||अपरोक्षानुभूति ||
श्रीहरिं परमानंदमुपदेष्टारमीश्वरम् |
व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् ||१||
अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये |
सद्भिरेव प्रयत्नेन वीक्षणीया मुहुर्मुहुः ||२||
स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् |
साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम् ||३||
ब्रह्मादिस्थावरान्तेशु वैराग्यं विषयेष्वनु |
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ||४||
नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् |
एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै ||५||
सदैव वासनात्यागः शमोऽयमिति शह्ब्दितः |
निग्रहो बाह्यवृत्तीना.म् दम इत्यभिधीयते ||६||
विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा |
सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ||७||
निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता |
चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ||८||
संसारबन्धनिर्मुक्तिः कथं मे स्यात्कथा विधे |
इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ||९||
उक्तसाधनयुक्तेन विचारः पुरुषेण हि |
कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता ||१०||
नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः |
यथा पदार्थभानं हि प्रकाशेन विना क्वचित् ||११||
कोऽहं कथमिदं जातं को वै कर्ताऽस्य विद्यते |
उपादानं किमस्तीह विचारः सोऽयमीदृशः ||१२||
नाहं भूतगणो देहो नाहं चाक्षगणस्तथा |
एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ||१३||
अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते |
संकल्पो विविधः कर्ता विचारः सोऽयमीदृशः ||१४||
एतोयर्यदुपादानमेकं सूक्ष्मं सदव्ययम् |
यथैवमृद्घटादीनं विचारः सोऽयमीदृशः ||१५||
अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः |
तदहं नात्र संदेहो विचारः सोऽयमीदृशः ||१६||
आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः |
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ||१७||
आत्मा नियामकश्चाम्तर्देहो बाह्यो नियम्यकः |
तयोरैकयं प्रपश्यन्ति किमज्ञानमतः परम् ||१८||
आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः |
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ||१९||
आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते |
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ||२०||
आत्मा नित्यो हि सद्रूपो देहोऽनित्यो ह्यसन्मयः |
तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ||२१||
आत्मनस्तत्प्रकाशत्वं यत्पदार्थावभासनम् |
नाग्न्यादिदीप्तिवद्दिप्तिर्भवत्यान्ध्य यतो निशि ||२२||
देहोऽहमित्ययं मूढो धृत्वा तिष्ठत्यहो जनः |
ममायमित्यपि ज्ञात्वा घटद्रष्टेव सर्वदा ||२३||
ब्रह्मैवाहं समः शान्तः सच्चिदानंदलक्षणः |
नाहं देहोह्यसद्रूपो ज्ञान्मित्युच्यते बुधैः ||२४||
निर्विकारो निराकारो निरवद्योऽहमव्ययः |
नाहं देहो ह्यसद्रूपो ज्ञानमुच्यते बुधैः ||२५||
निरामयो निराभासो निर्विकल्पोऽहमाततः |
नाहं देहो ह्यसद्रूपो ज्ञानमुच्यते बुधैः ||२६||
निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः |
नाहं देहो ह्यसद्रूपो ज्ञानमुच्यते बुधैः ||२७||
निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोमरः |
नाहं देहो ह्यसद्रूपो ज्ञानमुच्यते बुधैः ||२८||
स्वदेहे शोभनं सन्तं पुरुषाख्यं च संमतम् |
किं मूर्ख शून्यमात्मानं देहातीतं करोषि भोः ||२९||
स्वात्मानं श्रुणु मूर्ख त्वं श्रुत्या युक्त्या च पूरुषम् |
देहातीतं सदाकारं सुदुर्दर्शं भवादृशैः ||३०||
अहंशब्देन विख्यात एक एव स्थितः परः |
स्थूलस्त्वनेकतां प्राप्तः कथं स्याद्देहकः पुमान् ||३१||
अहं द्रष्टृतया सिद्धो देहो दृश्यतया स्थितः |
ममायमिति निर्देशात्कथं स्याद्देहकः पुमान् ||३२||
अहं विकारहीनस्तु देहो नित्यं विकारवान् |
इति प्रतीयते साक्षात्कथं स्याद्देहकः पुमान् ||३३||
यस्मात्परमिति श्रुत्या तया पुरुषलक्षणम् |
विनिर्णीतं विमूढेन कथं स्याद्देहकः पुमान् ||३४||
सर्वं पुरुष एवेति सूक्ते पुरुषसंज्ञिते |
अप्युच्यते यतः श्रुत्या कथं स्याद्देहकः पुमान् ||३५||
असंगः पुरुषः प्रोक्तो बृहदारण्यकेऽपि च |
अनन्तमलसंश्लिष्टः कथं स्याद्देहक.ः पुमान् ||३६||
तत्रैव च समाख्यातः स्वयंज्योतिर्हि पूरुषः |
जडः परप्रकाश्योऽयं कथं स्याद्देहकः ||३७||
प्रोक्तोऽपि कर्मकाण्डेन ह्यात्मा देहाद्विलक्षणः |
नित्यश्च तत्फलं भुङ्क्ते देहपातादनन्तरम् ||३८||
लिङ्गं चानेकसंयुक्तं चलं दृश्यं विकारि च |
अव्यापकमसद्रूपं तत्कथं स्यात्पुमानयम् ||३९||
एवं देहद्वयादन्य आत्मा पुरुष ईश्वरः |
सर्वात्मा सर्वरूपश्च सर्वातीतोमहव्ययः ||४०||
इत्यात्मदेहभागेन प्रपञ्चस्यैव सत्यता |
यथोक्ता तर्कशास्त्रेण ततः किं पुरुषार्थता ||४१||
इत्यात्मदेहभेदेन देहात्मत्वं निवारितम् |
इदानीं देहभेदस्य ह्यसत्त्वं स्फुटमुच्यते ||४२||
चैतन्यस्यैकरूपत्वाद्भेदो युक्तो न कर्हिचित् |
जीवतं च मृषा ज्ञेयं रज्जौ सर्पग्रहौ यथा ||४३||
रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी |
भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला ||४४||
उपादानं प्रपञ्चस्य ब्रह्मणोन्यन्न विद्यते |
तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् ||४५||
व्याप्याव्यापकता मिथ्या सर्वमात्मेति शासनात् |
इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः ||४६||
श्रुत्या निवारितं नूनं नानात्वं स्वमुखेन हि |
कथं भासो भवेदन्यः स्थिते चाद्वयकारणे ||४७||
दोषोऽपि विहितः श्रुत्या मृत्य्र्मृर्त्युं स गच्छति |
इह पश्यति नानात्वं मायया वञ्चितो नरः ||४८||
ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः |
तस्मादेतानि ब्रह्मैव भवन्तीत्यवधारयेत् ||४९||
ब्रह्मैव सर्वनामानि रूपाणि विविधानि च |
कर्माण्यपि समग्राणि बिभर्तीति श्रुतिर्जगौ ||५०||
सुवर्णाज्जयमानस्य सुवर्णत्वं च शाश्वतम् |
ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् ||५१||
स्वल्पमत्यन्तरं कृत्वा जीवात्मपरमात्मनोः |
यः सन्तिष्ठति मूढात्म भयं तस्याभिभाषितम् ||५२||
यत्राज्ञानाद्भवेद्वैतमितरस्तत्र पश्यति |
आत्मत्वेन यदा सर्वं नेतरस्तत्र चाण्वपि ||५३||
यस्मिन्सर्वाणि भूतानि ह्यात्मत्वेन विजानतः |
न वै तस्य भवेन्मोहो न च शोकोऽद्वितीयतः ||५४||
अयमात्मा हि ब्रह्मैव सर्वात्मकतया स्थितः |
इति निर्धारितं श्रुत्या बृहदारण्यसंस्थया ||५५||
अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् |
असद्रूपो यथा स्वप्न उत्तरक्षणबाधतः ||५६||
स्वप्नो जागरणेऽलीकः स्वप्नेऽपि जागरो न हि |
द्वयमेव लये नास्ति लयोऽपि ह्युभयोर्न च ||५७||
त्रयमेवं भवेन्मिथ्या गुणत्रयविनिर्मितम् |
अस्ये द्रष्टा गुणातीतो नित्यो ह्येकश्चिदात्मकः ||५८||
अयद्वन्मृदि घटभ्रान्तिं शुक्तौ वा रजतस्थितिम् |
तद्वद्ब्रह्मणि जीवत्वं वीक्षमाणे न पश्यति ||५९||
यथा मृदि घटो नाम कनके कुण्डलाभिधा |
शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे ||६०||
यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले |
पुरुषस्त्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि ||६१||
यथैव शून्ये वेतालो गन्धर्वाणां पुरं यथा |
यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः ||६२||
यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् |
पात्ररूपेण ताम्रं हि ब्रह्माण्डौघैस्तथात्मता ||६३||
घटनाम्न यथा पृथ्वी पटनाम्ना हि तंतवः |
जगन्नम्ना चिदाभाति ज्ञेयं तत्तदभावतः ||६४||
सर्वोऽपि व्यवहारस्तु ब्रह्मणा क्रियते जनैः |
अज्ञानान्न विजानन्ति मृदेव हि घटादिकम् ||६५||
कार्यकारणता नित्यमास्ते घटमृदोर्यथा |
तथैव श्रुतियुक्तिभ्यं प्रपञ्च ब्रह्मणोरिह ||६६||
गृह्यमाणे घटे यद्वन्मृत्तिकाऽयाति वै बलात् |
वीक्षमाणे प्रपञ्चेऽपि ब्रह्मैवाभाति भासुरम् ||६७||
सदैवात्मा विशुद्धोऽस्ति ह्यशुद्धो भाति वै सदा |
यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् ||६८||
यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः |
आत्मानात्मविभागोऽयं मुधैव क्रियतेऽबुधैः ||६९||
सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका |
विनिर्णीता विमूढेन देहत्वेन तथात्मता ||७०||
घटत्वेन यथा पृथ्वी पटत्वेनैव तंतवः |
विनिर्णीता विमूढेन देहत्वेन तथात्मता ||७१||
कनकं कुण्डलत्वेन तरङ्गत्वेन वै जलम् |
विनिर्णीता विमूढेन देहत्वेन तथात्मता ||७२||
पुरुषत्वेन वै स्थाणुर्जलत्वेन मरीचिका |
विनिर्णीता विमूढेन देहत्वेन तथात्मता ||७३||
गृहत्वेनैव काष्ठानि खद्गत्वेनैव लोहता |
विनिर्णीता विमूढेन देहत्वेन तथात्मता ||७४||
तथा वृक्ष विपर्यासो जलाद्भवति कस्यचित् |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||७५||
पोतेन गच्छतः पुंसः सर्वं भातीव चञ्चलम् |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||७६||
पीतत्वं हि यथा शुभ्रे दोषाद्भवति कस्यचित् |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||७७||
चक्षुभ्यां भ्रमशीलाभ्यां सर्वं भाति भ्रमात्मकम् |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||७८||
अलातं भ्रमणैव वर्तुलं भाति सूर्यवत् |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||७९||
महत्त्वे सर्ववस्तूनमणुत्वं ह्यतिदूरतः |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||८०||
सूक्ष्नत्वे सर्वभावानां स्थूलत्वं चोपनेत्रतः |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||८१||
काचभूमौ जलत्वं वा जलभूमौ हि काचता |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||८२||
यद्वदग्नौ मणित्वं हि मणौ वा वह्निता पुमान् |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||८३||
अभ्रेषु सत्सु धावत्सु सोमो धावति भाति वै |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||८४||
यथैव दिग्विपर्यासो मोहाद्भवति कस्यचित् |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||८५||
यथा शशी जले भाति चञ्चलत्वेन कस्यचित् |
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः ||८६||
एवमात्मन्यविद्यातो देहाध्यासो हि जायते |
स एवात्मपरिज्ञानाल्लीयते च परम् ||८७||
सर्वमात्मतया ज्ञातं जगत्स्थावरजङ्गमम् |
अभावात्सर्वभावानां देहस्य चात्मना कुतः ||८८||
आत्मानां सततं जानन्कालं नय महाद्युते |
प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमहर्सि ||८९||
उत्पन्नेऽप्यत्मविज्ञाने प्रारब्धं नैव मुञ्चति |
इति यच्छॄयते शास्त्रे तन्निराक्रियतेऽधुना ||९०||
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते |
देहादीनामसत्त्वत्तु यथा स्वप्नो विबोधतः ||९१||
कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् |
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कहिर्चित् ||९२||
स्वप्नदेहो यथाध्यस्थस्तथैवायं हि देहकः |
अध्यस्तस्य कुतो जन्म जन्माभावे हि तत्कुतः ||९३||
उपादानं प्रपञ्चस्य मृद्भण्डस्येव कथ्यते |
अज्ञानं चैव वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ||९४||
यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात् |
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ||९५||
रज्जुरूपे परिज्ञाते सर्पखण्डं न तिष्ठति |
अधिष्ठाने तथा ज्ञाते प्रपञ्चः शून्यतां गतः ||९६||
देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कुतः |
अज्ञानिजनबोधार्थं प्रारब्धं वक्ति वै श्रुतिः ||९७||
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे |
बहुत्वं तन्निषेधार्थं श्रुत्या गीतं च यत्स्फुतम् ||९८||
उच्यतेऽज्ञैर्बलाच्चैतत्तदानर्थद्वयागमः |
वेदान्तमतहानं च यतो ज्ञानमिति श्रुतिः ||९९||
त्रिपञ्चाङ्गान्यतो वक्ष्ये पूर्वोक्तस्य हि लब्धये |
तैश्च सर्वैः सदा कार्यं निदिध्यासनमेव तु ||१००||
नित्याभ्यासादृते प्राप्तिर्न भवेत्सच्चिदात्मनः |
तस्माद्ब्रह्म निदिध्यासेज्जिज्ञासुः श्रेयसे चिरम् ||१०१||
यमो हि नियमस्त्यागो मौनं देशश्च कालता |
आसनं मूलबंधश्च देहसाम्यं च दृक्स्थितिः ||१०२||
प्राणसंयमनं चैव प्रत्याहारश्च धारणा |
आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् ||१०३||
सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः |
यमोऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ||१०४||
सजातीयप्रवाहश्च विजातीयतिरस्कृतिः |
नियमो हि परानन्दो नियमात्क्रियते बुधैः ||१०५||
त्यागः प्रपञ्चरूपस्य चिदात्मत्वावलोकनात् |
त्यागो हि महतां पूज्यः सद्यो मोक्षमयो यतः ||१०६||
यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह |
यन्मौनं योगिभिर्गम्यं तद्भवेत्सर्वदा बुधः ||१०७||
वाचो यस्यान्निवर्तन्ते तद्वक्तुं केन शक्यते |
प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः ||१०८||
इति वा तद्भवेन्मौनं सतां सहज संज्ञितम् |
गिरा मौनं तु बालानां प्रयुक्तं ब्रह्मवादिभिः ||१०९||
आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते |
येनेदं सततं व्याप्तं स देशो विजनः स्मृतः ||११०||
कलनात् सर्वभूतानां ब्रह्मादीनां निमेषतः |
कालशब्देन निर्दिष्टो ह्यखण्डानन्दकोऽद्वयः ||१११||
सुखेनैव भेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् |
आसनं तद्विजानीयान्नेतरत्सुखनाशनम् ||११२||
सिद्धं यत्सर्वभूतादि विश्वाधिष्ठानमव्ययम् |
यस्मिन्सिद्धाः समाविष्टास्तद्वै सिद्धासनं विदुः ||११३||
यन्मूलं सर्वभूतानां यन्मूलं चित्तबन्धनम् |
मूलबन्धः सदा सेव्यो योग्योऽसौ राजयोगिनाम् ||११४||
अङ्गानां समतां विद्यात्समे ब्रह्मणि लीनताम् |
नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् ||११५||
दृष्टिं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् |
सा दृष्टिः परमोदारा न नासाग्रावलोकिनी ||११६||
द्रष्तृदर्शनदृश्यानां विरामो यत्र वा भवेत् |
दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी ||११७||
चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् |
निरोधः सर्व वृत्तीनां प्राणायामः स उच्यते ||११८||
निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः |
ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः ||११९||
ततस्तद्वृत्तिनैश्चल्यं कुंभकः प्राणसंयमः |
अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् ||१२०||
विषयेष्वात्मतां दृष्ट्वा मनसश्चिति मज्जनम् |
प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः ||१२१||
यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् |
मनसो धारणं चैव धारणा सा परा मता ||१२२||
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः |
ध्यानशब्देन विख्याता परमानन्ददायिनी ||१२३||
निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः |
वृत्तिविस्मरणं सम्यक्समाधिर्ज्ञानसंज्ञकः ||१२४||
इमञ्चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् |
वश्यो यावत्क्षणात्पुंसः प्रयुक्तः सन् भवेत्स्वयम् ||१२५||
ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् |
तत्स्वरूपं न चैतस्य विणयो मनसो गिराम् ||१२६||
समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् |
अनुसंधानराहित्यमालस्यं भोगलालसम् ||१२७||
लयस्तमश्च विक्षेपो रसास्वादश्च शून्यता |
एवं यद्विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः ||१२८||
भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता |
ब्रह्मवृत्त्या हि पूर्णत्वं तथा पूर्णत्वमभ्यसेत् ||१२९||
ये हि वृत्तिं जहत्येनां ब्रह्माख्यां पावनीं पराम् |
वृथैव ते तु जीवन्ति पशुभिश्च समा नराः ||१३०||
ये हि वृत्तिं विजानन्ति ज्ञात्वापि वर्धयन्ति ये |
ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये ||१३१||
येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः |
ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः ||१३२||
कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः |
तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ||१३३||
निमेषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना |
यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्यः शुकादयः ||१३४||
कार्ये कारणतायाता कारणे न हि कार्यता |
कारणत्वं ततो गच्छेत्कार्याभावे विचारतः ||१३५||
अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् |
द्रष्टव्यं मृद्घटेनैव दृष्टान्तेन पुनः पुनः ||१३६||
अनेनैव प्रकारेण वृत्तिब्रह्मात्मिका भवेत् |
उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् ||१३७||
कारणं व्यतिरेकेण पुमानादौ विलोकयेत् |
अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ||१३८||
कार्ये हि कारणं पश्येत्पश्चात्कार्यं विसर्जयेत् |
अन्वयेन पुनस्तद्धि कार्ये नित्यं प्रपश्यति ||१३९||
भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मना |
पुमांस्तद्धि भवेच्छीघ्रं ज्ञेयं भ्रमरकीटवत् ||१४०||
अदृश्यं भावरूपञ्च सर्वमेव चिदात्मकम् |
सावधानतया नित्यं स्वात्मानं भावयेद्बुधः ||१४१||
दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् |
विद्वान्नित्यसुखे तिष्ठेद्धिय चिद्रसपूर्णया ||१४२||
एभिरङ्गैः समायुक्तो राजयोग उदाहृतः |
किञ्चित्पक्वकषायाणां हठयोगेन संयुतः ||१४३||
परिपक्वं मनो येषं केवलोऽयं च सिद्धिदः |
गुरुदैवतभक्तानां सर्वेषां सुलभो जवात् ||१४४||
||इति ||
Encoded and proofread by Sunder Hattangadi(sunderh at hotmail.com)
%@@1
% File name : aparokshaanubhuuti.itx
%--------------------------------------------
% Text title : aparokShAnubhUti
% Author :
% Language : sanskrit
% Subject : religion
% Description/comments :
% Transliterated by : Sunder Hattangadi(sunderh at hotmail.com)
% Proofread by : Sunder Hattangadi(sunderh at hotmail.com)
% Latest update : 1/2/1998, May 28, 2011
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions : i1h.hdr,ijag.inc,itrans.sty,multicol.sty,article.sty
% Transliteration scheme: ITRANS 5.1
% Site access : http://sanskritdocuments.org/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's' agreement.
%@@1
%
% Please ignore the following commands upto #indian and others with \ mark,
% which are needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .