.. आरुणिकोपनिषत् ..
.. आरुणिकोपनिषत् .. 16
आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः .
यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ..
ॐ आप्यायन्त्विति शान्तिः ..
ॐ आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम . तं
गत्वोवाच . केन भगवन्कर्माण्यशेषतो विसृजामीति .
तं होवाच प्रजापतिस्तव
पुत्रान्भ्रातृइन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं
स्वाध्यायं
भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं
चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं
च विसृजेत् . दण्डमाच्छादनं चैव कौपीनं च
परिग्रहेत् . शेषं विसृजेदिति .. १..
गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु
वा विसृजेत् . लौकिकाग्नीनुदराग्नौ समारोपयेत् .
गायत्रीं च स्ववाचाग्नौ समारोपयेत् . कुटीचरो
ब्रह्मचारी कुटुंबं विसृजेत् . पात्रं विसृजेत् .
पवित्रं विसृजेत् . दण्डाॅंलोकांश्च विसृजेदिति होवाच
. अत उर्ध्वममन्त्रवदाचरेत् . ऊर्ध्वगमनं विसृजेत् .
औषधवदशनमाचरेत् . त्रिसन्ध्यादौ स्नानमाचरेत् .
सन्धिं समाधावात्मन्याचरेत् . सर्वेषु
वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तय्
एदिति .. २..
खल्वहं ब्रह्मसूचनात्सूत्रं ब्रह्मसूत्रमहमेव
विद्वान्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया
संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं
सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते . सखामागोपायोजः
सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव
यत्पापं तन्निवारयेति . अनेन मन्त्रेण कृतं वाइणवं
दण्डं कौपीनं
परिग्रहेदौषधवदशनमाचरेदौषधवदशनं
प्राश्नीयाद्यथालाभमश्नीयात् . ब्रह्मचर्यमहिंसा
चापरिग्रहं च सत्यं च यत्नेन हे रक्षत हे रक्षत हे
रक्षत इति .. ३..
अथातः परमहंसपरिव्राजकानामासनशयनादिकं भूमौ
ब्रह्मचर्यं मृत्पात्रमलाम्बुपात्रं दारुपात्रं वा
यतीनां
कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छासूयाममत्वाहङ्क्
आरादीनपि परित्यजेत् . वर्षासु ध्रुवशीलोऽष्टौ
मासानेकाकी यतिश्चरेत् द्वावेव वा विचरेद्द्वावेव वा
विचरेदिति .. ३..
स खल्वेवं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत्
. पित्रं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह यतयो
भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रमुदरपात्रं वा .
ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत् ..
खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं
बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां
यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद . तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् .
तद्विप्रासो विपन्यवो जागृवांसः समिन्धते . विष्णोर्यत्परमं
पदमिति . एवं निर्वाणानुशासनं वेदानुशासनं
वेदानुशासनमिति .. ५..
ॐ आप्यायन्त्विति शान्तिः ..
इति सामवेदीयारुणिकोपनिषत्समाप्ता ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com