||भस्मजाबालोपनिषत् ||
यत्साम्यज्ञानकालाग्निस्वातिरिक्तास्तिताभ्रमम् |
करोति भस्म निःशेषं तद्ब्रह्मैवास्मि केवलम् ||
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ||भद्रं पश्येमाक्षभिर्यजत्राः ||
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ||व्यशेम देवहितं यदायुः ||
स्वस्ति न इन्द्रो वृद्धश्रवाः ||स्वस्ति नः पूषा विश्ववेदाः ||
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ||स्वस्ति नो बृहस्पतिर्दधातु ||
ॐ शान्तिः शान्तिः शान्तिः ||
हरिः ॐ ||अथ जाबालो भुसुण्डः कैलासशिखरावासमोंकारस्वरूपिणं
महादेवमुमार्धकृतशेखरं सोमसूर्याग्निनयनमनन्तेन्दुरविप्रभं
व्याघ्रचर्माम्बरधरं मृगहस्तं भस्मोद्धूलितविग्रहं
तिर्यक्त्रिपुण्ड्ररेखाविराजमानभालप्रदेशं स्मितसंपूर्णपञ्चविध-
पञ्चाननं वीरासनारूढमप्रमेयमनाद्यनन्तं निष्कलं निर्गुणं
शातं निरञ्जनमनामयं हुंफट्कुर्वाणं शिवनामान्यनिशमुच्चरन्तं
हिरण्यबाहुं हिरण्यरूपं हिरण्यवर्णं हिरण्यनिधिमद्वैतं चतुर्थं
ब्रह्मविष्णुरुद्रातीतमेकमाशास्यं भगवन्तं शिवं प्रणम्य
मुहुर्मुहुरभ्यर्च्य श्रीफलदलैस्तेन भस्मना च नतोत्तमाङ्गः
कृताञ्जलिपुटः पप्रच्छाधीहि भगवन्वेदसारमुद्धृत्य
त्रिपुण्ड्रविधिं यस्मादन्यानप्रेक्षमेव मोक्षोपलब्धिः |
किं भस्मनो द्रव्यम् | कानि स्थानानि | मनवोऽप्यत्र के वा |
कति वा तस्य धारणम् | के वात्राधिकारिणः | नियमस्तेषां
को वा | मामन्तेवासिनमनुशासयामोक्षमिति | अथ स होवाच
भगवान्परमेश्वरः परमकारुणिकः प्रमथान्सुरानपि
सोऽन्वीक्ष्य पूतं प्रातरुदयाद्गोमयं ब्रह्मपर्णे निधाय
त्र्यम्बकमिति मन्त्रेण शोषयेत् | येन केनापि तेजसा
तत्स्वगृह्योक्तमार्गेण प्रतिष्ठाप्य वह्निं तत्र तद्गोमयद्रव्यं
निधाय सोमाय स्वाहेति मन्त्रेण ततस्तिलब्रीहिभिः साज्यैर्जुहुयात् |
अयं तेनाष्टोत्तरसहस्रं सार्धमेतद्वा | तत्राज्यस्य पर्णमयी
जुहूर्भवति | तेन न पापं शृणोति | तद्घोममन्त्रस्र्यम्बकमित्येव
अन्ते स्विष्टकृत्पूर्णाहुतिस्तेनैवाष्टदिक्षु बलिप्रदानम् |
तद्भस्म गायत्र्या संप्रोक्ष्य तद्धैमे राजते ताम्रे मृण्मये
वा पात्रे निधाय रुद्रमन्त्रैः पुनरभ्युक्ष्य शुद्धदेशे संस्थापयेत् |
ततो भोजयेद्ब्राह्मणान् | ततः स्वयं पूतो भवति | मानस्तोक इति सद्यो
जातमित्यादि पञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति भस्म वायुरिति
भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म देवा भस्म
ऋषयो भस्म | सर्वं ह वा एतदिदं भस्म | पूतं पावनं नमामि
सद्यः समस्ताघशासकमिति शिरसाभिनम्य | पूते वामहस्ते
वामदेवायेति निधाय त्र्यम्बकमिति संप्रोक्ष्य शुद्धं शुद्धेनेति
संमृज्य संशोध्य तेनैवापादशीर्षमुद्धूलनमाचरेत् |
तत्र ब्रह्ममन्त्राः पञ्च | ततः शेषस्य भस्मनो विनियोगः |
तर्जनीमध्यमानामिकाभिरग्नेर्भस्मासीति भस्म संगृह्य
मूर्धानमिति मूर्धन्यग्रे न्यसेत् | त्र्यम्बकमिति ललाटे
नीलग्रीवायेति कण्ठे कण्ठस्य दक्षिणे पार्श्वे त्र्यायुषमिति
वामेति कपोलयोः कालायेति नेत्रयोस्त्रिलोचनायेति श्रोत्रयोः
शृणवामेति वक्त्रे प्रब्रवामेति हृदये आत्मन इति नाभौ
नाभिरिति मन्त्रेण दक्षिणभुजमूले भवायेति तन्मध्ये रुद्रायेति
तन्मणिबन्धे शर्वायेति तत्करपृष्ठे पशुपतय इति वामबाहुमूले
उग्रायेति तन्मध्ये अग्रेवधायेति तन्मणिबन्धे दूरेवधायेति
तत्करपृष्ठे नमो हन्त्र इति अंसे शङ्करायेति यथाक्रमं
भस्म धृत्वा सोमायेति शिवं नत्वा ततः प्रक्षाल्य तद्भस्मापः
पुनन्त्विति पिबेत् | नाधो त्याज्यं नाधो त्याज्यम् |
एतन्मध्याह्नसायाह्नेषु त्रिकालेषु विधिवद्भस्मधारणमप्रमादेन
कार्यम् | प्रमादात्पतितो भवति | ब्राह्मणानामयमेव धर्मोऽयमेव
धर्मः | एवं भस्मधारणमकृत्वा नाश्नीयादापोऽन्नमन्यद्वा |
प्रमादात्त्यक्त्वा भस्मधारणं न गायत्रीं जपेत् | न जुहुयादग्नौ
तर्पयेद्देवानृषीन्पित्रादीन् |
अयमेव धर्मः सनातनः सर्वपापनाशको मोक्षहेतुः | नित्योऽयं धर्मो
ब्राह्मणानां ब्रह्मचारिगृहिवानप्रस्थयतीनाम् | एतदकरणे
प्रत्यवैति ब्राह्मणः | अकृत्वा प्रमादेनैतदष्टोत्तरशतं
जलमध्ये स्थित्वा गायत्रीं जप्त्वोपोषणेनैकेन शुद्धो भवति |
यतिर्भस्मधारणं त्यक्त्वैकदोपोष्य द्वादशसहस्रप्रणवं
जप्त्वा शुद्धो भवति | अन्यथेन्द्रो यतीन्सालावृकेभ्यः
पातयति | भस्मनो यद्यभावस्तदा नर्यभस्मदाहनजन्यमन्यद्वावश्यं
मन्त्रपूतं धार्यम् |
एतत्प्रातः प्रयुञ्जानो रत्रिकृतात्पापात्पूतो भवति |
स्वर्णस्तेयात्प्रमुच्यते | मध्यन्दिने माध्यन्दिनं
कृत्वोपस्थानान्तं ध्यायमान आदित्याभिमुखोऽधीयानः
सुरापानात्पूतो भवति | स्वर्णस्तेयात्पूतो भवति |
ब्राह्मणवधात्पूतो भवति | गोवधात्पूतो भवति |
अश्ववधात्पूतो भवति | गुरुवधात्पूतो भवति |
मातृवधात्पूतो भवति | पितृवधात्पूतो भवति |
त्रिकालमेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति |
सर्वतीर्थफलमश्नुते | अनपब्रुवः सर्वमायुरेति |
विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् |
एवमावर्तयेदुपनिषदमित्याह भगवान्सदाशिवः
साम्बः सदाशिवः साम्बः ||
इति प्रथमोऽध्यायः ||१||
अथ भुसुण्डो जाबालो महादेवं साम्बं प्रणम्य पुनः
पप्रच्छ किं नित्यं ब्राह्मणानां कर्तव्यं यदकरणे
प्रत्यवैति ब्राह्मणः | कः पूजनीयः | को वा ध्येयः | कः
स्मर्तव्यः | कथं ध्येयः | क्व स्थातव्यमेतद्ब्रूहीति | समासेन
तं होवाच | प्रागुदयान्निर्वर्त्य शौचादिकं ततः स्नायात् |
मार्जनं रुद्रसूक्तैः | ततश्चाहतं वासः परिधत्ते पाप्मनोपहृत्यै |
उद्यन्तमादित्यमभिध्यायन्नुद्धूलिताङ्गं कृत्वा यथास्थानं
भस्मना त्रिपुण्ड्रं श्वेतेनैव रुद्राक्षाञ्छ्वेतान्बिभृयात् |
नैतत्संमर्शः | तथान्ये | मूर्ध्नि चत्वारिंशत् | शिखायामेकं
त्रयं वा | श्रोत्रयोर्द्वादश | कण्ठे द्वात्रिंशत् | बाह्वोः
षोडशषोडश | द्वादशद्वादश मणिबन्धयोः | षट्षडङ्गुष्ठयोः |
ततः सन्ध्यां सकुशोऽहरहरुपासीत | अग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात् |
शिवलिङ्गं त्रिसन्ध्यमभ्यर्च्य कुशेष्वासीनो ध्यात्वा साम्बं
मामेव वृषभारूढं हिरण्यबाहुं हिरण्यवर्णं हिरण्यरूपं
पशुपाशविमोचकं पुरुषं कृष्णपिङ्गलमूर्ध्वरेतं विरूपाक्षं
विश्वरूपं सहस्राक्षं सहस्रशीर्षं सहस्रचरणं विश्वतोबाहुं
विश्वात्मानमेकमद्वैतं निष्कलं निष्क्रियं शान्तं शिवमक्षरमव्ययं
हरिहरहिरण्यगर्भस्रष्टारमप्रमेयमनाद्यन्तं रुद्रसूक्तैरभिषिच्य
सितेन भस्मना श्रीफलदलैश्च त्रिशाखैरार्द्रैरनार्द्रैर्वा |
नैतत्र संस्पर्शः | तत्पूजासाधनं कल्पयेच्च नैवेद्यम् |
ततश्चैकादशगुणरुद्रो जपनीयः | एकगुणोऽनन्तः | षडक्षरोऽष्टाक्षरो
वा शैवो मन्त्रो जपनीयः | ओमित्यग्रे व्याहरेत् | नम इति पश्चात् |
ततः शिवायेत्यक्षरत्रयम् | ओमित्यग्रे व्याहरेत् | नम इति पश्चात् |
ततो महादेवयेति पञ्चाक्षराणि | नातस्तारकः परमो मन्त्रः | तारकोऽयं
पञ्चाक्षरः | कोऽयं शैवो मनुः | शैवस्तारकोऽयमुपदिश्यते
मनुरविमुक्ते शैवेभ्यो जीवेभ्यः | शैवोऽयमेव मन्त्रस्तारयति |
स एव ब्रह्मोपदेशः |
ब्रह्म सोमोऽहं पवनः सोमोऽहं पवते सोमोऽहं
जनिता मतीनां सोमोऽहं जनिता पृथिव्याः सोमोऽहं
जनिताऽग्नेः सोमोऽहं जनिता सूर्यस्य सोमोऽहं
जनितेन्द्रस्य सोमोऽहं जनितोत विष्णोः सोमोऽहमेव
जनिता स यश्चन्द्रमसो देवानां भूर्भुवस्वरादीनां
सर्वेषां लोकानां च | विश्वं भूतं भुवनं चित्रं
बहुधा जातं जायमानं च यत्सर्वस्य सोमोऽहमेव
जनिता विश्वाधिको रुद्रो महर्षिः | हिरण्यगर्भादीनहं
जायमानान्पश्यामि | यो रुद्रो अग्नौ यो अप्सु य ओषधीषु
यो रुद्रो विश्वा भुवना विवेशैवमेव | अयमेवात्मान्तरात्मा
ब्रह्मज्योतिर्यस्मान्न मत्तोऽन्यः परः | अहमेव परो विश्वाधिकः |
मामेव विदित्वामृतत्वमेति | तरति शोकम् | मामेव विदित्वा
सांसृतिकीं रुजं द्रावयति | तस्मादहं रुद्रो यः सर्वेषां
परमा गतिः | सोऽहं सर्वाकारः | यतो वा इमानि भूतानि जायन्ते |
येन जातानि जीवन्ति | यत्प्रयन्त्यभिसंविशन्ति | तं मामेव
विदित्वोपासीत | भूतेभिर्देवेभिरभिष्टुतोऽहमेव | भीषास्माद्वातः
पवते | भीषोदेति सूर्यः | भीषास्मादग्निश्चेन्द्रश्च | सोमोऽत
एव योऽहं सर्वेषामधिष्ठाता सर्वेषां च भूतानां
पालकः | सोऽहं पृथिवी | सोऽहमापः | सोऽहं तेजः | सोऽहं वायुः |
सोऽहं कालः | सोऽहं दिशः | सोऽहमात्मा | मयि सर्वं प्रतिष्ठितम् |
ब्रह्मविदाप्नोति परम् | ब्रह्मा शिवो मे अस्तु सदाशिवोम् |
अचक्षुर्विश्वतश्चक्षुरकर्णो विश्वतः कर्णोऽपादो
विश्वतःपादोऽपाणिर्विश्वतःपाणिराहमशिरा विश्वतःशिरा
विद्यामन्त्रैकसंश्रयो विद्यारूपो विद्यामयो विश्वेश्वरोऽहमजरोऽहम् |
मामेवं विदित्वा संसृतिपाशात्प्रमुच्यते | तस्मादहं
पशुपाशविमोचकः | पशवश्चामानवान्तं मध्यवर्तिनश्च
युक्तात्मानो यतन्ते मामेव प्राप्तुम् | प्राप्यन्ते मां न पुनरावर्तन्ते |
त्रिशूलगां काशीमधिश्रित्य त्यक्तासवोऽपि मय्येव संविशन्ति |
प्रज्वलवह्निगं हविर्यथा न यजमानमासादयति तथासौ त्यक्त्वा
कुणपं न तत्तादृशं पुरा प्राप्नुवन्ति | एष एवादेशः | एष
उपदेशः | एष एव परमो धर्मः | सत्यात्तत्र कदाचिन्न प्रमदितव्यं
तत्रोद्धूलनत्रिपुण्ड्राभ्याम् | तथा रुद्राद्याक्षधारणात्तथा
मदर्चनाच्च | प्रमादेनापि नान्तर्देवसदने पुरीषं कुर्यात् |
व्रतान्न प्रमदितव्यम् | तद्धि तपस्तद्धि तपः काश्यामेव मुक्तिकामानाम् |
न तत्त्याज्यं न तत्त्याज्यं मोचकोऽहमविमुक्ते निवसताम् |
नाविमुक्तात्परमं स्थानम् | नाविमुक्तात्परमं स्थानम् |
काश्यां स्थानानि चत्वारि | तेषामभ्यर्हितमन्तर्गृहम् |
तत्राप्यविमुक्तमभ्यर्हितम् | तत्र स्थानानि पञ्च | तन्मध्ये
शिवागारमभ्यर्हितम् | तत्र प्राच्यामैश्वर्यस्थानम् |
दक्षिणायां विचालनस्थानम् | पश्चिमायां वैराग्यस्थानम् |
उत्तरायां ज्ञानस्थानम् | तस्मिन्यदन्तर्निर्लिप्तमव्ययमनाद्यन्त-
मशेषवेदवेदान्तवेद्यमनिर्देश्यमनिरुक्तमप्रच्यवमाशास्यमद्वैतं
सर्वाधारमनाधारमनिरीक्ष्यमहरहर्ब्रह्मविष्णुपुरन्दराद्यमरवरसेवितं
मामेव ज्योतिःस्वरूपं लिङ्गं मामेवोपासितव्यं तदेवोपासितव्यम् |
नैव भावयन्ति तल्लिङ्गं भानुश्चन्द्रोऽग्निर्वायुः |
स्वप्रकाशं विश्वेश्वराभिधं पातालमधितिष्ठति |
तदेवाहम् | तत्रार्चितोऽहम् | साक्षादर्चितः |
त्रिशाखैर्बिल्वदलैर्दीप्तैर्वा योऽभिसंपूजयेन्मन्मना
मय्याहितासुर्मय्येवार्पिताखिलकर्मा भस्मदिग्धाङ्गो
रुद्राक्षभूषणो मामेव सर्वभावेन प्रपन्नो
मदेकपूजानिरतः संपूजयेत् | तदहमश्नामि |
तं मोचयामि संसृतिपाशात् | अहरहरभ्यर्च्य
विश्वेश्वरं लिङ्गं तत्र रुद्रसूक्तैरभिषिच्य तदेव
स्नपनपयस्त्रिः पीत्वा महापातकेभ्यो मुच्यते | न
शोकमाप्नोति | मुच्यते संसारबन्धनात् | तदनभ्यर्च्य
नाश्नीयात्फलमन्नमन्यद्वा | यदश्नीयाद्रेतोभक्षीभवेत् |
नापः पिबेत् | यदि पिबेत्पूयपो भवेत् | प्रमादेनैकदा
त्वनभ्यर्च्य मां भुक्त्वा भोजयित्वा केशान्वापयित्वा
गव्यानां पञ्च संगृह्योपोष्य जले रुद्रस्नानम् |
जपेत्त्रिवारं रुद्रानुवाकम् | आदित्यं पश्यन्नभिध्याय-
न्स्वकृतकर्मकृद्रौद्रेरेव मन्त्रैः कुर्यान्मार्जनम् |
ततो भोजयित्वा ब्राह्मणान्पूतो भवति | अन्यथा परेतो
यातनामश्नुते | पत्रैः फलैर्वा जलैर्वान्यैर्वाभिपूज्य
विश्वेश्वरं मां ततोऽश्नीयात् | कापिलेन पयसाभिषिच्य
रुद्रसूक्तेन मामेव शिवलिङ्गरूपिणं ब्रह्महत्यायाः
पूतो भवति | कापिलेनाज्येनाभिषिच्य स्वर्णस्तेयात्पूतो भवति |
मधुनाभिषिच्य गुरुदारगमनात्पूतो भवति | सितया
शर्करयाभिषिच्य सर्वजीववधात्पूतो भवति |
क्षीरादिभिरेतैरभिषिच्य सर्वानवाप्नोति कामान् |
इत्येकैकं महान्प्रस्थशतं महान्प्रस्थशतमानैः
शतैरभिपूज्य मुक्तो भवति संसारबन्धनात् | मामेव
शिवलिङ्गरूपिणमार्द्रायां पौर्णमास्यां वामावास्यायां
वा महाव्यतीपाते ग्रहणे संक्रान्तावभिषिच्य तिलैः
सतण्डुलैः सयवैः संपूज्य बिल्वदलैरभ्यर्च्य कापिलेनाज्यान्वित-
गन्धसारधूपैः परिकल्प्य दीपं नैवेद्यं साज्यमुपहारं
कल्पयित्वा दद्यात्पुष्पाञ्जलिम् | एवं प्रयतोऽभ्यर्च्य मम
सायुज्यमेति | शतैर्महाप्रस्थैरखण्डैस्तण्डुलैरभिषिच्य
चन्द्रलोककामश्चन्द्रलोकमवाप्नोति | तिलैरेतावद्भिरभिषिच्य
वायुलोककामो वायुलोकमवाप्नोति | माषैरेतावद्भिरभिषिच्य
वरुणलोककामो वरुणलोकमवाप्नोति | यवैरेतावद्भिरभिषिच्य
सूर्यलोककामः सूर्यलोकमवाप्नोति | एतैरेतावद्भिर्द्विगुणैरभिषिच्य
स्वर्गलोककामः स्वर्गलोकमवाप्नोति | एतैरेतावद्भिश्चतुर्गुणैरभिषिच्य
चतुर्जालं ब्रह्मकोशं यन्मृत्युर्नावपश्यति | तमतीत्य मल्लोककामो
मल्लोकमवाप्नोति नान्यं मल्लोकात्परम् | यमवाप्य न शोचति |
न स पुनरावर्तते न स पुनरावर्तते | लिङ्गरूपिणं मां संपूज्य
चिन्तयन्ति योगिनः सिद्धाः सिद्धिं गताः | यजन्ति यज्वानः |
मामेव स्तुवन्ति वेदाः साङ्गाः सोपनिषदः सेतिहासः |
न मत्तोऽन्यदहमेव सर्वम् | मयि सर्वं प्रतिष्ठितम् |
ततः काश्यां प्रयतैरेवाहमन्वहं पूज्यः | तत्र गणा
रौद्रानना नानामुखा नानाशस्त्रधारिणो नानारूपधरा
नानाचिह्निताः | ते सर्वे भस्मदिग्धाङ्गा रुद्राक्षाभरणाः
कृताञ्जलयो नित्यमभिध्यायन्ति | तत्र पूर्वस्यं दिशि ब्रह्मा
कृताञ्जलिरहर्निशं मामुपास्ते | दक्षिणस्यां दिशि
विष्णुः कृत्वैव मूर्धाञ्जलिं मामुपास्ते | प्रतीच्यामिन्द्रः
सन्नताङ्ग उपास्ते | उदीच्यामग्निकायमुमानुरक्ता हेमाङ्गविभूषणा
हेमवस्त्रा मामुपासते मामेव वेदाश्चतुर्मूर्तिधराः | दक्षिणायां दिशि
मुक्तिस्थानं तन्मुक्तिमण्डपसंज्ञितम् | तत्रानेकगणाः पालकाः
सायुधाः पापघातकाः | तत्र ऋषयः शांभवाः पाशुपता
महाशैवा वेदावतंसं शैवं पञ्चाक्षरं जपन्तस्तारकं
सप्रणवं मोदमानास्तिष्ठन्ति | तत्रैका रत्नवेदिका | तत्राहमासीनः
काश्यां त्यक्तकुणपाञ्छैवानानीय स्वस्याङ्के संनिवेश्य
भसितरुद्राक्षभूषितानुपस्पृश्य मा भूदेतेषां जन्म
मृतिश्चेति तारकं शवं मनुमुपदिशामि |
ततस्ते मुक्ता मामनुविशन्ति विज्ञानमयेनाङ्गेन |
न पुनरावर्तन्ते हुताशनप्रतिष्ठं हविरिव तत्रैव
मुक्त्यर्थमुपदिश्यते शैवोऽयं मन्त्रः पञ्चाक्षरः |
तन्मुक्तिस्थानम् | तत ओङ्काररूपम् | ततो मदर्पितकर्मणां
मदाविष्टचेतसां मद्रूपता भवति | नान्येषमियं
ब्रह्मविद्येयं ब्रह्मविद्या | मुमुक्षवः काश्यामेवासीना
वीर्यवन्तो विद्यावन्तः | विज्ञानमयं ब्रह्मकोशम् |
चतुर्जालं ब्रह्मकोशम् | यन्मृत्युर्नावपश्यति | यं ब्रह्मा
नावपश्यति | यं विष्णुर्नावपश्यति | यमिन्द्राग्नी नावपश्येताम् |
यं वरुणादयो नावपश्यन्ति | तमेव तत्तेज प्लुष्टविड्भावं
हैममुमां संश्लिष्य वसन्तं चन्द्रकोटिसमप्रभं
चन्द्रकिरीटं सोमसूर्याग्निनयनं भूतिभूषितविग्रहं
शिवं मामेवमभिध्यायन्तो मुक्तकिल्बिषास्त्यक्तबन्धा
मय्येव लीना भवन्ति | ये चान्ये काश्यां पुरीष कारिणः
प्रतिग्रहरतास्त्यक्तभस्मधारणास्त्यक्तरुद्राक्षधारणास्त्यक्त-
सोमवारव्रतास्त्यक्तग्रहयागास्त्यक्तविश्वेश्वरार्चनास्त्यक्त-
पञ्चाक्षरजपास्त्यक्तभैरवार्चना भैरवीं घोरादियातनां
नानाविधां काश्यां परेता भुक्त्वा ततः शुद्धा मां प्रपद्यन्ते
च | अन्तर्गृहे रेतो मूत्रं पुरीषं वा विसृजन्ति तदा तेन सिञ्चन्ते
पितॄन् | तमेव पापकारिणं मृतं पश्यन्नीललोहितो भैरवस्तं
पातयत्यस्रमण्डले ज्वलज्ज्वलनकुण्डेष्वन्येष्वपि | ततश्चाप्रमादेन
निवसेदप्रमादेन निवसेत्काश्यां लिङ्गरूपिण्यामित्युपनिषत् ||
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ||भद्रं पश्येमाक्षभिर्यजत्राः ||
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ||व्यशेम देवहितं यदायुः ||
स्वस्ति न इन्द्रो वृद्धश्रवाः ||स्वस्ति नः पूषा विश्ववेदाः ||
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ||स्वस्ति नो बृहस्पतिर्दधातु ||
ॐ शान्तिः शान्तिः शान्तिः ||हरिः ॐ तत्सत् ||
इति भस्मजाबालोपनिषत्समाप्ता ||
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
%@@1
% File name : bhasma.itx
%--------------------------------------------
% Text title : Bhasmajabala Upanishad
% Author : Vedic tradition
% Language : Sanskrit
% Subject : philosophy/hinduism
% Description/comments : # 87 / 108; Atharva Veda - Shaiva upanishad
% Transliterated by : Sunder Hattangadi (sunderh@hotmail.com)
% Proofread by : Sunder Hattangadi (sunderh@hotmail.com)
% Latest update : August 17, 2000, May 20, 2007
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskrit.gde.to
% http://www.alkhemy.com/sanskrit/
% ftp://jaguar.cs.utah.edu/sanskrit/sanskrit.html
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Please ignore the following commands upto #indian and others with
% \ mark,
% which are needed for devanaagarii output and formatting.
%--------------------------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net.
Questions, comments? Write to sanskrit@cheerful.com.