.. श्रीविष्णुसहस्रनामस्तोत्रम् ..
ॐ
सकल सौभाग्यदायक
.. श्रीविष्णुसहस्रनामस्तोत्रम् ..
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् .
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये .. १..
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् .
विघ्नं निघ्नन्ति सततं विष्वकसेनं तमाश्रये .. २..
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् .
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् .. ३..
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे .
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः .. ४..
अविकाराय शुद्धाय नित्याय परमात्मने .
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे .. ५..
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् .
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे .. ६..
ॐ नमो विष्णवे प्रभविष्णवे .
श्रीवैशम्पायन उवाच - - -
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः .
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत .. ७..
युधिष्ठिर उवाच - - -
किमेकं दैवतं लोके किं वाप्येकं परायणम् .
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् .. ८..
को धर्मः सर्वधर्माणां भवतः परमो मतः .
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् .. ९..
भीष्म उवाच - - -
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् .
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः .. १०..
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् .
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च .. ११..
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् .
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् .. १२..
ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् .
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् .. १३..
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः .
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा .. १४..
परमं यो महत्तेजः परमं यो महत्तपः .
परमं यो महद्ब्रह्म परमं यः परायणम् .. १५..
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् .
दैवतं दैवतानां च भूतानां योऽव्ययः पिता .. १६..
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे .
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये .. १७..
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते .
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् .. १८..
यानि नामानि गौणानि विख्यातानि महात्मनः .
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये .. १९..
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ..
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः .. २०..
अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः .
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते .. २१..
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ..
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं .. २२ ..
.. पूर्वन्यासः ..
श्रीवेदव्यास उवाच - - -
ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ..
श्री वेदव्यासो भगवान् ऋषिः .
अनुष्टुप् छन्दः .
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता .
अमृतांशूद्भवो भानुरिति बीजम् .
देवकीनन्दनः स्रष्टेति शक्तिः .
उद्भवः क्षोभणो देव इति परमो मन्त्रः .
शङ्खभृन्नन्दकी चक्रीति कीलकम् .
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् .
रथाङ्गपाणिरक्षोभ्य इति नेत्रम् .
त्रिसामा सामगः सामेति कवचम् .
आनन्दं परब्रह्मेति योनिः .
ऋतुः सुदर्शनः काल इति दिग्बन्धः ..
श्रीविश्वरूप इति ध्यानम् .
श्रीमहाविष्णुप्रीत्यर्थं सहस्रनामजपे विनियोगः ..
.. अथ न्यासः..
ॐ शिरसि वेदव्यासऋषये नमः .
मुखे अनुष्टुप्छन्दसे नमः .
हृदि श्रीकृष्णपरमात्मदेवतायै नमः .
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः .
पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः .
सर्वाङ्गे शङ्खभृन्नन्दकी चक्रीति कीलकाय नमः .
करसंपूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ..
इति ऋषयादिन्यासः ..
.. अथ करन्यासः ..
ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः .
अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः .
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति मध्यमाभ्यां नमः .
सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः .
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः .
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः .
इति करन्यासः ..
.. अथ षडङ्गन्यासः ..
ॐ विश्वं विष्णुर्वषट्कार इति हृदयाय नमः .
अमृतांशूद्भवो भानुरिति शिरसे स्वाहा .
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मेति शिखायै वषट् .
सुवर्णबिन्दुरक्षोभ्य इति कवचाय हुम् .
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् .
रथाङ्गपाणिरक्षोभ्य इत्यस्त्राय फट् .
इति षडङ्गन्यासः ..
श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपमहं
करिष्ये इति सङ्कल्पः .
.. अथ ध्यानम् .
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकतेर्मौक्तिकानां
मालाकॢप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः .
शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूष वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शङ्खपाणिर्मुकुन्दः .. १..
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः .
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि .. २..
ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् .
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् .. ३..
मेघश्यामं पीतकौशेयवासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् .
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्वलोकैकनाथम् .. ४..
नमः समस्तभूतानामादिभूताय भूभृते .
अनेकरूपरूपाय विष्णवे प्रभविष्णवे .. ५..
सशङ्खचक्रं सकिरीटकुण्डलं
सपीतवस्त्रं सरसीरुहेक्षणम् |
सहारवक्षःस्थलकौस्तुभश्रियं
नमामि विष्णुं शिरसा चतुर्भुजम् .. ६..
छायायां पारिजातस्य हेमसिंहासनोपरि
आसीनमम्बुदश्याममायताक्षमलंकृतम् |
चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कित वक्षसं
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये .. ७..
.. स्तोत्रम्..
.. हरिः ॐ ..
विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः .
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः .. १..
पूतात्मा परमात्मा च मुक्तानां परमा गतिः .
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च .. २..
योगो योगविदां नेता प्रधानपुरुषेश्वरः .
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः .. ३..
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः .
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः .. ४..
स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः .
अनादिनिधनो धाता विधाता धातुरुत्तमः .. ५..
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः .
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः .. ६..
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः .
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् .. ७..
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः .
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः .. ८..
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः .
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् .. ९..
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः .
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः .. १०..
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः .
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः .. ११..
वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः .
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः .. १२..
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः .
अमृतः शाश्वत स्थाणुर्वरारोहो महातपाः .. १३..
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः .
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः .. १४..
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः .
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः .. १५..
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः .
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः .. १६..
उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः .
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः .. १७..
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः .
अतीन्द्रियो महामायो महोत्साहो महाबलः .. १८..
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः .
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् .. १९..
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः .
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः .. २०..
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः .
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः .. २१..
अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः .
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा .. २२..
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः .
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः .. २३..
अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः .
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् .. २४..
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः .
अहः संवर्तको वह्निरनिलो धरणीधरः .. २५..
सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः .
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः .. २६..
असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः .
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः .. २७..
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः .
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः .. २८..
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः .
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः .. २९..
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः .
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः .. ३०..
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः .
औषधं जगतः सेतुः सत्यधर्मपराक्रमः .. ३१..
भूतभव्यभवन्नाथः पवनः पावनोऽनलः .
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः .. ३२..
युगादिकृद्युगावर्तो नैकमायो महाशनः .
अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् .. ३३..
इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः .
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः .. ३४..
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः .
अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः .. ३५..
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः .
वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः .. ३६..
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः .
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः .. ३७..
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् .
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः .. ३८..
अतुलः शरभो भीमः समयज्ञो हविर्हरिः .
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः .. ३९..
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः .
महीधरो महाभागो वेगवानमिताशनः .. ४०..
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः .
करणं कारणं कर्ता विकर्ता गहनो गुहः .. ४१..
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः .
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः .. ४२..
रामो विरामो विरजो मार्गो नेयो नयोऽनयः . orविरामो विरतो
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः .. ४३..
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः .
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः .. ४४..
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः .
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः .. ४५..
विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् .
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः .. ४६..
अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः .
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः .. ४७..
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः .
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् .. ४८..
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् .
मनोहरो जितक्रोधो वीरबाहुर्विदारणः .. ४९..
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् .
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः .. ५०..
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् .
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः .. ५१..
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः .
आदिदेवो महादेवो देवेशो देवभृद्गुरुः .. ५२..
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः .
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः .. ५३..
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः .
विनयो जयः सत्यसंधो दाशार्हः सात्त्वतांपतिः .. ५४..
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः .
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः .. ५५..
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः .
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः .. ५६..
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः .
त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् .. ५७..
महावराहो गोविन्दः सुषेणः कनकाङ्गदी .
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः .. ५८..
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः .
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः .. ५९..
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः .
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः .. ६०..
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः .
दिवःस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः .. ६१..
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् .
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् .. ६२..
शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः .
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः .. ६३..
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः .
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः .. ६४..
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः .
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः .. ६५..
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः .
विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः .. ६६..
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः .
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः .. ६७..
अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः .
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः .. ६८..
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः .
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः .. ६९..
कामदेवः कामपालः कामी कान्तः कृतागमः .
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः .. ७०..
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः .
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः .. ७१..
महाक्रमो महाकर्मा महातेजा महोरगः .
महाक्रतुर्महायज्वा महायज्ञो महाहविः .. ७२..
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः .
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः .. ७३..
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः .
वसुप्रदो वासुदेवो वसुर्वसुमना हविः .. ७४..
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः .
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः .. ७५..
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः .
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः .. ७६..
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् .
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः .. ७७..
एको नैकः सवः कः किं यत् तत्पदमनुत्तमम् .
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः .. ७८..
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी .
वीरहा विषमः शून्यो घृताशीरचलश्चलः .. ७९..
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् .
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः .. ८०..
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः .
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः .. ८१..
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः .
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् .. ८२..
समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः .
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा .. ८३..
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः .
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः .. ८४..
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः .
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी .. ८५..
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः .
महाह्रदो महागर्तो महाभूतो महानिधिः .. ८६..
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः .
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः .. ८७..
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः .
न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः .. ८८..
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः .
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः .. ८९..
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् .
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः .. ९०..
भारभृत् कथितो योगी योगीशः सर्वकामदः .
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः .. ९१..
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः .
अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः .. ९२..
सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः .
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः .. ९३..
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः .
रविर्विरोचनः सूर्यः सविता रविलोचनः .. ९४..
अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः .
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः .. ९५..
सनात्सनातनतमः कपिलः कपिरव्ययः .
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः .. ९६..
अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः .
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः .. ९७..
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः .
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः .. ९८..
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः .
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः .. ९९..
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः .
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः .. १००..
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः .
जननो जनजन्मादिर्भीमो भीमपराक्रमः .. १०१..
आधारनिलयोऽधाता पुष्पहासः प्रजागरः .
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः .. १०२..
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः .
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः .. १०३..
भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः .
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः .. १०४..
यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः .
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च .. १०५..
आत्मयोनिः स्वयंजातो वैखानः सामगायनः .
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः .. १०६..
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः .
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः .. १०७..
सर्वप्रहरणायुध ॐ नम इति .
वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी .
श्रीमान् नारायणो विष्णुर्वासुदेवोऽभिरक्षतु .. १०८..
श्री वासुदेवोऽभिरक्षतु ॐ नम इति .
.. उत्तरन्यासः..
भीष्म उवाच - - -
इतीदं कीर्तनीयस्य केशवस्य महात्मनः .
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् .. १..
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् .
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः .. २..
वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् .
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् .. ३..
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् .
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् .. ४..
भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः .
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् .. ५..
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च .
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् .. ६..
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति .
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः .. ७..
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् .
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः .. ८..
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् .
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः .. ९..
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः .
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् .. १०..
न वासुदेवभक्तानामशुभं विद्यते क्वचित् .
जन्ममृत्युजराव्याधिभयं नैवोपजायते .. ११..
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः .
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः .. १२..
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः .
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे .. १३..
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः .
वासुदेवस्य वीर्येण विधृतानि महात्मनः .. १४..
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् .
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् .. १५..
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः .
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च .. १६..
सर्वागमानामाचारः प्रथमं परिकल्पते .
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः .. १७..
ऋषयः पितरो देवा महाभूतानि धातवः .
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् .. १८..
योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च .
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् .. १९..
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः .
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः .. २०..
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् .
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च .. २१..
विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् .
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् .. २२..
न ते यान्ति पराभवम् ॐ नम इति .
अर्जुन उवाच - - -
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम .
भक्तानामनुरक्तानां त्राता भव जनार्दन .. २३..
श्रीभगवानुवाच - - -
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव .
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः .. २४..
स्तुत एव न संशय ॐ नम इति .
व्यास उवाच - - -
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् .
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते .. २५..
श्री वासुदेव नमोऽस्तुत ॐ नम इति .
पार्वत्युवाच - - -
केनोपायेन लघुना विष्णोर्नामसहस्रकम् .
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो .. २६..
ईश्वर उवाच - - -
श्रीराम राम रामेति रमे रामे मनोरमे .
सहस्रनाम तत्तुल्यं राम नाम वरानने .. २७..
श्रीरामनाम वरानन ॐ नम इति .
ब्रह्मोवाच - - -
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे .
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटी युगधारिणे नमः .. २८..
सहस्रकोटी युगधारिणे ॐ नम इति .
सञ्जय उवाच - - -
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः .
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम .. २९..
श्रीभगवानुवाच - - -
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते .
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् .. ३०..
परित्राणाय साधूनां विनाशाय च दुष्कृताम् .
धर्मसंस्थापनार्थाय संभवामि युगे युगे .. ३१..
आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु
वर्तमानाः .
संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्तु .. ३२..
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वा
प्रकृतिस्वभावात् .
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि .. ३३..
.. इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं संपूर्णम् ..
.. ॐ तत् सत्..
Additional Concluding Shlokas
ॐ आपदामपहर्तारं दातारं सर्वसंपदाम् .
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ..
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् .
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ..
नमः कोदण्डहस्ताय सन्धीकृतशराय च .
खण्डिताखिलदैत्याय रामायऽऽपन्निवारिणे ..
रामाय रामभद्राय रामचंद्राय वेधसे .
रघुनाथाय नाथाय सीतायाः पतये नमः ..
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ .
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ..
सन्नद्धः कवची खड्गी चापबाणधरो युवा .
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ..
अच्युतानन्तगोविन्द नामोच्चारणभेषजात् .
नश्यन्ति सकला रोगास्सत्यं सत्यं वदाम्यहम् ..
सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते .
वेदाच्छास्त्रं परं नास्ति न देवं केशवात्परम् ..
शरीरे जर्झरीभूते व्याधिग्रस्ते कळेवरे .
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ..
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः .
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ..
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् .
तत्सर्व क्षम्यतां देव नारायण नमोऽस्तु ते ..
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च .
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ..
Alternate Concluding Shlokas
नमः कमलनाभाय नमस्ते जलशायिने .
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते ..
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च .
जगद्धिताय कृष्णाय गोविंदाय नमो नमः ..
आकाशात्पतितं तोयं यथा गच्छति सागरम् .
सर्वदेवनमस्कारः केशवं प्रति गच्छति ..
एष निष्कंटकः पन्था यत्र संपूज्यते हरिः .
कुपथं तं विजानीयाद् गोविन्दरहितागमम् ..
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् .
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ..
यो नरः पठते नित्यं त्रिकालं केशवालये .
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति ..
दह्यन्ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः .
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते ..
येने ध्यातः श्रुतो येन येनायं पठ्यते स्तवः .
दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः ..
इह लोके परे वापि न भयं विद्यते क्वचित् .
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ ..
शनैर्दहन्ति पापानि कल्पकोटिशतानि च .
अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् ..
पठेन्नामसहस्रं तु गवां कोटिफलं लभेत् .
शिवालये पठेनित्यं तुलसीवनसंस्थितः ..
नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा .
ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति ..
विलयं यान्ति पापानि चान्यपापस्य का कथा .
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ..
.. हरिः ॐ तत्सत् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com