.. अक्ष्युपनिषत् ..
यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् .
विकलेवरकैवल्यं रामचन्द्रपदं भजे ..
ॐ सह नाववतु सह नौ भुनक्तु
सह वीर्यं करवावहै .
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ ..
अथ ह सांकृतिर्भगवानादित्यलोकं जगाम .
तमादित्यं नत्वा चाक्षुष्मतीविद्यया
तमस्तुवत् . ॐ नमो भगवते श्रीसूर्या-
याक्षितेजसे नमः . ॐ खेचराय नमः .
ॐ महासेनाय नमः . ॐ तमसे नमः .
ॐ रजसे नमः . ॐ सत्त्वाय नमः .
ॐ असतो मा सद्गमय . तमसो मा ज्योतिर्गमय .
मृत्योर्माऽमृतं गमय . हंसो भगवा-
ञ्छुचिरूपः प्रतिरूपः . विश्वरूपं घृणिनं
जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् .
सहस्ररश्मिः शतधा वर्तमानः पुरुषः
प्रजानामुदयत्येष सूर्यः . ॐ नमो
भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोवाहिनि
वाहिनि स्वाहेति . एवं चाक्षुष्मतीविद्यया स्तुतः
श्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मती-
विद्यां ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो
भवति . न तस्य कुलेऽन्धो भवति . अष्टौ
ब्राह्मणान्ग्राहयित्वाथ विद्यासिद्धिर्भवति .
य एवं वेद स महान्भवति .. १..
अथ ह सांकृतिरादित्यं पप्रच्छ भगवन्-
ब्रह्मविद्यां मे ब्रूहीति . तमादित्यो होवाच .
सांकृते शृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लभम् .
येन विज्ञातमात्रेण जीवन्मुक्तो भविष्यसि ..१..
सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् .
पश्यन्भूतार्थचिद्रूपं शान्त आस्व यथासुखम् .. २..
अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् .
योगस्थः कुरु कर्माणि नीरसो वाथ मा कुरु .. ३..
विरागमुपयात्यन्तर्वासनास्वनुवासरम् .
क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् .. ४..
ग्राम्यासु जडचेष्टासु सततं विचिकित्सते .
नोदाहरति मर्माणि पुण्यकर्माणि सेवते .. ५..
अनन्योद्वेगकारीणि मृदुकर्माणि सेवते .
पापाद्बिभेति सततं न च भोगमपेक्षते .. ६..
स्नेहप्रणयगर्भाणि पेशलान्युचितानि च .
देशकालोपपन्नानि वचनान्यभिभाषते .. ७..
मनसा कर्मणा वाचा सज्जनानुपसेवते .
यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते .. ८..
तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् .
एवं विचारवान्यः स्यात्संसारोत्तरणं प्रति .. ९..
स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः .
विचारनाम्नीमितरामागतो योगभूमिकाम् .. १०..
श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः .
मुख्यया व्याख्ययाख्याताञ्छ्रयति श्रेष्ठपण्डितान् .. ११..
पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् .
जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा .. १२..
मदाभिमानमात्सर्यलोभमोहातिशायिताम् .
बहिरप्यास्थितामीषत्यजत्यहिरिव त्वचम् .. १३..
इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवया .
सरहस्यमशेषेण यथावदधिगच्छति .. १४..
असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् .
ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् .. १५..
यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलाम् .
तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः .
शिलाशय्यासनासीनो जरयत्यायुराततम् .. १६..
वनावनिविहारेण चित्तोपशमशोभिना .
असङ्गसुखसौख्येन कालं नयति नीतिमान् .. १७..
अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् .
जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति .. १८..
तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् .. १९..
द्विप्रकारसंसर्गं तस्य भेदमिमं श्रुणु .
द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च .. २०..
नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः .
इत्यसंजनमर्थेषु सामान्यासङ्गनामकम् .. २१..
प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा .
सुखं वा यदि वा दुःखं कैवात्र तव कर्तृता .. २२..
भोगाभोगा महारोगाः संपदः परमापदः .
वियोगायैव संयोगा आधयो व्याधयो धियाम् .. २३..
कालश्च कलनोद्युक्तः सर्वभावाननारतम् .
अनास्थयेति भावानां यदभावनमान्तरम् .
वाक्यार्थलब्धमनसः समान्योऽसावसङ्गमः .. २४..
अनेन क्रमयोगेन संयोगेन महात्मनाम् .
नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम .. २५..
कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् .
यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते .. २६..
सन्तोषामोदमधुरा प्रथमोदेति भूमिका .
भूमिप्रोदितमात्रोऽन्तरमृताङ्कुरिकेव सा .. २७..
एषा हि परिमृष्टान्तः संन्यासा प्रसवैकभूः .
द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः .. २८..
श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकात्र हि .
भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् .. २९..
भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते .
समं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः .. ३०..
अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते .
पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकां गताः .. ३१..
भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते .. ३२..
चित्तं तु शरदभ्रांशविलयं प्रविलीयते .
सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः .. ३३..
जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् .
पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् .
शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः .. ३४..
गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान् .
सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः .. ३५..
अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोऽपि सन् .
परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते .. ३६..
कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः .
षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् .. ३७..
यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः .
केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः .. ३८..
निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः .
अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः .. ३९..
षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् .. ४०..
विदेहमुक्ततात्रोक्ता सप्तमी योगभूमिका .
अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु .. ४१..
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् .
शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु .. ४२..
ओङ्कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् .
वाच्यवाच्यकताभेदाभेदेनानुपलब्धितः .. ४३..
अकारमात्रं विश्वः स्यादुकारतैजसः स्मृतः .
प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु .. ४४..
समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः .
स्थुलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् .. ४५..
चिदात्मानं नित्यशुद्धबुद्धमुक्तसदद्वयः .
परमानन्दसन्देहो वासुदेवोऽहओमिति .. ४६..
आदिमध्यावसानेषु दुःखं सर्वमिदं यतः .
तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ .. ४७..
अविद्यातिमिरातीतं सर्वाभासविवर्जितम् .
आनन्दममलं शुद्धं मनोवाचामगोचरम् .. ४८..
प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत् .. ४९..
इत्युपनिषत् ..
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ तत्सत् ..
इत्यलक्ष्युपनिषत् ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com