.. ऐतरेय उपनिषत् ..
वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ..
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि .. तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ..
.. ॐ शान्तिः शान्तिः शान्तिः..
.. अथ ऐतरेयोपनिषदि प्रथमाध्याये प्रथमः खण्डः ..
ॐ आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् . स ईक्षत लोकान्नु सृजा इति .. १..
स इमाँ ल्लोकानसृजत . अम्भो मरीचीर्मापोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः ..
पृथिवी मरो या अधस्तात्त आपः .. २..
स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति .. सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत् .. ३..
तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतं नासिकाभ्यां प्राणः .. प्राणाद्वायुरक्षिणी निरभिद्येतमक्षीभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्रद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो
हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः
शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः .. ४..
.. इत्यैतरेयोपनिषदि प्रथमाध्याये प्रथमः खण्डः ..
.. अथ ऐतरेयोपनिषदि प्रथमाध्याये द्वितीयः खण्डः ..
ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन् . तमशनापिपासाभ्यामन्ववार्जत् . ता
एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति .. १..
ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति .
ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति .. २..
ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं बतेति पुरुषो वाव सुकृतम् .
ता अब्रवीद्यथायतनं प्रविशतेति .. ३..
अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशाद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचंप्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन् .. ४..
तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीहीति ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्न्यौ करोमीति . तस्माद्यस्यै कस्यै च देवतायै हविगृर्ह्यते भागिन्यावेवास्यामशनायापिपासे
भवतः .. ५..
.. इत्यैतरेयोपनिषदि प्रथमाध्याये द्वितीयः खण्डः ..
.. अथ ऐतरेयोपनिषदि प्रथमाध्याये तृतीयः खण्डः ..
स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति .. १..
सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत .
या वै सा मूर्तिरजायतान्नं वै तत् .. २..
तदेनत्सृष्टं पराङ्त्यजिघांसत्तद्वाचाऽजिघृक्षत् तन्नाशक्नोद्वाचा ग्रहीतुम् .
स यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् .. ३..
तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत्प्राणेन ग्रहीतुं स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य
हैवान्नमत्रप्स्यत् .. ४..
तच्चक्षुषाऽजिघृक्षत् तन्नाशक्नोच्चक्षुषा ग्रहीतु/न् स यद्धैनच्चक्षुषाऽग्रहैष्यद्दृष्ट्वा हैवानमत्रप्स्यत् .. ५..
तच्छ्रोत्रेणाजिघृक्षत् तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुं स यद्धैनच्छ्रोतेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत् .. ६..
तत्त्वचाऽजिघृक्षत् तन्नाशक्नोत्त्वचा ग्रहीतुं स यद्धैनत्त्वचाऽग्रहैष्यत् स्पृष्ट्वा हैवान्नमत्रप्स्यत् .. ७..
तन्मनसाऽजिघृक्षत् तन्नाशक्नोन्मनसा ग्रहीतुं स यद्धैनन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत् .. ८..
तच्छिश्नेनाजिघृक्षत् तन्नाशक्नोच्छिश्नेन ग्रहीतुं स यद्धैनच्छिश्नेनाग्रहैष्यद्वित्सृज्य हैवानमत्रप्स्यत् .. ९..
तदपानेनाजिघृक्षत् तदावयत् सैषोऽन्नस्य ग्रहो यद्वायुरनायुवार् एष यद्वायुः .. १०..
स ईक्षत कथं न्विदं मदृते स्यादिति स ईक्षत कतरेण प्रपद्या इति .
स ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं
यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ
कोऽहमिति .. ११..
स एतमेव सीमानं विदर्यैतया द्वारा प्रापद्यत . सैषा विदृतिर्नाम द्वास्तदेतन्नाऽन्दनम् .
तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति .. १२..
स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति .स एतमेव पुरुषं ब्रह्म ततममपश्यत् .
इदमदर्शनमिती ३ .. १३..
तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम . तमिदन्द्रं सन्तमिंद्र इत्याचक्षते परोक्षेण .
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः .. १४..
.. इत्यैतरेयोपनिषदि प्रथमाध्याये तृतीयः खण्डः ..
.. अथ ऐतरोपनिषदि द्वितीयोध्यायः ..
ॐ पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः .तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतमात्मन्येवऽऽत्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म .. १..
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा . तस्मादेनां न हिनस्ति .
साऽस्यैतमात्मानमत्र गतं भावयति .. २..
सा भावयित्री भावयितव्या भवति . तं स्त्री गर्भ बिभर्ति . सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति .
स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषं लोकानां सन्तत्या .
एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म .. ३..
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते . अथास्यायामितर आत्मा कृतकृत्यो वयोगतः प्रैति .
स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म .. ४..
तदुक्तमृषिणा गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति . गर्भ एवैतच्छयानो वामदेव एवमुवाच .. ५..
स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् .. ६..
.. इत्यैतरोपनिषदि द्वितीयोध्यायः ..
.. अथ ऐतरोपनिषदि तृतीयोध्यायः ..
ॐ कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा . येन वा पश्यति येन वा शृणोति येन वा गंधानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति .. १..
यदेतद्धृदयं मनश्चैतत् . संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा
दृष्टिधृर्तिमतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति .
सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवंति .. २..
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो
ज्योतींषीत्येतानीमानि च क्षुद्रमिश्राणीव .
बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म .. ३..
स एतेन प्राज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् .. ४..
.. इत्यैतरोपनिषदि तृतीयोध्यायः ..
ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु
तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ..
.. ॐ शान्तिः शान्तिः शान्तिः..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com