||अष्टावक्र गीता ||
||श्री ||
अथ श्रीमदष्टावक्रगीता प्रारभ्यते ||
जनक उवाच ||
कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति |
वैराग्यं च कथं प्राप्तं एतद् ब्रूहि मम प्रभो ||१- १||
अष्टावक्र उवाच ||
मुक्तिं इच्छसि चेत्तात विषयान् विषवत्त्यज |
क्षमार्जवदयातोषसत्यं पीयूषवद् भज ||१- २||
न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् |
एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये ||१- ३||
यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि |
अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ||१- ४||
न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः |
असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ||१- ५||
धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो |
न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ||१- ६||
एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा |
अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम् ||१- ७||
अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः |
नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव ||१- ८||
एको विशुद्धबोधोऽहं इति निश्चयवह्निना |
प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव ||१- ९||
यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् |
आनन्दपरमानन्दः स बोधस्त्वं सुखं भव ||१- १०||
मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि |
किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत् ||१- ११||
आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः |
असंगो निःस्पृहः शान्तो भ्रमात्संसारवानिव ||१- १२||
कूटस्थं बोधमद्वैतमात्मानं परिभावय |
आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम् ||१- १३||
देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक |
बोधोऽहं ज्ञानखंगेन तःनिकृत्य सुखी भव ||१- १४||
निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः |
अयमेव हि ते बन्धः समाधिमनुतिष्ठति ||१- १५||
त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः |
शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम् ||१- १६||
निरपेक्षो निर्विकारो निर्भरः शीतलाशयः |
अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः ||१- १७||
साकारमनृतं विद्धि निराकारं तु निश्चलम् |
एतत्तत्त्वोपदेशेन न पुनर्भवसंभवः ||१- १८||
यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः |
तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः ||१- १९||
एकं सर्वगतं व्योम बहिरन्तर्यथा घटे |
नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ||१- २०||
जनक उवाच ||
अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः |
एतावन्तमहं कालं मोहेनैव विडंबितः ||२- १||
यथा प्रकाशयाम्येको देहमेनं तथा जगत् |
अतो मम जगत्सर्वमथवा न च किंचन ||२- २||
स शरीरमहो विश्वं परित्यज्य मयाधुना |
कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ||२- ३||
यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः |
आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ||२- ४||
तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः |
आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम् ||२- ५||
यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा |
तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम् ||२- ६||
आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते |
रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि ||२- ७||
प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः |
यदा प्रकाशते विश्वं तदाहं भास एव हि ||२- ८||
अहो विकल्पितं विश्वमज्ञानान्मयि भासते |
रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ||२- ९||
मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति |
मृदि कुंभो जले वीचिः कनके कटकं यथा ||२- १०||
अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे |
ब्रह्मादिस्तंबपर्यन्तं जगन्नाशोऽपि तिष्ठतः ||२- ११||
अहो अहं नमो मह्यं एकोऽहं देहवानपि |
क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ||२- १२||
अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः |
असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ||२- १३||
अहो अहं नमो मह्यं यस्य मे नास्ति किंचन |
अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ||२- १४||
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् |
अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः ||२- १५||
द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजम् |
दृश्यमेतन् मृषा सर्वं एकोऽहं चिद्रसोमलः ||२- १६||
बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया |
एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ||२- १७||
न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया |
अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ||२- १८||
सशरीरमिदं विश्वं न किंचिदिति निश्चितम् |
शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ||२- १९||
शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा |
कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ||२- २०||
अहो जनसमूहेऽपि न द्वैतं पश्यतो मम |
अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ||२- २१||
नाहं देहो न मे देहो जीवो नाहमहं हि चित् |
अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा ||२- २२||
अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितम् |
मय्यनंतमहांभोधौ चित्तवाते समुद्यते ||२- २३||
मय्यनंतमहांभोधौ चित्तवाते प्रशाम्यति |
अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ||२- २४||
मय्यनन्तमहांभोधावाश्चर्यं जीववीचयः |
उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ||२- २५||
अष्टावक्र उवाच ||
अविनाशिनमात्मानं एकं विज्ञाय तत्त्वतः |
तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः ||३- १||
आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे |
शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ||३- २||
विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे |
सोऽहमस्मीति विज्ञाय किं दीन इव धावसि ||३- ३||
श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरम् |
उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति ||३- ४||
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि |
मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते ||३- ५||
आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः |
आश्चर्यं कामवशगो विकलः केलिशिक्षया ||३- ६||
उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः |
आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः ||३- ७||
इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः |
आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका ||३- ८||
धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा |
आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति ||३- ९||
चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् |
संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः ||३- १०||
मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः |
अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ||३- ११||
निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः |
तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ||३- १२||
स्वभावाद् एव जानानो दृश्यमेतन्न किंचन |
इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ||३- १३||
अंतस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः |
यदृच्छयागतो भोगो न दुःखाय न तुष्टये ||३- १४||
जनक उवाच ||
हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया |
न हि संसारवाहीकैर्मूढैः सह समानता ||४- १||
यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः |
अहो तत्र स्थितो योगी न हर्षमुपगच्छति ||४- २||
तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते |
न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः ||४- ३||
आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना |
यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः ||४- ४||
आब्रह्मस्तंबपर्यन्ते भूतग्रामे चतुर्विधे |
विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने ||४- ५||
आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरम् |
यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित् ||४- ६||
अष्टावक्र उवाच ||
न ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि |
संघातविलयं कुर्वन्नेवमेव लयं व्रज ||५- १||
उदेति भवतो विश्वं वारिधेरिव बुद्बुदः |
इति ज्ञात्वैकमात्मानं एवमेव लयं व्रज ||५- २||
प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि |
रज्जुसर्प इव व्यक्तं एवमेव लयं व्रज ||५- ३||
समदुःखसुखः पूर्ण आशानैराश्ययोः समः |
समजीवितमृत्युः सन्नेवमेव लयं व्रज ||५- ४||
जनक उवाच ||
आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत् |
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ||६- १||
महोदधिरिवाहं स प्रपंचो वीचिसऽन्निभः |
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ||६- २||
अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना |
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ||६- ३||
अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि |
इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ||६- ४||
जनक उवाच ||
मय्यनंतमहांभोधौ विश्वपोत इतस्ततः |
भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता ||७- १||
मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः |
उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः ||७- २||
मय्यनंतमहांभोधौ विश्वं नाम विकल्पना |
अतिशांतो निराकार एतदेवाहमास्थितः ||७- ३||
नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने |
इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः ||७- ४||
अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत् |
इति मम कथं कुत्र हेयोपादेयकल्पना ||७- ५||
अष्टावक्र उवाच ||
तदा बन्धो यदा चित्तं किन्चिद् वांछति शोचति |
किंचिन् मुंचति गृण्हाति किंचिद् दृष्यति कुप्यति ||८- १||
तदा मुक्तिर्यदा चित्तं न वांछति न शोचति |
न मुंचति न गृण्हाति न हृष्यति न कुप्यति ||८- २||
तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु |
तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु ||८- ३||
यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा |
मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा ||८- ४||
अष्टावक्र उवाच ||
कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा |
एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती ||९- १||
कस्यापि तात धन्यस्य लोकचेष्टावलोकनात् |
जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः ||९- २||
अनित्यं सर्वमेवेदं तापत्रयदूषितम् |
असरं निन्दितं हेयमिति निश्चित्य शाम्यति ||९- ३||
कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणाम् |
तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात् ||९- ४||
ना मतं महर्षीणां साधूनां योगिनां तथा |
दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः ||९- ५||
कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः |
निर्वेदसमतायुक्त्या यस्तारयति संसृतेः ||९- ६||
पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः |
तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि ||९- ७||
वासना एव संसार इति सर्वा विमुंच ताः |
तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा ||९- ८||
अष्टावक्र उवाच ||
विहाय वैरिणं काममर्थं चानर्थसंकुलम् |
धर्ममप्येतयोर्हेतुं सर्वत्रादरं कुरु ||१०- १||
स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पंच वा |
मित्रक्षेत्रधनागारदारदायादिसंपदः ||१०- २||
यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै |
प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव ||१०- ३||
तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते |
भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः ||१०- ४||
त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा |
अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते ||१०- ५||
राज्यं सुताः कलत्राणि शरीराणि सुखानि च |
संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि ||१०- ६||
अलमर्थेन कामेन सुकृतेनापि कर्मणा |
एभ्यः संसारकान्तारे न विश्रान्तमभून् मनः ||१०- ७||
कृतं न कति जन्मानि कायेन मनसा गिरा |
दुःखमायासदं कर्म तदद्याप्युपरम्यताम् ||१०- ८||
अष्टावक्र उवाच ||
भावाभावविकारश्च स्वभावादिति निश्चयी |
निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ||११- १||
ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी |
अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ||११- २||
आपदः संपदः काले दैवादेवेति निश्चयी |
तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति ||११- ३||
सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी |
साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ||११- ४||
चिन्तया जायते दुःखं नान्यथेहेति निश्चयी |
तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः ||११- ५||
नाहं देहो न मे देहो बोधोऽहमिति निश्चयी |
कैवल्यं इव संप्राप्तो न स्मरत्यकृतं कृतम् ||११- ६||
आब्रह्मस्तंबपर्यन्तं अहमेवेति निश्चयी |
निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः ||११- ७||
नाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी |
निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ||११- ८||
जनक उवाच ||
कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः |
अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः ||१२- १||
प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः |
विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ||१२- २||
समाध्यासादिविक्षिप्तौ व्यवहारः समाधये |
एवं विलोक्य नियमं एवमेवाहमास्थितः ||१२- ३|||
हेयोपादेयविरहाद् एवं हर्षविषादयोः |
अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः ||१२- ४||
आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम् |
विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः ||१२- ५||
कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा |
बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः ||१२- ६||
अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ |
त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः ||१२- ७||
एवमेव कृतं येन स कृतार्थो भवेदसौ |
एवमेव स्वभावो यः स कृतार्थो भवेदसौ ||१२- ८||
जनक उवाच ||
अकिंचनभवं स्वास्थं कौपीनत्वेऽपि दुर्लभम् |
त्यागादाने विहायास्मादहमासे यथासुखम् ||१३- १||
कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते |
मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ||१३- २||
कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः |
यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम् ||१३- ३||
कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः |
संयोगायोगविरहादहमासे यथासुखम् ||१३- ४||
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा |
तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम् ||१३- ५||
स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा |
नाशोल्लासौ विहायास्मदहमासे यथासुखम् ||१३- ६||
सुखादिरूपा नियमं भावेष्वालोक्य भूरिशः |
शुभाशुभे विहायास्मादहमासे यथासुखम् ||१३- ७||
जनक उवाच ||
प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः |
निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ||१४- १||
क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः |
क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ||१४- २||
विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे |
नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम ||१४- ३||
अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः |
भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते ||१४- ४||
अष्टावक्र उवाच ||
यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् |
आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति ||१५- १||
मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः |
एतावदेव विज्ञानं यथेच्छसि तथा कुरु ||१५- २||
वाग्मिप्राज्ञानमहोद्योगं जनं मूकजडालसम् |
करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः ||१५- ३||
न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् |
चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ||१५- ४||
रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन |
निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर ||१५- ५||
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि |
विज्ञाय निरहंकारो निर्ममस्त्वं सुखी भव ||१५- ६||
विश्वं स्फुरति यत्रेदं तरंगा इव सागरे |
तत्त्वमेव न सन्देहश्चिन्मूर्ते विज्वरो भव ||१५- ७||
श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः |
ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः ||१५- ८||
गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च |
आत्मा न गंता नागंता किमेनमनुशोचसि ||१५- ९||
देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः |
क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः ||१५- १०||
त्वय्यनंतमहांभोधौ विश्ववीचिः स्वभावतः |
उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः ||१५- ११||
तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् |
अतः कस्य कथं कुत्र हेयोपादेयकल्पना ||१५- १२||
एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि |
कुतो जन्म कुतो कर्म कुतोऽहंकार एव च ||१५- १३||
यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे |
किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम् ||१५- १४||
अयं सोऽहमयं नाहं विभागमिति संत्यज |
सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव ||१५- १५||
तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः |
त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन ||१५- १६||
भ्रान्तिमात्रमिदं विश्वं न किंचिदिति निश्चयी |
निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ||१५- १७||
एक एव भवांभोधावासीदस्ति भविष्यति |
न ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर ||१५- १८||
मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय |
उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे ||१५- १९||
त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय |
आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ||१५- २०||
अष्टावक्र उवाच ||
आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः |
तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते ||१६- १||
भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते |
चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति ||१६- २||
आयासात्सकलो दुःखी नैनं जानाति कश्चन |
अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ||१६- ३||
व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि |
तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित् ||१६- ४||
इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः |
धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ||१६- ५||
विरक्तो विषयद्वेष्टा रागी विषयलोलुपः |
ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान् ||१६- ६||
हेयोपादेयता तावत्संसारविटपांकुरः |
स्पृहा जीवति यावद् वै निर्विचारदशास्पदम् ||१६- ७||
प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि |
निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः ||१६- ८||
हातुमिच्छति संसारं रागी दुःखजिहासया |
वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति ||१६- ९||
यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा |
न च ज्ञानी न वा योगी केवलं दुःखभागसौ ||१६- १०||
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा |
तथापि न तव स्वाथ्यं सर्वविस्मरणादृते ||१६- ११||
अष्टावक्र उवाच ||
तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा |
तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः ||१७- १||
न कदाचिज्जगत्यस्मिन् तत्त्वज्ञा हन्त खिद्यति |
यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम् ||१७- २||
न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी |
सल्लकीपल्लवप्रीतमिवेभं निंबपल्लवाः ||१७- ३||
यस्तु भोगेषु भुक्तेषु न भवत्यधिवासिता |
अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः ||१७- ४||
बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते |
भोगमोक्षनिराकांक्षी विरलो हि महाशयः ||१७- ५||
धर्मार्थकाममोक्षेषु जीविते मरणे तथा |
कस्याप्युदारचित्तस्य हेयोपादेयता न हि ||१७- ६||
वांछा न विश्वविलये न द्वेषस्तस्य च स्थितौ |
यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम् ||१७- ७||
कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती |
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नास्ते यथा सुखम् ||१७- ८||
शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च |
न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे ||१७- ९||
न जागर्ति न निद्राति नोन्मीलति न मीलति |
अहो परदशा क्वापि वर्तते मुक्तचेतसः ||१७- १०||
सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः |
समस्तवासना मुक्तो मुक्तः सर्वत्र राजते ||१७- ११||
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन् |
ईहितानीहितैर्मुक्तो मुक्त एव महाशयः ||१७- १२||
न निन्दति न च स्तौति न हृष्यति न कुप्यति |
न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः ||१७- १३||
सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितम् |
अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ||१७- १४||
सुखे दुःखे नरे नार्यां संपत्सु विपत्सु च |
विशेषो नैव धीरस्य सर्वत्र समदर्शिनः ||१७- १५||
न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता |
नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे ||१७- १६||
न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः |
असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते ||१७- १७||
समाधानसमाधानहिताहितविकल्पनाः |
शून्यचित्तो न जानाति कैवल्यमिव संस्थितः ||१७- १८||
निर्ममो निरहंकारो न किंचिदिति निश्चितः |
अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न ||१७- १९||
मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः |
दशां कामपि संप्राप्तो भवेद् गलितमानसः ||१७- २०||
अष्टावक्र उवाच ||
यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः |
तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ||१८- १||
अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् |
न हि सर्वपरित्याजमन्तरेण सुखी भवेत् ||१८- २||
कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः |
कुतः प्रशमपीयूषधारासारमृते सुखम् ||१८- ३||
भवोऽयं भावनामात्रो न किंचित् परमर्थतः |
नास्त्यभावः स्वभावनां भावाभावविभाविनाम् ||१८- ४||
न दूरं न च संकोचाल्लब्धमेवात्मनः पदम् |
निर्विकल्पं निरायासं निर्विकारं निरंजनम् ||१८- ५||
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः |
वीतशोका विराजन्ते निरावरणदृष्टयः ||१८- ६||
समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः |
इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ||१८- ७||
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ |
निष्कामः किं विजानाति किं ब्रूते च करोति किम् ||१८- ८||
अयं सोऽहमयं नाहं इति क्षीणा विकल्पना |
सर्वमात्मेति निश्चित्य तूष्णींभूतस्य योगिनः ||१८- ९||
न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता |
न सुखं न च वा दुःखं उपशान्तस्य योगिनः ||१८- १०||
स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने |
निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ||१८- ११||
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता |
इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः ||१८- १२||
कृत्यं किमपि नैवास्ति न कापि हृदि रंजना |
यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः ||१८- १३||
क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता |
सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः ||१८- १४||
येन विश्वमिदं दृष्टं स नास्तीति करोतु वै |
निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ||१८- १५||
येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् |
किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ||१८- १६||
दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ |
उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ||१८- १७||
धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् |
नो समाधिं न विक्षेपं न लोपं स्वस्य पश्यति ||१८- १८||
भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः |
नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता ||१८- १९||
प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः |
यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठते सुखम् ||१८- २०||
निर्वासनो निरालंबः स्वच्छन्दो मुक्तबन्धनः |
क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ||१८- २१||
असंसारस्य तु क्वापि न हर्षो न विषादिता |
स शीतलहमना नित्यं विदेह इव राजये ||१८- २२||
कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् |
आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ||१८- २३||
प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया |
प्राकृतस्येव धीरस्य न मानो नावमानता ||१८- २४||
कृतं देहेन कर्मेदं न मया शुद्धरूपिणा |
इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ||१८- २५||
अतद्वादीव कुरुते न भवेदपि बालिशः |
जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ||१८- २६||
नाविचारसुश्रान्तो धीरो विश्रान्तिमागतः |
न कल्पते न जाति न शृणोति न पश्यति ||१८- २७||
असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः |
निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ||१८- २८||
यस्यान्तः स्यादहंकारो न करोति करोति सः |
निरहंकारधीरेण न किंचिदकृतं कृतम् ||१८- २९||
नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितम् |
निराशं गतसन्देहं चित्तं मुक्तस्य राजते ||१८- ३०||
निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते |
निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते ||१८- ३१||
तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढताम् |
अथवा याति संकोचममूढः कोऽपि मूढवत् ||१८- ३२||
एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् |
धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः ||१८- ३३||
अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिम् |
तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ||१८- ३४||
शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयम् |
आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ||१८- ३५||
नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा |
धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ||१८- ३६||
मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति |
अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ||१८- ३७||
निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः |
एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ||१८- ३८||
न शान्तिं लभते मूढो यतः शमितुमिच्छति |
धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ||१८- ३९||
क्वात्मनो दर्शनं तस्य यद् दृष्टमवलंबते |
धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम् ||१८- ४०||
क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै |
स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ||१८- ४१||
भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः |
उभयाभावकः कश्चिद् एवमेव निराकुलः ||१८- ४२||
शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः |
न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः ||१८- ४३||
मुमुक्षोर्बुद्धिरालंबमन्तरेण न विद्यते |
निरालंबैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ||१८- ४४||
विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः |
विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये ||१८- ४५||
निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः |
पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः ||१८- ४६||
न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः |
पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ||१८- ४७||
वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः |
नैवाचारमनाचारमौदास्यं वा प्रपश्यति ||१८- ४८||
यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः |
शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ||१८- ४९||
स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परम् |
स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम् ||१८- ५०||
अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा |
तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ||१८- ५१||
उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते |
न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा ||१८- ५२||
विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान् |
निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ||१८- ५३||
श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियम् |
दृष्ट्वा संपूज्य धीरस्य न कापि हृदि वासना ||१८- ५४||
भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः |
विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ||१८- ५५||
सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते |
तस्याश्चर्यदशां तां तां तादृशा एव जानते ||१८- ५६||
कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः |
शून्याकारा निराकारा निर्विकारा निरामयाः ||१८- ५७||
अकुर्वन्नपि संक्षोभाद् व्यग्रः सर्वत्र मूढधीः |
कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ||१८- ५८||
सुखमास्ते सुखं शेते सुखमायाति याति च |
सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः ||१८- ५९||
स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः |
महाहृद इवाक्षोभ्यो गतक्लेशः स शोभते ||१८- ६०||
निवृत्तिरपि मूढस्य प्रवृत्ति रुपजायते |
प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ||१८- ६१||
परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते |
देहे विगलिताशस्य क्व रागः क्व विरागता ||१८- ६२||
भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा |
भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ||१८- ६३||
सर्वारंभेषु निष्कामो यश्चरेद् बालवन् मुनिः |
न लेपस्तस्य शुद्धस्य क्रियमाणोऽपि कर्मणि ||१८- ६४||
स एव धन्य आत्मज्ञः सर्वभावेषु यः समः |
पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः ||१८- ६५||
क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् |
आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ||१८- ६६||
स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः |
अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ||१८- ६७||
बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः |
भोगमोक्षनिराकांक्षी सदा सर्वत्र नीरसः ||१८- ६८||
महदादि जगद्द्वैतं नाममात्रविजृंभितम् |
विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ||१८- ६९||
भ्रमभृतमिदं सर्वं किंचिन्नास्तीति निश्चयी |
अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ||१८- ७०||
शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः |
क्व विधिः क्व वैराग्यं क्व त्यागः क्व शमोऽपि वा ||१८- ७१||
स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः |
क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ||१८- ७२||
बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते |
निर्ममो निरहंकारो निष्कामः शोभते बुधः ||१८- ७३||
अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः |
क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ||१८- ७४||
निरोधादीनि कर्माणि जहाति जडधीर्यदि |
मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ||१८- ७५||
मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् |
निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः ||१८- ७६||
ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् |
नाप्नोत्यवसरं कर्मं वक्तुमेव न किंचन ||१८- ७७||
क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन |
निर्विकारस्य धीरस्य निरातंकस्य सर्वदा ||१८- ७८||
क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा |
अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ||१८- ७९||
न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि |
बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन ||१८- ८०||
नैव प्रार्थयते लाभं नालाभेनानुशोचति |
धीरस्य शीतलं चित्तममृतेनैव पूरितम् ||१८- ८१||
न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति |
समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति ||१८- ८२||
धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति |
हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ||१८- ८३||
निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च |
निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः ||१८- ८४||
तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः |
स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः ||१८- ८५||
पततूदेतु वा देहो नास्य चिन्ता महात्मनः |
स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः ||१८- ८६||
अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः |
असक्तः सर्वभावेषु केवलो रमते बुधः ||१८- ८७||
निर्ममः शोभते धीरः समलोष्टाश्मकांचनः |
सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः ||१८- ८८||
सर्वत्रानवधानस्य न किंचिद् वासना हृदि |
मुक्तात्मनो वितृप्तस्य तुलना केन जायते ||१८- ८९||
जानन्नपि न जानाति पश्यन्नपि न पश्यति |
ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते ||१८- ९०||
भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते |
भावेषु गलिता यस्य शोभनाशोभना मतिः ||१८- ९१||
क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः |
निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ||१८- ९२||
आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना |
अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते ||१८- ९३||
सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च |
जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ||१८- ९४||
ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः |
सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः ||१८- ९५||
न सुखी न च वा दुःखी न विरक्तो न संगवान् |
न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन ||१८- ९६||
विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् |
जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः ||१८- ९७||
मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः |
समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ||१८- ९८||
न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति |
नैवोद्विजति मरणे जीवने नाभिनन्दति ||१८- ९९||
न धावति जनाकीर्णं नारण्यं उपशान्तधीः |
यथातथा यत्रतत्र सम एवावतिष्ठते ||१८- १००||
जनक उवाच ||
तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् |
नाविधपरामर्शशल्योद्धारः कृतो मया ||१९- १||
क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता |
क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे ||१९- २||
क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा |
क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे ||१९- ३||
क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा |
क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे ||१९- ४||
क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा |
क्व तुरीयं भयं वापि स्वमहिम्नि स्थितस्य मे ||१९- ५||
क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा |
क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे ||१९- ६||
क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकम् |
क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे ||१९- ७||
अलं त्रिवर्गकथया योगस्य कथयाप्यलम् |
अलं विज्ञानकथया विश्रान्तस्य ममात्मनि ||१९- ८||
जनक उवाच ||
क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः |
क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने ||२०- १||
क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः |
क्व तृप्तिः क्व वितृष्णात्वं गतद्वन्द्वस्य मे सदा ||२०- २||
क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा |
क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता ||२०- ३||
क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा |
क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा ||२०- ४||
क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा |
क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा ||२०- ५||
क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा |
क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये ||२०- ६||
क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनम् |
क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये ||२०- ७||
क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा |
क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे ||२०- ८||
क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता |
क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे ||२०- ९||
क्व चैष व्यवहारो वा क्व च सा परमार्थता |
क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा ||२०- १०||
क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा |
क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे ||२०- ११||
क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनम् |
कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा ||२०- १२||
क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः |
क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे ||२०- १३||
क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयम् |
बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम ||२०- १४||
||ॐ तत्सत् ||
Encoded by John Richards
jhr at universalist.worldonline.co.uk
%@@1
% File name : ashtgita.itx
%--------------------------------------------
% Text title : Ashtavakra Gita
% Author : Vedic tradition
% Language : Sanskrit
% Subject : philosophy/religion
% Description/comments :
% Transliterated by : John Richards jhr@universalist.worldonline.co.uk
% Proofread by : John Richards jhr@universalist.worldonline.co.uk
% Latest update : October 6, 2005, May 15, 2011
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Please ignore the following commands upto #indian and others with
% \ mark,
% which are needed for devanaagarii output and formatting.
%--------------------------------------------------------
%--------------------------------------------------------
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .