.. भगवद्गीता माहात्मयं एवं ध्यानमंत्र ..
.. श्री परमात्मने नमः ..
.. अथ श्रीगीतामाहात्म्यप्रारम्भः ..
श्री गणेशाय नमः .. श्रीराधारमणाय नमः ..
धरोवाच .
भगवन्परेमेशान भक्तिरव्यभिचारिणी .
प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो .. १..
श्री विष्णुरुवाच .
प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा .
स मुक्तः स सुखी लोके कर्मणा नोपलिप्यते .. २..
महापापादिपापानि गीताध्यानं करोति चेत् .
क्वचित्स्पर्शं न कुर्वन्ति नलिनीदलमम्बुवत् .. ३..
गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते .
तत्र सर्वाणि तीर्थाणि प्रयागादीनि तत्र वै .. ४..
सर्वे देवाश्च ऋषयो योगिनः पन्नगाश्च ये .
गोपाला गोपिका वापि नारदोद्धवपार्षदैः ..
सहायो जायते शीघ्रं यत्र गीता प्रवर्तते ५..
यत्र गीताविचारश्च पठनं पाठनं शृतम् .
तत्राहं निश्चितं पृथ्वि निवसामि सदैव हि .. ६..
गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् .
गीताज्ञानमुपाश्रित्य त्रींलोकान्पालयाम्यहम् .. ७..
गीता मे परमा विद्या ब्रह्मरूपा न संशयः .
अर्धमात्राक्षरा नित्या स्वानिर्वाच्यपदात्मिका .. ८..
चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् .
वेदत्रयी परानन्दा तत्त्वार्थज्ञानसंयुता .. ९..
योऽष्टादशजपो नित्यं नरो निश्चलमानसः .
ज्ञानसिद्धिं स लभते ततो याति परं पदम् .. १०..
पाठेऽसमर्थः सम्पूर्णे ततोऽर्धं पाठमाचरेत् .
तदा गोदानजं पुण्यं लभते नात्र संशयः .. ११..
त्रिभागं पठमानस्तु गङ्गास्नानफलं लभेत् .
षडंशं जपमानस्तु सोमयागफलं लभेत् .. १२..
एकाध्यायं तु यो नित्यं पठते भक्तिसंयुतः .
रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम् .. १३..
अध्यायं श्लोकपादं वा नित्यं यः पठते नरः .
स याति नरतां यावन्मन्वन्तरं वसुन्धरे .. १४..
गीतायाः श्लोकदशकं सप्त पञ्च चतुष्टयम् .
द्वौ त्रीनेकं तदर्धं वा श्लोकानां यः पठेन्नरः .. १५..
चन्द्रलोकमवाप्नोति वर्षाणामयुतं ध्रुवम् .
गीतापाठसमायुक्तो मृतो मानुषतां व्रजेत् .. १६..
गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमाम् .
गीतेत्युच्चारसंयुक्तो म्रियमाणो गतिं लभेत् .. १७..
गीतार्थश्रवणासक्तो महापापयुतोऽपि वा .
वैकुण्ठं समवाप्नोति विष्णुना सह मोदते .. १८..
गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिशः .
जीवन्मुक्तः स विज्ञेयो देहान्ते परमं पदम् .. १९..
गीतामाश्रित्य बहवो भूभुजो जनकादयः .
निर्धूतकल्मषा लोके गीतायाताः परं पदम् .. २०..
गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् .
वृथा पाठो भवेत्तस्य श्रम एव ह्युदाहृतः .. २१..
एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति यः .
स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात् .. २२..
सूत उवाच .
माहात्म्यमेतद्गीताया मया प्रोक्त सतातनम् .
गीतान्ते च पठेद्यस्तु यदुक्तं तत्फलं लभेत् .. २३..
.. इति श्रीवाराहपुराणे श्रीगीतामाहात्म्यं सम्पूर्णम् ..
.. अथ श्रीमद्भगवद्गीताध्यानादि ..
श्री गणेशाय नमः .. श्रीगोपालकृष्णाय नमः ..
अथ ध्यानम् .
अथ करन्यासः.
ॐ अस्य श्रीमद्भगवद्गीतामालामन्त्रस्य
भगवान्वेदव्यास ऋषिः .. अनुष्टुप् छन्दः ..
श्रीकृष्ण परमात्मा देवता ..
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे इति बीजम् ..
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति शक्तिः ..
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकम् ..
नैनं छिन्दन्ति शस्त्राणि नैनं दहति
पावक इत्यङ्गुष्ठाभ्यां नमः ..
न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति तर्जनीभ्यां नमः ..
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
एव च इति मध्यमाभ्यां नमः ..
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इत्यनामिकाभ्यां नमः ..
पश्य मे पार्थ् रूपाणि शतशोऽथ
सहस्रश इति कनिष्ठिकाभ्यां नमः ..
नानाविधानि दिव्यानि नानावर्णाकृतीनि
च इति करतलकरपृष्ठाभ्यां नमः ..
इति करन्यासः ..
अथ हृदयादिन्यासः ..
नैनं छिन्दन्ति शस्त्राणि नैनं दहति
पावक इति हृदयाय नमः ..
न चैनं क्लेदयन्त्यापो न शोषयति मारुत इति शिरसे स्वाहा ..
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
एव चेति शिखायै वषट् ..
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातन इति कवचाय हुम् ..
पश्य मे पार्थ् रूपाणि शतशोऽथ
सहस्रश इति नेत्रत्रयाय वौषट् ..
नानाविधानि दिव्यानि नानावर्णाकृतीनि
चेति अस्त्राय फट् ..
श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः ..
ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् .
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवेद्वेषिणीम् .. १..
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र .
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः .. २..
प्रपन्नपारिजातायतोत्रवेत्रैकपाणये .
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः .. ३..
वसुदेवसुतं देवं कंसचाणूरमर्दनम् .
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् .. ४..
भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला
शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला .
अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः .. ५..
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं
नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् .
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे .. ६..
मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिम् .
यत्कृपा तमहं वन्दे परमानन्दमाधवम् .. ७..
अथ गीतामाहात्म्यम् .
गीताशास्त्रमिदं पुण्यं यः पठेत्प्रयतः पुमान् .
विष्णोः पदमवाप्नोति भयशोकादिवर्जितः .. १..
गीताध्ययनशीलस्य प्राणायामपरस्य च .
नैव सन्ति हि पापानि पूर्वजन्मकृतानि च .. २..
मलनिर्मोचनं पुंसां जलस्नानं दिने दिने .
सकृद्गीताम्भसि स्नानं संसारमलनाशनम् .. ३..
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः .
या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता .. ४..
भारतामृतसर्वस्वं विष्णोर्वक्त्राद्विनिःसृतम् .
गीतागङ्गोदकं पीत्वा पुनर्जन्म न विद्यते .. ५..
सर्वोपनिषदो गावो दोग्धा गोपाल नन्दनः .
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् .. ६..
एकं शास्त्रं देवकीपुत्रगीतमेको
देवो देवकीपुत्र एव .
एको मन्त्रस्तस्य नामानि यानि
कर्माप्येकं तस्य देवस्य सेवा .. ७..
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् .
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ..
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः .
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः .. ८..
.. इति ध्यानम् ..
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com