||सर्वशास्त्रार्थ अणु भाष्य ( आनन्दतीर्थ) ||
सर्वशास्त्रार्थसंग्रहः
Encoded and proofread by Shrisha Rao shrao at dvaita.org
||श्री गुरुभ्यो नमः हरिः ॐ ||
ॐ विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः |
समन्वयादीक्षतेश्च पूर्णानंदोऽंतरः खवत् ||१. १ ||
प्रणेता ज्योतिरित्यादैः प्रसिद्धैरन्यवस्तुषु |
उच्यते विष्णुरेवैकः सर्वैः सर्व गुणत्त्वतः ||१. २ ||
सर्वगोऽत्ता नियंता च दृश्यत्त्वादुज्झितः सदा |
विश्वजीवांतरत्त्वादैर्लिङ्गैः सर्वैर्युतः स हि ||१. ३ ||
सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः |
सूर्यादिभासकः प्राणप्रेरको दैवतैरपि ||१. ४ ||
ज्ञेयो न वेदैः शूद्रादैः कन्दकोऽन्यश्च जीवतः |
पतित्त्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः ||१. ५ ||
मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः |
अव्यक्तः कर्मवाच्यैश्च वाच्य एकोऽमितात्मकः ||१. ६ ||
अवान्तरं कारणं च प्रकृतिः शून्यमेव च |
इत्यादन्यत्र नियतैरपि मुख्यतयोदितः |
शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः ||१. ७ ||
||इति प्रथमोऽध्यायः ||
||अथ द्वितीयोऽध्यायः ||
ॐ श्रौतस्मृतिविरुद्धत्त्वात् स्मृतयो न गुणान्हरेः |
निषेद्धुं शक्नुयुर्वेदानित्यत्वान्मानमुत्तमम् ||२. १ ||
असज्जीवप्रधानादिशब्दाब्रह्मैव नापरम् |
वदन्ति कारणत्वेन क्वापि पूर्णगुणो हरिः ||२. २ ||
स्वातन्त्र्यात्सर्वकर्तृत्त्वान्नायुक्तं तद्भवेच्छ्रुतिः |
भ्रान्तिमूलतया सर्व समयानामयुक्तितः ||२. ३ ||
न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत् |
आकाशादिसमस्तं च तज्जं तेनैव लीयते ||२. ४ ||
सोऽनुत्पत्तिलयः कर्ता जीवः तद्वशगः सदा |
तदाभासो हरिः सर्व रूपेष्वपि समः सदा ||२. ५ ||
मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवाः |
मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा ||२. ६ ||
सर्व दोशोज्झितः तस्माद् भगवान् पुरुषोत्तमः |
उक्ता गुणाश्चाविरुद्धास्तस्य वेदेषु सर्वथा ||२. ७ ||
||इति द्वितीयोऽध्यायः ||
||अथ तृतीयोऽध्यायः ||
ॐ शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा |
मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ||३. १ ||
याति तस्माद्विरक्तः सन् ज्ञानमेव समाश्रयेत् |
सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान् ||३. २ ||
सर्वदेशेषु कालेषु स एकः परमेश्वरः |
तद्भक्तिस्तारतम्येन तारतम्यं विमुक्तिगम् ||३. ३ ||
सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः |
यथा क्रमं बहुगुणैर्ब्रह्मणत्त्वखिलैर्गुणैः ||३. ४ ||
उपास्यः सर्वदेवैश्च सर्वैरपि यथा बलम् |
ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरं ||३. ५ ||
सर्वेऽपि पुरुषार्थास्युः ज्ञानादेव न संशयः |
न लिप्यते ज्ञानावंश्च सर्वदोषैरपि क्वचित् ||३. ६ ||
गुणदोषैः सुखस्यापि वृद्धि ह्रासौ विमुक्तिगौ |
नॄणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम् ||३. ७ ||
||इति तृतीयोऽध्यायः ||
||अथ चतुर्थोऽध्यायः ||
ॐ विष्णुर्ब्रह्म तथाऽदित्यत्येवं नित्यमुपासनम् |
कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम् ||४. १ ||
प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः |
अनिष्टस्योऽभयस्यापि सर्वस्यान्यस्य भोगतः ||४. २ ||
उत्तरेषोत्तरेष्वेवं यावद्वायुं विमुक्तिगाः |
प्रविश्य भुञ्जते भोगांस्तदन्तर्बहिरेव वा ||४. ३ ||
वायुर्विष्णुं प्रविश्यैव भोगश्चैवोत्तरोत्तरम् |
उत्क्रम्य मानुषा मुक्तिं यान्ति देहक्षयात्सुराः ||४. ४ ||
अर्चिरादि पठा वायुं प्राप्य तेन जनार्दनम् |
यान्त्युत्तमा नरोच्चाद्या ब्रह्मलोकात्सहाऽमुना ||४. ५ ||
यथासङ्कल्पभोगाश्च चिदानन्द शरीरिणः |
जगत्सृष्ट्यादिविशयं महासामर्थ्य मप्यृते ||४. ६ ||
यथेष्टशक्तिमंतश्च विना स्वाभाविकोत्तमान् |
अनन्यवशगाश्चैव वृद्धिह्रास विवर्जिताः |
दुःखादिरहितं नित्यं मोदंतेऽविरतं सुखम् ||४. ७ ||
पूर्णप्रज्ञेन मुनिना सर्वशास्त्रार्थसंग्रहः |
कृतोऽयं प्रीयतां तेन परमात्मा रमापतिः ||४. ८ ||
नमो नमोऽशेषदोषदूर पूर्णगुणात्मने |
विरिञ्चिशर्वपूर्वेड्य वंद्याय श्रीवराय ते ||४. ९ ||
||इति चतुर्थोऽध्यायः ||
इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचितं
ब्रह्मसूत्राणुभाष्यं सम्पूर्णम्
||भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ||
%@@1
% File name : aNu_bhAshhya.itx
%--------------------------------------------
% Text title : sarvashAstrArtha aNu bhAShya (AnandatIrtha)
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : ????Source
% Transliterated by : Shrisha Rao shrao at dvaita.org
% Proofread by : Shrisha Rao shrao at dvaita.org
% Latest update : November 1, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .