.. अमृतबिन्दु ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः .
हरिः ॐ ..
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च .
अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् .. १..
मन एव मनुष्याणां कारणं बन्धमोक्षयोः .
बन्धाय पिष्यासक्तं मुक्तंये निर्विषयं स्मृतम् .. २..
यतो निर्विष्यस्यास्य मनसो मुक्तिरिष्यते .
अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा .. ३..
निरस्तनिषयासङ्गं संनिरुद्धं मनो हृदि .
यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम् .. ४..
तावदेव निरोद्धव्यं यावद्धृति गतं क्षयम् .
एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः .. ५..
नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च .
पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा .. ६..
स्वरेण संधयेद्योगमस्वरं भावयेत्परम् .
अस्वरेणानुभावेन नाभावो भाव इष्यते .. ७..
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् .
तदब्रह्मामिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् .. ८..
निर्विकल्पमनन्तं च हेतुद्याष्टान्तवर्जितम् .
अप्रमेयमनादिं च यज्ञात्वा मुच्यते बुधः .. ९..
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः .
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. १०..
एक एवाऽऽत्मा मन्थव्यो जाग्रत्स्वप्नसुषुप्तिषु .
स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते .. ११..
एक एव हि भूतात्मा भूते भूते व्यवस्थितः .
एकधा बहुधा चैव दृष्यते जलचन्द्रवत् .. १२..
घटसंवृतमाकाशं नीयमानो घटे यथा .
घटो नीयेत नाऽकाशः तद्धाज्जीवो नभोपमः .. १३..
घटवद्विविधाकारं भिद्यमानं पुनः पुनः .
तद्भेदे न च जानाति स जानाति च नित्यशः .. १४..
शब्दमायावृतो नैव तमसा याति पुष्करे .
भिन्नो तमसि चैकत्वमेक एवानुपश्यति .. १५..
शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् .
तद्विद्वानक्षरं ध्यायेच्द्यदीच्छेछान्तिमात्मनः .. १६..
द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् .
शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति .. १७..
ग्रन्थमभ्यस्य मेधावी ज्ञानवीज्ञानतत्परः .
पलालमिव धान्यार्यी त्यजेद्ग्रन्थमशेषतः .. १८..
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता .
क्षीरवत्पष्यते ज्ञानं लिङ्गिनस्तु गवां यथा .. १९..
धृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् .
सततं मनसि मन्थयितव्यं मनु मन्थानभूतेन .. २०..
ज्ञाननेत्रं समाधाय चोद्धरेद्वह्गिवत्परम् .
निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम् .. २१..
सर्वभूताधिवासं यद्भूतेषु च वसत्यपि .
सर्वानुग्राहकत्वेन तद्स्म्यहं वासुदेवः .. २२..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः .
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः .
हरिः ॐ ..
.. इत्यथर्ववेदेऽमृत्बिन्दूपनिषत्समाप्ता ..
Am\drtabindu Upani\dsadtransliterated by Anshuman Pandey [\emphapandey@u.washington.edu]16 April 1996
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com