.. अवधूतोपनिषत् ..
गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् .
तत्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं
परिसमेत्य पप्रच्छ भगवन्कोऽवधूतस्य का स्थितिः किं
लक्ष्म किं संसरणमिति . तं होवाच भगवो दत्तात्रेयः
परमकारुणिकः ..
अक्षरत्वाद्वरेण्यत्वाद्धृतसंसारबन्धनात् .
तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते .. १..
यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः सदा .
अतिवर्णाश्रमी योगी अवधूतः स कथ्यते .. २..
तस्य प्रियं शिरः कृत्वा मोदो दक्षिणपक्षकः .
प्रमोद उत्तरः पक्ष आनन्दो गोष्पदायते .. ३..
गोपालसदृशां शीर्षे नापि मध्ये न चाप्यधः .
ब्रह्मपुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत् .. ४..
एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् .
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः .. ५..
स्वैरं स्वैरविहरणं तत्संसरणम् . सांबरा वा दिगंबरा वा .
न तेषां धर्माधर्मौ न मेध्यामेधौ . सदा
सांग्रहण्येष्ट्याश्वमेधमन्तयागं यजते .
स महामखो महायोगः . कृत्स्नमेतच्चित्रं कर्म.
स्वैरं न विगायेत्तन्महाव्रतम् . न स मूढवल्लिप्यते .
यथा रविः सर्वरसान्प्रभुङ्क्ते
हुताशनश्चापि हि सर्वभक्षः .
तथैव योगी विषयान्प्रभुङ्क्ते
न लिप्यते पुण्यपापैश्च शुद्धः .. ६..
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् .
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी .. ७..
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः .
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. ८..
ऐहिकामुष्मिकव्रातसिद्धै मुक्तेश्च सिद्धये .
बहुकृत्यं पुरा स्यान्मे तत्सर्वमधुना कृतम् .. ९..
तदेव कृतकृत्यत्वं प्रतियोगिपुरःसरम् .
अनुसन्दधदेवायमेवं तृप्यति नित्यशः .. १०..
दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया .
परमानन्दपूर्णोऽहं संसरामि किमिच्छया .. ११..
अनुतिष्ठन्तु कर्माणि परलोकयियासवः .
सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् .. १२..
व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा .
येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः .. १३..
निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च .
द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्यकल्पनात् .. १४..
गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना .
नान्यारोपितसंसारधर्मा नैवमहं भजे .. १५..
शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माञ्छृणोम्यहम् .
मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः .. १६..
विपर्यस्तो निदिध्यासे किं ध्यानमविपर्यये .
देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् .. १७..
अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् .
विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते .. १८..
आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते .
कर्मक्षये त्वसौ नैव शामेद्ध्यानसहस्रतः .. १९..
विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते .
बाधिकर्मव्यवहृतिं पश्यन्ध्यायाम्यहं कुतः .. २०..
विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम .
विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः .
नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् .. २१..
कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यशः .
व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा .
ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् .. २२..
अथवा कृतकृत्येऽपि लोकानुग्रहकाम्यया .
शास्त्रीयेणैव मार्गेन वर्तेऽहं मम का क्षतिः .. २३..
देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः .
तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् .. २४..
विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् .
साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये .. २५..
कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः .
तृप्यन्नेवं स्वमनसा मन्यतेसौ निरन्तरम् .. २६..
धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि .
धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् .. २७..
धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य .
धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि .. २८..
धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् .
धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र संपन्नम् .. २९..
धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके .
धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः .. ३०..
अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् .
अस्य पुण्यस्य संपत्तेरहो वयमहो वयम् .. ३१..
अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् .
अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः .. ३२..
इति य इदमधीते सोऽपि कृतकृत्यो भवति . सुरापानात्पूतो भवति .
स्वर्णस्तेयात्पूतो भवति . ब्रह्महत्यात्पूतो भवति .
कृत्याकृत्यात्पूतो भवति . एवं विदित्वा स्वेच्छाचारपरो
भूयादोंसत्यमित्युपनिषत् ..
ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..
तेजस्विनावधीतमस्तु मा विद्विषावहै ..
ॐ शान्तिः शान्तिः शान्तिः ..
इत्यवधूतोपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com