.. अन्नपूर्णोपनिषत् ..
सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् .
त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ निदाघो नाम योगीन्द्र ऋभुं ब्रह्मविदां वरम् .
प्रणम्य दण्डवद्भूमावुत्थाय स पुनर्मुनिः .. १..
आत्मतत्त्वमनुब्रूहीत्येवं पप्रच्छ सादरम् .
कयोपासनया ब्रह्मन्नीदृशं प्राप्तवानसि .. २..
तां मे ब्रूहि महाविद्यां मोक्षसाम्राज्यदायिनीम् .
निदाघ त्वं कृतार्थोऽसि शृणु विद्यां सनातनीम् .. ३..
यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि .
मूलशृङ्गाटमध्यस्था बिन्दुनादकलाश्रया .. ४..
नित्यानन्दा निराधारा विख्याता विलसत्कचा .
विष्टपेशी महालक्ष्मीः कामस्तारो नतिस्तथा .. ५..
भगवत्यन्नपूर्णेति ममाभिलषितं ततः .
अन्नं देहि ततः स्वाहा मन्त्रसारेति विश्रुता .. ६..
सप्तविंशति वर्णात्मा योगिनीगणसेविता .. ७..
ऐं ह्रीं सौं श्रीं क्लीमोन्नमो भगवत्यन्नपूर्णे
ममाभिलषितमन्नं देहि स्वाहा .
इति पित्रोपदिष्टोऽस्मि तदादिनियमः स्थितः .
कृतवान्स्वाश्रमाचारो मन्त्रानुष्ठानमन्वहम् .. ८..
एवं गते बहुदिने प्रादुरासीन्ममाग्रतः .
अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा .. ९..
तां दृष्ट्वा दण्डवद्भूमौ नत्वा प्राञ्जलिरास्थितः .
अहो वत्स कृतार्थोऽसि वरं वरय मा चिरम् .. १०..
एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्गव .
आत्मतत्त्वं मनसि मे प्रादुर्भवतु पार्वति .. ११..
तथैवास्थिति मामुक्त्वा तत्रैवान्तरधीयत .
तदा मे मतिरुत्पन्ना जगद्वैचित्र्यदर्शनात् .. १२..
भ्रमः पञ्चविधो भाति तदेवेह समुच्यते .
जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः .. १२..
आत्मनिष्ठं कर्तृगुणं वास्तवं वा द्वितीयकः .
शरीरत्रयसंयुक्तजीवः सङ्गी तृतीयकः .. १३..
जगत्कारणरूपस्य विकारित्वं चतुर्थकः .
कारणाद्भिन्नजगतः सत्यत्वं पञ्चमो भ्रमः .
पञ्चभ्रमनिवृत्तिश्च तदा स्फुरति चेतसि .. १५..
बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमो निवृत्तः .
स्फटिकलोहितदर्शनेन पारमार्थिककर्तृत्वभ्रमो निवृत्तः .
घटमठाकाशदर्शनेन सङ्गीतिभ्रमो निवृत्तः .
रज्जुसर्पदर्शनेन कारणाद्भिन्नजगतः सत्यत्वभ्रमो निवृत्तः .
कनकरुचकदर्शनेन विकारित्वभ्रमो निवृत्तः .
तदाप्रभृति मच्चित्तं ब्रह्माकारमभूत्स्वयम् .
निदाघ त्वमपीत्थं हि तत्त्वज्ञानमवाप्नुहि .. १६..
निदाघः प्रणतो भूत्वा ऋभुं पप्रच्छ सादरम् .
ब्रूहि मे श्रद्दधानाय ब्रह्मविद्यामनुत्तमाम् .. १७..
तथेत्याह ऋभुः प्रीतस्तत्त्वज्ञां वदामि ते .
महाकर्ता महाभोक्ता महात्यागी भवानघ .
स्वस्वरूपानुसन्धानमेवं कृत्वा सुखी भव .. १८..
नित्योदितं विमलमाद्यमनतरूपं
ब्रह्मास्मि नेतरकलाकलनं हि किंचित् .
इत्येव भावय निरञ्जनतामुपेतो
निर्वाणमेहि सकलामलशान्तवृत्तिः .. १९..
यदिदं दृश्यते किंचित्तत्तन्नास्तीति भावय .
यथा गन्धर्वनगरं यथा वारि मरुस्थले .. २०..
यत्तु नो दृश्यते किंचिद्यन्नु किंचिदिव स्थितम् .
मनःषष्ठेन्द्रियातीतं तन्मयो भव वै मुने .. २१..
अविनाशि चिदाकाशं सर्वात्मकमखण्डितम् .
नीरन्ध्रं भूरिवाशेषं तदस्मीति विभावय .. २२..
यदा संक्षीयते चित्तमभावात्यन्तभावनात् .
चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा .. २३..
नूनं चैत्यांशरहिता चिद्यदात्मनि लीयते .
असद्रूपवदत्यच्छा सत्तासामान्यता तदा .. २४..
दृष्टिरेषा हि परमा सदेहादेहयोः समा .
मुक्तयोः संभवत्येव तुर्यातीतपदाभिधा .. २५..
व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ .
ज्ञस्य केवलमज्ञस्य न भवत्येव बोधजा .
अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः .. २६..
चिरकालपरिक्षीणमननादिपरिभ्रमः .
पदमासाद्यते पुण्यं प्रज्ञयैवैकया तथा .. २७..
इमं गुणसमाहारमनात्मत्वेन पश्यतः .
अन्तःशीतलया यासौ समाधिरिति कथ्यते .. २८..
अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च .
तदेव केवलीभानं शान्ततैव च तत्सदा .. २९..
तनुवासनमत्युच्चैः पदायोद्यतमुच्यते .
अवासगं मनोऽकर्तृपदं तस्मादवाप्यते .. ३०..
घनवासनमेतत्तु चेतःकर्तृत्वभावनम् .
सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् .. ३१..
चेतसा संपरित्यज्य सर्वभावात्मभावनाम् .
सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः .. ३२..
यथा विपणगा लोका विहरन्तोऽप्यसत्समाः .
असंबन्धात्तथा ज्ञस्य ग्रामोऽपि विपिनोपमः .. ३३..
अन्तर्मुखतया नित्यं सुप्तो बुद्धो व्रजन्पठन् .
पुरं जनपदं ग्राममरण्यमिव पश्यति .. ३४..
अन्तःशीतलतायां तु लब्धायां शीतलं जगत् .
अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् .. ३५..
भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् .. ३६..
यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः .
न वशो हर्षशोकाभ्यां स समाहित उच्यते .. ३७..
आत्मवत्सर्वभूतानि परद्रव्याणि लोष्ठवत् .
स्वभावादेव न भयाद्यः पश्यति स पश्यति .. ३८..
अद्यैव मृतिरायातु कल्पान्तनिचयेन वा .
नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा .. ३९..
कोऽहं कथमिदं किं वा कथं मरणजन्मनी .
विचारयान्तरे वेत्थं महत्तत्फलमेष्यसि .. ४०..
विचारेण परिज्ञातस्वभावस्य सतस्तव .
मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम् .. ४१..
विज्वरत्वं गतं चेतस्तव संसारवृत्तिषु .
न निमज्जति तद्ब्रह्मन्गोष्पदेष्विव वारणः .. ४२..
कृपणं तु मनो ब्रह्मन्गोष्पदेऽपि निमज्जति .
कार्ये गोष्पदतोयेऽपि विशीर्णो मशको यथा .. ४३..
यावद्यावन्मुनिश्रेष्ठ स्वयं संतज्यतेऽखिलम् .
तावत्तावत्परालोकः परमात्मैव शिष्यते .. ४४..
यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते .
सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते .. ४५..
आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् .
सर्वं संत्यज्य दूरेण यच्छिष्टं तन्मयो भव .. ४६..
सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम् .
चिन्निष्पन्दांशमात्रं तन्नान्यत्किंचन शाश्वतम् .. ४७..
समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी .
ब्रह्मन्समाधिशब्देन परा प्रज्ञोच्यते बुधैः .. ४८..
अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी .
प्रोक्ता समाधिशब्देन मेरोः स्थिरतरा स्थितिः .. ४९..
निश्चिता विगताभीष्टा हेयोपदेयवर्जिता .
ब्रह्मन्समाधिशब्देन परिपूर्णा मनोगतिः .. ५०..
केवलं चित्प्रकाशांशकल्पिता स्थिरतां गता .
तुर्या सा प्राप्यते दृष्टिर्महद्भिर्वेदवित्तमैः .. ५१..
अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते .
मनोहंकारविलये सर्वभावान्तरस्थिता .. ५२..
समुदेति परानन्दा या तनुः पारमेश्वरी .
मनसैव मनश्छित्त्वा सा स्वयं लभ्यते गतिः .. ५३..
तदनु विषयवासनाविनाश-
स्तदनु शुभः परमः स्फुटप्रकाशः .
तदनु च समतावशात्स्वरूपे
परिणमनं महतामचिन्त्यरूपम् .. ५४..
अखिलमिदमनन्तमनन्तमात्मतत्त्वं
दृढपरिणामिनि चेतसि स्थितोऽन्तः .
बहिरुपशमिते चराचरात्मा
स्वयमनुभूयत एव देवदेवः .. ५५..
असक्तं निर्मलं चित्तं युक्तं संसार्यविस्फुटम् .
सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्धवत् .. ५६..
अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् .
बहिः कुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् .. ५७..
इति प्रथमोऽध्यायः .. १..
निदाघ उवाच ..
सङ्गः कीदृश इत्युक्तः कश्च बन्धाय देहिनाम् .
कश्च मोक्षाय कथितः कथं त्वेष चिकित्स्यते .. १..
देहदेहिविभागैकपरित्यागेन भावना .
देहमात्रे हि विश्वासः सङ्गो बन्धाय कथ्यते .. २..
सर्वमात्मेदमत्राहं किं वाञ्छामि त्यजामि किम् .
इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थिताम् .. ३..
नाहमस्मि न चान्योस्ति न चायं न च नेतरः .
सोऽसङ्ग इति संप्रोक्तो ब्रह्मास्मीत्येव सर्वदा .. ४..
नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते .
सुसमो यः परित्यागी सोऽसंसक्त इति स्मृतः .. ५..
सर्वकर्मफलादीनां मनसैव न कर्मणा .
निपुणो यः परित्यागी सोऽसंसक्त इति स्मृतः .. ६..
असंकल्पेन सकलाश्चेष्टा नाना विजृंभिताः .
चिकित्सिता भवन्तीह श्रेयः संपादयन्ति हि .. ७..
न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु .
न गमागमचेष्टासु न कालकलनासु च .. ८..
केवलं चिति विश्रम्य किंचिच्चैत्यावलंब्यपि .
सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः .. ९..
व्यवहारमिदं सर्वं मा करोतु करोतु वा .
अकुर्वन्वापि कुर्वन्वा जीवः स्वात्मरतिक्रियः .. १०..
अथवा तमपि त्यक्त्वा चैत्यांशं शान्तचिद्घनः .
जीवस्तिष्ठति संशान्तो ज्वलन्मणिरिवात्मनि .. ११..
चित्ते चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् .
सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता .. १२..
एषा निदाघ सौषुप्तस्थितिरभ्यासयोगतः .
प्रौढा सती तुरीयेति कथिता तत्त्वकोविदैः .. १३..
अस्यां तुरीयावस्थायां स्थितिं प्राप्याविनाशिनीम् .
आनन्दैकान्तशीलत्वादनानन्दपदं गतः .. १४..
अनानन्दमहानन्दकालातीतस्ततोऽपि हि .
मुक्त इत्युच्यते योगी तुर्यातीतपदं गतः .. १५..
परिगलितसमस्तजन्मपाशः
सकलविलीनतमोमयाभिमानः .
परमरसमयीं परात्मसत्तां
जलगतसैन्धवखण्डवन्महात्मा .. १६..
जडाजडदृशोर्मध्ये यत्तत्त्वं पारमार्थिकम् .
अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते .. १७..
दृश्यसंवलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते .
द्रव्यदर्शनसंबन्धे यानुभूतिरनामया .. १८..
तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भजते स्थितिम् .
सैव तुर्यत्वमाप्नोति तस्यां दृष्टिं स्थिरां कुरु .. १९..
आत्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः .
न चेतनो न च जडो न चैवासन्न सन्मयः .. २०..
नाहं नान्यो न चैवैको न चानेकोऽद्वयोऽव्ययः .
यदीदं दृश्यतां प्राप्तं मनः सर्वेन्द्रियास्पदम् .. २१..
दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् .
तदतीतं पदं यस्मात्तन्न किंचिदिवैव तत् .. २२..
न मोक्षो नभसः पृष्ठे न पाताले न भूतले .
सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते .. २३..
मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः .
मननोत्थे मनस्यैष बन्धः सांसारिको दृढः .. २४..
आत्मन्यतीते सर्वस्मात्सर्वरूपेऽथ वा तते .
को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु .. २५..
अध्यात्मरतिराशान्तः पूर्णपावनमानसः .
प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति .. २६..
सर्वाधिष्ठानसन्मात्रे निर्विकल्पे चिदात्मनि .
यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते .. २७..
नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति .
न संस्मरत्यतीतं च सर्वमेव करोति च .. २८..
अनुबन्धपरे जन्तावसंसर्गमनाः सदा .
भक्ते भक्तसमाचरः शठे शठ इव स्थितः .. २९..
बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् .
युवा यौवनवृत्तेषु दुःखितेषु सुदुःखधीः .. ३०..
धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः .
प्राज्ञः प्रसन्नमधुरो दैन्यादपगताशयः .. ३१..
अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते .
मनः प्रशममायाति निर्वाणमवशिष्यते .. ३२..
यतो वाचो निवर्तन्ते विकल्पकलनान्विताः .
विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते .. ३३..
अनाद्यन्तावभासात्मा परमात्मैव विद्यते .
इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः .. ३४..
यथाभूतार्थदर्शित्वमेतावद्भुवनत्रये .
यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता .. ३५..
सर्वमात्मैव कौ दृष्टौ भावाभावौ क्व वा स्थितौ .
क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृम्भते .. ३६..
सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता .
ब्रह्मेदं बृंहिताकारं बृहद्बृहदवस्थितम् .. ३७..
दूरादस्तमितद्वित्वं भवात्मैव त्वमात्मना .
सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् .. ३८..
मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः .
आदावन्ते च संशान्तस्वरूपमविनाशि यत् .. ३९..
वस्तूनामात्मनश्चैतत्तन्मयो भव सर्वदा .
द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः .. ४०..
स्फुरत्यात्मभिरात्मैव चित्तैरब्धीव वीचिभिः .
आपत्करञ्जपरशुं पराया निर्वृतेः पदम् .. ४१..
शुद्धमात्मानमालिङ्ग्य नित्यमन्तस्थया धिया .
यः स्थितस्तं क आत्मेह भोगो बाधयितुं क्षमः .. ४२..
कृतस्फारविचारस्य मनोभोगादयोऽरयः .
मनागपि न भिन्दन्ति शैलं मन्दानिला इव .. ४३..
नानात्वमस्ति कलनासु न वस्तुतोऽन्त-
र्नानाविधासु सरसीव जलादिवान्यत् .
इत्येकनिश्चयमयः पुरुषो विमुक्त
इत्युच्यते समवलोकितसम्यगर्थः .. ४४..
इति द्वितीयोऽध्यायः .. २..
विदेहमुक्तेः किं रूपं तद्वान्को वा महामुनिः .
कं योगं समुपस्थाय प्राप्तवान्परमं पदम् .. १..
सुमेरोर्वसुधापीठे माण्डव्यो नाम वै मुनिः .
कौण्डिन्यात्तत्त्वमास्थाय जीवन्मुक्तो भवत्यसौ .. २..
जीवन्मुक्तिदशां प्राप्य कदाचिद्ब्रह्मवित्तमः .
सर्वेन्द्रियाणि संहर्तुं मनश्चक्रे महामुनिः .. ३..
बद्धपद्मासनस्तिष्ठन्नर्धोन्मीलितलोचनः .
बाह्यानाभ्यान्तरांश्चैव स्पर्शान्परिहरञ्छनैः .. ४..
ततः स्वमनसः स्थैर्यं मनसा विगतैनसा .
अहो नु चञ्चलमिदं प्रत्याहृतमपि स्फुटम् .. ५..
पटाद्घटमुपायाति घटाच्छकटमुत्कटम् .
चित्तमर्थेषु चरति पादपेष्विव मर्कटः .. ६..
पञ्च द्वाराणि मनसा चक्षुरादीन्यमून्यलम् .
बुद्धीन्द्रियाभिधानानि तान्येवालोकयाम्यहम् .. ७..
हन्तेन्द्रियगणा यूयं त्यजताकुलतां शनैः .
चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् .. ८..
तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः .
परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः .. ९..
स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदेऽनिशम् .
अन्तरेव शशामास्य क्रमेण प्राणसन्ततिः .. १०..
ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः .
तदितोऽस्तं गत इव ह्यस्तं गत इवोदितः .. ११..
समः समरसाभासस्तिष्ठामि स्वच्छतां गतः .
प्रबुद्धोऽपि सुषुप्तिस्थः सुषुप्तिस्थः प्रबुद्धवान् .. १२..
तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः .
सबाह्याभ्यन्तरान्भावान्स्थूलान्सूक्ष्मतरानपि .. १३..
त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पैकविनिर्मितान् .
सह प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना .. १४..
जहाविन्द्रियतन्मात्रजालं खग इवानलः .
ततोऽङ्गसंविदं स्वच्छां प्रतिभासमुपागताम् .. १५..
सद्योजातशिशुज्ञानं प्राप्तवान्मुनिपुङ्गवः .
जहौ चित्तं चैत्यदशां स्पन्दशक्तिमिवानिलः .. १६..
चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः .
सुषुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः .. १७..
सुषुप्तस्थैर्यमासाद्य तुर्यरूपमुपाययौ .
निरानन्दोऽपि सानन्दः सच्चासच्च बभूव सः .. १८..
ततस्तु संबभूवासौ यद्गिरामप्यगोचरः .
यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् .. १९..
विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् .
पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम् .. २०..
शिवः शैवागमस्थानां कालः कालैकवादिनाम् .
यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् .. २१..
यत्सर्वं सर्वगं वस्तु यत्तत्त्वं तदसौ स्थितः .
यदनुक्तमनिष्पन्दं दीपकं तेजसामपि .. २२..
स्वानुभूत्यैकमानं च यत्तत्त्वं तदसौ स्थितः .
यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् .
यत्सर्वं चाप्यसर्वं च यत्तत्त्वं तदसु स्थितः .. २३..
अजममरमनाद्यमाद्यमेकं
पदममलं सकलं च निष्कलं च .
स्थित इति स तदा नभःस्वरूपा-
दपिविमलस्थितिरीश्वरः क्षणेन .. २४..
इति तृतीयोऽध्यायः .. ३..
जीवन्मुक्तस्य किं लक्ष्म ह्याकाशगमनादिकम् .
तथा चेन्मुनिशार्दूल तत्र नैव प्रलक्ष्यते .. १..
अनात्मविदमुक्तोऽपि नभोविहरणादिकम् .
द्रव्यमन्त्रक्रियाकालशक्त्याप्नोत्येव स द्विजः ..२..
नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् .
आत्मनात्मनि संतृप्तो नाविद्यामनुधावति .. ३..
ये ये भावाः स्थिता लोके तानविद्यामयान्विदुः .
त्यक्ताविद्यो महायोगी कथं तेषु निमज्जति .. ४..
यस्तु मूढोऽल्पबुद्धिर्वा सिद्धिजालानि वाञ्छति .
सिद्धिसाधनैर्योगैस्तानि साधयति क्रमात् .. ५..
द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः .
परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन .. ६..
यस्येच्छा विद्यते काचित्सा सिद्धिं साधयत्यहो .
निरिच्छोः परिपूर्णस्य नेच्छा संभवति क्वचित् .. ७..
सर्वेच्छाजालसंज्ञान्तावात्मलाभो भवेन्मुने .
स कथं सिद्धिजालानि नूनं वाञ्छन्त्यचित्तकः .. ८..
अपि शीतरुचावर्के सुतीक्ष्णेऽपीन्दुमण्डले .
अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी .. ९..
अधिष्ठाने परे तत्त्वे कल्पिता रज्जुसर्पवत् .
कल्पिताश्चर्यजालेषु नाभ्युदेति कुतूहलम् .. १०..
ये हि विज्ञातविज्ञेया वीतरागा महाधियः .
विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थितः .. ११
सुखदुःखदशाधीरं साम्यान्न प्रोद्धरन्ति यम् .
निश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः .. १२..
आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः .
यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः .. १३..
द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च .
जीवन्मुक्तौ सरूपः स्यादरूपो देहमुक्तिगः .. १४..
चित्तसत्तेह दुःखाय चित्तनाशः सुखाय च .
चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेत् .. १५..
मनस्तां मूढतां विद्धि यदा नश्यति सानघ .
चित्तनाशाभिधानं हि तत्स्वरूपमितीरितम् .. १६..
मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् .
भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः .. १७..
सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते .
निदाघाऽरूपनाशस्तु वर्तते देहमुक्तिके .. १८..
विदेहमुक्त एवासौ विद्यते निष्कलात्मकः .
समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते .. १९..
विदेहमुक्तौ विमले पदे परमपावने .
विदेहमुक्तिविषये तस्मिन्सत्त्वक्षयात्मके .. २०..
चित्तनाशे विरूपाख्ये न किंचिदिह विद्यते .
न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोकता .. २१..
न चोदयो नास्तमयो न हर्षामर्षसंविदः .
न तेजो न तमः किंचिन्न सन्ध्यादिनरात्रयः .
न सत्तापि न चासत्ता न च मध्यं हि तत्पदम् .. २२..
ये हि पारं गता बुद्धेः संसाराडम्बरस्य च .
तेषां तदास्पदं स्फारं पवनानामिवाम्बरम् .. २३..
संशान्तदुःखमजडात्मकमेकसुप्त-
मानन्दमन्थरमपेतरजस्तमो यत् .
आकाशकोशतनवोऽतनवो महान्त-
स्तस्मिन्पदे गलितचित्तलवा भवन्ति .. २४..
हे निदाघ महाप्राज्ञ निर्वासनमना भव .
बलाच्चेतः समाधाय निर्विकल्पमना भव .. २५..
यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् .
स एव जगतः साक्षी सर्वात्मा विमलाकृतिः .. २६..
प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः .
तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वनम् .. २७..
एकं ब्रह्माहमस्मीति कृतकृत्यो भवेन्मुनिः .. २८..
सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् .
सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् .. २९..
न तत्र चन्द्रार्कवपुः प्रकाशते
न वान्ति वातः सकलाश्च देवताः .
स एव देवः कृतभावभूतः
स्वयं विशुद्धो विरजः प्रकाशते .. ३०..
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः .
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे .. ३१..
द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ .
तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः .. ३२..
केवलं साक्षिरूपेण विना भोगो महेश्वरः .
प्रकाशते स्वयं भेदः कल्पितो मायया तयोः .
चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः .. ३३..
तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः .
चिदेकत्वपरिज्ञाने न शोचति न मुह्यति .. ३४..
अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् .
अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः .. ३५..
स्वशरीरे स्वयंज्योतिस्वरूपं सर्वसाक्षिणम् .
क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः .. ३६..
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः .
नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् .. ३७..
बालेनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् .
ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान् .. ३८..
अन्तर्लीनसमारम्भः शुभाशुभमहाङ्कुरम् .
संसृतिव्रततेर्बीजं शरीरं विद्धि भौतिकम् .. ३९..
भावाभावदशाकोशं दुःखरत्नसमुद्गकम् .
बीजमस्य शरीरस्य चित्तमाशावशानुगम् .. ४०..
द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः .
एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना .. ४१..
यदा प्रस्पन्दन्ते प्राणो नाडीसंस्पर्शनोद्यतः .
तदा संवेदनमयं चित्तमाशु प्रजायते .. ४२..
सा हि सर्वगता संवित्प्राणस्पन्देन बोध्यते .
संवित्संरोधनं श्रेयः प्राणादिस्पन्दनं वरम् .. ४३..
योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् .
प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः .. ४४..
चित्तोपशान्तिफलदं परमं विद्धि कारणम् .
सुखदं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः .. ४५..
दृढभावनया त्यक्तपूर्वापरविचारणम् .
यदादानं पदार्थस्य वासना सा प्रकीर्तिता .. ४६..
यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत् .
स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते .. ४७..
अवासनत्वात्सततं यदा न मनुते मनः .
अमनस्ता तदोदेति परमोपशमप्रदा .. ४८..
यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि .
तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते .. ४९..
यदभावनमास्थाय यदभावस्य भावनम् .
यद्यथा वस्तुदर्शित्वं तदचित्तत्वमुच्यते .. ५०..
सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् .
वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् .. ५१..
भ्रष्टबीजोपमा येषां पुनर्जननवर्जिता .
वासनारसनाहीना जीवन्मुक्ता हि ते स्मृताः .. ५२..
सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः .
अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः .. ५३..
संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने .
समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः .. ५४..
पूर्वदृष्टमदृष्टं वा यदस्याः प्रतिभासते .
संविदस्तत्प्रयत्नेन मार्जनीयं विजानता .. ५५..
तदमार्जनमात्रं हि महासंसारतां गतम् .
तत्प्रमार्जनमात्रं तु मोक्ष इत्यभिधीयते .. ५६..
अजडो गलितानन्दस्त्यक्तसंवेदनो भव .. ५७..
संविद्वस्तुदशालम्बः सा यस्येह न विद्यते .
सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि .. ५८..
संवेद्येन हृदाकाशे मनागपि न लिप्यते .
यस्यासावजडा संविज्जीवन्मुक्तः स कथ्यते .. ५९..
यदा न भाव्यते किंचिन्निर्वासनतयात्मनि .
बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् .. ६०..
तदा जाड्यविनिर्मुक्तमसंवेदनमाततम् .
आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते .. ६१..
समस्ता वासनास्त्यक्त्वा निर्विकल्पसमाधितः .
तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते .. ६२..
तिष्ठन्गच्छन्स्पृशञ्जिघ्रन्नपि तल्लेपवर्जितः .
अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी .. ६३..
एतां दृष्टिमवष्टभ्य कष्टचेष्टायुतोऽपि सन् .
तरेद्दुःखाम्बुधेः पारमपारगुणसागरः .. ६४..
विशेषं संपरित्यज्य सन्मात्रं यदलेपकम् .
एकरूपं महारूपं सत्तायास्तत्पदं विदुः .. ६५..
कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि .
विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव .. ६६..
सत्तासामान्यमेवैकं भावयन्केवलं विभुः .
परिपूर्णः परानन्दि तिष्ठापूरितदिग्भरः .. ६७..
सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् .
पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते .. ६८..
तत्र संलीयते संविन्निर्विकल्पं च तिष्ठति .
भूयो न वर्तते दुःखे तत्र लब्धपदः पुमान् .. ६९..
तद्धेतुः सर्वभूतानां तस्य हेतुर्न विद्यते .
स सारः सर्वसाराणां तस्मात्सारो न विद्यते .. ७०..
तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः .
इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः .. ७१..
तदमलमरजं तदात्मतत्त्वं
तदवगतावुपशान्तिमेति चेतः .
अवगतविगतैकतत्स्वरूपो
भवभयमुक्तपदोऽसि सम्यगेव .. ७२..
एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् .
तस्य तस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् .. ७३..
सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि .
पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् .. ७४..
स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् .
क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् ..७५..
सत्तासामान्यरूपे वा करोषि स्थितिमादरात् .
तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम् .. ७६..
संवित्तत्त्वे कृतध्यानो निदाघ यदि तिष्ठसि .
तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् .. ७७..
वासनासंपरित्यागे यदि यत्नं करोषि भोः .
यावद्विलीनं न मनो न तावद्वासनाक्षयः .. ७८..
न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति .
यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः .. ७९..
यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् .
यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः .
यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनक्षयः .. ८०..
तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च .
मिथः कारणतां गत्वा दुःसाधानि स्थितान्यतः .. ८१..
भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाचर .. ८२..
वासनाक्षयविज्ञानमनोनाशा महामते .
समकालं चिराभ्यस्ता भवन्ति फलदा मताः .. ८३..
त्रिभिरेभिः समभ्यस्तैर्हृदयग्रन्थयो दृढाः .
निःशेषमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव .. ८४..
वासनासंपरित्यागसमं प्राणनिरोधनम् .
विदुस्तत्त्वविदस्तस्मात्तदप्येवं समाहरेत् .. ८५..
वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् .
प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु .. ८६..
प्राणायामदृढाध्यासैर्युक्त्या च गुरुदत्तया .
आसनाशनयोगेन प्राणस्पन्दो निरुध्यते .. ८७..
निःसङ्गव्यवहारत्वाद्भवभावनवर्जनात् .
शरीरनाशदर्शित्वाद्वासना न प्रवर्तते .. ८८..
यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि .
प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः .. ८९..
न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् .
शुद्धां संविदमाश्रित्यवीतरागः स्थिरो भव .. ९०..
संवेद्यवर्जितमनुत्तममाद्यमेकं
संविदत्पदं विकलनं कलयन्महात्मन् .
हृद्येव तिष्ठ कलनारहितः क्रियां तु
कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः .. ९१..
मनागपि विचारेण चेतसः स्वस्य निग्रहः .
पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् .. ९२..
इति चतुर्थोऽध्यायः .. ४..
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा .
न विचारपरं चेतो यस्यासौ मृत उच्यते .. १..
सम्यग्ज्ञानसमालोकः पुमा~ज्ञेयसमः स्वयम् .
न बिभेति न चादत्ते वैवश्यं न च दीनताम् .. २..
अपवित्रमपथ्यं च विषसंसर्गदूषितम् .
भुक्तं जरयति ज्ञानी क्लिन्नं नष्ठं च मृष्टवत् .. ३..
सञ्ण्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता .
सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ .. ४..
भावाभावे पदार्थानां हर्षामर्षविकारदा .
मलिना वासना यैषा साऽसङ्ग इति कथ्यते .. ५..
जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी .
मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना .. ६..
दुःखैर्न ग्लानिमायासि हृदि हृष्यसि नो सुखैः .
आशावैवश्यमुत्सृज्य निदाघाऽसङ्गतां व्रज .. ७..
दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम् .
चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरत् .. ८..
इति मत्वाहमित्यन्तर्मुक्तामुक्तवपुः पुमान् .
एकरूपः प्रशान्तात्मा मौनी स्वात्मसुखो भव .. ९..
नास्ति चित्तं न चाविद्या न मनो न च जीवकः .
ब्रह्मैवैकमनाद्यन्तमब्धिवत्प्रविजृम्भते .. १०..
देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मता .
यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः .. ११..
अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् .
जुह्वन्तोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः .. १२..
चिदात्मास्मि निरंशोऽस्मि परापरविवर्जितः .
रूपं स्मरन्निजं स्फारं मा स्मृत्या संमितो भव .. १३..
अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका .
क्षीयते भावितेनान्तः शरदा मिहिका यथा .. १४..
परिज्ञाय परित्यागो वासानानं य उत्तमः .
सत्तासामान्यरूपत्वात्तत्कैवल्यपदं विदुः .. १५..
यन्नास्ति वासना लीना तत्सुषुप्तं न सिद्धये .
निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम् .. १६..
वासनायास्तथा वह्नेरृणव्याधिद्विषामपि .
स्नेहवैरविषाण च शेषः स्वल्पोऽपि बाधते .. १७..
निर्दग्धवासनाबीजः सत्तासामान्यरूपवान् .
सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् .. १८..
एतावदेवाविद्यात्वं नेदं ब्रह्मेति निश्चयः .
एष एव क्षयस्तस्या ब्रह्मेदमिति निश्चयः .. १९..
ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्परा .
ब्रह्माहं ब्रह्म चिच्छत्रुर्ब्रह्म चिन्मित्रबान्धवाः .. २०..
ब्रह्मैव सर्वमित्येव भाविते ब्रह्म वै पुमान् .
सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते .. २१..
असंस्कृताध्वगालोके मनस्यन्यत्र संस्थिते .
या प्रतीतिरनागसका तच्चिद्ब्रह्मास्मि सर्वगम् .. २२..
प्रशान्तसर्वसंकल्पं विगताखिलकौतुकम् .
विगताशेषसंरंभं चिदात्मानं समाश्रय .. २३..
एवं पूर्णधियो धीराः समा नीरागचेतसः .
न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा .. २४..
प्राणोऽयमनिशं ब्रह्मस्पन्दशक्तिः सदागतिः .
सबाह्याभ्यन्तरे देहेप्राणोऽसावूर्ध्वगः स्थितः .. २५..
अपानोऽप्यनिशं ब्रह्मस्पन्दशक्तिः सदागतिः .
सबाह्याभ्यन्तरे देहे अपानोऽयमवाक्स्थितः .. २६..
जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः .
प्रवर्तते ह्यभिज्ञस्य तं तावच्छ्रेयसे शृणु .. २७..
द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतां ततः .
प्राणाङ्गनामा संस्पर्शो यः स पूरक उच्यते .. २८..
अपानश्चन्द्रमा देहमाप्याययति सुव्रत .
प्राणः सूर्योऽग्निरथ वा पचत्यनत्रिदं वपुः .. २९..
प्राणक्षयसमीपस्थमपानोदयकोटिगम् .
अपानप्राणयोरैक्यं चिदात्मानं समाश्रय .. ३०..
अपानोऽस्तंगतो यत्र प्राणो नाभ्युदितः क्षणम् .
कलाकलङ्करहितं तच्चित्तत्त्वं समाश्रय .. ३१..
नापानोऽस्तंगतो यत्र प्राणश्चास्तमुपागतः .
नासाग्रगमनावर्तं तच्चित्तत्त्वमुपाश्रय .. ३२..
आभासमात्रमेवेदं न सनासज्जगत्त्रयम् .
इत्यन्यकलनात्यागं सम्यग्ज्ञानं विदुर्बुधाः .. ३३..
आभासमात्रकं ब्रह्मंश्चित्तदर्शकलङ्कितम् .
ततस्तदपि संत्यज्य निराभासो भवोत्तम ..३४..
भयप्रदमकल्याणं धैर्यसर्वस्वहारिणम् .
मनःपिशाचमुत्सार्य योऽसि सोऽसि स्थिरो भव .. ३५..
चिद्व्योमेव किलास्तीह परापरविवर्जितम् .
सर्वत्रासंभवच्चैत्यं यत्कल्पान्तेऽवशिष्यते .. ३६..
वाञ्छाक्षणे तु या तुष्टिस्तत्र वाञ्छैव कारणम् .
तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज .. ३७..
आशा यातु निराशात्वमभावं यातु भावना .
अमनस्त्वं मनो यातु तवासङ्गेन जीवतः .. ३८..
वासनारहितैरन्तरिन्द्रियैराहरन्क्रिया .
न विकारमवाप्नोषि खवत्क्षोभशतैरपि .. ३९..
चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ .
वासनाप्राणसंरोधमनुन्मेषं मनः कुरु .. ४०..
प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ .
तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु .. ४१..
मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ .
तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंगमैः .. ४२..
असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् .
प्राणानां वा निरोधेन तदेव परमं पदम् .. ४३..
दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् .
तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्यावलोकय .. ४४..
यत्र नाभ्युदितं चित्तं तद्वै सुखमकृत्रिमम् .
क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति .. ४५..
यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्त्वमेव हि .
तदेव तुर्यावस्थायं तुर्यातीतं भवत्यतः .. ४६..
संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः .
संन्यासयोगयुक्तात्मा ज्ञानवान्मोक्षवान्भव .. ४७..
सर्वसंकल्पसंशान्तं प्रशान्तघनवासनम् .
न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः .. ४८..
सम्यग्ज्ञानावरोधेन नित्यमेकसमाधिना .
सांख्य एवावबुद्धा ये ते सांख्या योगिनः परे .. ४९..
प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः .
अनामयमनाद्यन्तं ते स्मृता योगयोगिनः .. ५०..
उपादेयं तु सर्वेषां शातं पदमकृत्रिमम् .
एकार्थाभ्यसनं प्राणरोधश्चेतः परिक्षयः .. ५१..
एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् .
अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी .. ५२..
आधाराधेयवच्चैते एकभावे विनश्यतः .
कुरुतः स्वविनाशेन कार्यं मोक्षाख्यमुत्तमम् .. ५३..
सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः .
तदाहंकारविलये त्वमेव परमं पदम् .. ५४..
महाचिदेकैवेहास्ति महासत्तेति योच्यते .
निष्कलंका समा शुद्धा निरहंकाररूपिणी .. ५५..
सकृद्विभाता विमला नित्योदयवती समा .
सा ब्रह्म परमात्मेति नामभिः परिगीयते .. ५६..
सैवाहमिति निश्चित्य निदाघ कृतकृत्यवान् .
न भूतं न भविष्यच्च चिन्तयामि कदाचन .. ५७..
दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना .
इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् .. ५८..
न स्तौमि न च निन्दामि आत्मनोऽन्यन्नहि क्वचित् .
न तुष्यामि शुभप्राप्तौ न खिद्याम्यशुभागमे .. ५९..
प्रशान्तचापलं वीतशोकमस्तसमीहितम् .
मनो मम मुने शान्तं तेन जीवाम्यनामयः .. ६०..
अयं बन्धुः परश्चायं ममायमयमन्यकः .
इति ब्रह्मन्न जानामि संस्पर्शं न ददाम्यहम् .. ६१..
वासनामात्रसंत्यागाज्जरामरणवर्जितम् .
सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः .. ६२..
चित्ते त्यक्ते लयं याति द्वैतमेतच्च सर्वतः .
शिष्यते परमं शान्तमेकमगच्छमनामयम् .. ६३..
अनन्तमजमव्यक्तमजरं शान्तमच्युतम् .
अद्वितीयमनाद्यन्तं यदाद्यमुपलम्भनम् .. ६४..
एकमाद्यन्तरहितं चिन्मात्रममलं ततम् .
खादप्यतितरां सूक्ष्मं तद्ब्रह्मास्मि न संशयः .. ६५..
दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् .
सर्वार्थमयमेकार्थं चिन्मात्रममलं भव .. ६६..
सर्वमेकमिदं शान्तमादिमध्यान्तवर्जितम् .
भावाभावमजं सर्वमिति मत्वा सुखी भव .. ६७..
न बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवास्मि निरामयम् .
द्वैतभावविमुक्तोऽस्मि सच्चिदानन्दलक्षणः .
एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि .. ६८..
पदार्थवृन्दे देहादिधिया संत्यज्य दूरतः .
आशीतलान्तःकरणो नित्यमात्मपरो भव .. ६९..
इदं रम्यमिदं नेति बीजं ते दुःखसंततेः .
तस्मिन्साम्याग्निना दग्धे दुःखस्यावसरः कुतः .. ७०..
शास्त्रसज्जनसंपर्कैः प्रज्ञामादौ विवर्धयेत् .. ७१..
ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् .
अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् .. ७२..
तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् .
न रसं न च गन्धाख्यमप्रमेयमनूपमम् .. ७३..
आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत .
अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये .. ७४..
समाधिः संविदुत्पत्तिः परजीवैकतं प्रति .
नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः .. ७५..
एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः .
तस्मादद्वैत एवास्ति न प्रपञ्चो न संसृतिः .. ७६..
यथाकाशो घटाकाशो महाकाश इतीरितः .
तथा भ्रान्तेर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना .. ७७..
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा .
योगिनोऽऽव्यवधानेन तदा संपद्यते स्वयम् .. ७८..
यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति .
सर्वभूतेषु चात्मानं ब्रह्म संपद्यते सदा .. ७९..
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति .
एकीभूतः परेणासौ तदा भवति केवलः .. ८०..
शास्त्रसज्जनसंपर्कवैराग्याभ्यासरूपिणी .
प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी .. ८१..
विचारणा द्वितीया स्यात्तृतीया साङ्गभावना .
विलापिनी चतुर्थी स्याद्वासना विलयात्मिका .. ८२..
शुद्धसंविन्मनानन्दरूपा भवति पञ्चमी .
अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति .. ८३..
असंवेदनरूपा च षष्ठी भवति भूमिका .
आनन्दैकघनाकारा सुषुप्तसदृशी स्थितिः .. ८४..
तुर्यावस्थोपशान्ता सा मुक्तिरेव हि केवला .
समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् .. ८५..
तुर्यातीता तु यावस्था परा निर्वाणरूपिणी .
सप्तमी सा परा प्रौढा विषयो नैव जीवताम् .. ८६..
पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् .
चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् .. ८७..
आनन्दैकघनाकारा सुषुप्ताख्या तु पञ्चमी .
असंवेदनरूपा तु षष्ठी तुर्यपदाभिधा .. ८८..
तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा .
मनोवचोभिरग्राह्या स्वप्रकाशसदात्मिका .. ८९..
अन्तः प्रत्याहृतिवशाच्चैत्यं चेन्न विभावितम् .
मुक्त एव न सन्देहो महासमतया तया .. ९०..
न म्रिये न च जीवामि नाहं सन्नाप्यसन्मयः .
अहं न किंचिच्चिदिति मत्वा धीरो न शोचति .. ९१..
अलेपकोऽहमजरो नीरागः शान्तवासनः .
निरंशोऽस्मि चिदाकाशमिति मत्वा न शोचति .. ९२..
अहंमत्या विरहितः शुद्धो बुद्धोऽजरोऽमरः .
शान्तः शमसमाभास इति मत्वा न शोचति .. ९३..
तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च .
यत्तिष्ठति तदेवाहमिति मत्वा न शोचति .. ९४..
भावनां सर्वभावेभ्यः समुत्सृज्य समुत्थितः .
अवशिष्टं परं ब्रह्म केवलोऽस्मीति भावय .. ९५..
वाचामतीतविषयो विषयाशादशोज्झितः .
परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि .. ९६..
सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः .
न पुण्येन न पापेन नेतरेण च लिप्यते .. ९७..
स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् .
तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम् .. ९८..
विहरञ्जनतावृन्दे देवकीर्तन पूजनैः .
खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव .. ९९..
निस्स्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः .
संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः .. १००..
तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽथ वा .
ज्ञानसंपत्तिसमये मुक्तोऽसौ विगताशयः .. १०१..
संकल्पत्वं हि बन्धस्य कारणं तत्परित्यज .
मोक्षो भवेदसंकल्पात्तदभ्यासं धिया कुरु .. १०२..
सावधानो भव त्वं च ग्राह्यग्राहकसंगमे .
अजस्रमेव संकल्पदशाः परिहरञ्शनैः .. १०३..
मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव .
भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव .. १०४..
किंचिच्चेद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ .
न किंचिद्रोचते चेत्ते तन्मुक्तोऽसि भवस्थितौ .. १०५..
अस्मात्पदार्थनिचयाद्यावत्स्थावरजङ्गमात् .
तृणादेर्देहपर्यन्तान्मा किंचित्तत्र रोचताम् .. १०६..
अहंभावानहंभावौ त्यक्त्वा सदसती तथा .
यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते .. १०७..
या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः .
साक्ष्यवस्था व्यवहृतौ सा तुर्या कलनोच्यते .. १०८..
नैतज्जाग्रन्न च स्वप्नः संकल्पानामसंभवात् .
सुषुप्तभावो नाऽप्येतदभावाज्जडतास्थितेः .. १०९..
शान्तसम्यक्प्रबुद्धानां यथास्थितमिदं जगत् .
विलीनं तुर्यमित्याहुरबुद्धानां स्थितं स्थिरम् .. ११०..
अहंकारकलात्यागे समतायाः समुद्गमे .
विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते .. १११..
सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि .
नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम् .. ११२..
शान्त एव चिदाकाशे स्वच्छे शमसमात्मनि .
समग्रशक्तिखचिते ब्रह्मेति कलिताभिधे .. ११३..
सर्वमेव परित्यज्य महामौनी भवानघ .
निर्वाणवान्निर्मननः क्षीणचित्तः प्रशान्तधीः .. ११४..
आत्मन्येवास्व शान्तात्मा मूकान्धबधिरोपमः .
नित्यमन्तर्मुखः स्वच्छः स्वात्मनान्तः प्रपूर्णधीः .. ११५..
जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि वै द्विज .
अन्तः सर्वपरित्यागी बहिः कुरु यथागतम् .. ११६..
चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् .
अतश्चित्तं चिदाकाशे नय क्षयमवेदनात् .. ११७..
दृष्ट्वा रम्यमरम्यं वा स्थेयं पाषाणवत्सदा .
एतावतात्मयत्नेन जिता भवति संसृतिः .. ११८..
वेदान्ते परमं गुह्यं पुराकल्पप्रचोदितम् .
नाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः .. ११९..
अन्नपूर्णोपनिषदं योऽधीते गुर्वनुग्रहात् .
स जीवन्मुक्ततां प्राप्य ब्रह्मैव भवति स्वयम् .. १२०..
इत्युपनिषत् .. इति पञ्चमोऽध्यायः .. ५..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
इत्यन्नपूर्णोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com