.. बालकृतं कृष्णस्तोत्रम् ..
बाला ऊचुः
यथा सुरक्षित ब्रह्मन् सर्वापत्स्वेव नः कुलम् |
तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन || १||
त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता |
स्रष्टा पाता च संहर्ता जगतां च जगत्पते || २||
वह्निर्वा वरूणो वाऽपि चन्द्रो वा सूर्य एव च |
नमः कुबेरः पवन ईशानाद्याश्च देवता || ३||
ब्रह्मेश- शेष- धर्मेन्द्रा मुनीन्द्रा मनवः स्मृताः |
मानवाश्च तथा दैत्या यक्ष- राक्षस- किन्नराः || ४||
ये ये चराऽचराश्चैव सर्वे तव विभूतयः |
आविर्भावस्तिरोभावः सर्वेषां च तवेच्छया || ५||
अभयं देहि गोविंद वह्निसंहरणं कुरु |
वयं त्वां शरणं यामो रक्ष नः शरणागतान् || ६||
इत्येवमुक्त्वा ते सर्वे तस्थुर्ध्यात्वा पदाम्बुजम् |
दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः || ७||
दूरीभूते च दावाग्नौ ननृतुस्ते मुदान्विताः |
सर्वापदः प्रणश्यन्ति हरिस्मरणमात्रतः || ८||
इदं स्तोत्रं महापुण्यं प्रातरूत्थाय यः पठेत् |
वह्नितो न भवेत्तस्य भयं जन्मनि जन्मनि || ९||
शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसंकटे |
स्तोत्रमेतत् पठित्वा तु मुच्यते नाऽत्र संशयः || १०||
|| इति श्रीब्रह्मवैवर्ते बालकृतं कृष्णस्तोत्रं सम्पूर्णम् ||
Visit http://www.webdunia.com for additional texts with Hindi meanings.
Proofread by Subrahmanyam Gorty subrahmanyam\__gorty@yahoo.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com