.. अमृतनादोपनिषत् २१ ..
अमृतनादोपनिषत्प्रतिपाद्यं पराक्षरम् .
त्रैपदानन्दसाम्राज्यं हृदि मे भातु सन्ततम् ..
ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै .
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः .
परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् .. १..
ओङ्कारं रथमारुह्य विष्णुं कृत्वाथ सारथिम् .
ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः .. २..
तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः .
स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति .. ३..
मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् .
अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति .. ४..
शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् .
चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते .. ५..
प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा .
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते .. ६..
यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः .
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् .. ७..
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् .
प्रत्याहारेण संसर्गाद्ध्यानेनानीश्वरान्गुणान् .. ८..
किल्बिषं हि क्षयं नीत्वा रुचिरं चैव चिन्तयेत् .. ९..
रुचिरं रेचकं चैव वायोराकर्षणं तथा .
प्राणायामस्त्रयः प्रोक्ता रेचपूरककुम्भकाः .. १०..
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह .
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते .. ११..
उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् .
शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम् .. १२..
वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः .
एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् .. १३..
नोच्छ्वसेन्न च निश्वासेत् गात्राणि नैव चालयेत् .
एवं भावं नियुञ्जीयात् कुम्भकस्येति लक्षणम् .. १४..
अन्धवत्पश्य रूपाणि शब्दं बधिरवत् शृणु .
काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् .. १५..
मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् .
धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता .. १६..
आगमस्याविरोधेन ऊहनं तर्क उच्यते .
समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः .. १७..
भूमिभागे समे रम्ये सर्वदोषविवर्जिते .
कृत्वा मनोमयीं रक्षां जप्त्वा चैवाथ मण्डले .. १८..
पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा .
बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः .. १९..
नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् .
आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् .. २०..
ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् .
दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् .. २१..
पश्चाद्ध्यायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः .
स्थूलातिस्थूलमात्रायं नाभेरूर्ध्वरुपक्रमः .. २२..
तिर्यगूर्ध्वमधो दृष्टिं विहाय च महामतिः .
स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् .. २३..
तालमात्राविनिष्कम्पो धारणायोजनं तथा .
द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः .. २४..
अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च .
अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित्
.. २५..
येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति .
अतस्तमभ्यसेन्नित्यं सन्मार्गगमनाय वै .. २६..
हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् .
मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः .. २७..
भयं क्रोधमथालस्यमतिस्वप्नातिजागरम् .
अत्याहरमनाहरं नित्यं योगी विवर्जयेत् .. २८..
अनेन विधिना सम्यङ्नित्यमभ्यसतः क्रमात् .
स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः .. २९..
चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः .
इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः .. ३०..
पार्थिवः पञ्चमात्रस्तु चतुर्मात्राणि वारुणः .
आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः .. ३१..
एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् .
सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि .. ३२..
त्रिंशत्पर्वाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः .
एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः .. ३३..
अशीतिश्च शतं चैव सहस्राणि त्रयोदश .
लक्षश्चैकोननिःश्वास अहोरात्रप्रमाणतः .. ३४..
प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे .
समानो नाभिदेशे तु उदानः कण्ठमाश्रितः .. ३५..
व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति .
अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् .. ३६..
रक्तवर्नो मणिप्रख्यः प्राणो वायुः प्रकीर्तितः .
अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः .. ३७..
समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः .
आपाण्डर उदानश्च व्यानो ह्यर्चिस्समप्रभः .. ३८..
यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि .
यत्र तत्र म्रियेद्वापि न स भूयोऽबिजायते .
न स भूयोऽभिजायत इत्युपनिषत् .. ३९..
ॐ सह नाववत्विति शान्तिः ..
.. इति कृष्णयजुर्वेदीय अमृतनादोपनिषत्समाप्ता ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com