.. बृहदम्बार्याशतकम् ..
श्रीगोकर्णनिकेता श्रीविद्यादिव्यशुक्तिकामुक्ता .
श्रीकण्ठनित्यमिलिता श्रीचक्रेशी पुरोऽस्तु मे माता .. १..
कल्याणं कलयेन्नः कल्यानस्मान् करोतु शतमब्दान् .
कल्यातङ्कमपास्येत् कल्याणी नः सदैव बृहदम्बा .. २..
तरुणारुणप्रकाशं तरुणा वकुलेन भासुरनिवेशम् .
गुरुणा स्तनेन नमितं गुरुणा सदयेन वस्तुः न कथितम् .. ३..
वकुलद्रुमूलसदनां वनजसहाध्यायिपरिलसद्वदनाम् .
वल्गुस्मितेक्ष्यरदनां वन्दे दृक्तर्जिताम्बुजच्छदनाम् .. ४..
एका द्विलोकसुखदा त्र्यक्षर्याख्यापिता चतुःपीठा .
पञ्चाम्नायशिरःस्था बृहदम्ब त्वं षडध्वजनयित्री .. ५..
नासाभासा चम्पकशोभाक्षोभावहास्तु बृहदम्बा .
पारावारात्मजया सेव्या देव्या गिरां च भव्याय .. ६..
कम्बुलसत्कंधरया कैश्यविनिर्धूतनीलकंधरया .
पाल्ये शोणाधरया पावितवकुलद्रुमूलसद्धरया .. ७..
पीनस्तनावनम्रे पादनताम्भोजवासिनीकम्रे .
वाणीजितसरसाम्रे वाचो वल्गन्तु धाम्नि मे ताम्रे .. ८..
वकुलवनीवासिन्या विद्रुमसच्छायचेलवासिन्या .
हृद्राजीवासिन्या हृदयं शंभोर्हृतं सुवासिन्या .. ९..
वन्दे श्रीबृहदम्बां वल्गुगतापास्तराजकादम्बाम् .
आश्रितजनावलम्बामासेवे कैश्यधूतलोलम्बाम् .. १०..
केसरसरभासुरया केवलदासीभवत्सुरासुरया .
कलिता वाणी सुरया कयापि मे भक्तिनम्रभूसुरया .. ११..
शिरसा धृतसोमायाः श्रीगोकर्णैकदिव्यधामायाः .
पदनम्राणां मायाः पापविधात्र्यः कदापि नोमायाः .. १२..
आनन्दसारसीमामानङ्गोत्कर्षपोषकापाङ्गाम् .
आनन्तुं बृहदम्बामानन्त्यं मूर्ध्नि वाञ्छामि .. १३..
वकुलाटवीनिविष्टां वन्दकसंरक्षणात्यभिनिविष्टाम् .
निरवधिकरुणाविष्टां नित्यं सेवेमहीष्टशिपिविष्टाम् .. १४..
अभिधायितहृल्लेखामतीतविद्वत्सुकविजनोल्लेखाम् .
पदपद्मनमल्लेखां पश्यामः शाश्वतीं तटिल्लेखाम् .. १५..
करुणामृतवर्षिण्याः सेवकसर्वापराधमर्षिण्याः .
वकुलविपिनहर्षिण्या वश्याः स्मः शंभुचित्तकर्षिण्याः .. १६..
करुणाझरसरसाक्षीमरुणाधरशोभिसुन्दरसुहासाम् .
तरुनार्धघटितदेहां वरुणालयजेडितां शिवां वृणुमः .. १७..
धन्याः के नु मदन्या वलयेऽवन्या यतो वकुलवन्याः .
मूले मोक्षवदान्या मान्या कन्या गिरोर्हितमान्या मे .. १८..
केचित् त्वां कुलमूले साक्षात्कुर्वन्त्यहं वकुलमूले .
अर्धेश्वरां कतिपये मातः सर्वेश्वरामहं कलये .. १९..
वाञ्छितसिद्ध्यै भविता लाञ्छितचिकुरा चकोरवृत्तिकृता .
काङ्क्षितचरणा सद्भिः कां क्षिप्रं नातनोति संसिद्धिम् .. २०..
अरुणिमसारसमष्टिः संसृतिकूपोत्तरणयष्टिः .
कलितामृतौघवृष्टिर्बृहदम्बा भातु मे कृपादृष्टिः .. २१..
सामजसमानगमना सामसमाजोपगानतुष्टमनाः .
समजानुपेतचरणा समरसतापन्नपन्नगाभरणा .. २२..
विश्वपतिवश्यहृदया नश्वरविश्वासपश्वनाशास्या .
अश्वमुखस्तवशस्या निःश्वसितानुश्रवास्ति बृहदम्बा .. २३..
लघु तव चरणं शरणं तरणं मृत्योर्भजामि बृहदम्ब .
यावत् तरसा जरसा परसादङ्गानि न कृतानि .. २४..
प्रभवति यत्र न गौर्वा नोर्मीणां संकथा न वा जडता .
कोऽपि वकुलालवाले जयति चिरानन्दसागरोऽपार .. २५..
स्थावरराजतनूजा भावरसस्फीतवैखरी जननी .
पीवरवक्षोजनता धीवरदौहित्रसूक्तिपरिचिन्त्या .. २६..
सर्वानन्दनिवासा शक्रशतानन्दमुख्यसुरसेव्या .
धृतनन्दसूनुदेहा भूमनिजानन्दमेदुरा जयति .. २७..
अपहृत्य चित्तशल्यं भक्तिमतामातनोषि कैवल्यम् .
बृहदम्ब को न्वकल्यं देवान्तरं त्व्या पाल्यम् .. २८..
भवनीकृतगोकर्णं भास्वन्मणिकुण्डलस्फुरत्कर्णम् .
ध्यायामि शोणवर्णं धाम परं भक्तमानसाभ्यर्णम् .. २९..
कलिता ललिता कलितापहरा दहरान्तरविचिन्त्या .
वकुले मुकुलेड्यकुले सदयाभ्युदया किमन्यदेवैर्मे .. ३०..
वाराणसीनिषेवां वाराश्यवगाहनानि च न तन्याः .
वारान् बहूनथाङ्घ्र्योर्वारा पूयस्व वकुलमूलेश्याः .. ३१..
श्रेयश्च या विधत्ते श्रीबृहदम्बापदाम्बुरुहचिन्ता .
कलिकलुषणि विभिन्ते मदमपि कार्तान्तमाहन्ता .. ३२..
नीवी नवान्यवचसां सा वीणा वाण्यभिपणार्या .
भावी भवार्तिहरणी देवी दयतां सदैव बृहदम्बा .. ३३..
माता सारसनेत्रा मान्या वाराशिकन्यकानेत्रा .
मृगचक्रवर्तिपत्रा मनसि मम स्तात् स्तनोल्लसत्पत्रा .. ३४..
वेलतिगानुकम्पा वकुलवनाम्भोदमञ्जुतरशम्पा .
भवतप्तामृतझम्पा भवतु हृदिस्था कृतद्विषत्कम्पा .. ३५..
पद्यायामाद् यायामाद्यायामम्ब तावकजनानाम् .
विद्यां ते निरवद्यां विद्यां गोकर्णराज्ञि दयया ते .. ३६..
तरणिं तमश्छटानामरणिं ज्ञानानलस्य कलयामि .
तरणिं भवाम्बुराशेः सरणिं वेद्यागमस्य बृहदम्बाम् .. ३७..
वक्षोजभारनमिता लक्षोत्तरवेदगीःप्रमिता .
इक्षोर्मधुरोक्तिमिता न क्षोभ्या त्वं दयाधुनी स्तिमिता .. ३८..
हृदयं पुराणवचसां सदयं दीनावने परं तेजः .
मदयन्नधरं शंभोस्तदयं यातो जनः शरणम् .. ३९..
माङ्कणतीरकुटीरा मेदुरवक्षोजलिप्तपाटीरा .
पतिधृतचन्द्राण्डीरा ध्येयाम्बा मुक्तिदानशौण्डीरा .. ४०..
आपन्नरक्षणार्थे चापं पुण्ड्रेक्षुमादधाना सा .
रोपं च पौष्पमम्बा पापं प्रोत्सारयेन्ममाशेषम् .. ४१..
दक्षा निरर्गला सा दातुं स्वर्गं त्रिवर्गमपवर्गम् .
बृहदम्बा महदन्तर्वासा भासारुणा जयति .. ४२..
वारिदसोदरचिकुरां वदनपराभूतविस्फुरन्मुकुराम् .
सुन्दरहासाङ्कूरां सेवेऽम्बां वाग्जितामृतासाराम् .. ४३..
बिन्दुत्रयात्मकतया कलयन्ति त्वामपारकरुणाब्धिम् .
ये बृहदम्ब भवाब्धिर्विदुषां तेषां कति पृषन्ति .. ४४..
नीवारशूकशाता नीहारांशुच्छटाशीता .
बालादित्यशताभा मूलाधारात् समुद्यता भासि .. ४५..
विश्वप्रथानिदानं वेदशिरःस्फूर्जदपदानम् .
बृहदम्बिकाभिधानं बहुशः सेवेय मङ्गलविधानम् .. ४६..
आलोलनीलवेणी फालोत्सङ्गानुषङ्गिदिव्यमणी .
कालोन्मिषत्कुवलयच्छायादायादलोचनद्वितया .. ४७..
मणिताटङ्कसमुद्यद्घृणिगणनीराजितकपोलम् .
नासाग्रलम्बिमुक्ताभासा संपृक्तमन्दहासरुचिः .. ४८..
अरुणाधरजितबिम्बा वक्त्रपराभूतशीतकरबिम्बा .
पीनोन्नतस्तनभरा पाशसृणीष्विक्षुचापकरा .. ४९..
शिञ्जितमञ्जीरलसन्मञ्जुलचरणाब्जनम्रसुरलोका .
बृहदम्बा मम हृदये निवसतु वात्सल्यशीतलालोका .. ५०..
भानव्या या नव्या मानव्याघातभीतया दीप्त्या .
आतन्वीत सुतन्वी सा तन्वीड्या श्रियं तवाम्ब तनूः .. ५१..
इच्छात्तविश्वशिल्पां पञ्चब्रह्मप्रकल्पितसुतल्पाम् .
वन्दीकृतादिजल्पां वन्दे देवीं दयोदयानल्पाम् .. ५२..
केचिन्मदालसाक्षं कालोन्मीलत्कुवालजयदक्षम् .
गात्रं तवापरोक्षं कुर्युर्बृहदम्ब दुष्कृतविपक्षम् .. ५३..
शयधृतचारुविपञ्ची श्रोणीबिम्बावलम्बिमणिकाञ्ची .
गोकर्णेश्यघवञ्ची दृष्टा चेत् को न भक्तिरोमाञ्ची .. ५४..
कालं प्रयाप्य मेऽलं भारैर्दुःस्थैरचारुकुचभारैः .
क्षामैरशुकश्यामैरन्यैर्देवैरधूतनतदैन्यैः .. ५५..
सोमार्धसल्ललामा सा मामव्यात् सुवकुलवनदामा .
कामारिदिव्यरामा परमा संविद् घनश्यामा .. ५६..
कोमलवाकुलमूला स्तोमलसत्कुन्तलाधिगोकर्णम् .
यामलवर्ण्या कापि श्यामलवर्णा विभाति गुरुमूर्तिः .. ५७..
प्रवहत्करुणापाङ्गं प्रत्यग्राम्भोदमेचकश्यामम् .
विश्वाधिकान्तरङ्गं वकुलवने भाति पालितपाङ्गम् .. ५८..
शिखिपिञ्छं तापिञ्छं सभयं धम्मिल्लशोभया स्वभया .
आदधती दधतीन्दुं माङ्कणरोधोऽङ्कणे जयत्यम्बा .. ५९..
वामकुचचुम्बिवीणामर्धोन्मीलन्मनोज्ञट्टक्कोणाम् .
विश्वावनप्रवीणां वकुलाटव्यां नमामि रममाणाम् .. ६०..
अंसानुषङ्गिचूली संसारापारवारिधेराली .
शं सा ददातु काली कंसारीड्या सदात्तवकुलाली .. ६१..
वीणावादिनि शर्मास्वादिनि कर्माद्रिभेदिनि स्यान्मे .
विश्वाकारिणि चन्द्रालंकारिणि बोधकारिणि प्रेम .. ६२..
अरुणांशुकामुपासे निगमं शुकरूपिणं दधतीम् .
ददतीमाशुकवित्वं स्वांशुकदर्थीकृतातसीं जननीम् .. ६३..
सज्जनकृतवरिवस्यं सारसपरिहाससादरनिजास्यम् .
गान्धर्वस्य रहस्यं किंचन कुर्यान्मदाशास्यम् .. ६४..
दूर्वाश्यामलकाये दुर्वासोमुख्यमौनिगणसेव्ये .
अर्वास्यवर्णितगुणे कुर्वाशापूर्तिमद्य बृहदम्ब .. ६५..
लीलालोला वकुलाटव्यामव्याच्छुकाभिरामकरा .
वीणाक्काणाभिरता माता भूताधिपस्य दयिता नः .. ६६..
दुरितेभ्यो न कृतेभ्यो नापि कृतान्ताद् बिभेमि दुर्दान्तात् .
दृष्टा दयासमष्टिर्वकुलवने श्यामलाकृतिर्येन .. ६७..
धन्योऽहं धन्योऽहं वंशद्वितयी मदीक्षिता धन्या .
परिपणमाम्नायानां श्यामलमालोकि वकुलमूले यत् .. ६८..
वित्तादिभिर्नराणां मत्तानां दुर्लभा विना भक्तिम् .
तत्तादृशानुभावा सत्ता काचिद् विभाति गोकर्णे .. ६९..
परिहृतसर्वविकल्पा परिधृतशीतांशुकोरकाकल्पा .
बालदिवाकरकल्पा बृहदम्बा पातु सत्यसंकल्पा .. ७०..
चम्पकनीपरसालाः सन्त्येवान्ये रसास्थले सालाः .
वकुले तु मेऽस्ति भक्तिर्यस्मिन् दृष्टे स्मृता भवत्यम्बा .. ७१..
भ्रमरीविभ्रमकबरीं भ्रूभ्रमणेनैव पञ्चकृत्यकरीम् .
संवित्सुखामृतझरीं संसेवेऽम्बां भवाम्बुराशितरीम् .. ७२..
कुमुदेशपाकचूडं कलितसुरोद्यानमालिकापीडम् .
अञ्चितवकुलाक्रीडं किंचिदुपासे दयानिवहनीडम् .. ७३..
सरले सरले विरले तरले हृन्नेत्रकुचसीम्नि .
वस्तुनि मेऽस्तु निवास्तुनि करुणायाश्चित्तवृत्तिरपतन्द्रा .. ७४..
कं गणयेऽन्यमुपास्यं मङ्कणकासारतीरकौतुकिनः .
अङ्गणवाकुलसुमनोरिङ्खणसौरभ्यनिर्भराद्धाम्नः .. ७५..
वेशन्ततुल्यनाभी वासन्तस्फारपुष्पशुभवेणी .
सीमन्तभासिवुसृणा सा हन्त प्रेक्षिताद्य बृहदम्बा .. ७६..
श्रुतिलासिकालिरङ्गायितस्वमहिमाक्षिनिर्जितकुरङ्गा .
प्रोद्यत्कृपातरङ्गा पायादम्बा मृगेश्वरतुरङ्गा .. ७७..
निबिडघनस्तनकुम्भा निजवेणीन्यस्तशीतकरडिम्भा .
निवसितवरकौसुम्भा निवसतु चित्ते जगद्धितारम्भा .. ७८..
गम्भीरनाभिकुहरां कुम्भीन्द्रस्पर्धिमुग्धसंचाराम् .
तां भीमस्य न भामां कुम्भीपाकेच्छवो भजन्त्यज्ञाः .. ७९..
वाह्यापि नो पुराण्या तत्त्वविपण्या यदुच्चतागण्या .
सा वर्ण्यास्तु शरण्या कस्य धरण्यामुमाखिलवरेण्या .. ८०..
गोकर्णेशयसेव्यां गोकर्णेशप्रियां प्रणमन् .
गोकर्णे वस तूष्णीं गोकर्णे भ्रामकांस्तु जप मन्त्रान् .. ८१..
क्षुद्रार्थदानशीला न द्रागाराधिताः प्रसीदन्ति .
निद्रालसास्त्वदन्ये तद्राज्ञि त्वां भजे वकुलवन्याः .. ८२..
आगमकोटिनिरुक्तामाब्रह्मस्तम्बरक्षणासक्ताम् .
आर्यामनादिमुक्तामालोके केसराटवीसक्ताम् .. ८३..
सेवे किंचन दिव्यं भावे तेजः समस्तसंसेव्यम् .
धीवेदिमेत्य हृद्यं संवेद्याख्यं दहेन्ममाभव्यम् .. ८४..
वाणी चाम्बुधिकन्या सा वृणुते तं बलादिवानन्या .
किंचित् त्वया जनन्या कटाक्षितो यः कियत्यथ स्त्र्यन्या .. ८५..
शक्तः कोऽपि यदीयां लङ्घितुमाज्ञां न लोकेषु .
यस्याज्ञां बृहदम्बा साध्यास्ते कस्ततो ह्यधिकः .. ८६..
अष्टापदादि सर्वं लोष्टाभिन्नं सदाभिपश्यन्तः .
अष्टात्मनः प्रणयिनीं शिष्टाः पश्यन्त्यनन्यतया .. ८७..
दाहं भवानलोत्थं व्याहन्तुं वाकुलाटवीं देवीम् .
सोऽहं भजामि भक्त्या याहंतारूपिनीति गुरुणोक्ता .. ८८..
कुलदैवतं मदीयं कुलकुण्डाभ्यन्तरैकवास्तव्यम् .
कुलपर्वतेशभाग्यं कुलायमीक्षेऽनुपाधिकरुणायाः .. ८९..
अग्नाविष्णुमुखेड्या भग्नाशेषार्तिरात्मभक्तानाम् .
भुग्नालका मदीये लग्ना चित्ते चकास्तु बृहदम्बा .. ९०..
अव्याजभूतकरुणा भव्यापाङ्गप्रकल्पितत्राणा .
अव्याद्विलिप्तघुसृणा स्तव्या श्रुत्या सदाप्तगोकर्णा .. ९१..
अम्भोजतुल्यनयनामङ्कालंकारिणीं त्रिनेत्रस्य .
अङ्गीकृतादिमरसाम्बां गोकर्णनायिकां सेवे .. ९२..
भार्यामनादियूनोऽहार्याधीशान्ववायमणिभूषाम् .
आर्यामुपाध्वमनिशं कार्याकार्यावमर्शनिष्णाताः .. ९३..
वरदे सुरदेशिकवाङ्निकरासुकरानुवर्णने धाम्नि .
करवै मुरवैरिमुखैः शिरसा सुरसार्थकैर्नते चेतः .. ९४..
मङ्कणकासारझरीसमीरधारामनोहरोदारे .
मिलदलिलोलन्मुकुले वकुलवने लालसीति सकलेशी .. ९५..
पश्यल्ललाटदारान् परिपूर्णानन्दसंविदाकारान् .
कठिनघनस्तनभारान् कलये गोकर्णपावनागारान् .. ९६..
गोकर्णेशमहिष्या व्याकर्तुं को गुणान् भवेदीशः .
स्वीकर्तुं हृदि वा तान् श्रीकर्कास्यं तमेकमपहाय .. ९७..
तुष्टा श्रीबृहदम्बा कष्टानुन्मूलयेत् कृपादृष्ट्या .
इष्टानि च प्रदद्यान्मृष्टां प्रतिभां परत्र च श्रेयः .. ९८..
वन्दे विश्वविधात्रीं वन्दे विद्याचिमुक्तिफलदात्रीम् .
वन्दे वकुलवनेशीं वन्दे गोकर्णवल्लभसुकेशीम् .. ९९..
जयति स्फारदयार्द्रा गोकर्णाधीशवल्लभा जयति .
जयति प्रसादसुमुखी श्रीरघुनाथेन्द्रपूजिता जयति .. १००..
आख्यां सकृद् यदीयामाख्यायाशेषवाञ्छितं लभते .
तस्याः स्तुतिप्रियायाः यः स्यात् स्तोत्रं पठन् स पूर्णार्थः .. १०१..
.. इति श्रीबृहदम्बाशतकं संपूर्णम्..
Encoded and proofread by Sridhar Seshagiri seshagir@egr.msu.edu
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com