.. बालमुकुन्दाष्टकं ..
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् |
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि || १||
संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् |
सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि || २||
इन्दीवरश्यामलकोमलांगं इन्द्रादिदेवार्चितपादपद्मम् |
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि || ३||
लम्बालकं लम्बितहारयष्टिं शृंगारलीलांकितदन्तपङ्क्तिम् |
बिंबाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि || ४||
शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् |
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि || ५||
कलिन्दजान्तस्थितकालियस्य फणाग्ररंगे नटनप्रियन्तम् |
तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि || ६||
उलूखले बद्धमुदारशौर्यं उत्तुंगयुग्मार्जुन भंगलीलम् |
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि || ७||
आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् |
सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि || २||
|| इति बालमुकुन्दाष्टकम् संपूर्णम् ||
Shri kRishhNakarNaamRitaM has the first verse above(2.57) and the following:
आकुञ्चितं जानु करं च वामं न्यस्य क्षितौ दक्षिणहस्तपद्मे |
आलोकयन्तं नवनीतखण्डं बालं मुकुन्दं मनसा स्मरामि || ३. ९२||
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com