.. अश्वत्थ स्तोत्रम् ..
श्री नारद उवाच
अनायासेन लोकोऽयम् सर्वान् कामानवाप्नुयात् |
सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह ||
ब्रह्मोवाच
श्रुणु देव मुनेऽश्वत्थं शुद्धं सर्वात्मकं तरुम् |
यत्प्रदक्षिणतो लोकः सर्वान् कामान् समश्नुते ||
अश्वत्थाद्दक्षिणे रुद्रः पश्चिमे विष्णुरास्थितः |
ब्रह्मा चोत्तरदेशस्थः पूर्वेत्विन्द्रादिदेवताः ||
स्कन्धोपस्कन्धपत्रेषु गोविप्रमुनयस्तथा |
मूलं वेदाः पयो यज्ञाः संस्थिता मुनिपुङ्गव ||
पूर्वादिदिक्षु संयाता नदीनदसरोऽब्धयः |
तस्मात् सर्वप्रयत्नेन ह्यश्वत्थं संश्रयेद्बुधः ||
त्वं क्षीर्यफलकश्चैव शीतलस्य वनस्पते |
त्वामाराध्य नरो विन्द्यादैहिकामुष्मिकं फलम् ||
चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे |
बोधिसत्वाय देवाय ह्यश्वत्थाय नमो नमः ||
अश्वत्थ यस्मात् त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले |
अथः श्रुतस्त्वं सततं तरूणां धन्योऽसि चारिष्टविनाशकोऽसि ||
क्षीरदस्त्वं च येनेह येन श्रीस्त्वां निषेवते |
सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम् ||
एकादशात्मरुद्रोऽसि वसुनाथशिरोमणिः |
नारायणोऽसि देवानां वृक्षराजोऽसि पिप्पल ||
अग्निगर्भः शमीगर्भो देवगर्भः प्रजापतिः |
हिरण्यगर्भो भूगर्भो यज्ञगर्भो नमोऽस्तु ते ||
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च |
ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ||
सततं वरुणो रक्षेत् त्वामाराद्दृष्टिराश्रयेत् |
परितस्त्वां निषेवन्तां तृणानि सुखमस्तु ते ||
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम् |
शत्रूणां च समुत्थानं ह्यश्वत्थ शमय प्रभो ||
अश्वत्थाय वरेण्याय सर्वैश्वर्य प्रदायिने |
नमो दुःस्वप्ननाशाय सुस्वप्नफलदायिने ||
मूलतो ब्रह्मरूपाय मध्यतो विष्णु रूपिणे |
अग्रतः शिवरूपाय वृक्षराजाय ते नमः ||
यं दृष्ट्वा मुच्यते रोगैः स्पृष्ट्वा पापैः प्रमुच्यते |
यदाश्रयाच्चिरञ्जीवी तमश्वत्थं नमाम्यहम् ||
अश्वत्थ सुमहाभाग सुभग प्रियदर्शन |
इष्टकामांश्च मे देहि शत्रुभ्यस्तु पराभवम् ||
आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसम्पदम् |
देहि देव महावृक्ष त्वामहं शरणं गतः ||
ऋग्यजुःसाममन्त्रात्मा सर्वरूपी परात्परः |
अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा ||
ब्रह्महा गुरुहा चैव दरिद्रो व्याधिपीडितः |
आवृत्य लक्षसंख्यं तत् स्तोत्रमेतत् सुखी भवेत् ||
ब्रह्मचारी हविष्याशी त्वदःशायी जितेन्द्रियः |
पपोपहतचित्तोऽपि व्रतमेतत् समाचरेत् ||
एकाहस्तं द्विहस्तं वा कुर्याद्गोमयलेपनम् |
अर्चेत् पुरुषसूक्तेन प्रणवेन विशेषतः ||
मौनी प्रदक्षिणं कुर्यात् प्रागुक्तफलभाग्भवेत् |
विष्णोर्नामसहस्रेण ह्यच्युतस्यापि कीर्तनात् ||
पदे पदान्तरं गत्वा करचेष्टाविवर्जितः |
वाचा स्तोत्रं मनो ध्याने चतुरङ्गं प्रदक्षिणम् ||
अश्वत्थः स्थापितो येन तत्कुलं स्थापितं ततः |
धनायुषां समृद्धिस्तु नरकात् तारयेत् पितृन् ||
अश्वत्थमूलमाश्रित्य शाकान्नोदकदानतः |
एकस्मिन् भोजिते विप्रे कोटिब्राह्मणभोजनम् ||
अश्वत्थमूलमाश्रित्य जपहोमसुरार्चनात् |
अक्षयं फलमाप्नोति ब्रह्मणो वचनं यथा ||
एवमाश्वासितोऽश्वत्थः सदाश्वासाय कल्पते |
यज्ञार्थं छेदितेऽश्वत्थे ह्यक्षयं स्वर्गमाप्नुयात् ||
छिन्नो येन वृथाऽश्वत्थश्छेदिता पितृदेवताः |
अश्वत्थः पूजितो यत्र पूजिताः सर्वदेवताः ||
|| इति अश्वत्थ स्तोत्रं सम्पूर्णम् ||
Encoded and proofread by Anuradha Anuraadha@cs.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com