.. अनुगीता ..
१६
ज्
सभायां वसतोस्तस्यां निहत्यारीन्महात्मनोः .
केशवार्जुनयोः का नु कथा समभवद्द्विज .. १..
व्
कृष्णेन सहितः पार्थः स्वराज्यं प्राप्य केवलम् .
तस्यां सभायां रम्यायां विजहार मुदा युतः .. २..
ततः कं चित्सभोद्देशं स्वर्गोद्देश समं नृप .
यदृच्छया तौ मुदितौ जग्मतुः स्वजनावृतौ .. ३..
ततः प्रतीतः कृष्णेन सहितः पाण्डवोऽर्जुनः .
निरीक्ष्य तां सभां रम्यामिदं वचनमब्रवीत् .. ४..
विदितं ते महाबाहो सङ्ग्रामे समुपस्थिते .
माहात्म्यं देवकी मातस्तच्च ते रूपमैश्वरम् .. ५..
यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात् .
तत्सर्वं पुरुषव्याघ्र नष्टं मे नष्टचेतसः .. ६..
मम कौतूहलं त्वस्ति तेष्वर्थेषु पुनः प्रभो .
भवांश्च द्वारकां गन्ता नचिरादिव माधव .. ७..
एवमुक्तस्ततः कृष्णः फल्गुनं प्रत्यभाषत .
परिष्वज्य महातेजा वचनं वदतां वरः .. ८..
श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम् .
धर्मं स्वरूपिणं पार्थ सर्वलोकांश्च शाश्वतान् .. ९..
अबुद्ध्वा यन्न गृह्णीथास्तन्मे सुमहदप्रियम् .
नूनमश्रद्दधानोऽसि दुर्मेधाश्चासि पाण्डव .. १०..
स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने .
न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः .. ११..
परं हि ब्रह्म कथितं योगयुक्तेन तन्मया .
इतिहासं तु वक्ष्यामि तस्मिन्नर्थे पुरातनम् .. १२..
यथा तां बुद्धिमास्थाय गतिमग्र्यां गमिष्यसि .
शृणु धर्मभृतां श्रेष्ठ गदतः सर्वमेव मे .. १३..
आगच्छद्ब्राह्मणः कश्चित्स्वर्गलोकादरिन्दम .
ब्रह्मलोकाच्च दुर्धर्षः सोऽस्माभिः पूजितोऽभवत् .. १४..
अस्माभिः परिपृष्टश्च यदाह भरतर्षभ .
दिव्येन विधिना पार्थ तच्छृणुष्वाविचारयन् .. १५..
ब्र्
मोक्षधर्मं समाश्रित्य कृष्ण यन्मानुपृच्छसि .
भूतानामनुकम्पार्थं यन्मोहच्छेदनं प्रभो .. १६..
तत्तेऽहं सम्प्रवक्ष्यामि यथावन्मधुसूदन .
शृणुष्वावहितो भूत्वा गदतो मम माधव .. १७..
कश्चिद्विप्रस्तपो युक्तः काश्यपो धर्मवित्तमः .
आससाद द्विजं कं चिद्धर्माणामागतागमम् .. १८..
गतागते सुबहुशो ज्ञानविज्ञानपारगम् .
लोकतत्त्वार्थ कुशलं ज्ञातारं सुखदुःखयोः .. १९..
जाती मरणतत्त्वज्ञं कोविदं पुण्यपापयोः .
द्रष्टारमुच्चनीचानां कर्मभिर्देहिनां गतिम् .. २०..
चरन्तं मुक्तवत्सिद्धं प्रशान्तं संयतेन्द्रियम् .
दीप्यमानं श्रिया ब्राह्म्या क्रममाणं च सर्वशः .. २१..
अन्तर्धानगतिज्ञं च श्रुत्वा तत्त्वेन काश्यपः .
तथैवान्तर्हितैः सिद्धैर्यान्तं चक्रधरैः सह .. २२..
सम्भाषमाणमेकान्ते समासीनं च तैः सह .
यदृच्छया च गच्छन्तमसक्तं पवनं यथा .. २३..
तं समासाद्य मेधावी स तदा द्विजसत्तमः .
चरणौ धर्मकामो वै तपस्वी सुसमाहितः .
प्रतिपेदे यथान्यायं भक्त्या परमया युतः .. २४..
विस्मितश्चाद्भुतं दृष्ट्वा काश्यपस्तं द्विजोत्तमम् .
परिचारेण महता गुरुं वैद्यमतोषयत् .. २५..
प्रीतात्मा चोपपन्नश्च श्रुतचारित्य संयुतः .
भावेन तोषयच्चैनं गुरुवृत्त्या परन्तपः .. २६..
तस्मै तुष्टः स शिष्याय प्रसन्नोऽथाब्रवीद्गुरुः .
सिद्धिं परामभिप्रेक्ष्य शृणु तन्मे जनार्दन .. २७..
विविधैः कर्मभिस्तात पुण्ययोगैश्च केवलैः .
गच्छन्तीह गतिं मर्त्या देवलोकेऽपि च स्थितिम् .. २८..
न क्व चित्सुखमत्यन्तं न क्व चिच्छाश्वती स्थितिः .
स्थानाच्च महतो भ्रंशो दुःखलब्धात्पुनः पुनः .. २९..
अशुभा गतयः प्राप्ताः कष्टा मे पापसेवनात् .
काममन्युपरीतेन तृष्णया मोहितेन च .. ३०..
पुनः पुनश्च मरणं जन्म चैव पुनः पुनः .
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः .. ३१..
मातरो विविधा दृष्टाः पितरश्च पृथग्विधाः .
सुखानि च विचित्राणि दुःखानि च मयानघ .. ३२..
प्रियैर्विवासो बहुशः संवासश्चाप्रियैः सह .
धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् .. ३३..
अवमानाः सुकष्टाश्च परतः स्वजनात्तथा .
शारीरा मानसाश्चापि वेदना भृशदारुणाः .. ३४..
प्राप्ता विमाननाश्चोग्रा वधबन्धाश्च दारुणाः .
पतनं निरये चैव यातनाश्च यमक्षये .. ३५..
जरा रोगाश्च सततं वासनानि च भूरिशः .
लोकेऽस्मिन्ननुभूतानि द्वन्द्वजानि भृशं मया .. ३६..
ततः कदा चिन्निर्वेदान्निकारान्निकृतेन च .
लोकतन्त्रं परित्यक्तं दुःखार्तेन भृशं मया .
ततः सिद्धिरियं प्राप्ता प्रसादादात्मनो मया .. ३७..
नाहं पुनरिहागन्ता लोकानालोकयाम्यहम् .
आ सिद्धेरा प्रजा सर्गादात्मनो मे गतिः शुभा .. ३८..
उपलब्धा द्विजश्रेष्ठ तथेयं सिद्धिरुत्तमा .
इतः परं गमिष्यामि ततः परतरं पुनः .
ब्रह्मणः पदमव्यग्रं मा तेऽभूदत्र संशयः .. ३९..
नाहं पुनरिहागन्ता मर्त्यलोके परन्तप .
प्रीतोऽस्मि ते महाप्राज्ञ ब्रूहि किं करवाणि ते .. ४०..
यदीप्सुरुपपन्नस्त्वं तस्य कालोऽयमागतः .
अभिजाने च तदहं यदर्थं मा त्वमागतः .
अचिरात्तु गमिष्यामि येनाहं त्वामचूचुदम् .. ४१..
भृशं प्रीतोऽस्मि भवतश्चारित्रेण विचक्षण .
परिपृच्छ यावद्भवते भाषेयं यत्तवेप्सितम् .. ४२..
बहु मन्ये च ते बुद्धिं भृशं सम्पूजयामि च .
येनाहं भवता बुद्धो मेधावी ह्यसि काश्यप .. ४३..
१७
वा
ततस्तस्योपसङ्गृह्य पादौ प्रश्नान्सुदुर्वचान् .
पप्रच्छ तांश्च सर्वान्स प्राह धर्मभृतां वरः .. १..
काज़्यप
कथं शरीरं च्यवते कथं चैवोपपद्यते .
कथं कष्टाच्च संसारात्संसरन्परिमुच्यते .. २..
आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति .
शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते .. ३..
कथं शुभाशुभे चायं कर्मणी स्वकृते नरः .
उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति .. ४..
ब्र्
एवं सञ्चोदितः सिद्धः प्रश्नांस्तान्प्रत्यभाषत .
आनुपूर्व्येण वार्ष्णेय यथा तन्मे वचः शृणु .. ५..
सिद्ध
आयुः कीर्तिकराणीह यानि कर्माणि सेवते .
शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः .. ६..
आयुः क्षयपरीतात्मा विपरीतानि सेवते .
बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते .. ७..
सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा .
अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् .. ८..
यदायमतिकष्टानि सर्वाण्युपनिषेवते .
अत्यर्थमपि वा भुङ्क्ते न वा भुङ्क्ते कदा चन .. ९..
दुष्टान्नं विषमान्नं च सोऽन्योन्येन विरोधि च .
गुरु वापि समं भुङ्क्ते नातिजीर्णेऽपि वा पुनः .. १०..
व्यायाममतिमात्रं वा व्यवायं चोपसेवते .
सततं कर्म लोभाद्वा प्राप्तं वेगविधारणम् .. ११..
रसातियुक्तमन्नं वा दिवा स्वप्नं निषेवते .
अपक्वानागते काले स्वयं दोषान्प्रकोपयन् .. १२..
स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् .
अथ चोद्बन्धनादीनि परीतानि व्यवस्यति .. १३..
तस्य तैः कारणैर्जन्तोः शरीराच्च्यवते यथा .
जीवितं प्रोच्यमानं तद्यथावदुपधारय .. १४..
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः .
शरीरमनुपर्येति सर्वान्प्राणान्रुणद्धि वै .. १५..
अत्यर्थं बलवानूष्मा शरीरे परिकोपितः .
भिनत्ति जीव स्थानानि तानि मर्माणि विद्धि च .. १६..
ततः स वेदनः सद्यो जीवः प्रच्यवते क्षरन् .
शरीरं त्यजते जन्तुश्छिद्यमानेषु मर्मसु .
वेदनाभिः परीतात्मा तद्विद्धि द्विजसत्तम .. १७..
जातीमरणसंविग्नाः सततं सर्वजन्तवः .
दृश्यन्ते सन्त्यजन्तश्च शरीराणि द्विजर्षभ .. १८..
गर्भसङ्क्रमणे चापि मर्मणामतिसर्पणे .
तादृशीमेव लभते वेदनां मानवः पुनः .. १९..
भिन्नसन्धिरथ क्लेदमद्भिः स लभते नरः .
यथा पञ्चसु भूतेषु संश्रितत्वं निगच्छति .
शैत्यात्प्रकुपितः काये तीव्रवायुसमीरितः .. २०..
यः स पञ्चसु भूतेषु प्राणापाने व्यवस्थितः .
स गच्छत्यूर्ध्वगो वायुः कृच्छ्रान्मुक्त्वा शरीरिणम् .. २१..
शरीरं च जहात्येव निरुच्छ्वासश्च दृश्यते .
निरूष्मा स निरुच्छ्वासो निःश्रीको गतचेतनः .. २२..
ब्रह्मणा सम्परित्यक्तो मृत इत्युच्यते नरः .
स्रोतोभिर्यैर्विजानाति इन्द्रियार्थाञ्शरीरभृत् .
तैरेव न विजानाति प्राणमाहारसम्भवम् .. २३..
तत्रैव कुरुते काये यः स जीवः सनातनः .
तेषां यद्यद्भवेद्युक्तं संनिपाते क्व चित्क्व चित् .
तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा .. २४..
तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् .
आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै .
ततः स चेतनो जन्तुर्नाभिजानाति किं चन .. २५..
तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु .
स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना .. २६..
ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् .
निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् .. २७..
स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः .
अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते .. २८..
ब्राह्मणा ज्ञानसम्पन्ना यथावच्छ्रुत निश्चयाः .
इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः .. २९..
यथान्ध कारे खद्योतं लीयमानं ततस्ततः .
चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः .. ३०..
पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा .
च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् .. ३१..
तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः .
कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः .. ३२..
ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः .
इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः .. ३३..
इहैवाशुभ कर्मा तु कर्मभिर्निरयं गतः .
अवाक्स निरये पापो मानवः पच्यते भृशम् .
तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः .. ३४..
ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः .
कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे .
तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्म निश्चयात् .. ३५..
तारा रूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् .
यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् .
स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् .. ३६..
कर्म क्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः .
तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः .. ३७..
न तत्राप्यस्ति सन्तोषो दृष्ट्वा दीप्ततरां श्रियम् .
इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः .. ३८..
उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् .
यथावत्तां निगदतः शृणुष्वावहितो द्विज .. ३९..
१८
ब्र्
शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् .
प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा .. १..
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु .
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् .. २..
पापं चापि तथैव स्यात्पापेन मनसा कृतम् .
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते .. ३..
यथा कत्म समादिष्टं काममन्युसमावृतः .
नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् .. ४..
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम् .
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम् .. ५..
सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते .
सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् .
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः .. ६..
स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः .
दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः .
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः .. ७..
यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् .
उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम् .. ८..
लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् .
तथा त्वमपि जानीहि गर्भे जीवोपपादनम् .. ९..
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत् .
एवमेव शरीराणि प्रकाशयति चेतना .. १०..
यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् .
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते .. ११..
ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते .
यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते .. १२..
तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै .
आवर्तमानो जातीषु तथान्योन्यासु सत्तम .. १३..
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् .
दमः प्रशान्तता चैव भूतानां चानुकम्पनम् .. १४..
संयमश्चानृशंस्यं च परस्वादान वर्जनम् .
व्यलीकानामकरणं भूतानां यत्र सा भुवि .. १५..
मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् .
गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः .. १६..
प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते .
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः .. १७..
एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः .
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः .. १८..
तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः .
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् .. १९..
अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु .
यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते .. २०..
वर्तमानस्य धर्मेण पुरुषस्य यथातथा .
संसारतारणं ह्यस्य कालेन महता भवेत् .. २१..
एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते .
सर्वं तत्कारणं येन निकृतोऽयमिहागतः .. २२..
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् .
इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् .. २३..
शरीरमात्मनः कृत्वा सर्वभूतपितामहः .
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् .. २४..
ततः प्रधानमसृजच्चेतना सा शरीरिणाम् .
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः .. २५..
इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् .
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् .. २६..
असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः .
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः .. २७..
तस्य कालपरीमाणमकरोत्स पितामहः .
भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च .. २८..
यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि .
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते .. २९..
सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति .
कायं चामेध्य सङ्घातं विनाशं कर्म संहितम् .. ३०..
यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन् .
संसारसागरं घोरं तरिष्यति सुदुस्तरम् .. ३१..
जाती मरणरोगैश्च समाविष्टः प्रधानवित् .
चेतनावत्सु चैतन्यं समं भूतेषु पश्यति .. ३२..
निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् .
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम .. ३३..
शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् .
प्रोच्यमानं मया विप्र निबोधेदमशेषतः .. ३४..
१९
ब्र्
यः स्यादेकायने लीनस्तूष्णीं किं चिदचिन्तयन् .
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् .. १..
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः .
व्यपेतभयमन्युश्च कामहा मुच्यते नरः .. २..
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः .
अमानी निरभीमानः सर्वतो मुक्त एव सः .. ३..
जीवितं मरणं चोभे सुखदुःखे तथैव च .
लाभालाभे प्रिय द्वेष्ये यः समः स च मुच्यते .. ४..
न कस्य चित्स्पृहयते नावजानाति किं चन .
निर्द्वन्द्वो वीतरागात्मा सर्वतो मुक्त एव सः .. ५..
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्व चित् .
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते .. ६..
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः .
धातुक्षयप्रशान्तात्मा निर्द्वन्द्वः स विमुच्यते .. ७..
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् .
अस्वस्थमवशं नित्यं जन्म संसारमोहितम् .. ८..
वैराग्य बुद्धिः सततं तापदोषव्यपेक्षकः .
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव .. ९..
अगन्ध रसमस्पर्शमशब्दमपरिग्रहम् .
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते .. १०..
पञ्च भूतगुणैर्हीनममूर्ति मदलेपकम् .
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते .. ११..
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीर मानसान् .
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः .. १२..
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् .
परमाप्नोति संशान्तमचलं दिव्यमक्षरम् .. १३..
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् .
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः .. १४..
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे .
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि .. १५..
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् .
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् .. १६..
तपस्वी त्यक्तसङ्कल्पो दम्भाहङ्कारवर्जितः .
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि .. १७..
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि .
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि .. १८..
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः .
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति .. १९..
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति .
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति .. २०..
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् .
योगी निष्कृष्टमात्मानं यथा सम्पश्यते तनौ .. २१..
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् .
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् .. २२..
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् .
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः .. २३..
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते .
विनिवृत्य जरामृत्यू न हृष्यति न शोचति .. २४..
देवानामपि देवत्वं युक्तः कारयते वशी .
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् .. २५..
विनश्यत्ष्वपि लोकेषु न भयं तस्य जायते .
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केन चित् .. २६..
दुःखशोकमयैर्घोरैः सङ्गस्नेह समुद्भवैः .
न विचाल्येत युक्तात्मा निस्पृहः शान्तमानसः .. २७..
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते .
नातः सुखतरं किं चिल्लोके क्व चन विद्यते .. २८..
सम्यग्युक्त्वा यदात्मानमात्मयेव प्रपश्यति .
तदैव न स्पृहयते साक्षादपि शतक्रतोः .. २९..
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथं चन .
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु .. ३०..
दृष्टपूर्वा दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे .
पुरस्याभ्यन्तरे तस्य मनश्चायं न बाह्यतः .. ३१..
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् .
तस्मिन्नावसथे धार्यं स बाह्याभ्यन्तरं मनः .. ३२..
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते .
तस्मिन्काये मनश्चार्यं न कथं चन बाह्यतः .. ३३..
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने .
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् .. ३४..
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च .
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् .. ३५..
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन .
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् .. ३६..
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते .
कथं रसत्वं व्रजति शोणितं जायते कथम् .
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति .. ३७..
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् .
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् .
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् .. ३८..
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः .
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि .. ३९..
जीवः कायं वहति चेच्चेष्टयानः कलेवरम् .
किं वर्णं कीदृशं चैव निवेशयति वै मनः .
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ .. ४०..
इति सम्परिपृष्टोऽहं तेन विप्रेण माधव .
प्रत्यब्रुवं महाबाहो यथा श्रुतमरिन्दम .. ४१..
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्ड मना भवेत् .
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः .
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् .. ४२..
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव .
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् .. ४३..
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः .
मनसैव प्रदीपेन महानात्मनि दृश्यते .. ४४..
सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् .
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति .. ४५..
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् .
आत्मानमालोकयति मनसा प्रहसन्निव .. ४६..
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम .
आपृच्छे साधयिष्यामि गच्छ शिष्ययथासुखम् .. ४७..
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः .
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः .. ४८..
वा
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुङ्गवः .
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत .. ४९..
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा .
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि .. ५०..
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः .
नरेणाकृत सञ्ज्ञेन विदग्धेनाकृतात्मना .. ५१..
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ .
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केन चित् .. ५२..
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ .
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना .. ५३..
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः .
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् .. ५४..
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् .
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी .. ५५..
एवं हि धर्ममास्थाय योऽपि स्युः पापयोनयः .
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् .. ५६..
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः .
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः .. ५७..
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने .
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः .
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ .. ५८..
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव .
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् .
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् .. ५९..
एतावदेव वक्तव्यं नातो भूयोऽस्ति किं चन .
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते .. ६०..
.. इति अनुगीता समाप्ता ..
Please send corrections to Sunder Hattangadi( sunderh@hotmail.com OR sanskrit@cheerful.com) ;
Last updated October 12 1998 for HTML version
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com