.. यक्षप्रश्नाः ..
Yaksha's Questions
३१३
वैशंपायन उवाच .
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् .
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् .. १..
विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् .
भीमसेनं यमौ चोभौ निर्विचेष्टान् गतायुषः .. २..
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः .
तान् दृष्ट्वा पतितान् भ्रातॄन् सर्वांश्चिन्तासमन्वितः .. ३..
धर्मपुत्रो महाबाहुर्विललाप सुविस्तरम् .
ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर .. ४..
सुयोधनस्य भेत्स्यामि गदया सक्थिनि रणे .
व्यर्थं तदद्य मे सर्वं त्वयि नीरे निपातिते .. ५..
महात्मनि महाबाहो कुरूणां कीर्तिवर्धने .
मनुष्यसंभवा वाचो विधर्मिण्यः प्रति श्रुताः .. ६..
बहवतां दिव्यवाचस्तु ता भवन्तु कथं मृषा .
देवाश्चापि यदाऽवोचन् सूतके त्वां धनञ्जय .. ७..
सहस्राक्षादनवरः कुन्तिपुत्रस्तवेति वै .
उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः .. ८..
विपनष्टां श्रियं चैषामाहर्ता पुनरञ्जसा .
नास्य जेता रणे कश्चिदजेता नैष कस्यचित् .. ९..
सोऽयं मृत्युवशं यातः कथं जिष्णुर्महाबलः .
अयं ममांशां संहत्य शेते भूमौ धनञ्जयः .. १०..
आश्रित्य यं वयं नाथं दुःखान्येतानि सेहिम .
रणे प्रमत्तौ वीरौ च सदा शत्रुनिबहर्णौ .. ११..
कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ .
यौ सर्वास्त्राप्रतिहतौ भीमसेनधनञ्जयौ .. १२..
अश्मसारमयं नूनं हृदयं मम दुहृर्दः .
यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते .. १३..
शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः .
अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः .. १४..
अविक्षतशरीश्चाप्यप्रमृष्टशरासनाः .
असंज्ञा भुवि सङ्गम्य किं शेध्वमपराजिताः .. १५..
सानूनिवाद्रेः संसुप्तां दृष्ट्वा भ्रातॄन् महामतिः .
सुखं प्रसुप्तां प्रस्विन्नः खिन्नः कष्टां दशां गतः .. १६..
एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः .
शोकसागर मध्यस्थो दध्यौ कारणमाकुलः .. १७..
इतिकर्तव्यतां चेति देशकालविभागवित् .
नाभिपेदे महाबाहुश्चिन्तयानो महामतिः .. १८..
अथ संस्तभ्य धर्मात्मा तदाऽऽत्मानं तपः सुतः .
एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः .. १९..
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः .. २०..
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् .
भूतं महदिदं मन्ये भ्रातरो येन मे हताः .. २१..
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् .
स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् .. २२..
गन्धारराजरचितं सततं जिह्मबुद्धिना .
यस्य कार्यमकार्यं वा सममेव भवत्युत .. २३..
कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः .
अथवा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः .. २४..
भवेदिति महाबुद्धिर्बहुधा तदचिन्तयत् .
तस्यासीन्न विषेणेदमुदकं दूषितं यथा .. २५..
मृतानामपि चैतेषां विकृतं नैव जायते .
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् .. २६..
एकैकशश्चौघबलानिमान्पुरुषसत्तमान् .
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते .. २७..
एतेन व्यवसायेन तत्तोयं व्यवगाढवान् .
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे .. २८..
यक्ष उवाच .
अहं बकः शैवलमत्स्यभक्षो
नीताः मया प्रेतवशं तवानुजाः .
त्वं पञ्चमो भविता राजपुत्र
न चेत्प्रश्नान्पृच्छतो व्याकरोषि .. २९..
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः .
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च .. ३०..
युधिष्ठिर उवाच .
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् .
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् .. ३१..
हिमवान्पारियात्रश्च विन्ध्यो मलय एव च .
चत्वारः पर्वताः केन पातिता भूरितेजसः .. ३२..
अतीव ते महत्कर्म कृतं च बलिनां वर .
यान्न देवा न गन्धर्वा नासुराश्च राक्षसाः .. ३३..
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् .
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ..३४..
कौतूहलं महज्जातं साध्वसं चागतं मम .
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः .. ३५..
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति .
यक्ष उवाच .
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः .. ३६..
मयैते निहताः सर्वे भ्रातरस्ते महौजसः .
वैशंपायन उवाच .
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् .. ३७..
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः .
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् .. ३८..
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् .
वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः .. ३९..
मेघगंभीरनादेन तर्जयन्तं महास्वनम् .
यक्ष उवाच .
इमे ते भ्रातरो राजन्वार्यमाणा मयाऽसकृत् ..४०..
बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया .
न पेयमुदकं राजन्प्राणानिह परीप्सता .. ४१..
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः .
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च .. ४२..
युधिष्ठिर उवाच .
न चाह्ं कामये यक्ष तव पूर्वपरिग्रहम् .
कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा .. ४३..
यदात्मना स्वमात्मानं प्रशंसे पुरुषर्षभ .
यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् .. ४४..
यक्ष उवाच .
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः .
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति .. ४५..
युधिष्ठिर उवाच .
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः .
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति .. ४६..
यक्ष उवाच .
केनस्विच्छ्रोत्रियो भवति केनस्विद्विन्दते महत् .
केनस्विद्द्वितीयवान्भवति राजन् केन च बुद्धिमान् .. ४७..
युधिष्ठिर उवाच .
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् .
धृत्या द्वितीयवान्भवति बुद्धिमान् वृद्धसेवया .. ४८..
यक्ष उवाच .
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव .
कश्चैषां मानुषो भावः किमेषामसतामिव .. ४९..
युधिष्ठिर उवाच .
स्वाध्याय एषां देवत्वं तप एषां सतामिव .
मरणं मानुषो भावः परिवादोऽसतामिव .. ५०..
यक्ष उवाच .
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव .
कश्चैषां मानुषो भावः किमेषामसतामिव .. ५१..
युधिष्ठिर उवच .
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव .
भयं वै मानुषो भावः परित्यागोऽसतामिव .. ५२..
यक्ष उवाच .
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः .
का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते .. ५३..
युधिष्ठिर उवाच .
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः .
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते .. ५४..
यक्ष उवाच .
किंस्विदावपतां श्रेष्ठं किंस्विन्निवपतां वरम् .
किंस्वित्प्रतिष्ठमानानां किंस्वित्प्रसवतां वरम् .. ५५..
युधिष्ठिर उवाच .
वर्षमावततां श्रेष्ठं बीजं निवपतां वरम् .
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः .. ५६..
यक्ष उवाच .
इन्द्रियार्थाननुभवन् बुद्धिमाँल्लोकपूजितः .
संमतः सर्वभूतानामुच्छ्वसन् को न जीवति .. ५७..
युधिष्ठिर उवाच .
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः .
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति .. ५८..
यक्ष उवाच .
किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात् .
किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् .. ५९..
युधिष्ठिर उवाच .
माता गुरुतरा भूमेः खात् पितोच्चरस्तथा .
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् .. ६०..
यक्ष उवाच .
किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चोपति .
कस्यस्विद्धृदयं नास्ति किंस्विद्वेगेन वर्धते .. ६१..
युधिष्ठिर उवाच .
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति .
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते .. ६२..
यक्ष उवाच .
किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः .
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः .. ६३..
युधिष्ठिर उवाच .
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः .
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः .. ६४..
यक्ष उवाच .
कोऽतिथिः सर्वभूतानां किंस्विद्धर्मं सनातनम् .
अमृतं किंस्विद्राजेन्द्र किंस्वित् सर्वमिदं जगत् .. ६५..
युधिष्ठिर उवाच .
अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् .
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् .. ६६..
यक्ष उवाच .
किंस्विदेको विचरते जातः को जायते पुनः .
किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् .. ६७..
युधिष्ठिर उवाच .
सूर्य एको विचरते चन्द्रमा जायते पुनः .
अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् .. ६८..
यक्ष उवाच .
किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः .
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् .. ६९..
युधिष्ठिर उवाच .
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः .
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् .. ७०..
यक्ष उवाच .
किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा .
उपजीवनं किंस्विदस्य किंस्विदस्य परायणम् .. ७१..
युधिष्ठिर उवाच .
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा .
उपजीवनं च पर्जन्यो दानमस्य परायणम् .. ७२..
यक्ष उवाच .
धन्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तमम् .
लाभानामुत्तमं किंस्यात् सुखानां स्यात्किमुत्तमम् .. ७३..
युधिष्ठिर उवाच .
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् .
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा .. ७४..
यक्ष उवाच .
कश्च धर्मः परो लोके कश्च धर्मः सदा फलः .
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते .. ७५..
युधिष्ठिर उवाच .
आनृशंस्यं परो धर्मस्त्रयी धर्मः सदा फलः .
मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते .. ७६..
यक्ष उवाच .
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति .
किं नु हित्वाऽर्थवान्भवति किं नु हित्वा सुखी भवेत् .. ७७..
युधिष्ठिर उवाच .
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति .
कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् .. ७८..
यक्ष उवाच .
किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके .
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु .. ७९..
युधिष्ठिर उवाच .
धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके .
भृत्येषु भरणार्थं वै भयार्थं चैव राजसु .. ८०..
यक्ष उवाच .
केन स्विदावृतो लोकः केन स्विन्न प्रकाशते .
केन त्यजति मित्राणि केन स्वर्गं न गच्छति .. ८१..
युधिष्ठिर उवाच .
अज्ञानेनावृतो लोकस्तमसा न प्रकाशते .
लोभात्त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति .. ८२..
यक्ष उवाच .
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् .
श्राद्धं मृतं कथं वा स्यात् कथं यज्ञो मृतो भवेत् .. ८३..
युधिष्ठिर उवाच .
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् .
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः .. ८४..
यक्ष उवाच .
का दिक्किमुदकं प्रोक्तं किमन्नं किंच वै विषम् .
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च .. ८५..
युधिष्ठिर उवाच .
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् .
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे .. ८६..
यक्ष उवाच .
तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः .
क्षमा च का परा प्तोक्ता का च हृईः परिकीर्तिता .. ८७..
युधिष्ठिर उवाच .
तपः स्वधर्मवर्तित्वं मनसो दमनं दमः .
क्षमा द्वन्द्वसहिष्णुत्वं हृईरकार्यनिवर्तनम् .. ८८..
यक्ष उवाच .
किं ज्ञानं प्रोच्यते राजन् कः शमश्च प्रकीर्तितः .
दया च का परा प्रोक्ता किञ्चार्जवमुदाहृतम् .. ८९..
युधिष्ठिर उवाच .
ज्ञानं तत्त्वार्थसंबोधः शमश्चित्तप्रशान्तता .
दया सर्वसुखैषित्वमार्जवं समचित्तता .. ९०..
यक्ष उवाच .
कः शत्रुर्दुर्जयः पुंसां कश्च व्यादिरनन्तकः .
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः .. ९१..
युधिष्ठिर उवाच .
क्रोधः सुदुर्जयः शत्रुर्लोभो व्यादिरनन्तकः .
सर्वभूतहितः साधुरसादुर्निर्दयः स्मृतः .. ९२..
यक्ष उवाच .
को मोहः प्रोच्यते राजन् कश्च मानः प्रकीर्तितः .
किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः .. ९३..
युधिष्ठिर उवाच .
मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता .
धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते .. ९४..
यक्ष उवाच .
किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् .
स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते .. ९५..
युधिष्ठिर उवाच .
स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः .
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् .. ९६..
यक्ष उवाच .
कः पण्डितः पुमान् ज्ञेयो नास्तिकः कश्च उच्यते .
को मूर्खः कश्च कामः स्यात् को मत्सर इति स्मृतः .. ९७..
युधिष्ठिर उवाच .
धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते .
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः .. ९८..
यक्ष उवाच .
कोऽहङ्कार इति प्रोक्तः कश्च दंभः प्रकीर्तितः .
किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते .. ९९..
युधिष्ठिर उवाच .
महाज्ञानमहङ्कारो दम्भो धर्मो ध्वजोच्छ्रयः .
दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् .. १००..
यक्ष उवाच .
धर्मश्चार्थश्च कामश्च परस्परविरोधिनः .
एषां नित्यविरुद्धानां कथमेकत्र सङ्गमः .. १०१..
युधिष्ठिर उवाच .
यदा धर्मश्च भार्या च परस्परवशानुगौ .
तदा धर्मार्थकामानां त्रयाणामपि सङ्गमः .. १०२..
यक्ष उवाच .
अक्षयो नरकः केन प्राप्यते भरतर्षभ .
एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि .. १०३..
युधिष्ठिर उवाच .
ब्राह्मणं स्वयमाहूय याचमानमकिञ्चनम् .
पश्चान्नस्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् .. १०४..
वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु .
देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत् .. १०५..
विद्यमाने धने लोभाद्दानभोगविवर्जितः .
पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् .. १०६..
यक्ष उवाच .
राजन् कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा .
ब्राह्मण्यं केन भवति प्रब्रूह्येतत् सुनिश्चितम् .. १०७..
युधिष्ठिर उवाच .
श्रुणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् .
कारणं हि द्विजत्वे च वृत्तमेव न संशयः .. १०८..
वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः .
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः .. १०९..
पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः .
सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः .. ११०..
चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते .
योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः .. १११..
यक्ष उवाच .
प्रियवचनवादी किं लभते
विमृशितकार्यकरः किं लभते .
बहुमित्रकरः किं लभते
धर्मे रतः किं लभते कथय .. ११२..
युधिष्ठिर उवाच .
प्रियवचनवादी प्रियो भवति
विमृशितकार्यकरोऽधिकं जयति .
बहुमित्रकरः सुखं वसते
यश्च धर्मरतः स गतिं लभते .. ११३..
यक्ष उवाच .
को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका .
वद मे चतुरः प्रश्नान् मृता जीवन्तु बान्धवाः .. ११४..
युधिष्ठिर उवाच .
पञ्चमेऽहनि षष्ठे वा शकं पचति स्वे गृहे .
अनृणी चाप्रवासी च स वारिचर मोदते .. ११५..
अहन्यहनि भूतानि गच्छन्तीह यमालयम् .
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् .. ११६..
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्न
नैको ऋषिर्यस्य मतं प्रमाणम् .
धर्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः .. ११७..
अस्मिन् महामोहमये कटाहे
सूर्याग्निना रात्रिदिवेन्धनेन .
मासर्तुदर्वीपरिघट्टनेन
भूतानि कालः पचतीति वार्ता .. ११८..
यक्ष उवाच .
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप .
पुरुषं त्विदानीं व्याख्याहि यश्च सर्वधनी नरः .. ११९..
युधिष्ठिर उवाच .
दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा .
यावत्स शब्दो भवति तावत्पुरुष उच्यते .. १२०..
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च .
अतीतानागते चोभे स वै सर्वधनी नरः .. १२१..
यक्ष उवाच .
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः .
तस्मात्त्वमेकं भ्रातॄणां यमिच्छसि स जीवतु .. १२२..
युधिष्ठिर उवाच .
श्यामो य एष रक्ताक्षो बृहच्छाल इवोत्थितः .
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु .. १२३..
यक्ष उवाच .
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् .
स कस्मान्नकुलो राजन्सापत्नं जीवमिच्छसि .. १२४..
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् .
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि .. १२५..
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव .
अथ केनानुभावेन सापत्नं जीवमिच्छसि .. १२६..
यस्य बाहुबलं सर्वे पाण्डवाः समुपासते .
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि .. १२७..
युधिष्ठिर उवाच .
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः .
तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् .. १२८..
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् .
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु .. १२९..
धर्मशीलः सदा राजा इति मां मानवा विदुः .
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु .. १३०..
कुन्ती चैव माद्री च द्वे भार्ये तु पितुर्मम .
उभे सपुत्रे स्यातां वै इति मे धीयते मतिः .. १३१..
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः .
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु .. १३२..
यक्ष उवाच .
तस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् .
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ .. १३३..
इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि यक्षप्रश्ने
त्रयोदशाधिकत्रिशततमोऽध्ययः ..
.. इति..
These verses form Ch. 297 of Prof. Tokunaga's files,
and Ch. 313 of Pt. Kinjavadekar's edition.
Following verses do not appear in the former:
4-20; 34; 66-67; 79-82;86-118; 128; 131 .
Please send corrections to Sunder Hattangadi (sunderh@hotmail.com OR sanskrit@cheerful.com)
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com