.. अभिलाषाष्टकं ..
अभिलाषाष्टकम्
abhilaashhaashhTakam.h
Send corrections to Narayanaswami at swami@math.mun.ca
.. अथ अभिलाषाष्टकम् ..
कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्
रमासंश्लिष्टांगं गगनरुचमापीतवसनम् .
गदाशंखाम्भोजारिवरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् .. १..
कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये
समासीनं पीठे जलधितनयालिंगिततनुम् .
स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतम्
स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् .. २..
कदा मामाभीतं भयजलधितस्तापसतनुं
गता रागं गंगातटगिरिगुहावाससहनम् .
लपन्तं हे विष्णो सुरवर रमेशेति सततं
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः .. ३..
कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ .
स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् .. ४..
कदा मे भोगाशा निबिडभवपाशादुपरतं
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् .
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् .. ५..
कदा मे संरुद्धाखिलकरणजालस्य परितो
जिताशेषप्राणानिलपरिकरस्य प्रजपतः .
सदोंकारं चित्तं हरिपदसरोजे धृतवतः
समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् .. ६..
कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः
शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने .
वदत्यूर्ध्वं शश्वन्मम वदनकंजे मुहुरहो
करिष्यत्यावासं हरिरिति पदं पावनतमम् .. ७..
कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां
चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः .
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-
र्गमिष्यामीशस्यांतिकमखिलदुःखांतकमिति .. ८..
.. इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं
अभिलाषाष्टकं संपूर्णम् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com