.. अवधूत गीता ..
अथ प्रथमोऽध्यायः ..
ईश्वरानुग्रहादेव पुंसामद्वैतवासना .
महद्भयपरित्राणाद्विप्राणामुपजायते .. १..
येनेदं पूरितं सर्वमात्मनैवाअत्मनात्मनि .
निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् .. २..
पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् .
कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः .. ३..
आत्मैव केवलं सर्वं भेदाभेदो न विद्यते .
अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे .. ४..
वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च .
अहमात्मा निराकारः सर्वव्यापी स्वभावतः .. ५..
यो वै सर्वात्मको देवो निष्कलो गगनोपमः .
स्वभावनिर्मलः शुद्धः स एवायं न संशयः .. ६..
अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः .
सुखं दुःखं न जानामि कथं कस्यापि वर्तते .. ७..
न मानसं कर्म शुभाशुभं मे
न कायिकं कर्म शुभाशुभं मे .
न वाचिकं कर्म शुभाशुभं मे
ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् .. ८..
मनो वै गगनाकारं मनो वै सर्वतोमुखम् .
मनोऽतीतं मनः सर्वं न मनः परमार्थतः .. ९..
अहमेकमिदं सर्वं व्योमातीतं निरन्तरम् .
पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम् .. १०..
त्वमेवमेकं हि कथं न बुध्यसे
समं हि सर्वेषु विमृष्टमव्ययम् .
सदोदितोऽसि त्वमखण्डितः प्रभो
दिवा च नक्तं च कथं हि मन्यसे .. ११..
आत्मानं सततं विद्धि सर्वत्रैकं निरन्तरम् .
अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम् .. १२..
न जातो न मृतोऽसि त्वं न ते देहः कदाचन .
सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः .. १३..
स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा .
इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् .. १४..
संयोगश्च वियोगश्च वर्तते न च ते न मे .
न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम् .. १५..
शब्दादिपञ्चकस्यास्य नैवासि त्वं न ते पुनः .
त्वमेव परमं तत्त्वमतः किं परितप्यसे .. १६..
जन्म मृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ .
कथं रोदिषि रे वत्स नामरूपं न ते न मे .. १७..
अहो चित्त कथं भ्रान्तः प्रधावसि पिशाचवत् .
अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव .. १८..
त्वमेव तत्त्वं हि विकारवर्जितं
निष्कम्पमेकं हि विमोक्षविग्रहम् .
न ते च रागो ह्यथवा विरागः
कथं हि सन्तप्यसि कामकामतः .. १९..
वदन्ति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् .
अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः .. २०..
साकारमनृतं विद्धि निराकारं निरन्तरम् .
एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः .. २१..
एकमेव समं तत्त्वं वदन्ति हि विपश्चितः .
रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते .. २२..
अनात्मरूपं च कथं समाधि-
रात्मस्वरूपं च कथं समाधिः .
अस्तीति नास्तीति कथं समाधि-
र्मोक्षस्वरूपं यदि सर्वमेकम् .. २३..
विशुद्धोऽसि समं तत्त्वं विदेहस्त्वमजोऽव्ययः .
जानामीह न जानामीत्यात्मानं मन्यसे कथम् .. २४..
तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः .
नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् .. २५..
आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम् .
ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम् .. २६..
शिवं न जानामि कथं वदामि
शिवं न जानामि कथं भजामि .
अहं शिवश्चेत्परमार्थथतत्त्वं
समस्वरूपं गगनोपमं च .. २७..
नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम् .
ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत् .. २८..
अनन्तरूपं न हि वस्तु किंचि-
त्तत्त्वस्वरूपं न हि वस्तु किंचित् .
आत्मैकरूपं परमार्थतत्त्वं
न हिंसको वापि न चाप्यहिंसा .. २९..
विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम् .
विभ्रमं कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः .. ३०..
घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् .
शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे .. ३१..
न घटो न घटाकाशो न जीवो न जीवविग्रहः .
केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम् .. ३२..
सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम् .
सर्वं शून्यमशून्यं च तन्मां विद्धि न संशयः .. ३३..
वेदा न लोका न सुरा न यज्ञा
वर्णाश्रमो नैव कुलं न जातिः .
न धूममार्गो न च दीप्तिमार्गो
ब्रह्मैकरूपं परमार्थतत्त्वम् .. ३४..
व्याप्यव्यापकनिर्मुक्तः त्वमेकः सफलं यदि .
प्रत्यक्षं चापरोक्षं च ह्यात्मानं मन्यसे कथम् .. ३५..
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे .
समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम् .. ३६..
श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् .
कथयन्ति कथं तत्त्वं मनोवाचामगोचरम् .. ३७..
यदाऽनृतमिदं सर्वं देहादिगगनोपमम् .
तदा हि ब्रह्म संवेत्ति न ते द्वैतपरम्परा .. ३८..
परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे .
व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत् .. ३९..
यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् .
एतत्सर्वं न मे किंचिद्विशुद्धोऽहमजोऽव्ययः .. ४०..
सर्वं जगद्विद्धि निराकृतीदं
सर्वं जगद्विद्धि विकारहीनम् .
सर्वं जगद्विद्धि विशुद्धदेहं
सर्वं जगद्विद्धि शिवैकरूपम् .. ४१..
तत्त्वं त्वं न हि सन्देहः किं जानाम्यथवा पुनः .
असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम् .. ४२..
मायाऽमाया कथं तात छायाऽछाया न विद्यते .
तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् .. ४३..
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन .
स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः .. ४४..
महदादि जगत्सर्वं न किंचित्प्रतिभाति मे .
ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः .. ४५..
जानामि सर्वथा सर्वमहमेको निरन्तरम् .
निरालम्बमशून्यं च शून्यं व्योमादिपञ्चकम् .. ४६..
न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना .
सानन्दो वा निरानन्दमात्मानं मन्यसे कथम् .. ४७..
षडङ्गयोगान्न तु नैव शुद्धं
मनोविनाशान्न तु नैव शुद्धम् .
गुरूपदेशान्न तु नैव शुद्धं
स्वयं च तत्त्वं स्वयमेव बुद्धम् .. ४८..
न हि पञ्चात्मको देहो विदेहो वर्तते न हि .
आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम् .. ४९..
न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक् .
न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः .. ५०..
यथा जलं जले न्यस्तं सलिलं भेदवर्जितम् .
प्रकृतिं पुरुषं तद्वदभिन्नं प्रतिभाति मे .. ५१..
यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन .
साकारं च निराकारमात्मानं मन्यसे कथम् .. ५२..
जानामि ते परं रूपं प्रत्यक्षं गगनोपमम् .
यथा परं हि रूपं यन्मरीचिजलसन्निभम् .. ५३..
न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया .
विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः .. ५४..
विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम् .
अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे .. ५५..
कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव .
पिब वत्स कलातीतमद्वैतं परमामृतम् .. ५६..
नैव बोधो न चाबोधो न बोधाबोध एव च .
यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत् .. ५७..
ज्ञानं न तर्को न समाधियोगो
न देशकालौ न गुरूपदेशः .
स्वभावसंवित्तरहं च तत्त्व-
माकाशकल्पं सहजं ध्रुवं च .. ५८..
न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम् .
विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम .. ५९..
यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः .
अन्तरं हि न पश्यामि स बाह्याभ्यन्तरः कथम् .. ६०..
स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम् .
अहो मायामहामोहो द्वैताद्वैतविकल्पना .. ६१..
साकारं च निराकारं नेति नेतीति सर्वदा .
भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः .. ६२..
न ते च माता च पिता च बन्धुः
न ते च पत्नी न सुतश्च मित्रम् .
न पक्षपाती न विपक्षपातः
कथं हि संतप्तिरियं हि चित्ते .. ६३..
दिवा नक्तं न ते चित्तं उदयास्तमयौ न हि .
विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः .. ६४..
नाविभक्तं विभक्तं च न हि दुःखसुखादि च .
न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम् .. ६५..
नाहं कर्ता न भोक्ता च न मे कर्म पुराऽधुना .
न मे देहो विदेहो वा निर्ममेति ममेति किम् .. ६६..
न मे रागादिको दोषो दुःखं देहादिकं न मे .
आत्मानं विद्धि मामेकं विशालं गगनोपमम् .. ६७..
सखे मनः किं बहुजल्पितेन
सखे मनः सर्वमिदं वितर्क्यम् .
यत्सारभूतं कथितं मया ते
त्वमेव तत्त्वं गगनोपमोऽसि .. ६८..
येन केनापि भावेन यत्र कुत्र मृता अपि .
योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे .. ६९..
तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन् .
समकाले तनुं मुक्तः कैवल्यव्यापको भवेत् .. ७०..
धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम् .
मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम् .. ७१..
अतीतानागतं कर्म वर्तमानं तथैव च .
न करोमि न भुञ्जामि इति मे निश्चला मतिः .. ७२..
शून्यागारे समरसपूत-
स्तिष्ठन्नेकः सुखमवधूतः .
चरति हि नग्नस्त्यक्त्वा गर्वं
विन्दति केवलमात्मनि सर्वम् .. ७३..
त्रितयतुरीयं नहि नहि यत्र
विन्दति केवलमात्मनि तत्र .
धर्माधर्मौ नहि नहि यत्र
बद्धो मुक्तः कथमिह तत्र .. ७४..
विन्दति विन्दति नहि नहि मन्त्रं
छन्दोलक्षणं नहि नहि तन्त्रम् .
समरसमग्नो भावितपूतः
प्रलपितमेतत्परमवधूतः .. ७५..
सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते .
स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम् .. ७६..
इति प्रथमोऽध्यायः .. १..
अथ द्वितीयोऽध्यायः ..
बालस्य वा विषयभोगरतस्य वापि
मूर्खस्य सेवकजनस्य गृहस्थितस्य .
एतद्गुरोः किमपि नैव न चिन्तनीयं
रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम् .. १..
नैवात्र काव्यगुण एव तु चिन्तनीयो
ग्राह्यः परं गुणवता खलु सार एव .
सिन्दूरचित्ररहिता भुवि रूपशून्या
पारं न किं नयति नौरिह गन्तुकामान् .. २..
प्रयत्नेन विना येन निश्चलेन चलाचलम् .
ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम् .. ३..
अयत्नाछालयेद्यस्तु एकमेव चराचरम् .
सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम .. ४..
अहमेव परं यस्मात्सारात्सारतरं शिवम् .
गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् .. ५..
सर्वावयवनिर्मुक्तं तथाहं त्रिदशार्चितम् .
संपूर्णत्वान्न गृह्णामि विभागं त्रिदशादिकम् .. ६..
प्रमादेन न सन्देहः किं करिष्यामि वृत्तिमान् .
उत्पद्यन्ते विलीयन्ते बुद्बुदाश्च यथा जले .. ७..
महदादीनि भूतानि समाप्यैवं सदैव हि .
मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु च .. ८..
कटुत्वं चैव शैत्यत्वं मृदुत्वं च यथा जले .
प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे .. ९..
सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम् .
मनोबुद्धीन्द्रियातीतमकलङ्कं जगत्पतिम् .. १०..
ईदृशं सहजं यत्र अहं तत्र कथं भवेत् .
त्वमेव हि कथं तत्र कथं तत्र चराचरम् .. ११..
गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम् .
चैतन्यं दोषहीनं च सर्वज्ञं पूर्णमेव च .. १२..
पृथिव्यां चरितं नैव मारुतेन च वाहितम् .
वरिणा पिहितं नैव तेजोमध्ये व्यवस्थितम् .. १३..
आकाशं तेन संव्याप्तं न तद्व्याप्तं च केनचित् .
स बाह्याभ्यन्तरं तिष्ठत्यवच्छिन्नं निरन्तरम् .. १४..
सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः .
आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत् .. १५..
सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत् .
तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः .. १६..
विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य च .
एकमेव विनाशाय ह्यमोघं सहजामृतम् .. १७..
भावगम्यं निराकारं साकारं दृष्टिगोचरम् .
भावाभावविनिर्मुक्तमन्तरालं तदुच्यते .. १८..
बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते .
अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत् .. १९..
भ्रान्तिज्ञानं स्थितं बाह्यं सम्यग्ज्ञानं च मध्यगम् .
मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत् .. २०..
पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः .
तेन तत्सदृशं पश्येद्द्विधादृष्टिर्विपर्ययः .. २१..
अनेनैव प्रकारेण बुद्धिभेदो न सर्वगः .
दाता च धीरतामेति गीयते नामकोटिभिः .. २२..
गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः .
यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् .. २३..
रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः .
दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् .. २४..
घटे भिन्ने घटाकाश आकाशे लीयते यथा .
देहाभावे तथा योगी स्वरूपे परमात्मनि .. २५..
उक्तेयं कर्मयुक्तानां मतिर्यान्तेऽपि सा गतिः .
न चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः .. २६..
या गतिः कर्मयुक्तानां सा च वागिन्द्रियाद्वदेत् .
योगिनां या गतिः क्वापि ह्यकथ्या भवतोर्जिता .. २७..
एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् .
विकल्पवर्जनं तेषां स्वयं सिद्धिः प्रवर्तते .. २८..
तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा .
न योगी पश्यते गर्भं परे ब्रह्मणि लीयते .. २९..
सहजमजमचिन्त्यं यस्तु पश्येत्स्वरूपं
घटति यदि यथेष्टं लिप्यते नैव दोषैः .
सकृदपि तदभावात्कर्म किंचिन्नकुर्यात्
तदपि न च विबद्धः संयमी वा तपस्वी .. ३०..
निरामयं निष्प्रतिमं निराकृतिं
निराश्रयं निर्वपुषं निराशिषम् .
निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं
तमीशमात्मानमुपैति शाश्वतम् .. ३१..
वेदो न दीक्षा न च मुण्डनक्रिया
गुरुर्न शिष्यो न च यन्त्रसम्पदः .
मुद्रादिकं चापि न यत्र भासते
तमीशमात्मानमुपैति शाश्वतम् .. ३२..
न शाम्भवं शाक्तिकमानवं न वा
पिण्डं च रूपं च पदादिकं न वा .
आरम्भनिष्पत्तिघटादिकं च नो
तमीशमात्मानमुपैति शाश्वतम् .. ३३..
यस्य स्वरूपात्सचराचरं जग-
दुत्पद्यते तिष्ठति लीयतेऽपि वा .
पयोविकारादिव फेनबुद्बुदा-
स्तमीशमात्मानमुपैति शाश्वतम् .. ३४..
नासानिरोधो न च दृष्टिरासनं
बोधोऽप्यबोधोऽपि न यत्र भासते .
नाडीप्रचारोऽपि न यत्र किञ्चि-
त्तमीशमात्मानमुपैति शाश्वतम् .. ३५..
नानात्वमेकत्वमुभत्वमन्यता
अणुत्वदीर्घत्वमहत्त्वशून्यता .
मानत्वमेयत्वसमत्ववर्जितं
तमीशमात्मानमुपैति शाश्वतम् .. ३६..
सुसंयमी वा यदि वा न संयमी
सुसंग्रही वा यदि वा न संग्रही .
निष्कर्मको वा यदि वा सकर्मक-
स्तमीशमात्मानमुपैति शाश्वतम् .. ३७..
मनो न बुद्धिर्न शरीरमिन्द्रियं
तन्मात्रभूतानि न भूतपञ्चकम् .
अहंकृतिश्चापि वियत्स्वरूपकं
तमीशमात्मानमुपैति शाश्वतम् .. ३८..
विधौ निरोधे परमात्मतां गते
न योगिनश्चेतसि भेदवर्जिते .
शौचं न वाशौचमलिङ्गभावना
सर्वं विधेयं यदि वा निषिध्यते .. ३९..
मनो वचो यत्र न शक्तमीरितुं
नूनं कथं तत्र गुरूपदेशता .
इमां कथामुक्तवतो गुरोस्त-
द्युक्तस्य तत्त्वं हि समं प्रकाशते .. ४०..
इति द्वितीयोऽध्यायः .. २..
अथ तृतीयोऽध्यायः ..
गुणविगुणविभागो वर्तते नैव किञ्चित्
रतिविरतिविहीनं निर्मलं निष्प्रपञ्चम् .
गुणविगुणविहीनं व्यापकं विश्वरूपं
कथमहमिह वन्दे व्योमरूपं शिवं वै .. १..
श्वेतादिवर्णरहितो नियतं शिवश्च
कार्यं हि कारणमिदं हि परं शिवश्च .
एवं विकल्परहितोऽहमलं शिवश्च
स्वात्मानमात्मनि सुमित्र कथं नमामि .. २..
निर्मूलमूलरहितो हि सदोदितोऽहं
निर्धूमधूमरहितो हि सदोदितोऽहम् .
निर्दीपदीपरहितो हि सदोदितोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३..
निष्कामकाममिह नाम कथं वदामि
निःसङ्गसङ्गमिह नाम कथं वदामि .
निःसारसाररहितं च कथं वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ४..
अद्वैतरूपमखिलं हि कथं वदामि
द्वैतस्वरूपमखिलं हि कथं वदामि .
नित्यं त्वनित्यमखिलं हि कथं वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ५..
स्थूलं हि नो नहि कृशं न गतागतं हि
आद्यन्तमध्यरहितं न परापरं हि .
सत्यं वदामि खलु वै परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ६..
संविद्धि सर्वकरणानि नभोनिभानि
संविद्धि सर्वविषयांश्च नभोनिभांश्च .
संविद्धि चैकममलं न हि बन्धमुक्तं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ७..
दुर्बोधबोधगहनो न भवामि तात
दुर्लक्ष्यलक्ष्यगहनो न भवामि तात .
आसन्नरूपगहनो न भवामि तात
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ८..
निष्कर्मदहनो ज्वलनो भवामि
निर्दुःखदुःखदहनो ज्वलनो भवामि .
निर्देहदेहदहनो ज्वलनो भवामि
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ९..
निष्पापपापदहनो हि हुताशनोऽहं
निर्धर्मधर्मदहनो हि हुताशनोऽहम् .
निर्बन्धबन्धदहनो हि हुताशनोऽहं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. १०..
निर्भावभावरहितो न भवामि वत्स
निर्योगयोगरहितो न भवामि वत्स .
निश्चित्तचित्तरहितो न भवामि वत्स
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ११..
निर्मोहमोहपदवीति न मे विकल्पो
निःशोकशोकपदवीति न मे विकल्पः .
निर्लोभलोभपदवीति न मे विकल्पो
ज्ञानामृतं समरसं गगनोपमोऽहम् .. १२..
संसारसन्ततिलता न च मे कदाचित्
सन्तोषसन्ततिसुखो न च मे कदाचित् .
अज्ञानबन्धनमिदं न च मे कदाचित्
ज्ञानामृतं समरसं गगनोपमोऽहम् .. १३..
संसारसन्ततिरजो न च मे विकारः
सन्तापसन्ततितमो न च मे विकारः .
सत्त्वं स्वधर्मजनकं न च मे विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम् .. १४..
सन्तापदुःखजनको न विधिः कदाचित्
सन्तापयोगजनितं न मनः कदाचित् .
यस्मादहङ्कृतिरियं न च मे कदाचित्
ज्ञानामृतं समरसं गगनोपमोऽहम् .. १५..
निष्कम्पकम्पनिधनं न विकल्पकल्पं
स्वप्नप्रबोधनिधनं न हिताहितं हि .
निःसारसारनिधनं न चराचरं हि
ज्ञानामृतं समरसं गगनोपमोऽहम् .. १६..
नो वेद्यवेदकमिदं न च हेतुतर्क्यं
वाचामगोचरमिदं न मनो न बुद्धिः .
एवं कथं हि भवतः कथयामि तत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. १७..
निर्भिन्नभिन्नरहितं परमार्थतत्त्व-
मन्तर्बहिर्न हि कथं परमार्थतत्त्वम् .
प्राक्सम्भवं न च रतं नहि वस्तु किञ्चित्
ज्ञानामृतं समरसं गगनोपमोऽहम् .. १८..
रागादिदोषरहितं त्वहमेव तत्त्वं
दैवादिदोषरहितं त्वहमेव तत्त्वम् .
संसारशोकरहितं त्वहमेव तत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. १९..
स्थानत्रयं यदि च नेति कथं तुरीयं
कालत्रयं यदि च नेति कथं दिशश्च .
शान्तं पदं हि परमं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २०..
दीर्घो लघुः पुनरितीह नमे विभागो
विस्तारसंकटमितीह न मे विभागः .
कोणं हि वर्तुलमितीह न मे विभागो
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २१..
मातापितादि तनयादि न मे कदाचित्
जातं मृतं न च मनो न च मे कदाचित् .
निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २२..
शुद्धं विशुद्धमविचारमनन्तरूपं
निर्लेपलेपमविचारमनन्तरूपम् .
निष्खण्डखण्डमविचारमनन्तरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २३..
ब्रह्मादयः सुरगणाः कथमत्र सन्ति
स्वर्गादयो वसतयः कथमत्र सन्ति .
यद्येकरूपममलं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २४..
निर्नेति नेति विमलो हि कथं वदामि
निःशेषशेषविमलो हि कथं वदामि .
निर्लिङ्गलिङ्गविमलो हि कथं वदामि
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २५..
निष्कर्मकर्मपरमं सततं करोमि
निःसङ्गसङ्गरहितं परमं विनोदम् .
निर्देहदेहरहितं सततं विनोदं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २६..
मायाप्रपञ्चरचना न च मे विकारः .
कौटिल्यदम्भरचना न च मे विकारः .
सत्यानृतेति रचना न च मे विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २७..
सन्ध्यादिकालरहितं न च मे वियोगो-
ह्यन्तः प्रबोधरहितं बधिरो न मूकः .
एवं विकल्परहितं न च भावशुद्धं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २८..
निर्नाथनाथरहितं हि निराकुलं वै
निश्चित्तचित्तविगतं हि निराकुलं वै .
संविद्धि सर्वविगतं हि निराकुअलं वै
ज्ञानामृतं समरसं गगनोपमोऽहम् .. २९..
कान्तारमन्दिरमिदं हि कथं वदामि
संसिद्धसंशयमिदं हि कथं वदामि .
एवं निरन्तरसमं हि निराकुलं वै
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३०..
निर्जीवजीवरहितं सततं विभाति
निर्बीजबीजरहितं सततं विभाति .
निर्वाणबन्धरहितं सततं विभाति
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३१..
सम्भूतिवर्जितमिदं सततं विभाति
संसारवर्जितमिदं सततं विभाति .
संहारवर्जितमिअदं सततं विभाति
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३२..
उल्लेखमात्रमपि ते न च नामरूपं
निर्भिन्नभिन्नमपि ते न हि वस्तु किञ्चित् .
निर्लज्जमानस करोषि कथं विषादं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३३..
किं नाम रोदिषि सखे न जरा न मृत्युः
किं नाम रोदिषि सखे न च जन्म दुःखम् .
किं नाम रोदिषि सखे न च ते विकारो
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३४..
किं नाम रोदिषि सखे न च ते स्वरूपं
किं नाम रोदिषि सखे न च ते विरूपम् .
किं नाम रोदिषि सखे न च ते वयांसि
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३५..
किं नाम रोदिषि सखे न च ते वयांसि
किं नाम रोदिषि सखे न च ते मनांसि .
किं नाम रोदिषि सखे न तवेन्द्रियाणि
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३६..
किं नाम रोदिषि सखे न च तेऽस्ति कामः
किं नाम रोदिषि सखे न च ते प्रलोभः .
किं नाम रोदिषि सखे न च ते विमोहो
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३७..
ऐश्वर्यमिच्छसि कथं न च ते धनानि
ऐश्वर्यमिच्छसि कथं न च ते हि पत्नी .
ऐश्वर्यमिच्छसि कथं न च ते ममेति
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३८..
लिङ्गप्रपञ्चजनुषी न च ते न मे च
निर्लज्जमानसमिदं च विभाति भिन्नम् .
निर्भेदभेदरहितं न च ते न मे च
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ३९..
नो वाणुमात्रमपि ते हि विरागरूपं
नो वाणुमात्रमपि ते हि सरागरूपम् .
नो वाणुमात्रमपि ते हि सकामरूपं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ४०..
ध्याता न ते हि हृदये न च ते समाधि-
र्ध्यानं न ते हि हृदये न बहिः प्रदेशः .
ध्येयं न चेति हृदये न हि वस्तु कालो
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ४१..
यत्सारभूतमखिलं कथितं मया ते
न त्वं न मे न महतो न गुरुर्न न शिष्यः .
स्वच्छन्दरूपसहजं परमार्थतत्त्वं
ज्ञानामृतं समरसं गगनोपमोऽहम् .. ४२..
कथमिह परमार्थं तत्त्वमानन्दरूपं
कथमिह परमार्थं नैवमानन्दरूपम् .
कथमिह परमार्थं ज्ञानविज्ञानरूपं
यदि परमहमेकं वर्तते व्योमरूपम् .. ४३..
दहनपवनहीनं विद्धि विज्ञानमेक-
मवनिजलविहीनं विद्धि विज्ञानरूपम् .
समगमनविहीनं विद्धि विज्ञानमेकं
गगनमिव विशालं विद्धि विज्ञानमेकम् .. ४४..
न शून्यरूपं न विशून्यरूपं
न शुद्धरूपं न विशुद्धरूपम् .
रूपं विरूपं न भवामि किञ्चित्
स्वरूपरूपं परमार्थतत्त्वम् .. ४५..
मुञ्च मुञ्च हि संसारं त्यागं मुञ्च हि सर्वथा .
त्यागात्यागविषं शुद्धममृतं सहजं ध्रुवम् .. ४६..
इति तृतीयोऽध्यायः .. ३..
अथ चतुर्थोऽध्यायः ..
नावाहनं नैव विसर्जनं वा
पुष्पाणि पत्राणि कथं भवन्ति .
ध्यानानि मन्त्राणि कथं भवन्ति
समासमं चैव शिवार्चनं च .. १..
न केवलं बन्धविबन्धमुक्तो
न केवलं शुद्धविशुद्धमुक्तः .
न केवलं योगवियोगमुक्तः
स वै विमुक्तो गगनोपमोऽहम् .. २..
सञ्जायते सर्वमिदं हि तथ्यं
सञ्जायते सर्वमिदं वितथ्यम् .
एवं विकल्पो मम नैव जातः
स्वरूपनिर्वाणमनामयोऽहम् .. ३..
न साञ्जनं चैव निरञ्जनं वा
न चान्तरं वापि निरन्तरं वा .
अन्तर्विभन्नं न हि मे विभाति
स्वरूपनिर्वाणमनामयोऽहम् .. ४..
अबोधबोधो मम नैव जातो
बोधस्वरूपं मम नैव जातम् .
निर्बोधबोधं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. ५..
न धर्मयुक्तो न च पापयुक्तो
न बन्धयुक्तो न च मोक्षयुक्तः .
युक्तं त्वयुक्तं न च मे विभाति
स्वरूपनिर्वाणमनामयोऽहम् .. ६..
परापरं वा न च मे कदाचित्
मध्यस्थभावो हि न चारिमित्रम् .
हिताहितं चापि कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. ७..
नोपासको नैवमुपास्यरूपं
न चोपदेशो न च मे क्रिया च .
संवित्स्वरूपं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. ८..
नो व्यापकं व्याप्यमिहास्ति किञ्चित्
न चालयं वापि निरालयं वा .
अशून्यशून्यं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. ९..
न ग्राहको ग्राह्यकमेव किञ्चित्
न कारणं वा मम नैव कार्यम् .
अचिन्त्यचिन्त्यं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. १०..
न भेदकं वापि न चैव भेद्यं
न वेदकं वा मम नैव वेद्यम् .
गतागतं तात कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. ११..
न चास्ति देहो न च मे विदेहो
बुद्दिर्मनो मे न हि चेन्द्रियाणि .
रागो विरागश्च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. १२..
उल्लेखमात्रं न हि भिन्नमुच्चै-
रुल्लेखमात्रं न तिरोहितं वै .
समासमं मित्र कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. १३..
जितेन्द्रियोऽहं त्वजितेन्द्रियो वा
न संयमो मे नियमो न जातः .
जयाजयौ मित्र कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. १४..
अमूर्तमूर्तिर्न च मे कदाचि-
दाद्यन्तमध्यं न च मे कदाचित् .
बलाबलं मित्र कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. १५..
मृतामृतं वापि विषाविषं च
सञ्जायते तात न मे कदाचित् .
अशुद्धशुद्धं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. १६..
स्वप्नः प्रबोधो न च योगमुद्रा
नक्तं दिवा वापि न मे कदाचित् .
अतुर्यतुर्यं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. १७..
संविद्धि मां सर्वविसर्वमुक्तं
माया विमाया न च मे कदाचित् .
सन्ध्यादिकं कर्म कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. १८..
संविद्धि मां सर्वसमाधियुक्तं
संविद्धि मां लक्ष्यविलक्ष्यमुक्तम् .
योगं वियोगं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. १९..
मूर्खोऽपि नाहं न च पण्डितोऽहं
मौनं विमौनं न च मे कदाचित् .
तर्कं वितर्कं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. २०..
पिता च माता च कुलं न जाति-
र्जन्मादि मृत्युर्न च मे कदाचित् .
स्नेहं विमोहं च कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. २१..
अस्तं गतो नैव सदोदितोऽहं
तेजोवितेजो न च मे कदाचित् .
सन्ध्यादिकं कर्म कथं वदामि
स्वरूपनिर्वाणमनामयोऽहम् .. २२..
असंशयं विद्धि निराकुलं मां
असंशयं विद्धि निरन्तरं माम् .
असंशयं विद्धि निरञ्जनं मां
स्वरूपनिर्वाणमनामयोऽहम् .. २३..
ध्यानानि सर्वाणि परित्यजन्ति
शुभाशुभं कर्म परित्यजन्ति .
त्यागामृतं तात पिबन्ति धीराः
स्वरूपनिर्वाणमनामयोऽहम् .. २४..
विन्दति विन्दति न हि न हि यत्र
छन्दोलक्षणं न हि न हि तत्र .
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः .. २५..
इति चतुर्थोऽध्यायः .. ४..
अथ पञ्चमोध्यायः ..
ॐ इति गदितं गगनसमं तत्
न परापरसारविचार इति .
अविलासविलासनिराकरणं
कथमक्षरबिन्दुसमुच्चरणम् .. १..
इति तत्त्वमसिप्रभृतिश्रुतिभिः
प्रतिपादितमात्मनि तत्त्वमसि .
त्वमुपाधिविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् .. २..
अधऊर्ध्वविवर्जितसर्वसमं
बहिरन्तरवर्जितसर्वसमम् .
यदि चैकविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् .. ३..
न हि कल्पितकल्पविचार इति
न हि कारणकार्यविचार इति .
पदसन्धिविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् .. ४..
न हि बोधविबोधसमाधिरिति
न हि देशविदेशसमाधिरिति .
न हि कालविकालसमाधिरिति
किमु रोदिषि मानसि सर्वसमम् .. ५..
न हि कुम्भनभो न हि कुम्भ इति
न हि जीववपुर्न हि जीव इति .
न हि कारणकार्यविभाग इति
किमु रोदिषि मानसि सर्वसमम् .. ६..
इह सर्वनिरन्तरमोक्षपदं
लघुदीर्घविचारविहीन इति .
न हि वर्तुलकोणविभाग इति
किमु रोदिषि मानसि सर्वसमम् .. ७..
इह शून्यविशून्यविहीन इति
इह शुद्धविशुद्धविहीन इति .
इह सर्वविसर्वविहीन इति
किमु रोदिषि मानसि सर्वसमम् .. ८..
न हि भिन्नविभिन्नविचार इति
बहिरन्तरसन्धिविचार इति .
अरिमित्रविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् .. ९..
न हि शिष्यविशिष्यस्वरूपैति
न चराचरभेदविचार इति .
इह सर्वनिरन्तरमोक्षपदं
किमु रोदिषि मानसि सर्वसमम् .. १०..
ननु रूपविरूपविहीन इति
ननु भिन्नविभिन्नविहीन इति .
ननु सर्गविसर्गविहीन इति
किमु रोदिषि मानसि सर्वसमम् .. ११..
न गुणागुणपाशनिबन्ध इति
मृतजीवनकर्म करोमि कथम् .
इति शुद्धनिरञ्जनसर्वसमं
किमु रोदिषि मानसि सर्वसमम् .. १२..
इह भावविभावविहीन इति
इह कामविकामविहीन इति .
इह बोधतमं खलु मोक्षसमं
किमु रोदिषि मानसि सर्वसमम् .. १३..
इह तत्त्वनिरन्तरतत्त्वमिति
न हि सन्धिविसन्धिविहीन इति .
यदि सर्वविवर्जितसर्वसमं
किमु रोदिषि मानसि सर्वसमम् .. १४..
अनिकेतकुटी परिवारसमं
इहसङ्गविसङ्गविहीनपरम् .
इह बोधविबोधविहीनपरं
किमु रोदिषि मानसि सर्वसमम् .. १५..
अविकारविकारमसत्यमिति
अविलक्षविलक्षमसत्यमिति .
यदि केवलमात्मनि सत्यमिति
किमु रोदिषि मानसि सर्वसमम् .. १६..
इह सर्वसमं खलु जीव इति
इह सर्वनिरन्तरजीव इति .
इह केवलनिश्चलजीव इति
किमु रोदिषि मानसि सर्वसमम् .. १७..
अविवेकविवेकमबोध इति
अविकल्पविकल्पमबोध इति .
यदि चैकनिरन्तरबोध इति
किमु रोदिषि मानसि सर्वसमम् .. १८..
न हि मोक्षपदं न हि बन्धपदं
न हि पुण्यपदं न हि पापपदम् .
न हि पूर्णपदं न हि रिक्तपदं
किमु रोदिषि मानसि सर्वसमम् .. १९..
यदि वर्णविवर्णविहीनसमं
यदि कारणकार्यविहीनसमम् .
यदिभेदविभेदविहीनसमं
किमु रोदिषि मानसि सर्वसमम् .. २०..
इह सर्वनिरन्तरसर्वचिते
इह केवलनिश्चलसर्वचिते .
द्विपदादिविवर्जितसर्वचिते
किमु रोदिषि मानसि सर्वसमम् .. २१..
अतिसर्वनिरन्तरसर्वगतं
अतिनिर्मलनिश्चलसर्वगतम् .
दिनरात्रिविवर्जितसर्वगतं
किमु रोदिषि मानसि सर्वसमम् .. २२..
न हि बन्धविबन्धसमागमनं
न हि योगवियोगसमागमनम् .
न हि तर्कवितर्कसमागमनं
किमु रोदिषि मानसि सर्वसमम् .. २३..
इह कालविकालनिराकरणं
अणुमात्रकृशानुनिराकरणम् .
न हि केवलसत्यनिराकरणं
किमु रोदिषि मानसि सर्वसमम् .. २४..
इह देहविदेहविहीन इति
ननु स्वप्नसुषुप्तिविहीनपरम् .
अभिधानविधानविहीनपरं
किमु रोदिषि मानसि सर्वसमम् .. २५..
गगनोपमशुद्धविशालसमं
अतिसर्वविवर्जितसर्वसमम् .
गतसारविसारविकारसमं
किमु रोदिषि मानसि सर्वसमम् .. २६..
इह धर्मविधर्मविरागतर-
मिह वस्तुविवस्तुविरागतरम् .
इह कामविकामविरागतरं
किमु रोदिषि मानसि सर्वसमम् .. २७..
सुखदुःखविवर्जितसर्वसम-
मिह शोकविशोकविहीनपरम् .
गुरुशिष्यविवर्जिततत्त्वपरं
किमु रोदिषि मानसि सर्वसमम् .. २८..
न किलाङ्कुरसारविसार इति
न चलाचलसाम्यविसाम्यमिति .
अविचारविचारविहीनमिति
किमु रोदिषि मानसि सर्वसमम् .. २९..
इह सारसमुच्चयसारमिति .
कथितं निजभावविभेद इति .
विषये करणत्वमसत्यमिति
किमु रोदिषि मानसि सर्वसमम् .. ३०..
बहुधा श्रुतयः प्रवदन्ति यतो
वियदादिरिदं मृगतोयसमम् .
यदि चैकनिरन्तरसर्वसमं
किमु रोदिषि मानसि सर्वसमम् .. ३१..
विन्दति विन्दति न हि न हि यत्र
छन्दोलक्षणं न हि न हि तत्र .
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः .. ३२..
इति पञ्चमोऽध्यायः .. ५..
अथ षष्ठमोऽध्यायः ..
बहुधा श्रुतयः प्रवदन्ति वयं
वियदादिरिदं मृगतोयसमम् .
यदि चैकनिरन्तरसर्वशिव-
मुपमेयमथोह्युपमा च कथम् .. १..
अविभक्तिविभक्तिविहीनपरं
ननु कार्यविकार्यविहीनपरम् .
यदि चैकनिरन्तरसर्वशिवं
यजनं च कथं तपनं च कथम् .. २..
मन एव निरन्तरसर्वगतं
ह्यविशालविशालविहीनपरम् .
मन एव निरन्तरसर्वशिवं
मनसापि कथं वचसा च कथम् .. ३..
दिनरात्रिविभेदनिराकरण-
मुदितानुदितस्य निराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
रविचन्द्रमसौ ज्वलनश्च कथम् .. ४..
गतकामविकामविभेद इति
गतचेष्टविचेष्टविभेद इति .
यदि चैकनिरन्तरसर्वशिवं
बहिरन्तरभिन्नमतिश्च कथम् .. ५..
यदि सारविसारविहीन इति
यदि शून्यविशून्यविहीन इति .
यदि चैकनिरन्तरसर्वशिवं
प्रथमं च कथं चरमं च कथम् .. ६..
यदिभेदविभेदनिराकरणं
यदि वेदकवेद्यनिराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
तृतीयं च कथं तुरीयं च कथम् .. ७..
गदिताविदितं न हि सत्यमिति
विदिताविदितं नहि सत्यमिति .
यदि चैकनिरन्तरसर्वशिवं
विषयेन्द्रियबुद्धिमनांसि कथम् .. ८..
गगनं पवनो न हि सत्यमिति
धरणी दहनो न हि सत्यमिति .
यदि चैकनिरन्तरसर्वशिवं
जलदश्च कथं सलिलं च कथम् .. ९..
यदि कल्पितलोकनिराकरणं
यदि कल्पितदेवनिराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
गुणदोषविचारमतिश्च कथम् .. १०..
मरणामरणं हि निराकरणं
करणाकरणं हि निराकरणम् .
यदि चैकनिरन्तरसर्वशिवं
गमनागमनं हि कथं वदति .. ११..
प्रकृतिः पुरुषो न हि भेद इति
न हि कारणकार्यविभेद इति .
यदि चैकनिरन्तरसर्वशिवं
पुरुषापुरुषं च कथं वदति .. १२..
तृतीयं न हि दुःखसमागमनं
न गुणाद्द्वितीयस्य समागमनम् .
यदि चैकनिरन्तरसर्वशिवं
स्थविरश्च युवा च शिशुश्च कथम् .. १३..
ननु आश्रमवर्णविहीनपरं
ननु कारणकर्तृविहीनपरम् .
यदि चैकनिरन्तरसर्वशिव-
मविनष्टविनष्टमतिश्च कथम् .. १४..
ग्रसिताग्रसितं च वितथ्यमिति
जनिताजनितं च वितथ्यमिति .
यदि चैकनिरन्तरसर्वशिव-
मविनाशि विनाशि कथं हि भवेत् .. १५..
पुरुषापुरुषस्य विनष्टमिति
वनितावनितस्य विनष्टमिति .
यदि चैकनिरन्तरसर्वशिव-
मविनोदविनोदमतिश्च कथम् .. १६..
यदि मोहविषादविहीनपरो
यदि संशयशोकविहीनपरः .
यदि चैकनिरन्तरसर्वशिव-
महमेति ममेति कथं च पुनः .. १७..
ननु धर्मविधर्मविनाश इति
ननु बन्धविबन्धविनाश इति .
यदि चैकनिरन्तरसर्वशिवं-
मिहदुःखविदुःखमतिश्च कथम् .. १८..
न हि याज्ञिकयज्ञविभाग इति
न हुताशनवस्तुविभाग इति .
यदि चैकनिरन्तरसर्वशिवं
वद कर्मफलानि भवन्ति कथम् .. १९..
ननु शोकविशोकविमुक्त इति
ननु दर्पविदर्पविमुक्त इति .
यदि चैकनिरन्तरसर्वशिवं
ननु रागविरागमतिश्च कथम् .. २०..
न हि मोहविमोहविकार इति
न हि लोभविलोभविकार इति .
यदि चैकनिरन्तरसर्वशिवं
ह्यविवेकविवेकमतिश्च कथम् .. २१..
त्वमहं न हि हन्त कदाचिदपि
कुलजातिविचारमसत्यमिति .
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् .. २२..
गुरुशिष्यविचारविशीर्ण इति
उपदेशविचारविशीर्ण इति .
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् .. २३..
न हि कल्पितदेहविभाग इति
न हि कल्पितलोकविभाग इति .
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् .. २४..
सरजो विरजो न कदाचिदपि
ननु निर्मलनिश्चलशुद्ध इति .
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् .. २५..
न हि देहविदेहविकल्प इति
अनृतं चरितं न हि सत्यमिति .
अहमेव शिवः परमार्थ इति
अभिवादनमत्र करोमि कथम् .. २६..
विन्दति विन्दति न हि न हि यत्र
छन्दोलक्षणं न हि न हि तत्र .
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः .. २७..
इति षष्ठमोऽध्यायः .. ६..
अथ सप्तमोऽध्यायः ..
रथ्याकर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः .
शून्यागारे तिष्ठति नग्नो
शुद्धनिरञ्जनसमरसमग्नः .. १..
लक्ष्यालक्ष्यविवर्जितलक्ष्यो
युक्तायुक्तविवर्जितदक्षः .
केवलतत्त्वनिरञ्जनपूतो
वादविवादः कथमवधूतः .. २..
आशापाशविबन्धनमुक्ताः
शौचाचारविवर्जितयुक्ताः .
एवं सर्वविवर्जितशान्त-
स्तत्त्वं शुद्धनिरञ्जनवन्तः .. ३..
कथमिह देहविदेहविचारः
कथमिह रागविरागविचारः .
निर्मलनिश्चलगगनाकारं
स्वयमिह तत्त्वं सहजाकारम् .. ४..
कथमिह तत्त्वं विन्दति यत्र
रूपमरूपं कथमिह तत्र .
गगनाकारः परमो यत्र
विषयीकरणं कथमिह तत्र .. ५..
गगनाकारनिरन्तरहंस-
स्तत्त्वविशुद्धनिरञ्जनहंसः .
एवं कथमिह भिन्नविभिन्नं
बन्धविबन्धविकारविभिन्नम् .. ६..
केवलतत्त्वनिरन्तरसर्वं
योगवियोगौ कथमिह गर्वम् .
एवं परमनिरन्तरसर्व-
मेवं कथमिह सारविसारम् .. ७..
केवलतत्त्वनिरञ्जनसर्वं
गगनाकारनिरन्तरशुद्धम् .
एवं कथमिह सङ्गविसङ्गं
सत्यं कथमिह रङ्गविरङ्गम् .. ८..
योगवियोगै रहितो योगी
भोगविभोगै रहितो भोगी .
एवं चरति हि मन्दं मन्दं
मनसा कल्पितसहजानन्दम् .. ९..
बोधविबोधैः सततं युक्तो
द्वैताद्वैतैः कथमिह मुक्तः .
सहजो विरजः कथमिह योगी
शुद्धनिरञ्जनसमरसभोगी .. १०..
भग्नाभग्नविवर्जितभग्नो
लग्नालग्नविवर्जितलग्नः .
एवं कथमिह सारविसारः
समरसतत्त्वं गगनाकारः .. ११..
सततं सर्वविवर्जितयुक्तः
सर्वं तत्त्वविवर्जितमुक्तः .
एवं कथमिह जीवितमरणं
ध्यानाध्यानैः कथमिह करणम् .. १२..
इन्द्रजालमिदं सर्वं यथा मरुमरीचिका .
अखण्डितमनाकारो वर्तते केवलः शिवः .. १३..
धर्मादौ मोक्षपर्यन्तं निरीहाः सर्वथा वयम् .
कथं रागविरागैश्च कल्पयन्ति विपश्चितः .. १४..
विन्दति विन्दति न हि न हि यत्र
छन्दोलक्षणं न हि न हि तत्र .
समरसमग्नो भावितपूतः
प्रलपति तत्त्वं परमवधूतः .. १५..
इति सप्तमोऽध्यायः .. ७..
अथ अष्टमोऽध्यायः ..
त्वद्यात्रया व्यापकता हता ते
ध्यानेन चेतःपरता हता ते .
स्तुत्या मया वाक्परता हता ते
क्षमस्व नित्यं त्रिविधापराधान् .. १..
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः .
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः .. २..
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः .
अमानी मानदः कल्पो मैत्रः कारुणिकः कविः .. ३..
कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् .
सत्यसारोऽनवद्यात्मा समः सर्वोपकारकः .. ४..
अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः .
वेदवर्णार्थतत्त्वज्ञैर्वेदवेदान्तवादिभिः .. ५..
आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मलः .
आनन्दे वर्तते नित्यमकारं तस्य लक्षणम् .. ६..
वासना वर्जिता येन वक्तव्यं च निरामयम् .
वर्तमानेषु वर्तेत वकारं तस्य लक्षणम् .. ७..
धूलिधूसरगात्राणि धूतचित्तो निरामयः .
धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम् .. ८..
तत्त्वचिन्ता धृता येन चिन्ताचेष्टाविवर्जितः .
तमोऽहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम् .. ९..
दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा .
ये पठन्ति च शृण्वन्ति तेषां नैव पुनर्भवः .. १०..
इति अष्टमोऽध्यायः .. ८..
इति अवधूतगीता समाप्ता ..
Encoded by Sunder Hattangadi sunderh@hotmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com