भूतरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः .
महावराहः प्रियकृद् धाता भोक्ताभयप्रदः .. ७६..
चतुर्वेदधरो नित्यो विनिद्रो विविधाशनः .
चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः .. ७७..
विचित्ररथ एकाकी सप्तसप्तिः परात्परः .
सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः .. ७८..
निष्कलः पुष्करनिभो वसुमान् वासवप्रियः .
वसुमान् वासवस्वामी वसुराता वसुप्रदः .. ७९..
बलवान् ज्ञानवांस्तत्त्वम् ओंकारस् तृषुसंस्थितः .
संकल्पयोनिर्दिनकृद् भगवान् कारणावहः .. ८०..
नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः .
वषट्कारो हुतं होता स्वाहाकारो हुताहुतिः .. ८१..
जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः .
स्वर्णाङ्गक्षपणो वायुः सुरा सुरनमस्कृतः .. ८२..
विग्रहो विमलो बिन्दुर्विशोको विमलद्युतिः .
द्योतितो द्योतनो विद्वान् विविद्वान् वरदो बली .. ८३..
धर्मयोनिर्महामोहो विष्णुभ्राता सनातनः .
सावित्रीभावितो राजा विसृतो विघृणी विराट् .. ८४..
सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः .
सम्पन्नोऽथ जगन्नाथः सुमनाः शोभनप्रियः .. ८५..
सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः .
सुमेधा माधवो मेध्यो मेधावी मधुसूदनः .. ८६..
अङ्गिरा गतिकालज्ञो धूमकेतुसुकेतनः .
सुखी सुखप्रदः सौख्यं कामी कान्तिप्रियो मुनिः .. ८७..
संतापनः संतपन आतपी तपसांपतिः .
उग्रश्रवा सहस्रोस्रः प्रियङ्कारो प्रियङ्करः .. ८८..
प्रीतो विमन्युरम्भोदो जीवनो जगतांपतिः .
जगत्पिता प्रीतमनाः सर्वः शर्वो गुहावलः .. ८९..
सर्वगो जगदानन्दो जगन्नेता सुरारिहा .
श्रेयः श्रेयस्करो ज्यायानुत्तमोत्तम उत्तमः .. ९०..
उत्तमोऽथ महामेरुर्धारणो धरणीधरः .
धाराधरो धर्मराजो धर्माधर्मप्रवर्तकः .. ९१..
रथाध्यक्षो रथपतिस् त्वरमाणोऽमितानलः .
उत्तरोऽनुत्तरस् तापी तारापतिरपांपतिः .. ९२..
पुण्यसंकीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः .
स्वर्भानुर्विहगारिष्टो विशिष्टोत्कृष्टकर्मकृत् .. ९३..
व्याधिप्रणाशनः क्षेमः शूरः सर्वजिताम्बरः .
एकनाथो रथाधीशः शनैश्चरपितासितः .. ९४..
वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः .
प्रलम्बहारः संचारी प्रद्योतो द्योतितोऽनलः .. ९५..
संतानकृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः .
श्रेष्ठात्मा सुप्रियः शम्भुर्महतामीश्वरेश्वरः .. ९६..
संसारगतिविच्छेता संसारार्णवतारकः .
सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः .. ९७..
धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः .
लोकसाक्षी लोकगुरुर्लोकेशश् छन्दवाहनः .. ९८..
धर्मरूपः सूक्ष्मवायुर्धनुष्पाणिर्धनुर्धरः .
पिनाकधृन् महोत्साहो नैकमायो महाशनः .. ९९..
वारः शक्तिमतांश्रेष्ठः सर्वशस्त्रभृतांवरः .
ज्ञानगम्यो दुराराध्यो लोहिताङ्गोऽरिमर्दनः .. १००..
अनन्तो धर्मदो नित्यो धर्मकृच्चित् त्रिविक्रमः .
दैवत्रस् त्र्यक्षरो मध्यो नीलाङ्गो नीललोहितः .. १०१..
एकोऽनेकस् त्रयीव्यासः सविता समितिञ्जयः .
शार्ङ्गधन्वानलो भीमः सर्वप्रहरणायुधः .. १०२..
परमेष्ठी परंज्योतिर्नाकपाली दिवस्पतिः .
वदान्यो वासुकिर्वैद्य आत्रेयोऽतिपराक्रमः .. १०३..
द्वापरः परमोदारः परमब्रह्मचर्यवान् .
उद्दीप्तवेषो मुकुटी पद्महस्तोऽहिमांशुभृत् .. १०४..
स्मितः प्रसन्नवदनः पद्मोदरनिभाननः .
सायंदिवा दिव्यवपुरनिर्देश्यो महारथः .. १०५..
महारथो महानीशः शेषः सत्त्वरजस्तमः .
धृतातपत्रः प्रतिमो विमर्शी निर्णयस्थितः .. १०६..
अहिंसकः शुद्धमतिरद्वितीयो विमर्दनः .
सर्वदो धनदो मोक्षो विहारी बहुदायकः .. १०७..
ग्रहनाथो ग्रहपतिर्ग्रहेशस् तिमिरापहः .
मनो हरवपुः शुभ्रः शोभनः सुप्रभाननः .. १०८..
सुप्रभः सुप्रभाकारः सुनेत्रो निक्षुभापतिः .
राज्ञीप्रियः शब्दकरो ग्रहेशस् तिमिरापहः .. १०९..
सैंहिकेयरिपुर्देवो वरदो वरनायकः .
चतुर्भुजो महायोगी योगीश्वरपतिस् तथा .. ११०..
अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः .
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः .. १११..
एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् .
निरालम्बो गगनरो धर्मकर्मप्रभावकृत् .. ११२..
धर्मात्मा कर्मणांसाक्षी प्रत्यक्षः परमेश्वरः .
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् .. ११३..
आधारभूको रतिमांस्तथा च धनधान्यकृत् .
पापसंतापसंहर्ता मनोवांछितदायकः .. ११४..
लोकहर्ता राज्यदायी रमणीयगुणोऽनृणी .
कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः .. ११५..
संध्यारागकरः सिद्धः संध्यावन्दनवन्दितः .
साम्राज्यदाननिरतः समाराधनतोषवान् .. ११६..
भक्तदुःखक्षयकरो भवसागरतारकः .
भयापहर्ता भगवान् अप्रमेयपराक्रमः .. ११७..
मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः .. ११८..
.. इति श्री भविष्ये महापुराणे सूर्यसहस्रनाम स्तोत्रं सम्पूर्णम्
..
Encoded and proofread by Kirk Wortman kirkwort@hotmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com