.. श्री गणपत्यथर्वशीर्ष ..
.. श्री गणपत्यथर्वशीर्ष ..
Shri Ganapati Atharvashirsha occurs in the atharva veda . It is considered
to be most important text on Lord Ganesha . Atharva means firmness, oneness
of purpose, while shiirshha means intellect (directed towards liberation).
May Ganapati, the remover of obstacles protect us . Aum . Aum . Aum.
Several translations of the text are available.
1- Ganapatyatharvasirsopanisad by Sukthankar.
2- Ganapati : Song of the Self by Grimes
3- Saiva upanisads translated by Srinivas Ayyangar
4- Aum Ganesha : The peace of God by Navaratnam
5- Ganesha : Lord of Obstacles, Lord of Beginnings by Courtright
6- Glory of Ganesha by Swami Chinmayananda
7- Ganesha Kosha by Rao.
.. शान्ति पाठ ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .
भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः .
व्यशेम देवहितं यदायुः ..
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः .
स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः .
स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ तन्मामवतु
तद् वक्तारमवतु
अवतु माम्
अवतु वक्तारम्
ॐ शांतिः . शांतिः .. शांतिः...
.. उपनिषत् ..
हरिः ॐ नमस्ते गणपतये ..
त्वमेव प्रत्यक्षं तत्त्वमसि .. त्वमेव केवलं कर्ताऽसि ..
त्वमेव केवलं धर्ताऽसि .. त्वमेव केवलं हर्ताऽसि ..
त्वमेव सर्वं खल्विदं ब्रह्मासि ..
त्वं साक्षादात्माऽसि नित्यम् .. १..
.. स्वरूप तत्त्व ..
ऋतं वच्मि (वदिष्यामि).. सत्यं वच्मि (वदिष्यामि).. २..
अव त्वं माम् .. अव वक्तारम् .. अव श्रोतारम् ..
अव दातारम् .. अव धातारम् ..
अवानूचानमव शिष्यम् ..
अव पश्चात्तात् .. अव पुरस्तात् ..
अवोत्तरात्तात् .. अव दक्षिणात्तात् ..
अव चोर्ध्वात्तात् .. अवाधरात्तात् ..
सर्वतो मां पाहि पाहि समंतात् .. ३..
त्वं वाङ्ग्मयस्त्वं चिन्मयः ..
त्वमानंदमयस्त्वं ब्रह्ममयः ..
त्वं सच्चिदानंदाद्वितीयोऽसि ..
त्वं प्रत्यक्षं ब्रह्मासि ..
त्वं ज्ञानमयो विज्ञानमयोऽसि .. ४..
सर्वं जगदिदं त्वत्तो जायते ..
सर्वं जगदिदं त्वत्तस्तिष्ठति ..
सर्वं जगदिदं त्वयि लयमेष्यति ..
सर्वं जगदिदं त्वयि प्रत्येति ..
त्वं भूमिरापोऽनलोऽनिलो नभः ..
त्वं चत्वारि वाक्पदानि .. ५..
त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ..
त्वं देहत्रयातीतः .. त्वं कालत्रयातीतः ..
त्वं मूलाधारः स्थिथोऽसि नित्यम् ..
त्वं शक्तित्रयात्मकः ..
त्वां योगिनो ध्यायंति नित्यम् ..
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं
इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं
ब्रह्मभूर्भुवःस्वरोम् .. ६..
.. गणेश मंत्र ..
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ..
अनुस्वारः परतरः .. अर्धेन्दुलसितम् .. तारेण ऋद्धम् ..
एतत्तव मनुस्वरूपम् .. गकारः पूर्वरूपम् ..
अकारो मध्यमरूपम् .. अनुस्वारश्चान्त्यरूपम् ..
बिन्दुरुत्तररूपम् .. नादः संधानम् ..
संहितासंधिः .. सैषा गणेशविद्या ..
गणकऋषिः .. निचृद्गायत्रीच्छंदः ..
गणपतिर्देवता .. ॐ गं गणपतये नमः .. ७..
.. गणेश गायात्री ..
एकदंताय विद्महे . वक्रतुण्डाय धीमहि ..
तन्नो दंतिः प्रचोदयात् .. ८..
.. गणेश रूप ..
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ..
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ..
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ..
रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ..
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ..
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ..
एवं ध्यायति यो नित्यं स योगी योगिनां वरः .. ९..
.. अष्ट नाम गणपति ..
नमो व्रातपतये . नमो गणपतये . नमः प्रमथपतये .
नमस्तेऽस्तु लंबोदरायैकदंताय .
विघ्ननाशिने शिवसुताय . श्रीवरदमूर्तये नमो नमः .. १०..
.. फलश्रुति ..
एतदथर्वशीर्षं योऽधीते .. स ब्रह्मभूयाय कल्पते ..
स सर्वतः सुखमेधते .. स सर्व विघ्नैर्नबाध्यते ..
स पंचमहापापात्प्रमुच्यते ..
सायमधीयानो दिवसकृतं पापं नाशयति ..
प्रातरधीयानो रात्रिकृतं पापं नाशयति ..
सायंप्रातः प्रयुंजानो अपापो भवति ..
सर्वत्राधीयानोऽपविघ्नो भवति ..
धर्मार्थकाममोक्षं च विंदति ..
इदमथर्वशीर्षमशिष्याय न देयम् ..
यो यदि मोहाद्दास्यति स पापीयान् भवति
सहस्रावर्तनात् यं यं काममधीते
तं तमनेन साधयेत् .. ११..
अनेन गणपतिमभिषिंचति स वाग्मी भवति ..
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति .
स यशोवान् भवति ..
इत्यथर्वणवाक्यम् .. ब्रह्माद्याचरणं विद्यात्
न बिभेति कदाचनेति .. १२..
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ..
यो लाजैर्यजति स यशोवान् भवति ..
स मेधावान् भवति ..
यो मोदकसहस्रेण यजति
स वाञ्छितफलमवाप्नोति ..
यः साज्यसमिद्भिर्यजति
स सर्वं लभते स सर्वं लभते .. १३..
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा
सूर्यवर्चस्वी भवति ..
सूर्यगृहे महानद्यां प्रतिमासंनिधौ
वा जप्त्वा सिद्धमंत्रो भवति ..
महाविघ्नात्प्रमुच्यते .. महादोषात्प्रमुच्यते ..
महापापात् प्रमुच्यते ..
स सर्वविद्भवति स सर्वविद्भवति ..
य एवं वेद इत्युपनिषत् .. १४..
.. शान्ति मंत्र ..
ॐ सहनाववतु .. सहनौभुनक्तु ..
सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .
भद्रं पश्येमाक्षभिर्यजत्राः ..
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः .
व्यशेम देवहितं यदायुः ..
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः .
स्वस्ति नः पूषा विश्ववेदाः ..
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः .
स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शांतिः . शांतिः .. शांतिः ...
.. इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com