.. अध्यात्मरामयणे बाल काण्डम् ..
.. प्रथमः सर्गः..
.. राम हृदयम्..
यः पृथिवीभरवारणाय दिविजैः संप्रार्थितश्चिन्मयः
संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः .
निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे .. १..
विश्वोद्भवस्थितिलयादिषु हेतुमेकं
मायाश्रियं विगतमायमचिन्त्यमूर्तिम् .
आनन्दसान्द्रममलं निजबोधरूपं
सितापतिं विदिततत्त्वमहं नमामि .. २..
पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति
चाध्यात्मिकसंज्ञितं शुभम् .
रामायणं सर्वपुराणसंमतं
निर्धूतपापा हरिमेव यान्ति ते .. ३..
अध्यात्मरामायणमेव नित्यं
पठेद्यदीच्छेद्भवबन्धमुक्तिम् .
गवां सहस्रायुतकोटिदानात्
फलं लभेद्यः शृणुयात्स नित्यम् .. ४..
पुरारिगिरिसंभूता श्रीरामार्णवसङ्गता .
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् .. ५..
कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसंघैः .
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दरम् .. ६..
पार्वत्युवाच
नमोऽस्तु ते देव जगन्निवास
सर्वात्मदृक् त्वं परमेश्वरोऽसि .
पृच्छामि तत्त्वं पुरोषोत्तमस्य
सनातनं त्वं च सनातनोऽसि .. ७..
गोप्यं यदत्यन्तमनन्यवाच्यं
वदन्ति भक्तेषु महानुभावाः .
तदप्यहोऽहं तव देव भक्ता
प्रियोऽसि मे त्वं वद यत्तु पृष्टम् .. ८..
ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं
च मितं विभास्वत् .
जानाम्यहं योषिदपि त्वदुक्तं
यथा तथा ब्रूहि तरन्ति येन .. ९..
पृच्छामि चान्यच्च परं
रहस्यं तदेव चाग्रे वद वारिजाक्ष .
श्रीरामचन्द्रेऽखिललोकसारे
भक्तिर्दृढा नौर्भवति प्रसिद्धा .. १०..
भक्तिः प्रसिद्धा भवकोक्षणाय
नान्यत्ततः साधनमस्ति किञ्चित् .
तथापि हृत्संशयबन्धनं मे
विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् .. ११..
वदन्ति रामं परमेकमाद्यं
निरस्तमायागुणसप्रवाहम् .
भजन्ति चाहर्निशमप्रमत्ताः
परं पदं यान्ति तथैव सिद्धाः .. १२..
वदन्ति केचित्परमोऽपि रामः
स्वाविद्यया संवृतमात्मसंज्ञम् .
जानाति नात्मानमतः परेण
सम्बोधितो वेद परात्मतत्त्वम् .. १३..
यदि स्म जानाति कुतो विलापः
सीताकृतेऽनेन कृतः परेण .
जानाति नैवं यदि केन सेव्यः
समो हि सर्वैरपि जीवजातैः .. १४..
अत्रोत्तरं किं विदितं भवद्भिस्तद्
ब्रूत मे संशयभेदि वाक्यम् .. १५..
श्रीमहादेव उवाच
धन्यासि भक्तासि परात्मनस्त्वं
यज्ज्ञातुमिच्छा तव रामतत्त्वम् .
पुरा न केनाप्यभिचोदितोऽहं
वक्तुं रहस्यं परमं निगूढम् .. १६..
त्वयाद्य भक्त्या परिनोदितोऽहं
वक्ष्ये नमस्कॄत्य रघूत्तमं ते .
रामः परात्मा प्रकृतेरनादिरानन्द
एकः पुरुषोत्तमो हि .. १७..
स्वमायया कृत्स्नमिदं हि
सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः .
सर्वान्तरस्थोऽपि निगूढ
आत्मा स्वमायया सृष्टमिदं विचष्टे .. १८..
जगन्ति नित्यं परितो भ्रमन्ति
यत्सन्निधौ चुम्बकलोहवद्धि .
एतन्न जानन्ति विमूढचित्ताः
स्वाविद्यया संवृतमानसा ये .. १९..
स्वाज्ञानमप्यात्मनि शुद्धबुद्धे
स्वारोपयन्तीह निरस्तमाये .
संसारमेवानुसरन्ति ते वै
पुत्रादिसक्ताः पुरुकर्मयुक्ताः .. २०..
यथाऽप्रकाशो न तु विद्यते रवौ
ज्योतिःस्वभावे परमेश्वरे तथा .
विशुद्धविज्ञानघने रघूत्तमेऽविद्या
कथं स्यात्परतः परात्मनि .. २१..
यथा हि चाक्ष्णा भ्रमता गृहादिकं
विनष्टदृष्टेर्भ्रमतीव दृश्यते .
तथैव देहेन्द्रियकर्तुरात्मनः
कृते परेऽध्यस्य जनो विमुह्यति .. २२..
नाहो न रात्रिः सवितुर्यथा भवेत्
प्राकाशरूपाव्यभिचारतः क्वचित् .
ज्ञानं तथाज्ञनमिदं द्वयं हरौ
रामे कथं स्थास्यति शुद्धचिद्घने .. २३..
तस्मात्परानन्दमये रघूत्तमे
विज्ञानरूपे हि न विद्यते तमः .
अज्ञानसाक्षिण्यरविन्दलोचने
मायाश्रयत्वान्न हि मोहकारणम् .. २४..
अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् .
सीताराममरुत्सूनुसंवादं मोक्षसाधनम् .. २५..
पुरा रामायणे रामे रावणं देवकण्टकम् .
हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् .. २६..
सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः .
अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः .. २७..
अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः .
सिंहासने समासीनः कोटिसूर्यसमप्रभः .. २८..
दृष्ट्वा तदा हनूमन्तं प्राञ्जलिं पुरतः स्थितम् .
कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् .. २९..
रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते .
निष्कल्मषोऽयं ज्ञानस्यपात्रं
नो नित्यभक्तिमान् .. ३०..
तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् .
हनूमते प्रपन्नाय सीता लोकविमोहिनी .. ३१..
सीतोवाच
रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् .
सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् .. ३२..
आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् .
सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् .. ३३..
मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् .
तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता .. ३४..
तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः .
अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले .. ३५..
विश्वामित्रसहायत्वं मखसंरक्षणं ततः .
अहल्याशापशमनं चापभङ्गो महेशितुः .. ३६..
मत्पाणिग्रहणं पश्चाभार्गवस्य मदक्षयः .
अयोध्यानगरे वासो मया द्वादशवार्षिकः .. ३७..
दण्डकारण्यगमनं विराधवध एव च .
मायामारीचमरणं मायासीताहृतिस्तथा .. ३८..
जटायुषो मोक्षलाभः कबन्धस्य तथैव च .
शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः .. ३९..
वालिनश्च वधः पश्चात्सीतान्वेषणमेव च .
सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् .. ४०..
रावणस्य वधो युद्धे सुपुत्रस्य दुरात्मनः .
विभीषणे राज्यदानं पुष्पकेण मया सह .. ४१..
अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् .
एवमादीनि कर्माणि मयैवाचरितान्यपि
आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि .. ४२..
रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते
त्यजति नो न करोति किञ्चित् .
आनन्दमूर्तिरचलः परिणामहीनो
मायागुणाननुगतो हि तथा विभाति .. ४३..
ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् .
शृणुतत्त्वम् प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् .. ४४..
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् .
जलाशये महाकाशस्तदवच्छिन्न एव हि .
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः .. ४५..
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् .
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः .. ४६..
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि .
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं
च तथा बुधैः .. ४७..
आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते .
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः .. ४८..
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते .
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा .. ४९..
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः .
तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः .. ५०..
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते .
मद्भक्तिविमुखानां हि शास्त्रगर्तेष्य् मुह्यताम् .
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि .. ५१..
इदं रहस्यं हृदयं ममात्मनो
मयैव साक्षात्कथितं तवानघ .
मद्भक्तिहीनाय शठाय न त्वया
दातव्यमैन्द्रादपि राज्यतोऽधिकम् .. ५२..
श्रीमहादेव उवाच
एतत्तेऽभिहितं देवि श्रीरामहृदयं मया .
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् .. ५३..
साक्षाद्रामेण कथितं सर्ववेदान्तसंग्रहम् .
यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः .. ५४..
ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि .
नश्यन्त्येव न सन्देहो रामस्य वचनं यथा .. ५५..
योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा
स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी
यः संपूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या
योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम् .. ५६..
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे
श्रीरामहृदयं नाम प्रथमः सर्गः .. १..
.. बाल काण्डम्..
.. द्वितीयः सर्गः..
पार्वत्युवाच
धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो .
विच्छिन्नो मेऽस्तिसन्देहग्रन्थिर्भवदनुग्रहात् .. १..
त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् .
पिबन्ति मे मनो देव न तृप्यति भवापहम् .. २..
श्रीरामस्य कथा त्वत्तः शृता संक्षेपतो मया .
इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् .. ३..
श्रीमहादेव उवाच
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् .
अध्यात्मरामचरतिं रामेणोक्तं पुरा मम .. ४ .
तदद्य कथयिष्यामि शृणु तापत्रयापहम् .
यच्छृत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् .
प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् .. ५..
भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां
धृत्वा गोरूपमादौ दिविजमुनिजनैः
साकमब्जासनस्य .
गत्वा लोकं रूदन्ती व्यसनमुपगतं ब्रह्मणे प्राह
सर्वं ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि
हृदावेदशेषात्मकत्वात् .. ६..
तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथ
देवैर्वृतो देव्या चाखिललोकहृत्स्थमजरं
सर्वज्ञमीशं हरिम् .
अस्तौषीच्छृतिसिद्धनिर्मलपदैः स्तोत्रैः
पुराणोद्भवै र्भक्त्या गद्गदया
गिरातिविमलैरानन्दबाष्पैर्वृतः .. ७..
ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः .
आविरासीद्धरिः प्राच्यां दिशां व्यपनयंस्तमः .. ८..
कथंचिद्दृष्ट्वान्ब्रह्मा दुर्दर्शमकृतात्मनाम् .
इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् .. ९..
किरीटहारकेयूरकुण्डलैः कटकादिभिः .
विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् .. १०..
स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् .
शङ्खचक्रगदापद्मवनमालाविराजितम् .. ११..
स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च .
श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् .. १२..
हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे .. १३..
ब्रह्मोवाच
नतोऽस्मि ते पदं देव प्राण बुद्धीन्द्रियात्मभिः .
यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः .. १४..
मायया गुणमय्या त्वम् सृजस्यवसि लुम्पसि .
जगत्तेन न ते लेप आनन्दानुभवात्मनः .. १५..
तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः .
शुद्धात्मता ते यशसि सदा भक्तिमतां यथा .. १६..
अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये .
सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः .. १७..
ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः .
अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदिभावितः .. १८..
तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो .
स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् .. १९..
अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका .
भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः .. २०..
अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे .
संसारमयतप्तानां भेषजं भक्तिरेव ते .. २१..
इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः .
किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः .. २२..
भगवन् रावणो नाम पौलस्त्यतनयो महान् .
राक्षसनामधिपतिर्मद्दत्तवरदर्पितः .. २३..
त्रिलोकीं लोकपालांश्च बाधते विश्वबाधकः .
मानुषेण मृतिस्तस्य मया कल्याण कल्पिता .. २४..
अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो .. २५..
श्रीभगवानुवाच
कश्यपस्य वरो दत्तस्तपसा तोषितेन मे .
याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया .
स इदानीं दशरथो भूत्वा तिष्ठति भूतले .. २६..
तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने .
चतुर्धात्मानमेवाहं सृजामीतरयोः पृथक् .. २७..
योगमायापि सीतेति जनकस्य गृहे तदा .
उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् .
इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत् .. २८..
ब्रह्मोवाच
विष्णुर्मानुषरूपेण भविष्यति रघोः कुले .. २९..
यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान् .
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले .. ३०..
इति देवान्समादिश्य समाश्वास्य च मेदिनीम् .
ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः .. ३१..
देवाश्च सर्वे हरिरूपधारिणः
स्थिताः सहायार्थमितस्ततो हरेः .
महाबलाः पर्वतवृक्षयोधिनः
प्रतीक्षमाणा भगवन्तमीश्वरम् .. ३२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे द्वितीयः सर्गः .. २..
.. अध्यात्म रामायणम् ..
.. बाल काण्डम् ..
.. तृतीयः सर्गः ..
श्रीमहादेव उवाच
अथ राजा दशरथः श्रीमान्सत्यपरायणः .
अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः .. १..
सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा .
वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत् .. २..
स्वामिन्पुत्रा कथं मे स्युः सर्वलक्षणलक्षितः .
पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते .. ३..
ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव .
चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः .. ४..
शान्ताभर्तारमानीय ऋष्यश्रुङ्गं तपोधनम् .
अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर .. ५..
तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः .
यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः .. ६..
श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः .
पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् .. ७..
गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् .
लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः .. ८..
इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः .
ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः .. ९..
वसिष्ठऋष्यश्रुङ्गाभ्यामनुज्ञातो ददौ हवः .
कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः .. १०..
ततः सुमित्रा संप्राप्ता जगृध्नुः पौत्रिकं चरुम् .
कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता .. ११..
कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्वितः .
उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्वितः .. १२..
देवता इव रेजुस्ताः स्वभासा राजमन्दिरे .
दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम् .. १३..
मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे .
पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके .. १४..
मेषं पूषणि संप्राप्ते पुष्पवृष्टिसमाकुले .
आविरासीज्जगन्नाथः परमात्मा सनातनः .. १५..
नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः .
जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः .. १६..
सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः .
शङ्खचक्रगदापद्मवनमालाविराजितः .. १७..
अनुग्रहाख्यहृस्थेन्दुसूचकस्मितचन्द्रिकः .
करुणारससम्पूर्णन्विशालोत्पललोचनः .
श्रीवत्सहारकेयूरनूपुरादिविभूषणः .. १८..
दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला .
हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् .. १९..
कौसल्योवाच
देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर .
परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः .. २०..
वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् .
त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् .. २१..
त्वमेव मायया विश्वं सृजस्यवसि हंसि च .
सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा .. २२..
करोषीव न कर्ता त्वं गच्छसीव न गच्छसि .
शृणोषि न शृणोषीव पश्यसीव न पश्यसि .. २३..
अप्रमाणो ह्यमनाः शुद्ध इत्यादि शृतिरब्रवीत् .
समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे .. २४..
अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् .
जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः .. २५..
त्वं ममोदरसम्भूत इति लोकान्विडम्बसे .
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम .. २६..
संसारसागरे मग्ना पतिपुत्रधनादिषु .
भ्रमामि मायया तेऽद्य पादमूलमुपागता .. २७..
देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे .
आवृणोतु न मां माया तव विश्वविमोहिनी .. २८..
उपसंहार विश्वात्मन्नदो रूपमलौकिकम् .
दर्शयस्व महानन्दबालभावं सुकोमलम् .
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः .. २९..
श्रीभगवानुवाच
यद्यदिष्ठं तवास्त्यम्ब तत्तद्भवतु नान्यथा .. ३०..
अहं तु ब्रह्मणा पूर्वं भूमिर्भारापनुत्तये .
प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः .. ३१..
त्वया दशरथेनाहं तपसाराधितः पुरा .
मत्पुत्रत्वाभिकाङ्क्षिण्या कृतमनिन्दिते .. ३२..
रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् .
मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् .. ३३..
संवादमावयोर्यस्तु पठेद्वा शृणुयादपि .
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् .. ३४..
इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह .
बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः .. ३५..
बालारुणप्रतीकाशो लालिताखिललोकपः .
अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम् .
आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह .. ३६..
रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसंप्लुतः .
गुरुणा जातकर्माणि कर्तव्यानि चकार सः .. ३७..
कैकेयी चाथ भरतमसूत कमलेक्षणा .
सुमित्रायां ययौ जातौ पूर्णेन्दुसदृशाननौ .. ३८..
तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ .
सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः .. ३९..
यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे .
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि .. ४०..
भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितं .
शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत .. ४१..
लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च .
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः .. ४२..
रामस्तु लक्ष्मणेनाथ विचरन्बाललीलया .
रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः .. ४३..
भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम् .
कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम् .. ४४..
कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम् .
शिञ्जनमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम् .. ४५..
स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् .
अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः .
दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा .. ४६..
भोक्ष्यमाणो दशरथो राममेहीति चासकृत् .
आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया .. ४७..
आनयेतिच कौसल्यामाह सा सस्मिता सुतम् .
धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम् .. ४८..
प्रहसन्स्वयमायाति कर्दमाङ्कितपाणिना .
किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते .. ४९..
कौसल्या जननी तस्य मासि मासि प्रकुर्वती .
बायनानि विचित्राणि समलङ्कृत्य राघवम् .. ५०..
अपूपान्मोदकान्कृत्वा कर्णशष्कुलिकास्तथा .
कर्णपूरांश्च विविधान् वर्षवृद्धौ च वायनम् .. ५१..
गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् .
एकदा रघुनाथोऽसौ गतो मातरमन्तिके .. ५२..
भोजनं देहि मे मातर्न शृतं कार्यसक्तया .
ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा .. ५३..
शिक्यस्थं पातयामास गव्यं च नवनीतकम् .
लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् .. ५४..
शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च .
सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति .. ५५..
आगतां तां विलोक्याथ ततः सर्वैः पलायितम् .
कौसल्या धावमानापि प्रस्खलन्ती पदे पदे .. ५६..
रघुनाधं करे धृत्वा किञ्चिन्नोवाच भामिनी .
बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह .. ५७..
ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः .
एवमानन्दसन्दोहजगदानन्दकारकः .. ५८..
मायाबालवपुर्धृत्वा रमयामास दम्पती .
अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे .. ५९..
उपनीता वसिष्ठेन सर्वविद्याविशारदाः .
धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः .. ६०..
बभूवुर्जगतां नाथ लीलया नररूपिणः .
लक्ष्मणस्तु सदा राममनुगच्छति सादरम् .. ६१..
सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा .
रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः .. ६२..
अश्वारूढो वनं याति मृगयायै सलक्ष्मणः .
हत्वा दुष्टमृगान्सर्वान्पित्रे सर्वं न्यवेदयत् .. ६३..
प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च .
पौरकार्याणि सर्वाणि करोति विनयान्वितः .. ६४..
बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् .
धर्मशास्त्ररहस्यानि शृणाति व्याकरोति च .. ६५..
एवं परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम् .
चक्रेऽविकारी परिणामहीनो विचार्यमाणे न करोति किञ्चित् .. ६६..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे तृतीयः सर्गः .. ३..
.. अध्यात्म रामायणम् ..
.. बाल काण्डम् ..
.. चतुर्थः सर्गः ..
श्रीमहादेव उवाच
कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः .
द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया .. १..
दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु .
वसिष्ठेन समागम्य पूजयित्वा यथाविधि .. २..
अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः .
कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात् .. ३..
त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति संपदः .
यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत् .. ४..
विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिः .
अहं पर्वणि संप्राप्ते दृष्ट्वा यष्टुं सुरान्पितन् .. ५..
यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः .
मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः .. ६..
अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे .
लक्ष्मणेन सह भ्राता तव श्रेयो भविष्यति .. ७..
वसिष्ठेन सहामन्त्र्या दीयतां यदि रोचते .
पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः .. ८..
किं करोमि गुरो रामं त्यक्तुं नोत्सहते महः .
बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः .. ९..
चत्वारोऽमस्तुल्यास्ते तेषां रामोऽतिवल्लभः .
रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन .. १०..
प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः .
कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत् .. ११..
वसिष्ठ उवाच
शृणु राजन्देवगुह्यं गोपनीयं प्रयत्नतः .
रामो न मानुषो जातः परमात्मा सनातनः .. १२..
भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा .
स एव जातो भवने कौसल्यायां तवानघ .. १३..
त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः .
कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी .. १४..
भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् .
अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ .
तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः .. १५..
वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल .
इति त्वया याचितोऽसौ भगवान्भूतभावनः .. १६..
तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि .
शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यते .. १७..
जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः .
योगमायापि सीतेति जाता जनकनन्दिनी .. १८..
विश्वामित्रोऽपि रामाय तां योजयितुमागतः .
एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन .. १९..
अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् .
प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् .. २०..
वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा .
कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः .. २१..
आहूय रामरामेति लक्ष्मणेति च सादरम् .
आलिङ्ग्य मूर्ध्नवघ्राय कौशिकाय समर्पयत् .. २२..
ततोऽतिहृष्टो भगवान्विश्वामित्रः प्रतापवान् .
आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ .
गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ .. २३..
किञ्चिद्देशमतिक्रम्य राममाहूय भक्तितः .
ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते .. २४..
ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते .. २५..
तत उत्तीर्य गङ्गां ते ताटकावनमागमन् .
विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् .. २६..
अत्रास्ति ताटका नाम राक्षसी कामरूपिणी .
बाधते लोकमखिलं जहि तामविचारयन् .. २७..
तथेति धनुरादाय सगुणं रघुनन्दनः .
टङ्कारमकरोत्तेन शब्देनापूरयद्वनम् .. २८..
तच्छृत्वासहमाना सा ताटका घोररूपिणी .
क्रोधसंमूर्च्छिता राममभिदुद्राव मेघवत् .. २९..
तामेकेन शरेणाशु ताडयामास वक्षसि .
पपात विपिने घोरा वमन्ती रुधिरं बहु .. ३०..
ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता .
शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः .. ३१..
नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् .. ३२..
ततोऽतिहृष्टः परिरभ्य रामं
मूर्धन्यवघ्राय विचिन्त्य किञ्चित् .
सर्वास्त्रजालं सरहस्यमन्त्रं
प्रीत्याभिरामाय ददौ मुनीन्द्रः .. ३३..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे चतुर्थः सर्गः .. ४..
.. अध्यात्म रामायणम् ..
.. बाल काण्डम् ..
.. पञ्चमः सर्गः ..
श्रीमहादेव उवाच
तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले .
उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः .. १..
सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् .
विश्वामित्रेण संदिष्टा मुनयस्तन्निवासिनः .. २..
पूजां च महतीं चक्रू रामलक्ष्मणयोर्ध्रुतम् .
श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् .. ३..
दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ .
तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह .. ४..
मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ .
मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी .. ५..
रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः .
आकर्णांतं समाकृष्य विससर्ज तयोः पृथक् .. ६..
तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम् .
पातयामास जलधौ तदद्भुतमिवाभवत् .. ७..
द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् .
अपरे लक्षमणेनाशु हतास्तदनुयायिनः .. ८..
पुष्पौघैराकिरन्देवा राघवं सहलक्ष्मणम् .
देवदुन्दुभयो नेदुस्तुष्टुवः सिद्धचारणाः .. ९..
विश्वामित्रस्तु संपूज्य पूजार्हं रघुनन्दनम् .
अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः .. १०..
भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः .
पुराणवाक्यैर्मधुरैर्निर्नाय दिवसत्रयम् .. ११..
चतुर्थेऽहनि संप्राप्ते कौशिको राममब्रवीत् .
राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् .. १२..
विदेहराजनगरे जनकस्य महात्मनः .
तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना .. १३..
द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च .
इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् .. १४..
गौतमस्याश्रमं पुण्यं यत्राहल्यास्थिता तपः .
दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम् .. १५..
मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितं .
दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः .. १६..
कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत् .
पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् .. १७..
आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः .. १८..
विश्वामित्र उवाच
शृणु राम पुरा वृत्तं गौतमो लोकविशृतः .
सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम् .. १९..
तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम् .
ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम् .. २०..
तया सार्धमिहावत्सीद्गौतमस्तपतां वरः .
शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहं .. २१..
कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात् .
धर्षयित्वाथ निरगात्त्वरितं मुनिरप्यगात् .. २२..
दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः .
पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः .. २३..
सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः .
सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करम् .. २४..
कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा .
गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् .. २५..
योनिलम्पट दुष्टात्मन्सहस्रभगवान्भव .
शत्वा तं देवराजानं प्रविश्य स्वाश्रमं धृतम् .. २६..
दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् .
दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम .. २७..
निराहारा दिवारात्रं तपः परममास्थिता .
आतपानिलवर्षादिसहिष्णुः परमेश्वरम् .. २८..
ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम् .
नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति .. २९..
एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च .
रामो दाशरथिः श्रीमानागमिष्यति सानुजः .. ३०..
यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति .
तदैव धूतपापा त्वं रामं संपूज्य भक्तितः .. ३१..
परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे .
पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् .. ३२..
इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम् .
तदाद्यहल्या भूतानामदृश्या स्वाश्रामे शुभे .. ३३..
तव पादरजःस्पर्शं काङ्क्षते पवनाशना .
आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता .. ३४..
पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम् .
इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः .. ३५..
दर्शयामास चाहल्यामुग्रेण तपसा स्थितम् .
रामः शिलां पदा स्पृष्ट्वा तां
चापश्यत्तपोधनाम् .. ३६..
ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् .
ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् .. ३७..
चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् .
धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् .. ३८..
स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम् .
नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश .. ३९..
दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा .
गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम् .. ४०..
संपूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता .
हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा .. ४१..
उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् .
पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैलत .. ४२..
अहल्योवाच
अहो कृतार्थास्मि जगन्निवास ते
पादाब्जसंलग्नरजःकणादहम् .
स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते
रन्धितमानसैः सदा .. ४३..
अहो विचित्रं तव राम चेष्टितं
मनुष्यभावेन विमोहितं जगत् .
चलस्यजस्रं चरणादिवर्जितः
सम्पूर्ण आनन्दमयोऽतिमायिकः .. ४४..
यत्पादपङ्कजपरागपवित्रगात्रा
भागीरथी भवविरिञ्चिमुखान्पुनाति .
साक्षात्स एव मम दृग्विषयो यदास्ते
किं वर्ण्यते मम पुराकृतभागधेयम् .. ४५..
मर्त्यावतारे मनुजाकृतिं हरिं
रामाभिधेयं रमणीयदेहिनम् .
धनुर्धरं पद्मविशाललोचनं
भजामि नित्यं न परान्भजिष्ये .. ४६..
यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं
यन्नाभिपङ्कजभवः कमलासनश्च .
यन्नामसाररसिको भगवान्पुरारिस्तं
रामचन्द्रमनिशं हृदि भावयामि .. ४७..
यस्यावतारचरितानि विरिञ्चिलोके
गायन्ति नारदमावा भवपद्मजाद्याः .
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
वागीश्वरी च तमहं शरणं प्रपद्ये .. ४८..
सोऽयं परात्मा पुरुषः पुराणा
एकः स्वयंज्योतिरनन्त आद्यः .
मायातनुं लोकविमोहनीयां
धत्ते परानुग्रह एष रामः .. ४९..
अयं हि विश्वोद्भवसंयमानामेकः
स्वमायागुणबिम्बितो यः .
विरिञ्चिविष्ण्वीश्वरनामभेदान्
धत्ते स्वतन्त्रः परिपूर्ण आत्मा .. ५०..
नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं
श्रिया धृतं वक्षसि लालितं प्रियात् .
आक्रान्तमेकेन जगत्त्रयं पुरा
ध्येयं मुनीन्द्रैरभिमानवर्जितैः .. ५१..
जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः .
सर्वभूतेष्वसंयुक्त एको भाति भवान्परः .. ५२..
ओंकारवाच्यस्त्वं राम वाचामविषयः पुमान् .
वाच्यवाचकभेदेन भवानेव जगन्मयः .. ५३..
कार्यकारणकर्तृत्वफलसाधनभेदतः .
एको विभासि राम त्वं मायया बहुरूपया .. ५४..
त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः .
मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् .. ५५..
आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः .
असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः .. ५६..
योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो .
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः .. ५७..
देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा .
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे .. ५८..
नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल .
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते .. ५९..
भवभयहरमेकं भानुकोटिप्रकाशं
करधृतशरचापं कालमेघावभासम् .
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं
कमलविशदनेत्रं सानुजं राममीडे .. ६०..
स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् .
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौ पतिम् .. ६१..
अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः .
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति .. ६२..
पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च .
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् .. ६३..
सर्वान्कामानवाप्नोति रामचन्द्रप्रसादतः .. ६४..
ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः .
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदयस्थं
स्मरन् ध्यायन्मुक्तिमुपैति किं पुनरसौ
स्वाचारयुक्तो नरः .. ६५..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे बालकाण्डे
अहल्योद्धरणं नाम पञ्चमः सर्गः .. ५..
.. बाल काण्डम् ..
.. षष्ठः सर्गः ..
विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् .
गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् .. १..
दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि .
इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः .
तस्मिन्काले नाविकेन निषिद्धो रघुनन्दनः .. २..
नाविक उवाच
क्षालयामि तव पादपङ्कजं नाथ
दारुदृषदोः किमन्तरम् .
मानुषीकरणचूर्णमस्ति ते
पादयोरिति कथा प्रथीयसी .. ३..
पादाम्बुजं ते विमलं हि कृत्वा
पश्चात्परं तीरमहं नयामि .
नोचेत्तरी सद्युवती मलेन
स्याच्चेद्विभो विद्धि कुटम्बवाहानिः .. ४..
इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः .
कौशिको रघुनाथेन सहितो मिथिलां ययौ .. ५..
विदेहस्य पुरं प्रातरृषिवाटं समाविशत् .
प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः .. ६..
पूजाद्रव्याणि संगृह्य सोपाध्यायः समाययौ .
दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम् .. ७..
पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ .
द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ .. ८..
कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ .
मनःप्रीतिकरौ मेऽद्य नरनारायणाविव .. ९..
प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा .
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ .. १०..
मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् .
आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् .. ११..
शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः .
ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् .. १२..
सुबाहुप्रमुखान्हत्वा मारीचं सागरेऽक्षिपत् .
ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम् .. १३..
गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता .
पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी .. १४..
दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः .
इदानीं द्रष्टकामस्ते गृहे माहेश्वरं धनुः .. १५..
पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे .
अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम् .
दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति .. १६..
इत्युक्तो मुनिना राजा पूजार्हाविति पूजया .
पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा .. १७..
जनक उवाच
ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम् .
शीघ्रमानय विश्वेशचापं रामाय दर्शय .. १८..
ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत् .
यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम् .. १९..
तदा मयात्मजा सीता दीयते राघवाय हि .
तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् .. २०..
शीघ्रं दर्शय चापाग्र्यं रामायमिततेजसे .
एवं ब्रुवति मौनीशे आगताश्चापवाहकाः .. २१..
चापं गृहीत्वा बलिनः पङ्चसाहस्रसङ्ख्यकाः .
घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् .. २२..
दर्शयामास रामाय मन्त्री मन्त्रयतां वरः .
दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् .. २३..
गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः .
आरोपयामास गुणं पश्यत्स्वखिलराजसु .. २४..
ईषदाकर्षयामास पाणिना दक्षिणेन सः .
बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् .. २५..
दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् .
तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् .. २६..
आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे .
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः .. २७..
द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम् .
विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे .. २८..
सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे .
स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता .. २९..
मुक्ताहारैः कर्णपत्रैः क्वनच्चरणनूपुरा .
दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी .. ३०..
रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ .
ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम् .. ३१..
गवाक्षजालरन्घ्रेभ्यो दृष्ट्वा लोकविमोहनम् .
ततोऽभवीन्मुनिं राजा सर्वशास्त्रविशारदः .. ३२..
भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् .
राजा दशरथः शीघ्रमागच्छतु सपुत्रकः .. ३३.
विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः .
तथेति प्रेषयामास दूतांस्त्वरितविक्रमान् .. ३४..
ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् .
श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः .. ३५..
मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः .
गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः .. ३६..
रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् .
वसिष्ठस्त्वग्रतो यातु सदार सहितोऽग्निभिः .. ३७..
राममातः समादाय मुनिर्मे भगवान् गुरुः .
एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् .. ३८..
महत्या सेनया सार्धमारुह्य त्वरितो ययौ .
आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः .. ३९..
प्रत्युज्जगाम जनकः शतानन्दपुरोधसा .
यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् .. ४०..
रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः .
ततो हॄष्टो दशरथो रामं वचनमब्रवीत् .. ४१..
दिष्ट्या पश्यामिते राम मुखं फुल्लाम्बुजोपमम् .
मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम् .. ४२..
इत्य्क्त्वाघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः .
हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा .. ४३..
ततो जनकराजेन मन्दिरे सन्निवेशितः .
शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी .. ४४..
ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् .
आनयामास धर्मज्ञो रामं सभ्रातृकं तदा .. ४५..
रत्नस्तम्भसुविस्तारे सिविताने सुतोरणे .
मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते .. ४६..
वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः .
सुवासिनीभिः परितो निष्ककण्ठीभिरावृते .. ४७..
भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले .
दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत् .. ४८..
वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः .
यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः .. ४९..
स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि .
सीतामानीय शोभाढ्यां नानारत्नविभूषिताम् .. ५०..
सभार्यो जनकः प्रायाद्रामं राजीवलोचनम् .
पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत् .. ५१..
या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा .
ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् .. ५२..
रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः .
सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता .. ५३..
दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम .
इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् .. ५४..
मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे .
उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा .. ५५..
तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके .
भरताय ददावेकां शत्रुघ्नायापरां ददौ .. ५६..
चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः .
विरेजुः प्रजया सर्वे लोकपाला इवापरे .. ५७..
ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः .
जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् .. ५८..
यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे .
सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा .. ५९..
तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् .
अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना .. ६०..
एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते .
रणयन्महतीम् वीणां गायन्नरायणं विभुम् .. ६१..
पूजितः सुखमासीनो मामुवाच सुखान्वितः .
शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् .. ६२..
परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया .
देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च .. ६३..
जातो राम इति ख्यातो मायामानुषवेषधृक् .
आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः .. ६४..
योगमायापि सीतेति जाता वै तव वेश्मनि .
अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः .. ६५..
नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः .
इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा .. ६६..
तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते .
कथं मया राघवाय दीयते जानकी शुभा .. ६७..
इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम् .
मत्पितामहगेहे तु न्यासभूतमिदं धनुः .. ६८..
ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् .
धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा .. ६९..
सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् .
त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः .. ७०..
आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः .
अद्य मे सफलं जन्म राम त्वां सह सीतया .. ७१..
एकासनस्थं पश्यामि भ्राजमानं रविं यथा .. ७२..
त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः .
बलिस्त्वत्पादसलिलं धृत्वाभूद्दिविजाधिपः .. ७३..
त्वत्पादपांसुस्ंस्पर्शादहल्या भर्तृशापतः .
सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता .. ७४..
यत्पादपङ्कजपरागसुरागयोगिवृन्दैर्जितं
भवभयं जितकालचक्रैः .
यन्नमकीर्तनपरा जितदुःखशोका देवास्तमेव
शरणं सततं प्रपद्ये .. ७५..
इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने .
दीनाराणां कोटिशतं रथानामयुतं तदा .. ७६..
अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा .
पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ .. ७७..
दिव्याम्बराणि हरांश मुक्तारत्नमयोज्ज्वलान् .
सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः .. ७८..
वसिष्ठादीन्सुसंपूज्य भरतं लक्ष्मणं तथा .
पूजयित्वा यथान्यायं तथा दशरथं नृपन् .. ७९..
प्रस्थापयामास नृपो राजानं रघुसत्तमम् .
सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः .. ८०..
श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता .
पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम् .. ८१..
प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः .
स्वर्वासिभेरीघनतूर्यशब्दैः संमूर्च्छितो
भूतभयङ्करोऽभूत् .. ८२..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे षष्ठः सर्गः .. ६..
.. बाल काण्डम् ..
.. सप्तमः सर्गः ..
अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् .
निमित्तान्यतिघोराणि ददर्श नृपसत्तमः .. १..
नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव .
निमित्तानीह दृश्यन्ते विष्माणि समन्ततः .. २..
वसिष्टस्तमथ प्राह भयमागामि सूच्यते .
पुरप्यभयं तेऽद्य शीघ्रमेव भविष्यति .. ३..
मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः .
इत्येवं वदतस्तथा ववौ घोरतरोऽनिलः .. ४..
मुष्णंश्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् .
ततो व्रजन्ददर्शाग्रे तेजोराशिमुपस्थितम् .. ५..
कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् .
तेजोराशिं ददर्शाथ जमदग्न्यं प्रतापवान् .. ६..
नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् .
धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् .. ७..
कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् .
प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् .. ८..
तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा .
अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् .. ९..
दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे .
इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम् .. १०..
उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः .
त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम .. ११..
द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै .
पुराणं जर्जरं चापं भङ्क्त्वा त्वं कथ्यसे मुधा .. १२..
अस्मिंस्तु वैष्णवे चापे आरोपयसि चेद्गुणम् .
तदा युद्धं त्वया सार्धं करोमि रघुवंशज .. १३..
नो चेत्सर्वान्हनिष्यामि क्षत्रियान्तकरोह्यहम् .
इति ब्रुवति वै तस्मिंश्चाल वसुधा भृशम् .. १४..
अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् .
रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा .. १५..
धनुराच्छिद्य तद्धस्तादातोप्य गुणमञ्जसा .
तूणीराद्बाणमादाय संधायाकृष्य वीर्यवान् .. १६..
उवाच भार्गवं रामं शृणु ब्रह्मन्वचो मम .
लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः .. १७..
लोकान्पादयुगं वापि वद शीघ्रं ममाज्ञया .
अयं लोकः परो वाथ त्यया गन्तुं न शक्यते .. १८..
एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया .
एवं वदति श्रीरामे भार्गवो विकृताननः .. १९..
संस्मरन्पूर्ववृत्तान्तमिदं वचनमब्रवीत् .
राम राम महाबाहो जाने त्वां परमेश्वरम् .. २०..
पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम् .
बाल्येऽयं तपसा विष्णुमाराधयितुमञ्जसा .. २१..
चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् .
अतोषयं महात्मानं नारायणमनन्यधीः .. २२..
ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः .
उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः .. २३..
श्रीभगवानुवाच
उत्तिष्ठ तपसो ब्रह्मन्फलितं ते तपो महत् .
मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम् .. २४..
कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः .
ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्ष्त्रियमण्डलम् .. २५..
कृत्सनां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह .
त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्यहः .. २६..
उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः .
मत्तेजः पुनरादास्ये त्ययि दत्तं मया पुरा .. २७..
तदा तपश्चरंल्लोके तिष्ठ त्वं ब्रह्मणो दिनम् .
इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया .. २८..
स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः .
मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् .. २९..
अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो .
ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः .. ३०..
त्ययि जन्मादिषड्भावा न सन्त्यज्ञानसंभवाः .
निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः .. ३१..
यथा जले फेनजालं धूमो वह्नौ तथा त्ययि .
त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो .. ३२..
यावन्मायावृता लोकास्तावत्त्वां न विजानते .
अविचारितसिद्धैषाविद्या विद्याविरोधिनी .. ३३..
अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता .
चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते .. ३४..
यावद्देहमनः प्राणबुद्ध्यादिष्वभिमानवान् .
तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् .. ३५..
आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति .
अविवेकाद्द्व्ययं युङ्क्त्वा संसारीति प्रवर्तते .. ३६..
जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा .
जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा .. ३७..
यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति .
तावत्स्ंसारदुःखौघान्न निवर्तेन्नरः सदा .. ३८..
तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते .
तदा माया शनैर्याति तानवं प्रतिपद्यते .. ३९..
ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते .
वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते .. ४०..
तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि .
न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा .. ४१..
अतस्त्वत्पादयुगले भक्तिर्मे जन्म जन्मनि .
स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या
याभ्यां विनश्यति .. ४२..
लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः .
पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् .. ४३..
नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन .
नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते .. ४४..
देव यद्यत्कृतं पुण्यं मया लोकजिगीषया .
तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते .. ४५..
ततः प्रसन्नो भगवान् श्रीरामः करुणामयः .
प्रसन्नोऽस्मि तव ब्रह्मन्यत्ते मनसि वर्तते .. ४६..
दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् .
ततः प्रीतेन मनसा भार्गवो राममब्रवीत् .. ४७..
यदि मेऽनुग्रहो राम तवास्ति मधुसूदन .
त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे .. ४८..
स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा .
त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव .. ४९..
तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् .
पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् .. ५०..
रजा दशरथो हृष्टो रामं मृतमिवागतम् .
आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् .. ५१..
ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ .
रामलक्ष्मणशत्रुघ्नभरता देवसंमिताः .. ५२..
स्वां स्वां भर्यामुपादाय रेमिरे स्वस्वमन्दिरे .
मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः .
रेमे वैकुण्ठभवने श्रिया सह यथा हरिः .. ५३..
युधाजिन्नाम कैकेयीभ्राता भरतमातुलः .
भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः .. ५४..
प्रेषयामास भरतं राजा स्नेहसमन्वितः .
शत्रुघ्नं चापि संपूज्य युधाजितमरिन्दमः .. ५५.
कौसल्या शुशुभे देवी रामेण सह सीतया .
देवमातेव पौलोम्या शच्या शक्रेण शोभना .. ५६..
साकेते लोकनाथप्रथितगुणगणो
लोकसङ्गीतकीर्तिः श्रीरामः
सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः .
नित्यश्रीर्निर्विकारो निरवधिविभवो
नित्यमायानिरासो मायाकार्यानुसारी
मनुज इव सदा भाति देवोऽखिलेशः .. ५७..
इति श्रीमदध्यात्मरामयणे उमामहेश्वरसंवादे
बालकाण्डे सप्थमः सर्गः .. ७..
Encoded by Nagaraj Balijepalli nagaraj@iastate.edu
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com