.. अशोकवन ..
पांशुप्रदानावदानं
यो असौ स्वमांसतनुभिर् यजनानि कृत्वा
अतप्यच्चिरं करुणाय जगतो हिताय |
तस्य श्रमस्य सफलीकरणाय सन्तः
साऽवर्जितं शृणुत सांप्रतभाष्यमाणं ||
एवं मया श्रुतं एकस्मिन् समये भगवान्
श्रावस्त्यां विहरति |
इति सूत्रं वक्तव्यं |
अत्र तावद्-
भगवत्तथागतवदनाम्भोधरविवरप्रत्युद्गत
वचनसरत्सलिलधारासम्पातापनीतरागद्वेष
मोहमदमानमायाशाठ्यपङ्कपटलानां
शब्दन्यायाऽदितर्कशास्त्रार्थावलोकनौत्पन्न
प्रज्ञाप्रदीपप्रोत्सारितकुशास्त्रदर्शनान्ध
काराणां
संसारतृष्णाछेदिप्रवरसद्धर्मपयःपान
शौण्डानां गुरूणां संनिधौ
सर्वाववादकश्रेष्ठं
( शक्रब्रह्मैइशानयमवरुणकुवेरवासवसोम
आदित्याऽदिभिर्-
आ, शक्रब्रह्मैइशानयमवरुणकुवेरवसवसोम
आदित्याऽदिभिर् ) अप्यप्रतिहतशासनं
कन्दर्पदर्पापमर्दनशूरं महाऽऽत्मानं
अतिमहर्द्धिकं स्थविरौपगुप्तं आरभ्य काञ्चिद्-
एव विबुधजनमनःप्रसादकरीं धर्म्यां
कथां समनुस्मरिष्यामः |
तत्र तावद्गुरुभिर् अवहितश्रोत्रैर् भवितव्यं |
उपगुप्तौपाख्यानं
एवं अनुश्रूयते |
यदा भगवान् परिनिर्वाणकालसमये
अपलालनागं विनीय कुम्भकारीं चण्डालीं
गोपालीं च तेषां मथुरां अनुप्राप्तः |
तत्र भगवान् आयुष्मन्तं आनन्दं आमन्त्रयते स्म |
अस्यां आनन्द मथुरायां मम
वर्षशतपरिनिर्वृतस्य गुप्तो नाम गान्धिको
भविष्यति |
तस्य पुत्रो भविष्यति उपगौप्तनाम अलक्षणको
बुद्धो यो मम वर्षशतपरिनिर्वृतस्य
बुद्धकार्यं करिष्यति |
तस्य अववादेन बहवो भिक्षवः
सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात् करिष्यन्ति
|
ते अष्टादशहस्तां आयामेन द्वादशहस्तां
विस्तरेण चतुरङ्गुलमात्राभिः शलाकाभिऋ
गुहां पूरयिष्यन्ति |
एषो अग्रो मे आनन्द श्रावकाणां भविष्यति
अववादकानां यदुत उपगुप्तो भिक्षुः |
पश्यसि त्वं आनन्द दूरतए एव
नीलनीलाम्बरराजिं |
एवं भदन्त |
एष आनन्द उरुमुण्डो नाम पर्वतः |
अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य
शाणकवासी नाम भिक्षुर् भविष्यति |
सो अत्र उरुमुण्डपर्वते विहारं
प्रतिष्ठापयिष्यति |
उपगुप्तं च प्रव्राजयिष्यति |
मथुरायां आनन्द नटो भटश्च द्वौ भ्रातरौ
श्रेष्ठिणौ भविष्यतः |
तौ उरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यतः
|
तस्य नटभटिका इति संज्ञा भविष्यति |
एतदग्रं मे आनन्द भविष्यति
शमथानुकूलानां शय्याऽसनानां यदिदं
नटभटिकारण्याऽयतनं |
अथ आयुश्मान् आनन्दो भगवन्तं इदं अवोचत् |
आश्चर्यं भदन्त यदीदृशं आयुष्मान् उपगुप्तो
बहुजनहितं करिष्यति |
भगवान् आह |
न आनन्द एतर्हि यथा अतीते अप्यध्वनि तेन
विनिपतितशरीरेण अप्यत्र एव बहुजनहितं
कृतं |
उरुमुण्डपर्वते त्रयः पार्श्वाः |
एकत्र प्रदेशे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति
|
द्वितीये पञ्चर्षिशतानि |
तृतीये पञ्चमर्कटशतानि |
तत्र यो असौ पञ्चानां मर्कटशतानां
यूथपतिः स तं यूथं अपहाय यत्र पार्श्वे
पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति तत्र गतः |
तस्य तान् प्रत्येकबुद्धान् दृष्ट्वा प्रसादो जातः |
स तेषां प्रत्येकबुद्धानां शीर्णपर्णानि
मूलफलानि च उपनामयति यदा च ते पर्यङ्केण
उपविष्टा भवन्ति स वृद्धान्ते प्रणामं कृत्वा
यावन् नवान्तं
गत्वा पर्यङ्केण उपविशति |
यावत् ते प्रत्येकबुद्धाः परिनिर्वृताः |
स तेषां शीर्णपर्णानि मूलफलानि च
उपनामयति |
ते न प्रतिगृह्णन्ति |
स तेषां चीवरकर्णिकानि आकर्षयति |
पादौ गृह्णाति |
यावत् स मर्कटश्चिन्तयति |
नियतं एते कालगता भविष्यन्ति |
ततः स मर्कटः शोचित्वा परिदेवित्वा च द्वितीयं
पार्श्वं गतो यत्र पञ्चर्षिशतानि प्रतिवसन्ति |
ते च ऋषयः केचित् कण्टकापाश्रयाः केचिद्-
भस्मापाश्रयाः केचिदूर्ध्वहस्ताः केचित्
पञ्चाऽतपावस्थिताः |
स तेषां तेषां ईर्यापथान् विकोपयितुं आरब्धः |
ये कण्टकापाश्रयास्तेषां कण्टकान् उद्धरति |
भस्मापाश्रयाणां भस्म विधुनोति |
ऊर्ध्वहस्तानां अधो हस्तं पातयति |
पञ्चाऽतपावस्थितानां अग्निं अवकिरति |
यदा च तैर् ईर्यापथो विकोपितो भवति तदा स
तेषां अग्रतः पर्यङ्कं बध्नाति |
यावत् तैर् ऋषिभिर् आचार्याय निवेदितं |
तेन अपि च उक्तं |
पर्यङ्केण तावन् निषीदत |
यावत् तानि पञ्चर्षिशतानि पर्यङ्केण
उपविष्टानि |
ते अनाचार्यका अनुपदेशकाः सप्तत्रिंशद्-
बोधिपक्षान् धर्मान् आमुखीकृत्य प्रत्येकां
बोधिं साक्षात् कृतवन्तः |
अथ तेषां प्रत्येकबुद्धानां एतदभवद्|
यत् किञ्चिदस्माभिः श्रेयो अवाप्तं तत् सर्वं
इमं मर्कटं आगम्य |
तैर् यावत् स मर्कटः फलमूलैः परिपालितः |
कालगतस्य च तच्छरीरं गन्धकाष्ठैर्-
ध्मापितं |
तत् किं मन्यसे आनन्द यो असौ पञ्चानां
मर्कटशतानां यूथपतिः स एष उपगुप्तः |
तदा अपि तेन विनिपतितशरीरेण अप्यत्र एव
उरुमुण्डपर्वते बहुजनहितं कृतं |
अनागते अप्यध्वनि वर्षशतपरिनिर्वृतस्य मम
अत्र एव उरुमुण्डपर्वते बहुजनहितं करिष्यति
|
तच्च यथा एवं तथा उपदर्शयिष्यामः |
शाणकवास्य्-उपाख्यानं
यदा स्थविरेण शाणकवासिना उरुमुण्डे पर्वते
विहारः प्रतिष्ठापितः समन्वाहरति |
किं असौ गान्धिक उत्पन्नः |
अथ अद्य अपि न उत्पद्यतए इति |
पश्यत्युत्पन्नः |
स यावत् समन्वाहरति |
यो असौ तस्य पुत्र उपगुप्तो नाम्ना अलक्षणको
बुद्धो निर्दिष्टो यो मम वर्षशतपरिनिर्वृतस्य
बुद्धकार्यं करिष्यति इति किं असावुत्पन्नः |
अथ अद्य अपि न उत्पद्यतए इति |
पश्यत्यद्य अपि न उत्पद्यते |
तेन यावदुपायेन गुप्तो गान्धिको भगवच्छासने
अभिप्रसादितः |
स यदा अभिप्रसन्नस्तदा स्थविरः संबहुलैर्-
भिक्षुभिः सार्धं एकदिवसं तस्य गृहं
प्रविष्टः |
अपरस्मिन्नहनि आत्मद्वितीयः |
अन्यस्मिन्नहनि एकाकी |
यावद्गुप्तो गान्धिकः स्थविरं शाणकवासिनं
एकाकिनं दृष्ट्वा कथयति |
न खल्वार्यस्य कश्चित् पश्चाच्छ्रमणः |
स्थविर उवाच |
जराधर्माणां कुतो अस्माकं पश्चाच्छ्रमणो
भवति |
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com