.. भगवत्यष्टकम् ..
नमोऽस्तु ते सरस्वति त्रिशूल- चक्र- धारिणि सिताम्बरावृते शुभे मृगेन्द्रपीठसंस्थिते |
सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे सुवर्णपद्मभूषिते नमोऽस्तु ते महेश्वरि || १||
पितामहादिभिर्नुते स्वकान्तिलुप्तचन्द्रभे सरत्नमालयावृते भवाब्धिकष्टहारिणि |
तमालहस्तमण्डिते तमाल- भाल- शोभिते गिरामगोचरे इले नमोऽस्तु ते महेश्वरि || २||
स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे दरिद्र- दुखहारिणि त्रिलोकशंकरीश्वरि |
भवानि भीम अम्बिके प्रचण्डतेज- उज्ज्वले भुजाकलापमण्डिते नमोऽस्तु ते महेश्वरि || ३||
प्रपन्नभीतिनाशिके प्रसूनमाल्यकन्धरे धियस्तमोनिवारिके विशुद्धबुद्धिकारिके |
सुरार्चिताऽङ्घ्रिपंकजे प्रचण्डविक्रमेऽक्षरे विशालपद्मलोचने नमोऽस्तु ते महेश्वरि || ४||
हतस्त्वया स दैत्यधूम्रलोचनो यदा रणे तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः |
निरीक्ष्य तत्र ते प्रभामलज्जत प्रभाकर- स्त्वयि दयाकरे ध्रुवे नमोऽस्तु ते महेश्वरि || ५||
ननाद केसरी यदा चचाल मेदिनी तदा जगाम दैत्यनायकः स्वसेनया द्रुतं भिया |
सकोप- कम्पदच्छदे सचण्ड- मुण्डघातिके मृगेन्द्रनादनादिते नमोऽस्तु ते महेश्वरि || ६||
कुचन्दनार्चितालके सितोष्णवारणाधरे सवर्करानने वरे निशुम्भ- शुम्भ- मर्दिके |
प्रसीद चण्डिके अजे समस्त- दोषघातिके शुभामतिप्रदेऽचले नमोऽस्तु ते महेश्वरि || ७||
त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी त्वमेव सर्वहारिणी न गम्यसेऽजितात्मभिः |
दिवौकसां हिते रता करोषि दैत्यनाशन शताक्षि रक्तदन्तिके नमोऽस्तु ते महेश्वरि || ८||
पठन्ति ये समाहिता इमं स्तवं सदा नराः अनन्यभक्तिसंयुताः अहर्मुखेऽनुवासरम् |
भवन्ति ते तु पण्डिताः सुपुत्रधान्य- संयुताः कलत्रभूतिसंयुता व्रजन्ति चाऽमृतं सुखम् || ९||
|| इति श्रीमद्मरदासविरचितं भगवत्यष्टकं समाप्तम् ||
Visit http://www.webdunia.com for additional texts with Hindi meanings.
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com