.. बृहदारण्यकोपनिषत् ..
.. बृहदारण्यकोपनिषत् ..
काण्व पाठः .
Aमधु काण्ड [उपदेश काण्ड]
अध्याय Iब्राह्मण i-viमन्त्राः ८० 1-...
अध्याय IIब्राह्मण i-viमन्त्राः ६६ 1-...
Bमुनि [yaaj~navalkya]काण्ड [उपपत्ति काण्ड]
अध्याय IIIब्राह्मण i-ixमन्त्राः ९२ 1-...
अध्याय IVब्राह्मण i-viमन्त्राः ९२ 1-...
Cखिल काण्ड[उपासना काण्ड]
अध्याय Vब्राह्मण i-xvमन्त्राः ३३ 1-...
अध्याय VIब्राह्मण i-vमन्त्राः ७५ 1-...
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमदुच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
ॐ शान्तिः शान्तिः शान्तिः ..
अथ प्रथमोऽध्यायः .
प्रथमं ब्राह्मणम् .
मन्त्र १ [I.i.1]
उषा वा अश्वस्य मेध्यस्य शिरः .
SFउषास् वै अश्वस्य मेध्यस्य शिरस्
सूर्यश्चक्षुर्
SFसूर्यस् चक्षुस्
वातः प्राणो
SFवातस् प्राणस्
व्यात्तमग्निर्वैश्वानरः
SFव्यात्तम् अग्निस् वैश्वानरस्
संवत्सर आत्माऽश्वस्य मेध्यस्य . द्यौः पृष्ठम्
SFसंवत्सरस् आत्मा अश्वस्य मेध्यस्य द्यौस् पृष्ठम्
अन्तरिक्षमुदरम्
SFअन्तरिक्षम् उदरम्
पृथिवी पाजस्यम्
SFपृथिवी पाजस्यम्
दिशः पार्श्वे
SFदिशस् पार्श्वे
अवान्तरदिशः पर्शव
SFअवान्तरदिशस् पर्शवस्
ऋतवोऽङ्गानि
SFऋतवस् अङ्गानि
मासाश्चार्धमासाश्च पर्वाण्य्
SFमासास् च अर्धमासास् च पर्वाणि
अहोरात्राणि प्रतिष्ठा
SFअहोरात्राणि प्रतिष्ठा
नक्षत्राण्यस्थीनि
SFनक्षत्राणि अस्थीनि
नभो माँसान्य्
SFनभस् माँसानि
ऊवध्यँ सिकताः
SFऊवध्यम् सिकतास्
सिन्धवो गुदा
SFसिन्धवस् गुदास्
यकृच्च क्लोमानश्च पर्वता
SFयकृत् च क्लोमानस् च पर्वतास्
ओषधयश्च वनस्पतयश्च लोमान्य्
SFओषधयस् च वनस्पतयस् च लोमानि
उद्यन्पूर्वार्धो
SFउद्यन् पूर्वार्धस्
निम्लोचञ्जघनार्धो
SFनिम्लोचन् जघनार्धस्
यद्विजृम्भते
SFयद् विजृम्भते
तद्विद्योतते
SFतद् विद्योतते
यद्विधूनुते
SFयद् विधूनुते
तत्स्तनयति
SFतद् स्तनयति
यन्मेहति
SFयद् मेहति
तद्वर्षति
SFतद् वर्षति
वागेवास्य वाक् || १ ||
SFवाक् एव अस्य वाक्
मन्त्र २ [I.i.2]
अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत
SFअहर्वै अश्वम् पुरस्ताद् महिमा अन्वजायत
तस्य पूर्वे समुद्रे योनी
SFतस्य पूर्वे समुद्रे योनिस्
रात्रिरेनं पश्चान्महिमाऽन्वजायत
SFरात्रिस् एनम् पश्चाद् महिमा अन्वजायत
तस्यापरे समुद्रे योनिर्
SFतस्य अपरे समुद्रे योनिस्
एतौ वा अश्वं महिमानावभितः सम्बभूवतुर्
SFएतौ वै अश्वम् महिमानौ अभितस् सम्बभूवतुः
हयो भूत्वा देवानवहद्
SFहयस् भूत्वा देवान् अवहत्
वाजी गन्धर्वान्
SFवाजी गन्धर्वान्
अर्वाऽसुरान्
SFअर्वा असुरान्
अश्वो मनुष्यान्
SFअश्वस् मनुष्यान्
समुद्र एवास्य बन्धुः
SFसमुद्रस् एव अस्य बन्धुस्
समुद्रो योनिः || २ || इति प्रथमं ब्राहमणम् ..
SFसमुद्रस् योनिस्
द्वितीयं ब्राह्मणम् .
मन्त्र १ [I.ii.1]
नैवेह किंचनाग्र आसीन्
SFन एव इह किम् चन अग्रे आसीत्
मृत्युनैवेदमावृतमासीदशनाययाऽशनाया हि मृत्युस्
SFमृत्युना एव इदम् आवृतम् आसीत् अशनायया अशनाया
हि मृत्युः
तन्मनोऽकुरुताऽऽत्मन्वी स्यामिति |
SFतद् मनस् अकुरुत आत्मन्वी स्याम् इति
सोऽर्चन्नचरत्
SFसस् अर्चन् अचरत्
तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति |
SFतस्य अर्चतस् आपस् अजायन्त अर्चते वै मे कम्
अभूत् इति
तदेवार्क्यस्यार्कत्वं |
SFतद् एव अर्क्यस्य अर्कत्वम्
कँ ह वा अस्मै भवति
SFकम् ह वै अस्मै भवति
य एवमेतदर्कस्यार्कत्वं वेद || १ ||
SFयस् एवम् एतद् अर्क्यस्य अर्कत्वम् वेद
मन्त्र २ [I.ii.2]
आपो वा अर्क
SFअपस् वै अर्कः
तद्यदपाँ शर आसीत्
SFतद् यद् अपाम् शरस् आसीत्
तत्समहन्यत |
SFतद् समहन्यत
सा पृथिव्यभवत्
SFसा पृथिवी अभवत्
तस्यामश्राम्यत्
SFतस्याम् अश्राम्यत्
तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः || २ ||
SFतस्य श्रान्तस्य तप्तस्य तेजस् रसस् निरवर्तत अग्निस्
मन्त्र ३ [I.ii.3]
स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीयम्
SFस त्रेधा आत्मानम् व्यकुरुत आदित्यम् तृतीयम्
वायुं तृतीयँ |
SFवायुम् तृतीयम्
स एष प्राणस्त्रेधा विहितस्
SFस एष प्राणस् त्रेधाविहितः
तस्य प्राची दिक्षिरोऽसौ चासौ चेर्माव
SFतस्य प्राची दिक् शिरस् असौ च असौ च ईर्मौ
अथास्य प्रतीची दिक्पुच्छम्
SFअथ अस्य प्रतीची दिक् पुच्छम्
असौ चासौ च सक्थ्यौ
SFअसौ च असौ च सक्थ्यौ
दक्षिणा चोदीची च पार्श्वे
SFदक्षिणा च उदीची च पार्श्वे
द्यौः पृष्ठम्
SFद्यौस् पृष्ठम्
अन्तरिक्षमुदरम्
SFअन्तरिक्षम् उदरम्
इयमुरः
SFइयम् उरस्
स एषोऽप्सु प्रतिष्ठितो
SFस एषस् अप्सु प्रतिष्ठितस्
यत्र क्व चैति
SFयत्र क्व च एति
तदेव प्रतितिष्ठत्येवं विद्वान् || ३ ||
SFतद् एव प्रतितिष्ठति एवम् विद्वान्
मन्त्र ४ [I.ii.4]
सोऽकामयत
SFसस् अकामयत
द्वितीयो म आत्मा जायेतेति |
SFद्वितीयस् मे आत्मा जायेत इति
स मनसा वाचं मिथुनँ समभवदशनाया मृत्युस्
SFस मनसा वाचम् मिथुनम् समभवत् अशनायाम्
मृत्युः
तद्यद्रेत आसीत्
SFतद् यद् रेतस् आसीत्
स संवत्सरोऽभवन्
SFस संवत्सरस् अभवत्
न ह पुरा ततः संवत्सर आस |
SFन ह पुरा ततस् संवत्सरस् आस
तमेतावन्तं कालमबिभर्यावान्संवत्सरस्
SFतम् एतावन्तम् कालम् अबिभर्यावान् संवत्सरः
तमेतावतः कालस्य परस्तादसृजत |
SFतम् एतावतस् कालस्य परस्ताद् असृजत
तं जातमभिव्याददात्
SFतम् जातम् अभिव्याददात्
स भाणकरोत्
SFस भाण् अकरोत्
सैव वागभवत् || ४ ||
SFसा एव वाग् अभवत्
मन्त्र ५ [I.ii.5]
स ऐक्षत
SFसस् ऐक्षत
यदि वा इममभिमँस्ये
SFयदि वै इमम् अभिमँस्ये
कनीयोऽन्नं करिष्य इति |
SFकनीयस् अन्नम् करिष्ये इति
स तया वाचा तेनाऽऽत्मनेदँ सर्वमसृजत
SFस तया वाचा तेन आत्मना इदम् सर्वम् असृजत
यदिदं किञ्चर्चो यजूँषि सामानि छन्दाँसि यज्ञान्
प्रजाः पशून्
SFयद् इदम् किञ्च ऋचस् यजूँषि सामानि
छन्दाँसि यज्ञान् प्रजाम् पशून्
स यद्यदेवासृजत
SFस यत् यत् एव असृजत
तत्तदत्तुमध्रियत |
SFतत् तत् अत्तुम् अध्रियत
सर्वं वा अत्तीति
SFसर्वम् वै अत्ति इति
तददितेरदितित्वँ |
SFतद् अदितेस् अदितित्वम्
सर्वस्यैतस्यात्ता भवति
SFसर्वस्य अत्ता भवति
सर्वमस्यान्नं भवति
SFसर्वम् अस्य अन्नम् भवति
य एवमेतददितेरदितित्वं वेद || ५ ||
SFयस् एवम् एतद् अदितेस् अदितित्वम् वेद
मन्त्र ६ [I.ii.6]
सोऽकामयत
SFसस् अकामयत
भूयसा यज्ञेन भूयो यजेयेति |
SFभूयसा यज्ञेन भूयस् यजेय इति
सोऽश्राम्यत्
SFसस् अश्राम्यत्
स तपोऽतप्यत |
SFस तपस् अतप्यत
तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत्
SFतस्य श्रान्तस्य तप्तस्य यशस् वीर्यम् उदक्रामत्
प्राणा वै यशो वीर्यम् |
SFप्राणास् वै यशस् वीर्यम्
तत् प्राणेषूत्क्रान्तेषु शरीरँ श्वयितुमध्रियत
SFतद् प्राणेषु उत्क्रान्तेषु शरीरम् श्वयितुम् अध्रियत
तस्य शरीर एव मन आसीत् || ६ ||
SFतस्य शरीरे एव मनस् आसीत्
मन्त्र ७ [I.ii.7]
सोऽकामयत
SFसस् अकामयत
मेध्यं म इदँ स्याद्
SFमेध्यम् मे इदम् स्यात्
आत्मन्व्यनेन स्यामिति |
SFआत्मन्वी अनेन स्याम् इति
ततोऽश्वः समभवद्
SFततस् अश्वस् समभवत्
यदश्वत्
SFयद् अश्वत्
तन्मेध्यमभूदिति |
SFतद् मेध्यम् अभूत् इति
तदेवाश्वमेधस्याश्वमेधत्वम्
SFतद् एव अश्वमेधस्य अश्वमेधत्वम्
एष ह वा अश्वमेधं वेद
SFएष ह वै अश्वमेधम् वेद
य एनमेवं वेद |
SFयस् एनम् एवम् वेद
तमनवरुध्यैवामन्यत |
SFतम् अनवरुध्य इव अमन्यत
तँ संवत्सरस्य परस्तादात्मन आलभत |
SFतम् संवत्सरस्य परस्ताद् आत्मने आलभत
पशून्देवताभ्यः प्रत्यौहत्
SFपशून् देवताभ्यस् प्रत्यौहत्
तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त
SFतस्माद् सर्वदेवत्यम् प्रोक्षितम् प्राजापत्यम् आलभन्ते
एष ह वा अश्वमेधो य एष तपति
SFएष वै अश्वमेधस् यस् एष तपति
तस्य संवत्सर आत्माऽयमग्निरर्कस्
SFतस्य संवत्सरस् आत्मा अयम् अग्निस् अर्कः
तस्येमे लोका आत्मानस्
SFतस्य इमे लोकास् आत्मानः
तावेतावर्काश्वमेधौ |
SFतौ एतौ अर्काश्वमेधौ
सो पुनरेकैव देवता भवति
SFस पुनरेका एव देवता भवति
मृत्युरेवाप पुनर्मृत्युं जयति
SFमृत्युस् एव अप पुनर्मृत्युम् जयति
नैनं मृत्युराप्नोति
SFन एनम् मृत्युस् आप्नोति
मृत्युरस्याऽऽत्मा भवत्य्
SFमृत्युस् अस्य आत्मा भवति
एतासां देवतानामेको भवति || ७ || इति द्वितीयं ब्राह्मणम् ..
SFएतासाम् देवतानाम् एकस् भवति
तृतीयं ब्राह्मणम् .
मन्त्र १ [I.iii.1]
द्वया ह प्राजापत्या
SFद्वयास् ह प्राजापत्यास्
देवाश्चासुराश्च |
SFदेवास् च असुरास् च
ततः कानीयसा एव देवा
SFततस् कानीयसास् एव देवास्
ज्यायसा असुरास्
SFज्यायसास् असुराः
त एषु लोकेष्वस्पर्धन्त |
SFते एषु लोकेषु अस्पर्धन्त
ते ह देवा ऊचुर्
SFते ह देवास् ऊचुः
हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति || १ ||
SFहन्त असुरान् यज्ञे उद्गीथेन अत्ययाम इति
मन्त्र २ [I.iii.1]
ते ह वाचमूचुस्
SFते ह वाचम् ऊचुर्
त्वं न उद्गायेति |
SFत्वम् नस् उद्गाय इति
तथेति |
SFतथा इति
तेभ्यो वागुदगायद्
SFतेभ्यस् वाक् उदगायत्
यो वाचि भोगस्तं देवेभ्य आगायद्
SFयस् वाचि भोगस् तम् देवेभ्यस् आगायत्
यत्कल्याणं वदति तदात्मने |
SFयद् कल्याणम् वदति तद् आत्मने
ते विदुर्
SFते अविदुः
अनेन वै न उद्गात्राऽत्येष्यन्तीति |
SFअनेन वै नस् उद्गात्रा अत्येष्यन्ति इति
तमभिद्रुत्य पाप्मनाऽविध्यन्
SFतम् अभिद्रुत्य पाप्मना अविध्यन्
स यः स पाप्मा यदेवेदमप्रतिरूपं वदति
SFस यस् स पाप्मा यद् एव इदम् अप्रतिरूपम् वदति
स एव स पाप्मा || २ ||
SFसस् एव स पाप्मा
मन्त्र ३ [I.iii.3]
अथ ह प्राणमूचुस्
SFअथ ह प्राणम् ऊचुर्
त्वं न उद्गायेति |
SFत्वम् नस् उद्गाय इति
तथेति |
SFतथा इति
तेभ्यः प्राण उदगायद्
SFतेभ्यस् प्राणस् उदगायत्
यः प्राणे भोगस्तं देवेभ्य आगायद्
SFयस् प्राणे भोगस् तम् देवेभ्यस् आगायत्
यत्कल्याणं जिघ्रति तदात्मने |
SFयद् कल्याणम् जिघ्रति तद् आत्मने
ते विदुर्
SFते अविदुः
अनेन वै न उद्गात्राऽत्येष्यन्तीति |
SFअनेन वै नस् उद्गात्रा अत्येष्यन्ति इति
तमभिद्रुत्य पाप्मनाऽविध्यन्
SFतम् अभिद्रुत्य पाप्मना अविध्यन्
स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति
SFस यस् स पाप्मा यद् एव इदम् अप्रतिरूपम् जिघ्रति
स एव स पाप्मा || ३ ||
SFसस् एव स पाप्मा
मन्त्र ४ [I.iii.4]
अथ ह चक्षुरूचुस्
SFअथ ह चक्षुस् ऊचुर्
त्वं न उद्गायेति |
SFत्वम् नस् उद्गाय इति
तथेति |
SFतथा इति
तेभ्यश्चक्षुरुदगायद्
SFतेभ्यस् चक्षुस् उदगायत्
यश्चक्षुषि भोगस्तं देवेभ्य आगायद्
SFयस् चक्षुषि भोगस् तम् देवेभ्यस् आगायत्
यत्कल्याणं पश्यति तदात्मने |
SFयद् कल्याणम् पश्यति तद् आत्मने
ते विदुर्
SFते अविदुः
अनेन वै न उद्गात्राऽत्येष्यन्तीति |
SFअनेन वै नस् उद्गात्रा अत्येष्यन्ति इति
तमभिद्रुत्य पाप्मनाऽविध्यन्
SFतम् अभिद्रुत्य पाप्मना अविध्यन्
स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति
SFस यस् स पाप्मा यद् एव इदम् अप्रतिरूपम् पश्यति
स एव स पाप्मा || ४ ||
SFसस् एव स पाप्मा
मन्त्र ५ [I.iii.5]
अथ ह श्रोत्रमूचुस्
SFअथ ह श्रोत्रम् ऊचुर्
त्वं न उद्गायेति |
SFत्वम् नस् उद्गाय इति
तथेति |
SFतथा इति
तेभ्यः श्रोत्रमुदगायद्
SFतेभ्यस् श्रोत्रम् उदगायत्
यः श्रोत्रे भोगस्तं देवेभ्य आगायद्
SFयस् श्रोत्रे भोगस् तम् देवेभ्यस् आगायत्
यत्कल्याणँ शृणोति तदात्मने |
SFयद् कल्याणम् शृणोति तद् आत्मने
ते विदुर्
SFते अविदुः
अनेन वै न उद्गात्राऽत्येष्यन्तीति |
SFअनेन वै नस् उद्गात्रा अत्येष्यन्ति इति
तमभिद्रुत्य पाप्मनाऽविध्यन्
SFतम् अभिद्रुत्य पाप्मना अविध्यन्
स यः स पाप्मा यदेवेदमप्रतिरूपँ शृणोति
SFस यस् स पाप्मा यद् एव इदम् अप्रतिरूपम् शृणोति
स एव स पाप्मा || ५ ||
SFस एव स पाप्मा
मन्त्र ६ [I.iii.6]
अथ ह मन ऊचुस्
SFअथ ह मनस् ऊचुर्
त्वं न उद्गायेति |
SFत्वम् नस् उद्गाय इति
तथेति |
SFतथा इति
तेभ्यो मन उदगायद्
SFतेभ्यस् मनस् उदगायत्
यो मनसि भोगस्तं देवेभ्य आगायद्
SFयस् मनसि भोगस् तम् देवेभ्यस् आगायत्
यत्कल्याणँ सङ्कल्पयति तदात्मने |
SFयद् कल्याणम् सङ्कल्पयति तद् आत्मने
ते विदुर्
SFते अविदुः
अनेन वै न उद्गात्राऽत्येष्यन्तीति |
SFअनेन वै नस् उद्गात्रा अत्येष्यन्ति इति
तमभिद्रुत्य पाप्मनाऽविध्यन्
SFतम् अभिद्रुत्य पाप्मना अविध्यन्
स यः स पाप्मा यदेवेदमप्रतिरूपँ सङ्कल्पयति
SFस यस् स पाप्मा यद् एव इदम् अप्रतिरूपम् सङ्कल्पयति
स एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन्
SFसस् एव स पाप्मा एवम् उ खलु एतास् देवतास्
पाप्मभिस् उपासृजन्
एवमेनाः पाप्मनाऽविध्यन् || ६ ||
SFएवम् एनास् पाप्मना अविध्यन्
मन्त्र ७ [I.iii.7]
अथ हेममासन्यं प्राणमूचुस्
SFअथ ह इमम् आसन्यम् प्राणम् ऊचुर्
त्वं न उद्गायेति |
SFत्वम् नस् उद्गाय इति
तथेति |
SFतथा इति
तेभ्य एष प्राण उदगायत्
SFतेभ्यस् एष प्राणस् उदगायत्
ते विदुर्
SFते अविदुः
अनेन वै न उद्गात्राऽत्येष्यन्तीति |
SFअनेन वै नस् उद्गात्रा अत्येष्यन्ति इति
तमभिद्रुत्य पाप्मनाविध्यन् |
SFतम् अभिद्रुत्य पाप्मना अविव्यत्सन्
स यथाश्मानमृत्वा लोष्टो विध्वँसेतैवँ हैव
विध्वँसमाना विष्वञ्चो विनेशुस्
SFस यथा अश्मानम् ऋत्वा लोष्टस् विध्वँसेत एवम्
ह एव विध्वँसमाना विष्वञ्चो विनेशुः
ततो देवा अभवन्
SFततस् देवास् अभवन्
पराऽसुराः |
SFपर असुरास्
भवत्यात्मना
SFभवति आत्मना
पराऽस्य द्विषन्भ्रातृव्यो भवति
SFपर अस्य द्विषन् भ्रातृव्यस् भवति
य एवं वेद || ७ ||
SFय एवम् वेद
मन्त्र ८ [I.iii.8]
ते होचुः
SFते ह ऊचुर्
क्व नु सोऽभूद्
SFक्व नु सस् अभूत्
यो न इत्थमसक्तेत्य्
SFयस् नस् इत्थम् असक्त इति
अयमास्येऽन्तरिति
SFअयम् आस्ये अन्तरिति
सोऽयास्य
SFसस् अयास्यस्
आङ्गिरसो
SFअङ्गिरसस्
ऽङ्गानाँ हि रसः || ८ ||
SFअङ्गानाम् हि रसस्
मन्त्र ९ [I.iii.9]
सा वा एषा देवता दूर्नाम
SFसा वै एषा देवता दूर्नाम
दूरँ ह्यस्या मृत्युर्
SFदूरम् हि अस्यास् मृत्युस्
दूरँ ह वा अस्मान्मृत्युर्भवति
SFदूरम् ह वै अस्माद् मृत्युस् भवति
य एवं वेद || ९ ||
SFयस् एवम् वेद
मन्त्र १० [I.iii.10]
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य
SFसा वै एषा देवता एतासाम् देवतानाम् पाप्मानम्
मृत्युम् अपहत्य
यत्राऽऽसां दिशामन्तस्
SFयत्र आसाम् दिशाम् अन्तः
तद्गमयां चकार
SFतद् गमयाम् चकार
तदासां पाप्मनो विन्यदधात्
SFतद् आसाम् पाप्मनस् विन्यदधात्
तस्मान्न जनमियान्
SFतस्माद् न जनम् इयात्
नान्तमियान्
SFन अन्तम् इयात्
नेत्पाप्मानं मृत्युमन्ववायानीति || १० ||
SFनेद् पाप्मानम् मृत्युम् अन्ववायानि इति
मन्त्र ११ [I.iii.11]
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना
मृत्युमत्यवहत् || ११ ||
SFसा वै एषा देवता एतासाम् देवतानाम् पाप्मानम्
मृत्युम् अपहत्य अथ एनास् मृत्युम् अत्यवहत्
मन्त्र १२ [I.iii.12]
स वै वाचमेव प्रथमामत्यवहत्
SFसा वै वाचम् एव प्रथमाम् अत्यवहत्
सा यदा मृत्युमत्यमुच्यत
SFसा यदा मृत्युम् अत्यमुच्यत
सोऽग्निरभवत्
SFसस् अग्निस् अभवत्
सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते || १२ ||
SFसस् अयम् अग्निस् परेण मृत्युम् अतिक्रान्तस् दीप्यते
मन्त्र १३ [I.iii.13]
अथ प्राणमत्यवहत्
SFअथ प्राणम् अत्यवहत्
स यदा मृत्युमत्यमुच्यत
SFस यदा मृत्युम् अत्यमुच्यत
स वायुरभवत्
SFस वायुस् अभवत्
सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते || १३ ||
SFसस् अयम् वायुस् परेण मृत्युम् अतिक्रान्तस् पवते
मन्त्र १४ [I.iii.14]
अथ चक्षुरत्यवहत्
SFअथ चक्षुस् अत्यवहत्
तद्यदा मृत्युमत्यमुच्यत
SFतद् यदा मृत्युम् अत्यमुच्यत
स आदित्योऽभवत्
SFस आदित्यस् अभवत्
सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति || १४ ||
SFसस् असौ आदित्यस् परेण मृत्युम् अतिक्रान्तस् तपति
मन्त्र १५ [I.iii.15]
अथ श्रोत्रमत्यवहत्
SFअथ श्रोत्रम् अत्यवहत्
तद्यदा मृत्युमत्यमुच्यत
SFतद् यदा मृत्युम् अत्यमुच्यत
ता दिशोऽभवँस्
SFतास् दिशस् अभवन्
ता इमा दिशः परेण मृत्युमतिक्रान्ताः || १५ ||
SFतास् इमास् दिशस् परेण मृत्युम् अतिक्रान्तास्
मन्त्र १६ [I.iii.16]
अथ मनोऽत्यवहत्
SFअथ मनस् अत्यवहत्
तद्यदा मृत्युमत्यमुच्यत
SFतद् यदा मृत्युम् अत्यमुच्यत
स चन्द्रमा अभवत्
SFस चन्द्रमास् अभवत्
सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्य्
SFसस् असौ चन्द्रस् परेण मृत्युम् अतिक्रान्तस् भाति
एवँ ह वा एनमेषा देवता मृत्युमतिवहति
SFएवम् ह वै एनम् एषा देवता मृत्युम् अतिवहति
य एवं वेद || १६ ||
SFयस् एवम् वेद
मन्त्र १७ [I.iii.17]
अथाऽऽत्मनेऽन्नाद्यमागायद्
SFअथ आत्मने अन्नाद्यम् आगायत्
यद्धि किञ्चान्नमद्यते
SFयद् धि किञ्च अन्नम् अद्यते
ऽनेनैव तदद्यत
SFअनेन एव तद् अद्यते
इह प्रतितिष्ठति || १७ ||
SFइह प्रतितिष्ठति
मन्त्र १८ [I.iii.18]
ते देवा अब्रुवन्न्
SFते देवास् अब्रुवन्
एतावद्वा इदँ सर्वं यदन्नम्
SFएतावत् वै इदम् सर्वम् यद् अन्नम्
तदात्मन आगासीर्
SFतद् आत्मने आगासीस्
अनु नोऽस्मिन्नन्न आभजस्वेति |
SFअनु नस् अस्मिन् अन्ने आभजस्व इति
ते वै माऽभिसंविशतेति |
SFते वै मा अभिसंविशत इति
तथेति |
SFतथा इति
तँ समन्तं परिण्यविशन्त |
SFतम् समन्तम् परिण्यविशन्त
तस्माद्यदनेनान्नमत्ति
SFतस्माद् यद् अनेन अन्नम् अत्ति
तेनैतास्तृप्यन्त्य्
SFतेन एतास् तृप्यन्ति
एवँ ह वा एनँ स्वा अभिसंविशन्ति
SFएवम् ह वै एनम् स्वास् अभिसंविशन्ति
भर्ता स्वानाँ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्
SFभर्ता स्वानाम् श्रेष्ठस् पुरएता भवति अन्नादस्
अधिपतिस्
य एवं वेद |
SFयस् एवम् वेद
य उ हैवंविदँ स्वेषु प्रतिप्रतिर्बुभूषति
SFयस् उ ह एवंविदम् स्वेषु प्रतिप्रतिस् बुभूषति
न हैवालं भार्येभ्यो भवत्य्
SFन ह एव अलम् भार्येभ्यस् भवति
अथ य एवैतमनुभवति
SFअथ यस् एव एतम् अनुभवति
यो वैतमनु भार्यान् बुभूर्षति
SFयस् वा एतम् अनु भार्यान्बुभूर्षति
स हैवालं भार्येभ्यो भवति || १८ ||
SFस ह एव अलम् भार्येभ्यस् भवति
मन्त्र १९ [I.iii.19]
सोऽयास्य आङ्गिरसो
SFसस् अयास्यस् आङ्गिरसस्
ऽङ्गानाँ हि रसः |
SFअङ्गानाम् हि रसस्
प्राणो वा अङ्गानाँ रसः |
SFप्राणस् वै अङ्गानाम् रसस्
प्राणो हि वा अङ्गानाँ रसस्
SFप्राणस् हि वै अङ्गानाम् रसः
तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति
SFतस्माद् यस्माद् कस्माच्च अङ्गाद् प्राणस् उत्क्रामति
तदेव तच्छुष्यत्य्
SFतद् एव तद् शुष्यति
एष हि वा अङ्गानाँ रसः || १९ ||
SFएष हि वै अङ्गानाम् रसस्
मन्त्र २० [I.iii.20]
एष उ एव बृहस्पतिर्
SFएषस् उ एव बृहस्पतिस्
वाग्वै बृहती
SFवाक् वै बृहती
तस्या एष पतिस्
SFतस्यास् एष पतिः
तस्मादु बृहस्पतिः || २० ||
SFतस्माद् उ बृहस्पतिस्
मन्त्र २१ [I.iii.21]
एष उ एव ब्रह्मणस्पतिर्
SFएषस् उ एव ब्रह्मणस्पतिस्
वाग्वै ब्रह्म
SFवाक् वै ब्रह्म
तस्या एष पतिस्
SFतस्यास् एष पतिः
तस्मादु ब्रह्मणस्पतिः || २१ ||
SFतस्माद् उ ब्रह्मणस्पतिस्
मन्त्र २२ [I.iii.22]
एष उ एव साम
SFएषस् उ एव साम
वाग्वै सामैष सा चामश्चेति
SFवाक् वै साम एष सा च अमस् च इति
तत्साम्नः सामत्वं |
SFतद् साम्नस् सामत्वम्
यद्वेव समः प्लुषिणा
SFयद् उ एव समस् प्लुषिणा
समो मशकेन
SFसमस् मशकेन
समो नागेन
SFसमस् नागेन
सम एभिस्त्रिभिर्लोकैः
SFसमस् एभिस् त्रिभिस् लोकैस्
समोऽनेन सर्वेण
SFसमस् अनेन सर्वेण
तस्माद्वेव सामाश्नुते साम्नः सायुज्यँ सलोकताम्
SFतस्माद् उ एव साम अश्नुते साम्नस् सायुज्यम् सलोकताम्
य एवमेतत्साम वेद || २२ ||
SFयस् एवम् एतद् साम वेद
मन्त्र २३ [I.iii.23]
एष उ वा उद्गीथः |
SFएषस् उ वै उद्गीथस्
प्राणो वा उत्
SFप्राणस् वै उद्
प्राणेन हीदँ सर्वमुत्तब्धं |
SFप्राणेन हि इदम् सर्वम् उत्तब्धम्
वागेव गीथोच्च गीथा चेति
SFवाक् एव गीथा उद् च गीथा च इति
स उद्गीथः || २३ ||
SFस उद्गीथस्
मन्त्र २४ [I.iii.24]
तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं
त्यस्य राजा मूर्धानं विपातयताद्
SFतद् ध अपि ब्रह्मदत्तस् चैकितानेयस् राजानम्
भक्षयन् उवाच अयम् त्यस्य राजा मूर्धानम्
विपातयतात्
यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति |
SFयद् इतस् अयास्यस् आङ्गिरसस् अन्येन उदगायत् इति
वाचा च ह्येव स प्राणेन चोदगायदिति || २४ ||
SFवाचा च हि एव स प्राणेन च उदगायत् इति
मन्त्र २५ [I.iii.25]
तस्य हैतस्य साम्नो यः स्वं वेद
SFतस्य ह एतस्य साम्नस् यस् स्वम् वेद
भवति हास्य स्वम् |
SFभवति ह अस्य स्वम्
तस्य वै स्वर एव स्वम् |
SFतस्य वै स्वरस् एव स्वम्
तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत
SFतस्माद् आर्त्विज्यम् करिष्यन् वाचि स्वरम् इच्छेत
तया वाचा स्वरसम्पन्नयाऽऽर्त्विज्यं कुर्यात्
SFतया वाचा स्वरसम्पन्नया आर्त्विज्यम् कुर्यात्
तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एवाथो यस्य स्वं भवति |
SFतस्माद् यज्ञे स्वरवन्तम् दिदृक्षन्ते एव अथ उ यस्य
स्वम् भवति
भवति हास्य स्वम्
SFभवति ह अस्य स्वम्
य एवमेतत्साम्नः स्वं वेद || २५ ||
SFयस् एवम् एतत् साम्नस् स्वम् वेद
मन्त्र २६ [I.iii.26]
तस्य हैतस्य साम्नो यः सुवर्णं वेद
SFतस्य ह एतस्य साम्नस् यस् सुवर्णम् वेद
भवति हास्य सुवर्णम् |
SFभवति ह अस्य सुवर्णम्
तस्य वै स्वर एव सुवर्णम् |
SFतस्य वै स्वरस् एव सुवर्णम्
भवति हास्य सुवर्णम्
SFभवति ह अस्य सुवर्णम्
य एवमेतत्साम्नः सुवर्णं वेद || २६ ||
SFयस् एवम् एतद् साम्नस् सुवर्णम् वेद
मन्त्र २७ [I.iii.27]
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद
SFतस्य ह एतस्य साम्नस् यस् प्रतिष्ठाम् वेद
प्रति ह तिष्ठति |
SFप्रति ह तिष्ठति
तस्य वै वागेव प्रतिष्ठा
SFतस्य वै वाक् एव प्रतिष्ठा
वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते
SFवाचि हि खलु एषस् एतद् प्राणस् प्रतिष्ठितस्
गीयते
ऽन्न इत्यु हैक आहुः || २७ ||
SFअन्ने इति उ ह एके आहुर्
मन्त्र २८ [I.iii.28]
अथातः पवमानानामेवाभ्यारोहः |
SFअथ अतस् पवमानानाम् एव अभ्यारोहस्
स वै खलु प्रस्तोता साम प्रस्तौति |
SFस वै खलु प्रस्तोता साम प्रस्तौति
स यत्र प्रस्तुयात्
SFस यत्र प्रस्तुयात्
तदेतानि जपेद्
SFतद् एतानि जपेत्
असतो मा सद् गमय
SFअसतस् मा सत् गमय
तमसो मा ज्योतिर्गमय
SFतमसस् मा ज्योतिस् गमय
मृत्योर्माऽमृतं गमयेति |
SFमृत्योस् मा अमृतम् गमय इति
स यदाहासतो मा सद्गमयेति
SFस यद् आह असतस् मा सत् गमय इति
मृत्युर्वा असत्
SFमृत्युस् वै असत्
सदमृतम्
SFसत् अमृतम्
मृत्योर्माऽमृतं गमयामृतं मा कुर्वित्येवैतदाह |
SFमृत्योस् मा अमृतम् गमय अमृतम् मा कुरु इति एव
एतद् आह
तमसो मा ज्योतिर्गमयेति
SFतमसस् मा ज्योतिस् गमय इति
मृत्युर्वै तमो
SFमृत्युस् वै तमस्
ज्योतिरमृतम्
SFज्योतिस् अमृतम्
मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह |
SFमृत्योस् मा अमृतम् गमय अमृतम् मा कुरु इति एव
एतद् आह
मृत्योर्मामृतं गमयेति
SFमृत्योस् मा अमृतम् गमय इति
नात्र तिरोहितमिवास्त्य्
SFन अत्र तिरोहितम् इव अस्ति
अथ यानीतराणि स्तोत्राणि
SFअथ यानि इतराणि स्तोत्राणि
तेष्वात्मनेऽन्नाद्यमागायेत्
SFतेषु आत्मने अन्नाद्यम् आगायेत्
तस्मादु तेषु वरं वृणीत
SFतस्माद् उ तेषु वरम् वृणीत
यं कामं कामयेत
SFयम् कामम् कामयेत
तँ |
SFतम्
स एष एवंविदुद्गाताऽऽत्मने वा यजमानाय वा यं कामं कामयते
SFसस् एषस् एवंविद् उद्गाता आत्मने वा यजमानाय वा
यम् कामम् कामयते
तमागायति |
SFतम् आगायति
तद्धैतल्लोकजिदेव
SFतद् ध एतद् लोकजित् एव
न हैवालोक्यताया आशास्ति
SFन ह एव अलोक्यतायास् आशा अस्ति
य एवमेतत्साम वेद || २८ || इति तृतीयं ब्राह्मणम् ..
SFयस् एवम् एतद् साम वेद
चतुर्थं ब्राह्मणम् .
मन्त्र १ [I.iv.1]
आत्मैवेदमग्र आसीत्पुरुषविधः |
SFआत्मा एव इदम् अग्रे आसीत् पुरुषविधस्
सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्
SFसस् अनुवीक्ष्य न अन्यद् आत्मनस् अपश्यत्
सोऽहमस्मीत्यग्रे व्याहरत्
SFसस् अहम् अस्मि इति अग्रे व्याहरत्
ततोऽहंनामाभवत् |
SFततस् अहंनाम अभवत्
तस्मादप्येतर्ह्यामन्त्रितो
SFतस्माद् अपि एतर्हि आमन्त्रितस्
ऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति |
SFअहम् अयम् इति एव अग्रे उक्त्वा अथ अन्यद् नाम प्रब्रूते
यद् अस्य भवति
स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत्
SFस यद् पूर्वस् अस्माद् सर्वस्माद् सर्वान् पाप्मनस्
औषत्
तस्मात्पुरुषः |
SFतस्माद् पुरुषस्
ओषति ह वै स तम्
SFओषति ह वै स तम्
योऽस्मात्पूर्वो बुभूषति
SFयस् अस्माद् पूर्वस् बुभूषति
य एवं वेद || १ ||
SFयस् एवम् वेद
मन्त्र २ [I.iv.2]
सोऽबिभेत्
SFसस् अबिभेत्
तस्मादेकाकी बिभेति |
SFतस्माद् एकाकी बिभेति
स हायमीक्षां चक्रे
SFस ह अयम् ईक्षाम् चक्रे
यन्मदन्यन्नास्ति
SFयद् मद् अन्यद् न अस्ति
कस्मान्नु बिभेमीति |
SFकस्माद् नु बिभेमि इति
तत एवास्य भयं वीयाय |
SFततस् एव अस्य भयम् वीयाय
कस्माद्ध्यभेष्यत्
SFकस्माद् धि अभेष्यत्
द्वितीयाद्वै भयं भवति || २ ||
SFद्वितीयाद् वै भयम् भवति
मन्त्र ३ [I.iv.3]
स वै नैव रेमे
SFस वै न एव रेमे
तस्मादेकाकी न रमते |
SFतस्माद् एकाकी न रमते
स द्वितीयमैच्छत्
SFस द्वितीयम् ऐच्छत्
स हैतावानास यथा स्त्रीपुमाँसौ सम्परिष्वक्तौ |
SFस ह एतावान् आस यथा स्त्रीपुमाँसौ सम्परिष्वक्तौ
स इममेवाऽऽत्मानं द्वेधाऽपातयत्|
SFस इमम् एव आत्मानम् द्वेधा अपातयत्
ततः पतिश्च पत्नी चाभवताम् |
SFततस् पतिस् च पत्नी च अभवताम्
तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह याज्ञवल्क्यस्
SFतस्माद् इदम् अर्धबृगलम् इव स्वस् इति ह स्म अह
याज्ञवल्क्यः
तस्मादयमाकाशः स्त्रिया पूर्यत एव |
SFतस्माद् अयम् आकाशस् स्त्रिया पूर्यते एव
ताँ समभवत्
SFताम् समभवत्
ततो मनुष्या अजायन्त || ३ ||
SFततस् मनुष्यास् अजायन्त
मन्त्र ४ [I.iv.4]
सो हेयमीक्षां चक्रे
SFसा उ ह इयम् ईक्षाम् चक्रे
कथं नु माऽऽत्मन एव जनयित्वा सम्भवति |
SFकथम् नु मा आत्मनस् एव जनयित्वा सम्भवति
हन्त तिरोऽसानीति |
SFहन्त तिरस् असानि इति
सा गौरभवद्
SFसा गौस् अभवत्
ऋषभ इतरस्
SFवृषभस् इतरः
ताँ समेवाभवत्
SFताम् सम् एव अभवत्
ततो गावोऽजायन्त |
SFततस् गावस् अजायन्त
वडवेतराऽभवद्
SFवडवा इतरा अभवत्
अश्ववृष इतरो
SFअश्ववृषस् इतरस्
गर्दभीतरा
SFगर्दभी इतरा
गर्दभ इतरस्
SFगर्दभस् इतरः
ताँ समेवाभवत्
SFताम् सम् एव अभवत्
तत एकशफमजायत
SFतत एकशफम् अजायत
अजेतराऽभवद्
SFअजा इतरा अभवत्
वस्त इतरो
SFबस्तस् इतरस्
ऽविरितरा
SFअविस् इतरा
मेष इतरस्
SFमेषस् इतरः
ताँ समेवाभवत्
SFताम् सम् एव अभवत्
ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्
SFततस् अजावयस् अजायन्त एवम् एव यद् इदम् किञ्च
मिथुनम् आ पिपीलिकाभ्यः
तत्सर्वमसृजत || ४ ||
SFतद् सर्वम् असृजत
मन्त्र ५ [I.iv.5]
सोऽवेद्
SFसस् अवेत्
अहं वाव सृष्टिरस्म्य्
SFअहम् वाव सृष्टिस् अस्मि
अहँ हीदँ सर्वमसृक्षीति |
SFअहम् हि इदम् सर्वम् असृक्षि इति
ततः सृष्टिरभवत्
SFततस् सृष्टिस् अभवत्
सृष्ट्याँ हास्यैतस्यां भवति
SFसृष्ट्याम् ह अस्य एतस्याम् भवति
य एवं वेद || ५ ||
SFयस् एवम् वेद
मन्त्र ६ [I.iv.6]
अथेत्यभ्यमन्थत्
SFअथ इति अभ्यमन्थत्
स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत |
SFस मुखाद् च योनेस् हस्ताभ्याम् च अग्निम् असृजत
तस्मादेतदुभयमलोमकमन्तरतो
SFतस्माद् एतद् उभयम् अलोमकम् अन्तरतस्
ऽलोमका हि योनिरन्तरतस्
SFअलोमका हि योनिस् अन्तरतस्
तद्यदिदमाहुर्
SFतद् यद् इदम् आहुः
अमुं यजामुं यजेत्येकैकं देवम्
SFअमुम् यज अमुम् यज इति एकैकम् देवम्
एतस्यैव सा विसृष्टिर्
SFएतस्य एव सा विसृष्टिः
एष उ ह्येव सर्वे देवा
SFएषस् उ हि एव सर्वे देवास्.
अथ यत्किञ्चेदमार्द्रम्
SFअथ यद् किञ्च इदम् आर्द्रम्
तद्रेतसोऽसृजत
SFतद् रेतसस् असृजत
तदु सोमः |
SFतद् उ सोमस्
एतावद्वा इदँ सर्वमन्नं चैवान्नादश्च
SFएतावत् वै इदम् सर्वम् अन्नम् च एव अन्नदस् च
सोम एवान्नम्
SFसोम एव अन्नम्
अग्निरन्नादः |
SFअग्निस् अन्नादस्
सैषा ब्रह्मणोऽतिसृष्टिर्
SFसा एषा ब्रह्मणस् अतिसृष्टिस्
यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत
SFयद् श्रेयसस् देवान् असृजत अथ यद् मर्त्यस् सन्
अमृतान् असृजत
तस्मादतिसृष्टिर्
SFतस्माद् अतिसृष्टिस्
अतिसृष्ट्याँ हास्यैतस्यां भवति
SFअतिसृष्ट्याम् ह अस्य एतस्याम् भवति
य एवं वेद || ६ ||
SFयस् एवम् वेद
मन्त्र ७ [I.iv.7]
तद्धेदं तर्ह्यव्याकृतमासीत्
SFतद् ध इदम् तर्हि अव्याकृतम् आसीत्
तन्नामरूपाभ्यामेव व्याक्रियतासौ नामाऽयमिदँरूप इति |
SFतद् नामरूपाभ्याम् एव व्याक्रियत असौ नाम अयम्
इदँरूपस् इति
तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौ
नामायमिदँरूप इति |
SFतद् इदम् अपि एतर्हि नामरूपाभ्याम् एव व्याक्रियते असौ
नाम अयम् इदँरूपस् इति
स एष इह प्रविष्ट आ नखाग्रेभ्यो
SFसस् एषस् इह प्रविष्ट आ नखाग्रेभ्यस्
यथा क्षुरः क्षुरधानेऽवहितः स्याद्
SFयथा क्षुरस् क्षुरधाने अवहितस् स्यात्
विश्वम्भरो वा विश्वम्भरकुलाये
SFविश्वम्भरस् वा विश्वम्भरकुलाये
तं न पश्यन्त्य्
SFतम् न पश्यन्ति
अकृत्स्नो हि सः
SFअकृत्स्नस् हि सस्
प्राणन्नेव प्राणो नाम भवति
SFप्राणन् एव प्राणस् नाम भवति
वदन्वाक्
SFवदन् वाक्
पश्यंश्चक्षुः
SFपश्यन् चक्षुस्
शृण्वञ्ह्रोत्रम्
SFशृण्वन् श्रोत्रम्
मन्वानो मनस्
SFमन्वानस् मनः
तान्यस्यैतानि कर्मनामान्येव |
SFतानि अस्य एतानि कर्मनामानि एव
स योऽत एकैकमुपास्ते
SFस यस् अतस् एकैकम् उपास्ते
न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्य्
SFन स वेद अकृत्स्नस् हि एषस् अतस् एकैकेन भवति
आत्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति |
SFआत्मा इति एव उपासीत अत्र हि एते सर्वे एकम् भवन्ति
तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं
वेद |
SFतद् एतद् पदनीयम् अस्य सर्वस्य यद् अयम् आत्मा
अनेन हि एतद् सर्वम् वेद
यथा ह वै पदेनानुविन्देद्
SFयथा ह वै पदेन अनुविन्देत्
एवं कीर्तिँ श्लोकं विन्दते
SFएवम् कीर्तिम् श्लोकम् विन्दते
य एवं वेद || ७ ||
SFयस् एवम् वेद
मन्त्र ८ [I.iv.8]
तदेतत्प्रेयः पुत्रात्
SFतद् एतद् प्रेयस् पुत्राद्
प्रेयो वित्तात्
SFप्रेयस् वित्ताद्
प्रेयोऽन्यस्मात् सर्वस्माद्
SFप्रेयस् अन्यस्माद् सर्वस्माद्
अन्तरतरम्
SFअन्तरतरम्
यदयमात्मा |
SFयद् अयम् आत्मा
स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्
SFस यस् अन्यम् आत्मनस् प्रियम् ब्रुवाणम् ब्रूयात्
प्रियँ रोत्स्यतीतीश्वरो ह तथैव स्याद्
SFप्रियम् रोत्स्यति इति ईश्वरस् ह तथा एव स्यात्
आत्मानमेव प्रियमुपासीत |
SFआत्मानम् एव प्रियम् उपासीत
स य आत्मानमेव प्रियमुपास्ते
SFस यस् आत्मानम् एव प्रियम् उपास्ते
न हास्य प्रियं प्रमायुकं भवति || ८ ||
SFन ह अस्य प्रियम् प्रमायुकम् भवति
मन्त्र ९ [I.iv.9]
तदाहुर्
SFतद् आहुः
यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते
SFयद् ब्रह्मविद्यया सर्वम् भविष्यन्तस् मनुष्यास्
मन्यन्ते
किमु तद्ब्रह्मावेद्
SFकिम् उ तद् ब्रह्म अवेत्
यस्मात्तत्सर्वमभवदिति || ९ ||
SFयस्माद् तद् सर्वम् अभवत् इति
मन्त्र १० [I.iv.10]
ब्रह्म वा इदमग्र आसीत्
SFब्रह्म वै इदम् अग्रे आसीत्
तदात्मानमेवावेद्
SFतद् आत्मानम् एव अवेत्
अहं ब्रह्मास्मीति |
SFअहम् ब्रह्म अस्मि इति
तस्मात्तत्सर्वमभवत्
SFतस्माद् तद् सर्वम् अभवत्
तद्यो यो देवानां प्रत्यबुध्यत
SFतद् यस् यस् देवानाम् प्रत्यबुध्यत
स एव तदभवत्
SFसस् एव तद् अभवत्
तथर्षीणाम्
SFतथा ऋषीनाम्
तथा मनुष्याणाम् |
SFतथा मनुष्याणाम्
तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे
SFतद् ध एतद् पश्यन् ऋषिस् वामदेवस् प्रतिपेदे
ऽहं मनुरभवँ सूर्यश्चेति |
SFअहम् मनुस् अभवम् सूर्यस् च इति
तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति
SFतद् इदम् अपि एतर्हि यस् एवम् वेद अहम् ब्रह्म अस्मि
इति
स इदँ सर्वं भवति
SFस इदम् सर्वम् भवति
तस्य ह न देवाश्चनाभूत्या ईशत
SFतस्य ह न देवास् चन अभूत्यास् ईशते
आत्मा ह्येषाँ स भवत्य्
SFआत्मा हि एषाम् स भवति
अथ योऽन्यां देवतामुपास्ते
SFअथ यस् अन्याम् देवताम् उपास्ते
ऽन्योऽसाव्
SFअन्यस् असौ
अन्योऽहमस्मीति
SFअन्यस् अहम् अस्मि इति
न स वेद |
SFन स वेद
यथा पशुरेवँ स देवानाम् |
SFयथा पशुस् एवम् स देवानाम्
यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युर्
SFयथा ह वै बहवस् पशवस् मनुष्यम् भुञ्ज्युः
एवमेकैकः पुरुषो देवान्भुनक्त्य्
SFएवम् एकैकस् पुरुषस् देवान् भुनक्ति
एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति
SFएकस्मिन् एव पशौ आदीयमाने अप्रियम् भवति
किमु बहुषु
SFकिम् उ बहुषु
तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः || १० ||
SFतस्माद् एषाम् तद् न प्रियम् यद् एतद्
मनुष्यास् विद्युर्
मन्त्र ११ [I.iv.11]
ब्रह्म वा इदमग्र आसीदेकमेव |
SFब्रह्म वै इदम् अग्रे आसीत् एकम् एव
तदेकँ सन्न व्यभवत्
SFतद् एकम् सन् न व्यभवत्
तच्छ्रेयो रूपमत्यसृजत क्षत्रम्
SFतद् श्रेयस् रूपम् अत्यसृजत क्षत्रम्
यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो
मृत्युरीशान इति |
SFयानि एतानि देवत्रा क्षत्राणि इन्द्रस् वरुणस् सोमस्
रुद्रस् पर्जन्यस् यमस् मृत्युस् ईशानस् इति
तस्मात्क्षत्रात्परं नास्ति
SFतस्माद् क्षत्राद् परम् न अस्ति
तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये |
SFतस्माद् ब्राह्मणस् क्षत्रियम् अधस्ताद् उपास्ते राजसूये
क्षत्र एव तद्यशो दधाति
SFक्षत्रे एव तद् यशस् दधाति
सैषा क्षत्रस्य योनिर्यद्ब्रह्म |
SFसा एषा क्षत्रस्य योनिस् यद् ब्रह्म
तस्माद्यद्यपि राजा परमतां गच्छति
SFतस्माद् यदि अपि राजा परमताम् गच्छति
ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् |
SFब्रह्म एव अन्ततस् उपनिश्रयति स्वाम् योनिम्
य उ एनँ हिनस्ति
SFयस् उ एनम् हिनस्ति
स्वाँ स योनिमृच्छति |
SFस्वाम् स योनिमृच्छति
स पापीयान्भवति
SFस पापीयान् भवति
यथा श्रेयाँसँ हिँसित्वा || ११ ||
SFयथा श्रेयाँसम् हिँसित्वा
मन्त्र १२ [I.iv.12]
स नैव व्यभवत्
SFस न एव व्यभवत्
स विशमसृजत
SFस विशम् असृजत
यान्येतानि देवजातानि गणश आख्यायन्ते
SFयानि एतानि देवजातानि गणशस् आख्यायन्ते
वसवो रुद्रा आदित्या विश्वे देवा मरुत इति || १२ ||
SFवसवस् रुद्रास् आदित्यास् विश्वे देवास् मरुतस् इति
मन्त्र १३ [I.iv.13]
स नैव व्यभवत्
SFस न एव व्यभवत्
स शौद्रं वर्णमसृजत पूषणम्
SFस शौद्रम् वर्णम् असृजत पूषणम्
इयं वै पूषेयँ हीदँ सर्वं पुष्यति यदिदं किञ्च ||
१३ ||
SFइयम् वै पूषा इयम् हि इदम् सर्वम् पुष्यति यद्
इदम् किञ्च
मन्त्र १४ [I.iv.14]
स नैव व्यभवत्
SFस न एव व्यभवत्
तच्छ्रेयो रूपमत्यसृजत धर्मम् |
SFतद् श्रेयस् रूपम् अत्यसृजत धर्मम्
तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्
SFतद् एतत् क्षत्रस्य क्षत्रम् यद् धर्मः
तस्माद्धर्मात् परं नास्त्य्
SFतस्माद् धर्माद् परम् न अस्ति
अथो अबलीयान् बलीयाँसमाशँसते धर्मेण यथा
राज्ञैवम् |
SFअथ उ अबलीयान् बलीयाँसम् आशँसते धर्मेण
यथा राज्ञा एवम्
यो वै स धर्मः
SFयस् वै स धर्मस्
सत्यं वै तत्
SFसत्यम् वै तद्
तस्मात्सत्यं वदन्तमाहुर्
SFतस्माद् सत्यम् वदन्तम् आहुः
धर्मं वदतीति
SFधर्मम् वदति इति
धर्मं वा वदन्तँ
SFधर्मम् वा वदन्तम्
सत्यं वदतीत्य्
SFसत्यम् वदति इति
एतद्ध्येवैतदुभयं भवति || १४ ||
SFएतद् धि एव एतद् उभयम् भवति
मन्त्र १५ [I.iv.15]
तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्
SFतद् एतद् ब्रह्म क्षत्रम् विट् शूद्रः
तदग्निनैव देवेषु ब्रह्माभवद्
SFतद् अग्निना एव देवेषु ब्रह्म अभवत्
ब्राह्मणो मनुष्येषु
SFब्राह्मणस् मनुष्येषु
क्षत्रियेण क्षत्रियो
SFक्षत्रियेण क्षत्रियस्
वैश्येन वैश्यः
SFवैश्येन वैश्यस्
शूद्रेण शूद्रस्
SFशूद्रेण शूद्रः
तस्मादग्नावेव देवेषु लोकमिच्छन्ते
SFतस्माद् अग्नौ एव देवेषु लोकम् इच्छन्ते
ब्राह्मणे मनुष्येष्व्
SFब्राह्मणे मनुष्येषु
एताभ्याँ हि रूपाभ्यां ब्रह्माभवद्
SFएताभ्याम् हि रूपाभ्याम् ब्रह्म अभवत्
अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति
SFअथ यस् ह वै अस्माद् लोकाद् स्वम् लोकम् अदृष्ट्वा
प्रैति
स एनमविदितो न भुनक्ति
SFस एनम् अविदितस् न भुनक्ति
यथा वेदो वाऽननूक्तोऽन्यद्वा कर्माकृतम् |
SFयथा वेदस् वा अननूक्तस् अन्यद् वा कर्म अकृतम्
यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति
SFयदि ह वै अपि अनेवंविद् महत्पुण्यम् कर्म करोति
तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत |
SFतद् ध अस्य अन्ततस् क्षीयते एव आत्मानमेव लोकम्
उपासीत
स य आत्मानमेव लोकमुपास्ते
SFसयस् आत्मानम् एव लोकम् उपास्ते
न हास्य कर्म क्षीयते
SFन ह अस्य कर्म क्षीयते
ऽस्माद्ध्येवाऽऽत्मनो यद्यत्कामयते
SFअस्माद् धि एव आत्मनस् यत् यत् कामयते
तत्तत्सृजते || १५ ||
SFतद् तद् सृजते
मन्त्र १६ [I.iv.16]
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः
SFअथ उ अयम् वै आत्मा सर्वेषाम् भूतानाम् लोकस्
स यज्जुहोति
SFस यद् जुहोति
यद्यजते तेन देवानां लोको
SFयद् यजते तेन देवानाम् लोकस्
ऽथ यदनुब्रूते
SFअथ यद् अनुब्रूते
तेन ऋषीणाम्
SFतेन ऋषीणाम्
अथ यत् पितृभ्यो निपृणाति
SFयद् पितृभ्यस् निपृणाति
अथ यत्प्रजामिच्छते
SFअथ यद् प्रजाम् इच्छते
तेन पितृणाम्
SFतेन पित्र्णाम्
अथ यन्मनुष्यान्वासयते
SFअथ यद् मनुष्यान् वासयते
यदेभ्योऽशनं ददाति
SFयद् एभ्यस् अशनम् ददाति
तेन मनुष्याणाम्
SFतेन मनुष्याणाम्
अथ यत्पशुभ्यस्तृणोदकं विन्दति
SFअथ यद् पशुभ्यस् तृणोदकम् विन्दति
तेन पशूनाम्
SFतेन पशूनाम्
यदस्य गृहेषु श्वापदा वयाँस्या पिपीलिकाभ्य उपजीवन्ति
SFयद् अस्य गृहेषु श्वापदास् वयाँसि आ
पिपीलिकाभ्यस् उपजीवन्ति
तेन तेषां लोको
SFतेन तेषाम् लोकस्
यथा ह वै स्वाय लोकायारिष्टिमिच्छेद्
SFयथा ह वै स्वाय लोकाय अरिष्टिम् इच्छेत्
एवँ हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति |
SFएवम् ह एवंविदे सर्वदा सर्वाणि भूतानि अरिष्टिम्
इच्छन्ति
तद्वा एतद्विदितं मीमाँसितम् || १६ ||
SFतद् वै एतद् विदितम् मीमाँसितम्
मन्त्र १७ [I.iv.17]
आत्मैवेदमग्र आसीद्
SFआत्मा एव इदम् अग्रे आसीत्
एक एव |
SFएकस् एव
सोऽकामयत
SFसस् अकामयत
जाया मे स्याद्
SFजाया मे स्यात्
अथ प्रजायेयाथ वित्तं मे स्यात्
SFअथ प्रजायेय अथ वित्तम् मे स्यात्
अथ कर्म कुर्वीयेत्य्
SFअथ कर्म कुर्वीय इति
एतावान्वै कामो नेच्छँश्चनातो भूयो विन्देत्
SFएतावान् वै कामस् न इच्छन् चन अतस् भूयस्
विन्देत्
तस्मादप्येतर्ह्येकाकी कामयते
SFतस्माद् अपि एतर्हि एकाकी कामयते
जाया मे स्याद्
SFजाया मे स्यात्
अथ प्रजायेयाथ वित्तं मे स्याद्
SFअथ प्रजायेय अथ वित्तम् मे स्यात्
अथ कर्म कुर्वीयेति |
SFअथ कर्म कुर्वीय इति
स यावदप्येतेषामेकैकं न प्राप्नोत्य्
SFस यावत् अपि एतेषाम् एकैकम् न प्राप्नोति
अकृत्स्न एव तावन् मन्यते |
SFअकृत्स्नस् एव तावन्मन्यते
तस्यो कृत्स्नता |
SFतस्य उ कृत्स्नता
मन एवास्याऽऽत्मा
SFमनस् एव अस्य आत्मा
वाग्जाया
SFवाक् जाया
प्राणः प्रजा
SFप्राणस् प्रजा
चक्षुर्मानुषं वित्तम्
SFचक्षुस् मानुषम् वित्तम्
चक्षुषा हि तद्विन्दते
SFचक्षुषा हि तद् विन्दति
श्रोत्रं दैवँ
SFश्रोत्रम् दैवम्
श्रोत्रेण हि तच्छृणोत्य्
SFश्रोत्रेण हि तद् शृणोति
आत्मैवास्य कर्माऽऽत्मना हि कर्म करोति |
SFआत्मा एव अस्य कर्म आत्मना हि कर्म करोति
स एष पाङ्क्तो यज्ञः
SFसस् एष पाङ्क्तस् यज्ञस्
पाङ्क्तः पशुः
SFपाङ्क्तस् पशुस्
पाङ्क्तः पुरुषः
SFपाङ्क्तस् पुरुषस्
पाङ्क्तमिदँ सर्वं यदिदं किञ्च |
SFपाङ्क्तम् इदम् सर्वम् यद् इदम् किञ्च
तदिदँ सर्वमाप्नोति
SFतद् इदम् सर्वम् आप्नोति
य एवं वेद || १७ || इति चतुर्थं ब्राह्मणम् ||
SFयस् एवम् वेद
पञ्चमं ब्राह्मणम् .
मन्त्र १ [I.v.1]
यत्सप्तान्नानि मेधया
SFयद् सप्त अन्नानि मेधया
तपसाऽऽजनयत्पिता |
SFतपसा अजनयत् पिता
एकमस्य साधारणम्
SFएकम् अस्य साधारणम्
द्वे देवानभाजयत् ||
SFद्वे देवान् अभाजयत्
त्रीण्यात्मनेऽकुरुत
SFत्रीणि आत्मने अकुरुत
पशुभ्य एकं प्रायच्छत्|
SFपशुभ्यस् एकम् प्रायच्छत्
तस्मिन्त्सर्वं प्रतिष्ठितम्
SFतस्मिन् सर्वम् प्रतिष्ठितम्
यच्च प्राणिति यच्च न ||
SFयच्च प्राणिति यच्च न
कस्मात्तानि न क्षीयन्ते
SFकस्माद् तानि न क्षीयन्ते
ऽद्यमानानि सर्वदा |
SFअद्यमानानि सर्वदा
यो वै तामक्षितिं वेद
SFयस् वै ताम् अक्षितिम् वेद
सोऽन्नमत्ति प्रतीकेन
SFसस् अन्नम् अत्ति प्रतीकेन
स देवानपिगच्छति
SFस देवान् अपिगच्छति
स ऊर्जमुपजीवतीति श्लोकाः || १ ||
SFसस् ऊऋजम् उपजीवति इति श्लोकास्
मन्त्र २ [I.v.1]
यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति
SFयद् सप्त अन्नानि मेधया तपसा अजनयत् पिता इति
मेधया हि तपसाजनयत् पितैकमस्य साधारणमितीदमेवास्य
तत्साधारणमन्नम्
SFमेधया हि तपसा अजनयत् पिता एकम् अस्य साधारणम्
इति इदम् एव अस्य तद् साधारणम् अन्नम्
यदिदमद्यते |
SFयद् इदम् अद्यते
स य एतदुपास्ते
SFस यस् एतद् उपास्ते
न स पाप्मनो व्यावर्तते
SFन स पाप्मनस् व्यावर्तते
मिश्रँ ह्येतत् |
SFमिश्रम् हि एतद्
द्वे देवानभाजयदिति
SFद्वे देवानभाजयत् इति
हुतं च प्रहुतं च
SFहुतम् च प्रहुतम् च
तस्माद् देवेभ्यो जुह्वति च प्र च जुह्वत्य्
SFतस्माद् देवेभ्यस् जुह्वति च प्र च जुह्वति
अथो आहुर्
SFअथ उ आहुः
दर्शपूर्णमासाविति |
SFदर्शपूर्णमासौ इति
तस्मान्नेष्टियाजुकः स्यात् |
SFतस्माद् न इष्टियाजुकस् स्यात्
पशुभ्य एकं प्रायच्छदिति
SFपशुभ्यस् एकम् प्रायच्छत् इति
तत्पयः |
SFतद् पयस्
पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति |
SFपयस् हि एव अग्रे मनुष्यास् च पशवस् च उपजीवन्ति
तस्मात् कुमारं जातं घृतं वै वाग्रे प्रतिलेहयन्ति
SFतस्माद् कुमारम् जातम् घृतम् वा एव अग्रे
प्रतिलेहयन्ति
स्तनं वाऽनुधापयन्त्य्
SFस्तनम् वा अनुधापयन्ति
अथ वत्सं जातमाहुर्
SFअथ वत्सम् जातम् आहुः
अतृणाद इति |
SFअतृणादस् इति
तस्मिन्सर्वं प्रतिष्ठितं
SFतस्मिन् सर्वम् प्रतिष्ठितम्
यच्च प्राणिति यच्च नेति
SFयच्च प्राणिति यच्च न इति
पयसि हीदँ सर्वं प्रतिष्ठितम्
SFपयसि हि इदम् सर्वम् प्रतिष्ठितम्
यच्च प्राणिति यच्च न |
SFयच्च प्राणिति यच्च न
तद्यदिदमाहुः
SFतद् यद् इदम् आहुर्
संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति
SFसंवत्सरम् पयसा जुह्वत् अप पुनर्मृत्युम् जयति इति
न तथा विद्याद्
SFन तथा विद्यात्
यदहरेव जुहोति
SFयद् अहरेव जुहोति
तदहः पुनर्मृत्युमपजयत्येवं विद्वान्
SFतद् अहर् पुनर्मृत्युम् अपजयति एवम् विद्वान्
सर्वँ हि देवेभ्योऽन्नाद्यं प्रयच्छति |
SFसर्वम् हि देवेभ्यस् अन्नाद्यम् प्रयच्छति
कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति
SFकस्माद् तानि न क्षीयन्ते अद्यमानानि सर्वदा इति
पुरुषो वा अक्षितिः
SFपुरुषस् वै अक्षितिस्
स हीदमन्नं पुनः पुनर्जनयते |
SFस हि इदम् अन्नम् पुनः पुनः जनयते
यो वै तामक्षितिं वेदेति
SFयस् वै ताम् अक्षितिम् वेद इति
पुरुषो वा अक्षितिः |
SFपुरुषस् वै अक्षितिस्
स हीदमन्नं धिया धिया जनयते कर्मभिर्
SFस हि इदम् अन्नम् धिया धिया जनयते कर्मभिस्
यद्धैतन्न कुर्यात्
SFयद् ध एतद् न कुर्यात्
क्षीयेत ह |
SFक्षीयेत ह
सोऽन्नमत्ति प्रतीकेनेति
SFसस् अन्नम् अत्ति प्रतीकेन इति
मुखं प्रतीकम्
SFमुखम् प्रतीकम्
मुखेनेत्येतत्
SFमुखेन इति एतद्
स देवानपिगच्छति
SFस देवान् अपिगच्छति
स ऊर्जमुपजीवतीति प्रशँसा || २ ||
SFसस् ऊर्जम् उपजीवति इति प्रशँसा
मन्त्र ३ [I.v.3]
त्रीण्यात्मनेऽकुरुतेति
SFत्रीणि आत्मने अकुरुत इति
मनो वाचं प्राणम्
SFमनस् वाचम् प्राणम्
तान्यात्मनेऽकुरुतान्यत्रमना अभूवम्
SFतानि आत्मने अकुरुत अन्यत्रमनास् अभूवम्
नादर्शम्
SFन अदर्शम्
अन्यत्रमना अभूवम्
SFअन्यत्रमनास् अभूवम्
नाश्रौषमिति
SFन अश्रौषम् इति
मनसा ह्येव पश्यति
SFमनसा हि एव पश्यति
मनसा शृणोति |
SFमनसा शृणोति
कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव |
SFकामस् सङ्कल्पस् विचिकित्सा श्रद्धा अश्रद्धा
धृतिस् अधृतिस् ह्रीस् धीस् भीस् इति एतद्
सर्वम् मनस् एव
तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति |
SFतस्माद् अपि पृष्ठतस् उपस्पृष्टस् मनसा विजानाति
यः कश्च शब्दो
SFयस् कश्च शब्दस्
वागेव सैषा ह्यन्तमायत्तैषा हि न |
SFवाक् एव सा एषा हि अन्तम् आयत्ता एषा हि न
प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण
एवैतन्मयो वा अयमात्मा
SFप्राणस् अपानस् व्यानस् उदानस् समानस् अनस् इति
एतद् सर्वम् प्राणस् एव एतन्मयस् वै अयम् आत्मा
वाङ्मयो
SFवाङ्मयस्
मनोमयः
SFमनोमयस्
प्राणमयः || ३ ||
SFप्राणमयस्
मन्त्र ४ [I.v.4]
त्रयो लोका एत एव
SFत्रयस् लोकास् एते एव
वागेवायं लोको
SFवाक् एव अयम् लोकस्
मनोऽन्तरिक्षलोकः
SFमनस् अन्तरिक्षलोकस्
प्राणोऽसौ लोकः || ४ ||
SFप्राणस् असौ लोकस्
मन्त्र ५ [I.v.5.]
त्रयो वेदा एत एव
SFत्रयस् वेदास् एते एव
वागेवर्ग्वेदो
SFवाक् एव ऋग्वेदस्
मनो यजुर्वेदः
SFमनस् यजुर्वेदस्
प्राणः सामवेदः || ५ ||
SFप्राणस् सामवेदस्
मन्त्र ६ [I.v.6]
देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो
मनुष्याः |
SFदेवास् पितरस् मनुष्यास् एते एव वाक् एव देवास्
मनस् पितरस् प्राणस् मानुष्यास् || ६ ||
मन्त्र ७ [I.v.7]
पिता माता प्रजैत एव
SFपिता माता प्रजा एते एव
मन एव पिता
SFमनस् एव पिता
वाङ्माता
SFवाक् माता
प्राणः प्रजा || ७ ||
SFप्राणस् प्रजा
मन्त्र ८ [.I.v.8]
विज्ञातं विजिज्ञास्यमविज्ञातमेत एव
SFविज्ञातम् विजिज्ञास्यम् अविज्ञातम् एते एव
यत्किञ्च विज्ञातं वाचस्तद्रूपम्
SFयद् किञ्च विज्ञातम् वाचस् तद् रूपम्
वाग्घि विज्ञाता
SFवाक् हि विज्ञाता
वागेनं तद्भूत्वाऽवति || ८ ||
SFवाक् एनम् तद् भूत्वा अवति
मन्त्र ९ [I.v.9]
यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम्
SFयद् किञ्च विजिज्ञास्यम् मनसस् तद् रूपम्
मनो हि विजिज्ञास्यम्
SFमनस् हि विजिज्ञास्यम्
मन एनं तद्भूत्वाऽवति || ९ ||
SFमनस् एनम् तद् भूत्वा अवति
मन्त्र १० [I.v.10]
यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम्
SFयद् किञ्च अविज्ञातम् प्राणस्य तद् रूपम्
प्राणो ह्यविज्ञातः
SFप्राणस् हि अविज्ञातस्
प्राण एनं तद्भूत्वाऽवति || १० ||
SFप्राणस् एनम् तद् भूत्वा अवति
मन्त्र ११ [I.v.11]
तस्यै वाचः पृथिवी शरीरम्
SFतस्यै वाचस् पृथिवी शरीरम्
ज्योती रूपमयमग्निस्
SFज्योतिस् रूपम् अयम् अग्निः
तद्यावत्येव वाक्
SFतद् यावती एव वाक्
तावती पृथिवी
SFतावती पृथिवी
तावानयमग्निः || ११ ||
SFतावान् अयम् अग्निस्
मन्त्र १२ [I.v.12]
अथैतस्य मनसो द्यौः शरीरम्
SFअथ एतस्य मनसस् द्यौस् शरीरम्
ज्योतीरूपमसावादित्यस्
SFज्योतिस् रूपम् असौ आदित्यः
तद्यावदेव मनस्तावती द्यौस्
SFतद् यावत् एव मनस् तावती द्यौः
तावानसावादित्यस्
SFतावान् असौ आदित्यः
तौ मिथुनँ समैताम्
SFतौ मिथुनम् समैताम्
ततः प्राणोऽजायत |
SFततस् प्राणस् अजायत
स इन्द्रः
SFसस् इन्द्रस्
स एषोऽसपत्नो
SFसस् एषस् असपत्नस्
द्वितीयो वै सपत्नो
SFद्वितीयस् वै सपत्नस्
नास्य सपत्नो भवति
SFन अस्य सपत्नस् भवति
य एवं वेद || १२ ||
SFयस् एवम् वेद
मन्त्र १३ [I.v.13]
अथैतस्य प्राणस्याऽऽपः शरीरम्
SFअथ एतस्य प्राणस्य आपस् शरीरम्
ज्योतीरूपमसौ चन्द्रस्
SFज्योतिस् रूपम् असौ चन्द्रः
तद्यावानेव प्राणस्
SFतद् यावान् एव प्राणः
तावत्य आपस्
SFतावत्यस् आपः
तावानसौ चन्द्रः |
SFतावान् असौ चन्द्रस्
त एते सर्व एव समाः
SFते एते सर्वे एव समास्
सर्वेऽनन्ताः |
SFसर्वे अनन्तास्
स यो हैतानन्तवत उपास्ते
SFस यस् ह एतान् अन्तवतस् उपास्ते
ऽन्तवन्तँ स लोकं जयत्य्
SFअन्तवन्तम् स लोकम् जयति
अथ यो हैताननन्तानुपास्ते
SFअथ यस् ह एतान् अनन्तान् उपास्ते
ऽनन्तँ स लोकं जयति || १३ ||
SFअनन्तम् स लोकम् जयति
मन्त्र १४ [I.v.14]
स एष संवत्सरः प्रजापतिः षोडशकलस्
SFसस् एष संवत्सरस् प्रजापतिस् शोडशकलः
तस्य रात्रय एव पञ्चदश कला
SFतस्य रात्रयस् एव पञ्चदश कलास्
ध्रुवैवास्य षोडशी कला |
SFध्रुवा एव अस्य शोडशी कला
स रात्रिभिरेवाऽऽ च पूर्यते
SFस रात्रिभिस् एव आ च पूर्यते
ऽप च क्षीयते |
SFअप च क्षीयते
सोऽमावास्याँ रात्रिमेतया षोडश्या कलया सर्वमिदं
प्राणभृदनुप्रविश्य
SFसस् अमावास्याम् रात्रिम् एतया शोडश्या कलया सर्वम्
इदम् प्राणभृत् अनुप्रविश्य
ततः प्रातर्जायते |
SFततस् प्रातर्जायते
तस्मादेताँ रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि
कृकलासस्यैतस्या एव देवताया अपचित्यै || १४ ||
SFतस्माद् एताम् रात्रिम् प्राणभृतस् प्राणम् न
विच्छिन्द्यात् अपि कृकलासस्य एतस्यास् एव देवतायास्
अपचित्यै
मन्त्र १५ [I.v.15]
यो वै स संवत्सरः प्रजापतिः षोडशकलो
SFयस् वै स संवत्सरस् प्रजापतिस् शोडशकालस्
ऽयमेव स योऽयमेवंवित्पुरुषस्
SFअयम् एव स यस् अयम् एवंविद् पुरुषः
तस्य वित्तमेव पञ्चदश कला
SFतस्य वित्तम् एव पञ्चदश कलास्
आत्मैवास्य षोडशी कला |
SFआत्मा एव अस्य शोडशी कला
स वित्तेनैवाऽऽ च पूर्यते
SFस वित्तेन एव आ च पूर्यते
ऽप च क्षीयते |
SFअप च क्षीयते
तदेतन्नभ्यं यदयमात्मा
SFतद् एतद् नभ्यम् यद् अयम् आत्मा
प्रधिर्वित्तम् |
SFप्रधिस् वित्तम्
तस्माद्यद्यपि सर्वज्यानिं जीयत
SFतस्माद् यदि अपि सर्वज्यानिम् जीयते
आत्मना चेज्जीवति
SFआत्मना चेद् जीवति
प्रधिनाऽगादित्येवाऽऽहुः || १५ ||
SFप्रधिना अगात् इति आहुर्
मन्त्र १६ [I.v.16]
अथ त्रयो वाव लोकाः
SFअथ त्रयस् वाव लोकास्
मनुष्यलोका
SFमनुष्यलोकस्
पितृलोको
SFपितृलोकस्
देवलोक इति |
SFदेवलोकस् इति
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो
SFसस् अयम् मनुष्यलोकस् पुत्रेण एव जय्यस्
नान्येन कर्मणा
SFन अन्येन कर्मणा
कर्मणा पितृलोको
SFकर्मणा पितृलोकस्
विद्यया देवलोको
SFविद्यया देवलोकस्
देवलोको वै लोकानाँ श्रेष्ठस्
SFदेवलोकस् वै लोकानाम् श्रेष्ठः
तस्माद्विद्यां प्रशँसन्ति || १६ ||
SFतस्माद् विद्याम् प्रशँसन्ति
मन्त्र १७ [I.v.17]
अथातः सम्प्रत्तिर्
SFअथ अतस् सम्प्रत्तिस्
यदा प्रैष्यन्मन्यते
SFयदा प्रैष्यन् मन्यते
ऽथ पुत्रमाह
SFअथ पुत्रम् आह
त्वं ब्रह्म
SFत्वम् ब्रह्म
त्वं यज्ञस्
SFत्वम् यज्ञः
त्वं लोक इति |
SFत्वम् लोकस् इति
स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो
SFस पुत्रस् प्रत्याह अहम् ब्रह्म अहम् यज्ञस्
ऽहम् लोक इति |
SFअहम् लोकस् इति
यद्वै किञ्चानूक्तम्
SFयद् वै किञ्च अनूक्तम्
तस्य सर्वस्य ब्रह्मेत्येकता |
SFतस्य सर्वस्य ब्रह्म इति एकता
ये वै के च यज्ञास्
SFये वै केच यज्ञाः
तेषाँ सर्वेषां यज्ञ इत्येकता |
SFतेषाम् सर्वेषाम् यज्ञस् इति एकता
ये वै केच लोकास्
SFये वै केच लोकास्
तेषाँ सर्वेषां लोक इत्येकतैतावद्वा इदँ सर्वम्
SFतेषाम् सर्वेषाम् लोकस् इति एकता एतावत् वै इदम्
सर्वम्
एतन्मा सर्वँ सन्नयमितोऽभुनजदिति |
SFएतद् मा सर्वम् सन् अयम् इतस् भुनजत् इति
तस्मात् पुत्रमनुशिष्टं लोक्यमाहुस्
SFतस्माद् पुत्रम् अनुशिष्टम् लोक्यम् आहुर्
तस्मादेनमनुशासति |
SFतस्माद् एनम् अनुशासति
स यदैवंविदस्माल्लोकात्प्रैत्य्
SFस यदा एवंविद् अस्माद् लोकाद् प्रैति
अथैभिरेव प्राणैः सह पुत्रमाविशति |
SFअथ एभिस् एव प्राणैस् सह पुत्रम् आविशति
स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति
SFस यदि अनेन किञ्चिद् अक्ष्णया कृतम् भवति
तस्मादेनँ सर्वस्मात्पुत्रो मुञ्चति |
SFतस्माद् एनम् सर्वस्माद् पुत्रस् मुञ्चति
तस्मात् पुत्रो नाम |
SFतस्माद् पुत्रस् नाम
स पुत्रेणैवास्मिंॅल्लोके प्रतितिष्ठत्य्
SFस पुत्रेणा एव अस्मिन् लोके प्रतितिष्ठति
अथैनमेते दैवाः प्राणा अमृता आविशन्ति || १७ ||
SFअथ एनम् एते देवास् प्राणास् अमृतास् आविशन्ति
मन्त्र १८ [I.v.18]
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति |
SFपृथिव्यै च एनम् अग्नेस् च दैवी वाक् आविशति
सा वै दैवी वाग्यया
SFसा वै दैवी वाक् यया
यद्यदेव वदति
SFयद् यद् एव वदति
तत्तद्भवति || १८ ||
SFतत्-तद् भवति
मन्त्र १९ [I.v.19]
दिवश्चैनमादित्याच्च दैवं मन आविशति |
SFदिवस् च एनम् आदित्याद् च दैवम् मनस् आविशति
तद्वै दैवं मनो येनाऽऽनन्द्येव भवत्य्
SFतद् वै दैवम् मनस् येन आनन्दी एव भवति
अथो न शोचति || १९ ||
SFअथ उ न शोचति
मन्त्र २०
अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति |
SFअद्भ्यस् च एनम् चन्द्रमसस् च दैवस् प्राणस्
आविशति
स वै दैवः प्राणो यः संचरँश्चासंचरँश्च न
व्यथते
SFस वै दैवस् प्राणस् यस् संचरन् च असंचरन्
च न व्यथते
ऽथो न रिष्यति |
SFअथ उ न रिष्यति
स एवंवित्सर्वेषां भूतानामात्मा भवति |
SFसस् एष एवंविद् सर्वेषाम् भूतानाम् आत्मा भवति
यथैषा देवतैवँ स
SFयथा एषा देवता एवम् स
यथैतां देवताँ सर्वाणि भूतान्यवन्त्य्
SFयथा एताम् देवताम् सर्वाणि भूतानि अवन्ति
एवँ हैवंविदँ सर्वाणि भूतान्यवन्ति |
SFएवम् ह एवंविदम् सर्वाणि भूतानि अवन्ति
यदु किञ्चेमाः प्रजाः शोचन्त्य्
SFयद् उ किञ्च इमास् प्रजास् शोचन्ति
अमैवाऽऽसां तद्भवति
SFअमा एव आसाम् तद् भवति
पुण्यमेवामुं गच्छति
SFपुण्यम् एव अमुम् गच्छति
न ह वै देवान्पापं गच्छति || २० ||
SFन ह वै देवान् पापम् गच्छति
मन्त्र २१ [I.v.21]
अथातो व्रतमीमाँसा |
SFअथ अतस् व्रतमीमाँसा
प्रजापतिर्ह कर्माणि ससृजे |
SFप्रजापतिस् ह कर्माणि ससृजे
तानि सृष्टान्यन्योऽन्येनास्पर्धन्त
SFतानि सृष्टानि अन्यस् अन्येन अस्पर्धन्त
वदिष्याम्येवाहमिति वाग्दध्रे
SFवदिष्यामि एव अहम् इति वाक् दध्रे
द्रक्ष्याम्यहमिति चक्षुः
SFद्रक्ष्यामि अहम् इति चक्षुस्
श्रोष्याम्यहमिति श्रोत्रम्|
SFश्रोष्यामि अहम् इति श्रोत्रम्
एवमन्यानि कर्माणि यथाकर्म |
SFएवम् अन्यानि कर्माणि यथाकर्म
तानि मृत्युः श्रमो भूत्वोपयेमे
SFतानि मृत्युस् श्रमस् भूत्वा उपयेमे
तान्याप्नोत्
SFतानि आप्नोत्
तान्याप्त्वा मृत्युरवारुन्ध |
SFतानि आप्त्वा मृत्युरवारुन्द्ध
तस्माच्छ्राम्यत्येव वाक्
SFतस्माद् श्राम्यति एव वाक्
श्राम्यति चक्षुः
SFश्राम्यति चक्षुस्
श्राम्यति श्रोत्रम्
SFश्राम्यति श्रोत्रम्
अथेममेव नाऽऽप्नोद्
SFअथ इमम् एव न आप्नोत्
योऽयं मध्यमः प्राणस्
SFयस् अयम् मध्यमस् प्राणस्
तानि ज्ञातुं दध्रिरे
SFतानि ज्ञातुम् दध्रिरे
ऽयं वै नः श्रेष्ठो यः संचरँश्चासंचरँश्च न
व्यथते
SFअयम् वै नस् श्रेष्ठस् यस् संचरन् च
असंचरन् च न व्यथते
ऽथो न रिष्यति |
SFअथ उ न रिष्यति
हन्तास्यैव सर्वे रूपमसामेति |
SFहन्त अस्य एव सर्वे रूपम् भवाम इति
त एतस्यैव सर्वे रूपमभवँस्
SFते एतस्य एव सर्वे रूपम् अभवन्
तस्मादेत एतेनाऽऽख्यायन्ते प्राणा इति |
SFतस्माद् एते एतेन आख्यायन्ते प्राणास् इति
तेन ह वाव तत्कुलमाचक्षते
SFतेन ह वाव तद् कुलम् आचक्षते
यस्मिन्कुले भवति य एवं वेद |
SFयस्मिन् कुले भवति यस् एवम् वेद
य उ हैवंविदा स्पर्धतेऽनुशुष्यत्य्
SFयस् उ ह एवंविदा स्पर्धतेk add. mark 1 अनुशुष्यति
अनुशुष्य हैवान्ततो म्रियत
SFअनुशुष्य ह एव अन्ततस् म्रियते
इत्यध्यात्मम् || २१ ||
SFइति अध्यात्मम्
मन्त्र २२ [I.v.22]
अथाधिदैवतम्
SFअथ अधिदेवतम्
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे
SFज्वलिष्यामि एव अहम् इति अग्निस् दध्रे
तप्स्याम्यहमित्यादित्यो
SFतप्स्यामि अहम् इति आदित्यस्
भास्याम्यहमिति चन्द्रमा
SFभास्यामि अहम् इति चन्द्रमास्
एवमन्या देवता यथादैवतँ |
SFएवम् अन्यास् देवतास् यथादेवतम्
स यथैषां प्राणानां मध्यमः प्राण
SFस यथा एषाम् प्राणानाम् मध्यमस् प्राणस्
एवमेतासां देवतानां वायुर्
SFएवम् एतासाम् देवतानाम् वायुस्
निम्लोचन्ति ह्यन्या देवता
SFम्लोचन्ति हि अन्यास् देवतास्
न वायुः |
SFन वायुस्
सैषाऽनस्तमिता देवता यद्वायुः || २२ ||
SFसा एषा अनस्तमिता देवता यद् वायुस्
मन्त्र २३ [I.v.23]
अथैष श्लोको भवति
SFअथ एष श्लोकस् भवति
यतश्चोदेति सूर्यो
SFयतस् च उदेति सूर्यस्
ऽस्तं यत्र च गच्छतीति
SFअस्तम् यत्र च गच्छति इति
प्राणाद्वा एष उदेति
SFप्राणाद् वै एष उदेति
प्राणेऽस्तमेति
SFप्राणे अस्तम् एति
तं देवाश्चक्रिरे धर्मँ,
SFतम् देवास् चक्रिरे धर्मम्
स एवाद्य
SFसस् एव अद्य
स उ श्व इति |
SFसस् उ श्वस् इति
यद्वा एतेऽमुर्ह्यध्रियन्त
SFयद् वै एते अमुर्हि अध्रियन्त
तदेवाप्यद्य कुर्वन्ति |
SFतद् एव अपि अद्य कुर्वन्ति
तस्मादेकमेव व्रतं चरेत्
SFतस्माद् एकम् एव व्रतम् चरेत्
प्राण्याच्चैवापान्याच्च
SFप्राण्याद् च एव अपान्याद् च
नेन्मा पाप्मा मृत्युराप्नवदिति |
SFनेद् मा पाप्मा मृत्युस् आप्नवत् इति
यद्यु चरेत्
SFयदि उ चरेत्
समापिपयिषेत्
SFसमापिपयिषेत्
तेनो एतस्यै देवतायै सायुज्यँ सलोकतां जयति || २३ || इति
पञ्चमं ब्राह्मणम् ||
SFतेन उ एतस्यै देवतायै सायुज्यम् सलोकताम् जयति
षष्ठं ब्राह्मणम् .
मन्त्र १ [I.vi.1]
त्रयं वा इदम्
SFत्रयम् वै इदम्
नाम रूपं कर्म |
SFनाम रूपम् कर्म
तेषां नाम्नां वागित्येतदेषामुक्थम्
SFतेषाम् नाम्नाम् वाक् इति एतद् एषाम् उक्थम्
अतो हि सर्वाणि नामान्युत्तिष्ठन्ति |
SFअतस् हि सर्वाणि नामानि उत्तिष्ठन्ति
एतदेषाँ सामैतद्धि सर्वैर्नामभिः समम्
SFएतद् एषाम् साम एतद् धि सर्वैस् नामभिस् समम्
एतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति || १ ||
SFएतद् एषाम् ब्रह्म एतद् धि सर्वाणि नामानि बिभर्ति
मन्त्र २ [I.vi.1]
अथ रूपाणां चक्षुरित्येतदेषामुक्थम्
SFअथ रूपाणाम् चक्षुस् इति एतद् एषाम् उक्थम्
अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति |
SFअतस् हि सर्वाणि रूपाणि उत्तिष्ठन्ति
एतदेषाँ सामैतद्धि सर्वै रूपैः समम् |
SFएतद् एषाम् साम एतद् धि सर्वैस् रूपैस् समम्
एतदेषां ब्रह्मैतद्धि सर्वाणि रूपाणि बिभर्ति || २ ||
SFएतद् एषाम् ब्रह्म एतद् धि सर्वाणि रूपाणि बिभर्ति
मन्त्र ३ [I.vi.3]
अथ कर्मणामात्मेत्येतदेषामुक्थम्
SFअथ कर्मणाम् आत्मा इति एतद् एषाम् उक्थम्
अतो हि सर्वाणि कर्माण्युत्तिष्ठन्त्य्
SFअतस् हि सर्वाणि कर्माणि उत्तिष्ठन्ति
एतदेषाँ सामैतद्धि सर्वैः कर्मभिः समम्
SFएतद् एषाम् साम एतद् धि सर्वैस् कर्मभिस् समम्
एतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति |
SFएतद् एषाम् ब्रह्म एतद् धि सर्वाणि कर्माणि बिभर्ति
तदेतत्त्रयँ सदेकमयमात्माऽऽत्मो एकः सन्नेतत्त्रयम् |
SFतद् एतद् त्रयम् सत् एकम् अयम् आत्मा आत्मा उ एकस्
सन् एतद् त्रयम्
तदेतदमृतँ सत्येन छन्नम् |
SFतद् एतद् अमृतम् सत्येन छन्नम्
प्राणो वा अमृतम्
SFप्राणस् वै अमृतम्
नामरूपे सत्यम्
SFनामरूपे सत्यम्
ताभ्यामयं प्राणश्छन्नः || ३ || इति षष्ठं ब्राह्मणम् ||
SFताभ्याम् अयम् प्राणस् छन्नस्
इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ..
द्वितीयोऽध्यायः .
प्रथमं ब्राह्मणम्
मन्त्र १ [II.i.1]
ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस |
SFदृप्तबालाकिस् ह अनूचानस् गार्ग्यस् आस
स होवाचाजातशत्रुं काश्यम्
SFस ह उवाच अजातशत्रुम् काश्यम्
ब्रह्म ते ब्रवाणीति |
SFब्रह्म ते ब्रवाणि इति
स होवाचाजातशत्रुः
SFस ह उवाच अजातशत्रुस्
सहस्रमेतस्यां वाचि दद्मो
SFसहस्रम् एतस्याम् वाचि दद्मस्
जनको
SFजनकस्
जनक इति वै जना धावन्तीति || १ ||
SFजनकस् इति वै जनास् धावन्ति इति
मन्त्र २ [II.i.2]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवासावादित्ये पुरुष
SFयस् एव असौ आदित्ये पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठा |
SFमा मा एतस्मिन् संवदिष्ठास्
अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति |
SFअतिष्ठास् सर्वेषाम् भूतानाम् मूर्धा राज इति वै
अहम् एतम् उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति || २ ||
SFअतिष्ठास् सर्वेषाम् भूतानाम् मूर्धा राजा भवति
मन्त्र ३ [II.i.3]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवासौ चन्द्रे पुरुष
SFयस् एव असौ चन्द्रे पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठा |
SFमा मा एतस्मिन् संवदिष्ठास्
बृहन् पाण्डरवासाः सोमो राजेति वा अहमेतमुपास इति |
SFबृहन् पाण्डरवासास् सोमस् राजा इति वै अहम् एतम्
उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
ऽहरहर्ह सुतः प्रसुतो भवति
SFअहर्-अहर्ह सुतस् प्रसुतस् भवति
नास्यान्नं क्षीयते || ३ ||
SFन अस्य अन्नम् क्षीयते
मन्त्र ४ [II.i.4]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवासौ विद्युति पुरुष
SFयस् एव अयम् विद्युति पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठास्
SFमा मा एतस्मिन् संवदिष्ठाः
तेजस्वीति वा अहमेतमुपास इति |
SFतेजस्वी इति वै अहम् एतम् उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
तेजस्वी ह भवति
SFतेजस्वी ह भवति
तेजस्विनी हास्य प्रजा भवति || ४ ||
SFतेजस्विनी ह अस्य प्रजा भवति
मन्त्र ५ [II.i.5]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवायमाकाशे पुरुष
SFयस् एव अयम् आकाशे पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठाः |
SFमा मा एतस्मिन् संवदिष्ठास्
पूर्णमप्रवर्तीति वा अहमेतमुपास इति |
SFपूर्णम् अप्रवर्ति इति वै अहम् एतम् उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
पूर्यते प्रजया पशुभिर्
SFपूर्यते प्रजया पशुभिस्
नास्यास्माल्लोकात्प्रजोद्वर्तते || ५ ||
SFन अस्य अस्माद् लोकाद् प्रजा उद्वर्तते
मन्त्र ६ [II.i.6]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवायं वायौ पुरुष
SFयस् एव अयम् वायौ पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठा |
SFमा मा एतस्मिन् संवदिष्ठास्
इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति |
SFइन्द्रस् वैकुण्ठस् अपराजिता सेना इति वै अहम् एतम्
उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी || ६ ||
SFजिष्णुस् ह अपराजिष्णुस् भवति अन्यतस्त्यजायी
मन्त्र ७ [II.i.7]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवायमग्नौ पुरुष
SFयस् एव अयम् अग्नौ पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठा |
SFमा मा एतस्मिन् संवदिष्ठास्
विषासहिरिति वा अहमेतमुपास इति |
SFविषासहिस् इति वै अहम् एतम् उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
विषासहिर्ह भवति
SFविषासहिस् ह भवति
विषासहिर्हास्य प्रजा भवति || ७ ||
SFविषासहिस् ह अस्य प्रजा भवति
मन्त्र ८ [II.i.8]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवायमप्सु पुरुष
SFयस् एव अयम् अप्सु पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठाः |
SFमा मा एतस्मिन् संवदिष्ठास्
प्रतिरूप इति वा अहमेतमुपास इति |
SFप्रतिरूपस् इति वै अहम् एतम् उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
प्रतिरूपँ हैवैनमुपगच्छति
SFप्रतिरूपम् ह एव एनम् उपगच्छति
नाप्रतिरूपम्
SFन अप्रतिरूपम्
अथो प्रतिरूपोऽस्माज्जायते || ८ ||
SFअथ उ प्रतिरुपस् अस्माद् जायते
मन्त्र ९ [II.i.9]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवायमादर्शे पुरुष
SFयस् एव अयम् आदर्शे पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठा |
SFमा मा एतस्मिन् संवदिष्ठास्
रोचिष्णुरिति वा अहमेतमुपास इति |
SFरोचिष्णुस् इति वै अहम् एतम् उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
रोचिष्णुर्ह भवति
SFरोचिष्णुस् ह भवति
रोचिष्णुर्हास्य प्रजा भवत्य्
SFरोचिष्णुस् ह अस्य प्रजा भवति
अथो यैः संनिगच्छति
SFअथ उ यैस् संनिगच्छति
सर्वाँस्तानतिरोचते || ९ ||
SFसर्वान् तान् अतिरोचते
मन्त्र १० [II.i.10]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवायं यन्तं पश्चाछब्दोऽनूदेत्य्
SFयस् एव अयम् यन्तम् पश्चाद् शब्दस् अनूदेति
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठा |
SFमा मा एतस्मिन् संवदिष्ठास्
असुरिति वा अहमेतमुपास इति |
SFअसुस् इति वै अहम् एतम् उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
सर्वँ हैवास्मिँल्लोक आयुरेति
SFसर्वम् ह एव अस्मिन् लोके आयुस् एति
नैनं पुरा कालात्प्राणो जहाति || १० ||
SFन एनम् पुरा कालाद् प्राणस् जहाति
मन्त्र ११ [II.i.11]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवायं दिक्षु पुरुष
SFयस् एव अयम् दिक्षु पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठा |
SFमा मा एतस्मिन् संवदिष्ठास्
द्वितीयोऽनपग इति वा अहमेतमुपास इति |
SFद्वितीयस् अनपगस् इति वै अहम् एतम् उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
द्वितीयवान्ह भवति
SFद्वितीयवान् ह भवति
नास्माद् गणश्छिद्यते || ११ ||
SFन अस्माद् गणस् छिद्यते
मन्त्र १२ [II.i.12]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवायं छायामयः पुरुष
SFयस् एव अयम् छायामयस् पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठा |
SFमा मा एतस्मिन् संवदिष्ठास्
मृत्युरिति वा अहमेतमुपास इति |
SFमृत्युस् इति वै अहम् एतम् उपासे इति
स य एतमेवमुपास्ते
SFस यस् एतम् एवम् उपास्ते
सर्वँ हैवास्मिँल्लोक आयुरेति
SFसर्वम् ह एव अस्मिन् लोके आयुस् एति
नैनं पुरा कालान्मृत्युरागच्छति || १२ ||
SFन एनम् पुरा कालाद् मृत्युस् आगच्छति
मन्त्र १३ [II.i.13]
स होवाच गार्ग्यो
SFस ह उवाच गार्ग्यस्
य एवायमात्मनि पुरुष
SFयस् एव अयम् आत्मनि पुरुषस्
एतमेवाहं ब्रह्मोपास इति |
SFएतम् एव अहम् ब्रह्म उपासे इति
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
मा मैतस्मिन्संवदिष्ठा
SFमा मा एतस्मिन् संवदिष्ठास्
आत्मन्वीति वा अहमेतमुपास इति |
SFआत्मन्वी इति वै अहम् एतम् उपासे इति
स य एतमेवमुपास्त
SFस यस् एतम् एवम् उपास्ते
आत्मन्वी ह भवत्य्
SFआत्मन्वी ह भवति
आत्मन्विनी हास्य प्रजा भवति |
SFआत्मन्विनी ह अस्य प्रजा भवति
स ह तूष्णीमास गार्ग्यः || १३ ||
SFस ह तूष्णीम् आस गार्ग्यस्
मन्त्र १४ [II.i.14]
स होवाचाजातशत्रुर्
SFस _ ह उवाच अजातशत्रुस्
एतावन्नू ३ इत्य्
SFएतावन् नु इति
एतावद्धीति |
SFएतावत् हि इति
नैतावता विदितं भवतीति |
SFन एतावता विदितम् भवति इति
स होवाच गार्ग्य
SFस ह उवाच गार्ग्यस्
उप त्वा यानीति || १४ ||
SFउप त्वा अयानि इति
मन्त्र १५ [II.i.15]
स होवाचाजातशत्रुः
SFस ह उवाच अजातशत्रुस्
प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्
SFप्रतिलोमम् वै तद् यद् ब्राह्मणस् क्षत्रियम् उपेयात्
ब्रह्म मे वक्ष्यतीति |
SFब्रह्म मे वक्ष्यति इति
व्येव त्वा ज्ञपयिष्यामीति |
SFवि एव त्वा ज्ञपयिष्यामि इति
तं पाणावादायोत्तस्थौ |
SFतम् पाणौ आदाय उत्तस्थौ
तौ ह पुरुषँ सुप्तमाजग्मतुस्
SFतौ ह पुरुषम् सुप्तम् आजग्मतुः
तमेतैर्नामभिरामन्त्रयांचक्रे
SFतम् एतैस् नामभिस् आमन्त्रयाम् चक्रे
बृहन्पाण्डरवासः
SFबृहन् पाण्दरवासस्
सोम राजन्निति |
SFसोम राजन् इति
स नोत्तस्थौ |
SFस न उत्तस्थौ
तं पाणिनाऽऽपेषं बोधयांचकार |
SFतम् पाणिना आपेषम् बोधयाम् चकार
स होत्तस्थौ || १५ ||
SFस ह उत्तस्थौ
मन्त्र १६ [II.i.16]
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
यत्रैष एतत् सुप्तोऽभूद्
SFयत्र एषस् एतद् सुप्तस् अभूत्
य एष विज्ञानमयः पुरुषः
SFयस् एष विज्ञानमयस् पुरुषस्
क्वैष तदाऽभूत्
SFक्व एष तदा अभूत्
कुत एतदागादिति |
SFकुतस् एतद् आगात् इति
तदु ह न मेने गार्ग्यः || १६ ||
SFतद् उ ह न मेने गार्ग्यस्
मन्त्र १७ [II.i.17]
स होवाचाजातशत्रुर्
SFस ह उवाच अजातशत्रुस्
यत्रैष एतत्.सुप्तोऽभूद्
SFयत्र एषस् एतद् सुप्तस् अभूत्
य एष विज्ञानमयः पुरुषस्
SFयस् एष विज्ञानमयस् पुरुषः
तदेषां प्राणानां विज्ञानेन विज्ञानमादाय
SFतद् एषाम् प्राणानाम् विज्ञानेन विज्नानम् आदाय
य एषोऽन्तर्हृदय आकाशस्
SFयस् एषस् अन्तर्हृदये आकाशः
तस्मिञ्छेते |
SFतस्मिन् शेते
तानि यदा गृह्णाति
SFतानि यदा गृह्णात्य्
अथ हैतत्पुरुषः स्वपिति नाम |
SFअथ ह एतद् पुरुषस् स्वपिति नाम
तद्गृहीत एव प्राणो भवति
SFतद् गृहीतस् एव प्राणस् भवति
गृहीता वाग्
SFगृहीता वाक्
गृहीतं चक्षुर्
SFगृहीतम् चक्षुस्
गृहीतँ श्रोत्रं
SFगृहीताम् श्रोत्रम्
गृहीतं मनः || १७ ||
SFगृहीतम् मनस्
मन्त्र १८ [II.i.18]
स यत्रैतत्स्वप्न्यया चरति
SFस यत्र एतद् स्वप्न्यया चरति
ते हास्य लोकास्
SFते ह अस्य लोकाः
तदुतेव महाराजो भवत्य्
SFतद् उत इव महाराजस् भवति
उतेव महाब्राह्मण
SFउत इव महाब्राह्मणस्
उतेवोच्चावचं निगच्छति |
SFउत इव उच्चावचम् निगच्छति
स यथा महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं
परिवर्तेतैवमेवैष एतत्प्राणान्गृहीत्वा स्वे शरीरे
यथाकामं परिवर्तते || १८ ||
SFस यथा महाराजस् जानपदान् गृहीत्वा स्वे जनपदे
यथाकामम् परिवर्तेत एवम् एव एषस् एतद् प्राणान्
गृहीत्वा
स्वे शरीरे यथाकामम् परिवर्तते
मन्त्र १९ [II.i.19]
अथ यदा सुषुप्तो भवति
SFअथ यदा सुषुप्तस् भवति
यदा न कस्यचन वेद
SFयदा न कस्य चन वेद
हिता नाम नाड्यो द्वासप्ततिः सहस्राणि
हृदयात्पुरीततमभिप्रतिष्ठन्ते |
SFहितास् नाम नाद्यस् द्वासप्ततिस् सहस्राणि हृदयाद्
पुरीततम् अभिप्रतिष्ठन्ते
ताभिः प्रत्यवसृप्य पुरीतति शेते |
SFताभिस् प्रत्यवसृप्य पुरीतति शेते
स यथा कुमारो वा महाराजो
SFस k OMयथा कुमारस् k add.वा महाराजस्
वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष
एतच्छेते || १९ ||
SFवा महाब्राह्मणस् वा अतिघ्नीम् आनन्दस्य गत्वा शयीत
एवम् एव एषस् एतद् शेते
मन्त्र २० [II.i.20]
स यथोर्णभिस्तन्तुनोच्चरेद्
SFस यथा ऊर्णवाभिस् तन्तुना उच्चरेत्
यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्य्
SFयथा अग्नेस् क्षुद्रास् विष्फुलिङ्गास् व्युच्चरन्ति
एवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि
भूतानि व्युच्चरन्ति |
SFएवम् एव अस्माद् आत्मनस् सर्वे प्राणास् सर्वे लोकास्
सर्वे देवास् सर्वाणि भूतानि सर्वे एते आत्मनस् k OM
सर्वे ...
व्युच्चरन्ति
तस्योपनिषत्सत्यस्य सत्यमिति
SFतस्य उपनिषद् सत्यस्य सत्यम् इति
प्राणा वै सत्यं
SFप्राणास् वै सत्यम्
तेषामेष सत्यम् || २० || इति प्रथमं ब्राह्मणम् ||
SFतेषाम् एष सत्यम्
द्वितीयं ब्राह्मणम्
मन्त्र १ [II.ii.1]
यो ह वै शिशुँ साधानँ सप्रत्याधानँ सस्थूणँ
सदामं वेद
SFयस् ह वै शिशुम् साधानम् सप्रत्याधानम्
सस्थूणम् सदामम् वेद
सप्त ह द्विषतो भ्रातृव्यानवरुणद्ध्य्
SFसप्त ह द्विषतस् भ्रातृव्यान् अवरुणद्धि
अयं वाव शिशुर्योऽयं मध्यमः प्राणस्
SFअयम् वाव शिशुस् यस् अयम् मध्यमस् प्राणः
तस्येदमेवाऽऽधानम्
SFतस्य इदम् एव आधानम्
इदं प्रत्याधानं
SFइदम् प्रत्याधानम्
प्राणः स्थूणाऽन्नं दाम || १ ||
SFप्राणस् स्थूणा अन्नम् दाम
मन्त्र २ [II.ii.2]
तमेताः सप्ताक्षितय उपतिष्ठन्ते
SFतम् एतास् सप्त अक्षितयस् उपतिष्ठन्ते
तद्या इमा अक्षँल्लोहिन्यो राजयस्
SFतद् यास् इमास् अक्षन् लोहिन्यस् राजयः
ताभिरेनँ रुद्रोऽन्वायत्तो
SFताभिस् एनम् रुद्रस् अन्वायत्तस्
ऽथ या अक्षन्नापस्
SFअथ यास् अक्षन् आपः
ताभिः पर्जन्यो
SFताभिस् पर्जन्यस्
या कनीनका
SFया कनीनका
तयाऽऽदित्यो
SFतया आदित्यस्
यत्कृष्णं,
SFयद् शुक्लम् कृष्णं
तेनाग्निर्
SFतेन अग्निस्
यच्छुक्लं
SFयद् कृष्णम् शुक्लं
तेनेन्द्रो
SFतेन इन्द्रस्
ऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता
SFअधरया एनम् वर्तन्या पृथिवी अन्वायत्ता
द्यौरुत्तरया |
SFद्यौस् उत्तरया
नास्यान्नं क्षीयते
SFन अस्य अन्नम् क्षीयते
य एवं वेद || २ ||
SFयस् एवम् वेद
मन्त्र ३ [II.ii.3]
तदेष श्लोको भवति |
SFतद् एष श्लोकस् भवति
अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्
SFअर्वाग्बिलस् चमसस् ऊर्ध्वबुध्नः
तस्मिन्यशो निहितं विश्वरूपम् |
SFतस्मिन् यशस् निहितम् विश्वरूपम्]
तस्याऽऽसत ऋषयः सप्त तीरे
SFतस्य आसते ऋषयस् सप्त तीरे
वागष्टमी ब्रह्मणा संविदानेति |
SFवाक् अष्टमी ब्रह्मणा संविदाना इति
अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिरः
SFअर्वाग्बिलस् चमसस् ऊर्ध्वबुध्नस् इति इदम् तद्
शरीरस्
एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः |
SFएष हि अर्वाग्बिलस् चमसस् ऊर्ध्वबुध्नः
तस्मिन्यशो निहितं विश्वरूपमिति
SFतस्मिन् यशस् निहितम् विश्वरूपम् इति
प्राणा वै यशो निहितं विश्वरूपम्
SFप्राणास् वै यशस् निहितम् विश्वरूपम्
प्राणानेतदाह |
SFप्राणान् एतद् आह
तस्याऽऽसत ऋषयः सप्त तीर इति
SFतस्य आसते ऋषयस् सप्त तीरे इति
प्राणा वा ऋषयः
SFप्राणास् वै ऋषयस्
प्राणाणेतदाह |
SFप्राणाण् एतद् आह
वागष्टमी ब्रह्मणा संविदानेति
SFवाक् अष्टमी ब्रह्मणा संविदाना इति
वाग्घ्यष्टमी ब्रह्मणा संवित्ते || ३ ||
SFवाक् हि अष्टमी ब्रह्मणा संवित्ते
मन्त्र ४ [II.ii.4]
इमावेव गोतमभरद्वाजाव्
SFइमौ एव गोतमभरद्वाजौ
अयमेव गोतमो
SFअयम् एव गोतमस्
ऽयं भरद्वाज
SFअयम् भरद्वाजस्
इमावेव विश्वामित्रजमदग्नी
SFइमौ एव विश्वामित्रजमदग्नी
अयमेव विश्वामित्रो
SFअयम् एव विश्वामित्रस्
ऽयं जमदग्निर्
SFअयम् जमदग्निस्
इमावेव वसिष्ठकश्यपाव्
SFइमौ एव वसिष्ठकश्यपौ
अयमेव वसिष्ठो
SFअयम् एव वसिष्ठस्
ऽयं कश्यपो
SFअयम् कश्यपस्
वागेवात्रिर्
SFवाक् एव अत्रिस्
वाचा ह्यन्नमद्यते
SFवाचा हि अन्नम् अद्यते
ऽत्तिर्ह वै नामैतद्यदत्रिरिति |
SFअत्तिस् ह वै नाम एतद् यद् अत्रिस् इति
सर्वस्यात्ता भवति
SFसर्वस्य अत्ता भवति
सर्वमस्यान्नं भवति
SFसर्वम् अस्य अन्नम् भवति
य एवं वेद || ४ || इति द्वितीयं ब्राह्मणम् ||
SFयस् एवम् वेद
तृतीयं ब्राह्मणम् .
मन्त्र १ [II.iii.1]
द्वे वाव ब्रह्मणो रूपे
SFद्वे वाव ब्रह्मणस् रूपे
मूर्तं चैवामूर्तं च
SFमूर्तम् च एव अमूर्तम् च
मर्त्यं चामृतं च
SFमर्त्यम् च अमृतम् च
स्थितं च यच्च
SFस्थितम् च यत् च
सच्च त्यच्च || १ ||
SFसत् च त्यम् च
मन्त्र २ [II.iii.2]
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यम्
SFतद् एतन् मूर्तम् यद् अन्यद् वायोस् च अन्तरिक्षाद्
च एतद् मर्त्यम्
एतत्स्थितम्
SFएतद् स्थितम्
एतत्सत् |
SFएतद् सत्
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत
एष रसो य एष तपति
SFतस्य एतस्य मूर्तस्य एतस्य मर्त्यस्य एतस्य स्थितस्य
एतस्य सतस् एष रसस् यस् एष तपति
सतो ह्येष रसः || २ ||
SFसतस् हि एष रसस्
मन्त्र ३ [II.iii.3]
अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतम्
SFअथ अमूर्तम् वायुस् च अन्तरिक्षस् च एतद् अमृतम्
एतद्यद्
SFएतद् यत्
एतत्त्यत्
SFएतद् त्यम्
तस्यैतस्यामूर्तस्यै
SFतस्य एतस्य अमूर्तस्य
तस्यामृतस्यैतस्य यत
SFतस्य अमृतस्य एतस्य यतस्
एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषस्
SFएतस्य त्यस्य एष रसस् यस् एषस् एतस्मिन् मण्डले
पुरुषः
तस्य ह्येष रस |
SFत्यस्य हि एष रसस्
इत्यधिदैवतम् || ३ ||
SFइति अधिदेवतम्
मन्त्र ४ [II.iii.4]
अथाध्यात्मम्
SFअथ अध्यात्मम्
इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश
SFइदम् एव मूर्तम् यद् अन्यद् प्राणाद् च यस् च
अयम् अन्तरात्मन् आकाशस्
एतन्मर्त्यम्
SFएतद् मर्त्यम्
एतत्स्थितम्
SFएतद् स्थितम्
एतत्सत्
SFएतद् सत्
तस्यैतस्य मूर्तस्यै
SFतस्य एतस्य मूर्तस्य
तस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः
SFएतस्य मर्त्यस्य एतस्य स्थितस्य एतस्य सतस् एष
रसस् यद् चक्षुस्
सतो ह्येष रसः || ४ ||
SFसतस् हि एष रसस्
मन्त्र ५ [II.iii.5]
अथामूर्तम्
SFअथ अमूर्तम्
प्राणश्च यश्चायमन्तरात्मन्नाकाश
SFप्राणस् च यस् च अयम् अन्तरात्मन् आकाशस्
एतदमृतम्
SFएतद् अमृतम्
एतद्यद्
SFएतद् यत्
एतत्त्यं
SFएतद् त्यम्
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत
SFतस्य एतस्य अमूर्तस्य एतस्य अमृतस्य एतस्य यतस्
एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन्पुरुषस्
SFएतस्य त्यस्य एष रसस् यस् अयम् दक्षिणे अक्षन्
पुरुषः
त्यस्य ह्येष रसः || ५ ||
SFत्यस्य हि एष रसस्
मन्त्र ६ [II.iii.6]
तस्य हैतस्य पुरुषस्य रूपम् | यथा माहारजनं वासो
SFतस्य ह एतस्य पुरुषस्य रूपम् यथा माहारजनम्
वासस्
यथा पाण्ड्वाविकम्
SFयथा पाण्ड्वाविकम्
यथेन्द्रगोपो
SFयथा इन्द्रगोपस्
यथाऽग्न्यर्चिर्
SFयथा अग्न्यर्चिस्
यथा पुण्डरीकम्
SFयथा पुण्डरीकम्
यथा सकृद्विद्युत्तँ |
SFयथा सकृद्विद्युत्तम्
सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति
SFसकृद्विद्युत्ता एव ह वै अस्य श्रीस् भवति
य एवं वेदा
SFयस् एवम् वेद
थात आदेशो
SFअथ अतस् आदेशस्
नेति नेति
SFन इति न इति
न ह्येतस्मादिति नेत्यन्यत् परमस्त्य्
SFन हि एतस्माद् इति न इति अन्यद् परम् अस्ति
अथ नामधेयँ सत्यस्य सत्यमिति
SFअथ नामधेयम् सत्यस्य सत्यम् इति
प्राणा वै सत्यम्
SFप्राणास् वै सत्यम्
तेषामेष सत्यम् || ६ || इति तृतीयं ब्राह्मणम् ||
SFतेषाम् एष सत्यम्
चतुर्थं ब्राह्मणम् .
मन्त्र १ [II.iv.1]
मैत्रेयीति होवाच याज्ञवल्क्य
SFमैत्रेयि इति ह उवाच याज्ञवल्क्यस्
उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि |
SFउद्यास्यन् वै अरे अहम् अस्माद् स्थानाद् अस्मि
हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति || १ ||
SFहन्त ते अनया कात्यायन्या अन्तम् करवाणि इति
मन्त्र २ [II.iv.1]
सा होवाच मैत्रेयी
SFसा ह उवाच मैत्रेयी
यन्नु म इयम्
SFयद् मे इयम्
भगोः
SFभगोस्
सर्वा पृथिवी वित्तेन पूर्णा स्यात्
SFसर्वा पृथिवी वित्तेन पूर्णा स्यात्
कथं तेनामृता स्यामिति |
SFकथम् तेन अमृता स्याम् इति
नेति होवाच याज्ञवल्क्यो
SFन इति ह उवाच याज्ञवल्क्यस्
यथैवोपकरणवतां जीवितम्
SFयथा एव उपकरणवताम् जीवितम्
तथैव ते जीवितँ स्याद्
SFतथा एव ते जीवितम् स्यात्
अमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेनेति || २ ||
SFअमृतत्वस्य तु न आशा अस्ति वित्तेन इति
मन्त्र ३ [II.iv.3]
सा होवाच मैत्रेयी
SFसा ह उवाच मैत्रेयी
येनाहं नामृता स्याम्
SFयेन अहम् न अमृता स्याम्
किमहं तेन कुर्यां |
SFकिम् अहम् तेन कुर्याम्
यदेव भगवान्वेद
SFयद् एव भगवान् वेद
तदेव मे ब्रूहीति || ३ ||
SFतद् एव मे ब्रूहि इति
मन्त्र ४ [II.iv.4]
स होवाच याज्ञवल्क्यः
SFस ह उवाच याज्ञवल्क्यस्
प्रिया बतारे नः सती प्रियं भाषस
SFप्रिया वत अरे बत अरे नस् सती प्रियम् भाषसे
एह्य्
SFएहि
आस्स्व
SFअस्व अस्स्व
व्याख्यास्यामि ते |
SFव्याख्यास्यामि ते
व्याचक्षाणस्य तु मे निदिध्यासस्वेति || ४ ||
SFव्याचक्षाणस्य तु मे निदिध्यासस्व इति
मन्त्र ५ [II.iv.5]
स होवाच
SFस ह उवाच याज्ञवल्क्यस्k OM.
न वा अरे पत्युः कामाय पतिः प्रियो भवत्य्
SFन वै अरे पत्युर् कामाय पतिस् प्रियस् भवति
आत्मनस्तु कामाय पतिः प्रियो भवति |
SFआत्मनस् तु कामाय पतिस् प्रियस् भवति
न वा अरे जायायै कामाय जाया प्रिया भवत्य्
SFन वै अरे जायायै कामाय जाया प्रिया भवति
आत्मनस्तु कामाय जाया प्रिया भवति |
SFआत्मनस् तु कामाय जाया प्रिया भवति
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य्
SFन वै अरे पुत्राणाम् कामाय पुत्रास् प्रियास् भवन्ति
आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति |
SFआत्मनस् तु कामाय पुत्रास् प्रियास् भवन्ति
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य्
SFन वै अरे वित्तस्य कामाय वित्तम् प्रियम् भवति
आत्मनस्तु कामाय वित्तं प्रियं भवति |
SFआत्मनस् तु कामाय वित्तम् प्रियम् भवति
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य्
SFन वै अरे ब्रह्मणस् कामाय ब्रह्म प्रियम् भवति
आत्मनस्तु कामाय ब्रह्म प्रियं भवति |
SFआत्मनस् तु कामाय ब्रह्म प्रियम् भवति
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य्
SFन वै अरे क्षत्रस्य कामाय क्षत्रम् प्रियम् भवति
आत्मनस्तु कामाय क्षत्रं प्रियं भवति |
SFआत्मनस् तु कामाय क्षत्रम् प्रियम् भवति
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य्
SFन वै अरे लोकानाम् कामाय लोकास् प्रियास् भवन्ति
आत्मनस्तु कामाय लोकाः प्रिया भवन्ति |
SFआत्मनस् तु कामाय लोकास् प्रियास् भवन्ति
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य्
SFन वै अरे देवानाम् कामाय देवास् प्रियास् भवन्ति
आत्मनस्तु कामाय देवाः प्रिया भवन्ति |
SFआत्मनस् तु कामाय देवास् प्रियास् भवन्ति
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य्
SFन वै अरे भूतानाम् कामाय भूतानि प्रियाणि भवन्ति
आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति |
SFआत्मनस् तु कामाय भूतानि प्रियाणि भवन्ति
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य्
SFन वै अरे सर्वस्य कामाय सर्वम् प्रियम् भवति
आत्मनस्तु कामाय सर्वं प्रियं भवत्य्
SFआत्मनस् तु कामाय सर्वम् प्रियम् भवति
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो |
SFआत्मा वै अरे द्रष्टव्यस् श्रोतव्यस् मन्तव्यस्
निदिध्यासितव्यस्
मैत्रेय्य्
SFमैत्रेयि
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदँ सर्वं
विदितम् || ५ ||
SFआत्मनस् वै अरे दर्शनेन श्रवणेन मत्या विज्ञानेन
इदम् सर्वम् विदितम्
मन्त्र ६ [II.iv.6]
ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद
SFब्रह्म तम् परादात् यस् अन्यत्र आत्मनस् ब्रह्म वेद
क्षत्रं तं परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद
SFक्षत्रम् तम् परादात् यस् अन्यत्र आत्मनस्
क्षत्रम् वेद
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद
SFलोकास् तम् परादुर्यस् अन्यत्र आत्मनस् लोकान् वेद
देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद
SFदेवास् तम् परादुर्यस् अन्यत्र आत्मनस् देवान् वेद
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद
SFभूतानि तम् परादुर् यस् अन्यत्र आत्मनस् भूतानि वेद
सर्वं तं परादाद् योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं
क्षत्रम्
SFसर्वम् तम् परादात् यस् अन्यत्र आत्मनस् सर्वम्
वेद इदम् ब्रह्म इदम् क्षत्रम्
इमे लोका
SFइमे लोकास्
इमे देवा
SFइमे देवास्
इमानि भूतानीदँ सर्वम्
SFइमानि भूतानि इदम् सर्वम्
यदयमात्मा || ६ ||
SFयद् अयम् आत्मा
मन्त्र ७ [II.iv.7]
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्
ग्रहणाय
SFस यथा दुन्दुभेस् हन्यमानस्य न बाह्यान् शब्दान्
शक्नुयात् ग्रहणाय
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः || ७ ||
SFदुन्दुभेस् तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दस्
गृहीतस्
मन्त्र ८ [II.iv.8]
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्
ग्रहणाय
SFस यथा षङ्खस्य ध्मायमानस्य न बाह्यान् शब्दान्
शक्नुयात् ग्रहणाय
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः || ८ ||
SFषङ्खस्य तु ग्रहणेन षङ्खध्मस्य वा शब्दस्
गृहीतस्
मन्त्र ९ [II.iv.9]
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्
ग्रहणाय
SFस यथा वीणायै वाद्यमानायै न बाह्यान् शब्दान्
शक्नुयात् ग्रहणाय
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः || ९ ||
SFवीणायै तु ग्रहणेन वीणावादस्य वा शब्दस् ग्र्हीतस्
मन्त्र १०
स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथग्धूमा
विनिश्चरन्त्य्
SFस यथा आर्द्रैधाग्नेस् अभ्याहितस्य अभ्याहिताद्
पृथक् धूमास् विनिश्चरन्ति
एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्
यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं
विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्य्
SFएव वै अरे अस्य महतस् भूतस्य निश्वसितम्
निःश्वसितम् एतद् यद् ऋग्वेदस् यजुर्वेदस्
सामवेदस्
अथर्वाङ्गिरसस् इतिहासस् पुराणम् विद्यास्
उपनिषदस्
श्लोकास् सूत्राणि अनुव्याख्यानानि व्याख्याननि
अस्यैवैतानि निःश्वसितानि || १० ||
SFअस्य एव एतानि सर्वाणि निश्वसितानिkनिःश्वसितानि
मन्त्र ११ [II.iv.11]
स यथा सर्वासामपाँ समुद्र एकायनम्
SFस यथा सर्वासाम् अपाम् समुद्रस् एकायनम्
एवँ सर्वेषाँ स्पर्शानां त्वगेकायनम्
SFएवम् सर्वेषाम् स्पर्शानाम् त्वक् एकायनम्
एवँ सर्वेषां गन्धानां नासिकैकायनम्
SFएवम् सर्वेषाम् गन्धानाम् नासिके एकायनम्
एवँ सर्वेषाँ रसानां जिह्वैकायनम्
SFएवम् सर्वेषाम् रसानाम् जिह्वा एकायनम्
एवँ सर्वेषाँ रूपाणां चक्षुरेकायनम्
SFएवम् सर्वेषाम् रूपाणाम् चक्षुस् एकायनम्
एवँ सर्वेषाँ शब्दानाँ श्रोत्रमेकायनम्
SFएवम् सर्वेषम् शब्दानाम् श्रोत्रम् एकायनम्
एवँ सर्वेषाँ सङ्कल्पानां मन एकायनम्
SFएवम् सर्वेषाम् सङ्कल्पानाम् मनस् एकायनम्
एवँ सर्वासां विद्यानाँ हृदयमेकायनम्
SFएवम् सर्वासाम् विद्यानाम् हृदयम् एकायनम्
एवँ सर्वेषां कर्मणाँ हस्तावेकायनम्
SFएवम् सर्वेषाम् कर्मणाम् हस्तौ एकायनम्
एवँ सर्वेषामानन्दानामुपस्थ एकायनम्
SFएवम् सर्वेषाम् आनन्दानाम् उपस्थस् एकायनम्
एवँ सर्वेषां विसर्गाणां पायुरेकायनम्
SFएवम् सर्वेषाम् विसर्गाणाम् पायुस् एकायनम्
एवँ सर्वेषामध्वनां पादावेकायनम्
SFएवम् सर्वेषाम् अध्वनाम् पादौ एकायनम्
एवँ सर्वेषां वदानां वागेकायनम् || ११ ||
SFएवम् सर्वेषाम् वदानाम् वाक् एकायनम्
मन्त्र १२ [II.iv.12]
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत
SFस यथा सैन्धवखिल्यस् उदके प्रास्तस् उदकम् एव
अनुविलीयेत
न हास्योद्ग्रहणायेव न हास्योद्ग्रहणायैव स्याद्
SFन अह अस्य उद्ग्रहणाय एव न ह अस्य उद्ग्रहणाय एव स्यात्
यतो यतस्त्वाददीत लवणमेवैवं वा अर इदं महद्
भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय
SFयतो-यतस् तु आददीत लवणम् एव एवम् वै अरे इदम्
महत् भूतम् अनन्तम् अपारम् विज्ञानघनस् एव
एतेभ्यस्
भूतेभ्यस् समुत्थाय
तान्येवानुविनश्यति
SFतानि एव अनुविनश्यति
न प्रेत्य संज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः || १२ ||
SFन प्रेत्य संज्ञा अस्ति इति अरे ब्रवीमि इति ह उवाच
याज्ञवल्क्यस्
मन्त्र १३ [II.iv.13]
सा होवाच मैत्रेय्य्
SFसा ह उवाच मैत्रेयी
अत्रैव मा भगवानमूमुहद्
SFअत्र एव मा भगवान् अमूमुहन्
न प्रेत्य संज्ञाऽस्तीति |
SFन प्रेत्य संज्ञा अस्ति इति
स होवाच
SFस ह उवाच याज्ञवल्क्यस्k OM.
न वा अरेऽहं मोहं ब्रवीम्य्
SFन वै अरे अहम् मोहम् ब्रवीमि
अलं वा अर इदं विज्ञानाय || १३ ||
SFअलम् वै अरे इदम् विज्ञानाय
मन्त्र १४ [II.iv.14]
यत्र हि द्वैतमिव भवति
SFयत्र हि द्वैतम् इव भवति
तदितर इतरं जिघ्रति
SFतद् इतरस् इतरम् जिघ्रति
तदितर इतरं पश्यति
SFतद् इतरस् इतरम् पश्यति
तदितर इतरँ शृणोति
SFतद् इतरस् इतरम् शृणोति
तदितर इतरमभिवदति
SFतद् इतरस् इतरम् अभिवदति
तदितर इतरं मनुते
SFतद् इतरस् इतरम् मनुते
तदितर इतरं विजानाति |
SFतद् इतरस् इतरम् विजानाति
यत्र वा अस्य सर्वमात्मैवाभूत्
SFयत्र तु अस्य सर्वम् आत्मा एव अभूत्
तत्केन कं जिघ्रेत्
SFतद् केन कम् जिघ्रेत्
तत्केन कं पश्येत्
SFतद् केन कम् पश्येत्
तत्केन कँ शृणुयात्
SFतद् केन कम् शृणुयात्
तत्केन कमभिवदेत्
SFतद् केन कम् अभिवदेत्
तत्केन कं मन्वीत
SFतद् केन कम् मन्वीत
तत्केन कं विजानीयात् |
SFतद् केन कम् विजानीयात्
येनेदँ सर्वं विजानाति
SFयेन इदम् सर्वम् विजानाति
तं केन विजानीयाद्
SFतम् केन विजानीयात्
विज्ञातारमरे केन विजानीयादिति || १४ || इति चतुर्थं
ब्राह्मणम् ||
SFविज्ञातारम् अरे केन विजानीयात् इति
पञ्चमं ब्राह्मणम्
मन्त्र १ [II.v.1]
इयं पृथिवी सर्वेषां भूतानां मध्व्
SFइयम् पृथिवी सर्वेषाम् भूतानाम् मधु
अस्यै पृथिव्यै सर्वाणि भूतानि मधु
SFअस्यै पृथिव्यै सर्वाणि भूतानि मधु
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्याम् पृथिव्याम् तेजोमयस्
अमृतमयस् पुरुषस्
यश्चायमध्यात्मँ शारीरस्तेजोमयोऽमृतमयः पुरुषः
SFयस् च अयम् अध्यात्मम् शारीरस् तेजोमयस्
अमृतमयस् पुरुषस्
अयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्म्
SFइदम् ब्रह्म
एदँ सर्वम् || १ ||
SFइदम् सर्वम्
मन्त्र २ [II.v.2]
इमा आपः सर्वेषां भूतानां मध्व्
SFइमास् आपस् सर्वेषाम् भूतानाम् मधु
असामपाँ सर्वाणि भूतानि मधु
SFअसाम् अपाम् सर्वाणि भूतानि मधु
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषः
SFयस् च अयम् आसु अप्सु तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मँ रैतसस्तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अध्यात्मम् रैतसस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्म्
SFइदम् ब्रह्म
एदँ सर्वम् || २ ||
SFइदम् सर्वम्
मन्त्र ३ [II.v.3]
अयमग्निः सर्वेषां भूतानां मध्व्
SFअयम् अग्निस् सर्वेषाम् भूतानाम् मधु
अस्याग्नेः सर्वाणि भूतानि मधु
SFअस्य अग्नेस् सर्वाणि भूतानि मधु
यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् अग्नौ तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अध्यात्मम् वाङ्मयस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्म्
SFइदम् ब्रह्म
एदँ सर्वम् || ३ ||
SFइदम् सर्वम्
मन्त्र ४ [II.v.4]
अयं वायुः सर्वेषां भूतानां मध्व्
SFअयम् वायुस् सर्वेषाम् भूतानाम् मधु
अस्य वायोः सर्वाणि भूतानि मधु
SFअस्य वायोस् सर्वाणि भूतानि मधु
यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् वायौ तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अध्यात्मम् प्राणस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदं अमृतम्.
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || ४ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र ५ [II.v.5]
अयमादित्यः सर्वेषां भूतानां मध्व्
SFअयम् आदित्यस् सर्वेषाम् भूतानाम् मधु
अस्याऽऽदित्यस्य सर्वाणि भूतानि मधु
SFअस्य आदित्यस्य सर्वाणि भूतानि मधु
यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् आदित्ये तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अध्यात्मम् चाक्षुषस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || ५ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र ६ [II.v.6]
इमा दिशः सर्वेषां भूतानां मध्व्
SFइमास् दिशस् सर्वेषाम् भूतानाम् मधु
आसां दिशाँ सर्वाणि भूतानि मधु
SFअसाम् दिशाम् सर्वाणि भूतानि मधु
यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् आसु दिक्षु तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मँ श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः
पुरुषो
SFयस् च अयम् अध्यात्मम् श्रौत्रस् प्रातिश्रुत्कस्
तेजोमयस् अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || ६ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र ७ [II.v.7]
अयं चन्द्रः सर्वेषां भूतानां मध्व्
SFअयम् चन्द्रस् सर्वेषाम् भूतानाम् मधु
अस्य चन्द्रस्य सर्वाणि भूतानि मधु
SFअस्य चन्द्रस्य सर्वाणि भूतानि मधु
यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् चन्द्रे तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अध्यात्मम् मानसस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || ७ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र ८ [II.v.8]
इयं विद्युत्सर्वेषां भूतानं मध्व्
SFइयम् विद्युत् सर्वेषाम् भूतानम् मधु
अस्यै विद्युतः सर्वाणि भूतानि मधु
SFअस्यै विद्युतस् सर्वाणि भूतानि मधु
यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्याम् विद्युति तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अध्यात्मम् तैजसस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || ८ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र ९ [II.v.9]
अयँ स्तनयित्नुः सर्वेषां भूतानां मध्व्
SFअयम् स्तनयित्नुस् सर्वेषाम् भुतानाम् मधु
अस्य स्तनयित्नोः सर्वाणि भूतानि मधु
SFअस्य स्तनयित्नोस् सर्वाणि भूतानि मधु
यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् स्तनयित्नौ तेजोमयस्
अमृतमयस् पुरुषस्
यश्चायमध्यात्मँ शाब्दः सौवरस्तेजोमयोऽमृतमयः
पुरुषो
SFयस् च अयम् अध्यात्मम् शाब्दस् सौवरस्
तेजोमयस् अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || ९ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र १० [II.v.10]
अयमाकाशः सर्वेषां भूतानां मध्व्
SFअयम् आकाशस् सर्वेषाम् भूतानाम् मधु
अस्याऽऽकाशस्य सर्वाणि भूतानि मधु
SFअस्य आकाशस्य सर्वाणि भूतानि मधु
यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् आकाशे तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मँ हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषः
SFयस् च अयम् अध्यात्मम् हृदि आकाशस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || १० ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र ११ [II.v.11]
अयं धर्मः सर्वेषां भूतानां मध्व्
SFअयम् धर्मस् सर्वेषाम् भूतानाम् मधु
अस्य धर्मस्य सर्वाणि भूतानि मधु
SFअस्य धर्मस्य सर्वाणि भूतानि मधु
यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् धर्मे तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अध्यात्मम् धार्मस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || ११ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र १२ [II.v.12]
इदँ सत्यँ सर्वेषां भूतानां मध्व्
SFइदम् सत्यम् सर्वेषाम् भूतानाम् मधु
अस्य सत्यस्य सर्वाणि भूतानि मधु
SFअस्य सत्यस्य सर्वाणि भूतानि मधु
यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् सत्ये तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मँ सात्यस्तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अध्यात्मम् सात्यस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || १२ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र १३ [II.v.13]
इदं मानुषँ सर्वेषां भूतानां मध्व्
SFइदम् मानुषम् सर्वेषाम् भूतानाम् मधु
अस्य मानुषस्य सर्वाणि भूतानि मधु
SFअस्य मानुषस्य सर्वाणि भूतानि मधु
यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् मानुषे तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अध्यात्मम् मानुषस् तेजोमयस्
अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || १३ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र १४ [II.v.14]
अयमात्मा सर्वेषां भूतानां मध्व्
SFअयम् आत्मा सर्वेषाम् भूतानाम् मधु
अस्याऽऽत्मनः सर्वाणि भूतानि मधु
SFअस्य आत्मनस् सर्वाणि भूतानि मधु
यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् अस्मिन् आत्मनि तेजोमयस् अमृतमयस्
पुरुषस्
यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषो
SFयस् च अयम् आत्मा तेजोमयस् अमृतमयस् पुरुषस्
ऽयमेव स योऽयमात्मेदममृतम्
SFअयम् एव स यस् अयम् आत्मा इदम् अमृतम्
इदं ब्रह्मेदँ सर्वम् || १४ ||
SFइदम् ब्रह्म इदम् सर्वम्
मन्त्र १५ [II.v.15]
स वा अयमात्मा सर्वेषां भूतानामधिपतिः
SFस वै अयम् आत्मा सर्वेषाम् अधिपतिस्
सर्वेषां भूतानाँ राजा |
SFसर्वेषाम् भूतानाम् राजा
तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता
SFतद् यथा रथनाभौ च रथनेमौ च अरास् सर्वे
समर्पितास्
एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे
प्राणाः सर्व एत आत्मानः समर्पिताः || १५ ||
SFएवम् एव अस्मिन् आत्मनि सर्वाणि भूतानि सर्वे देवास्
सर्वे लोकास् सर्वे प्राणास् सर्वे एते आत्मानस् समर्पितास्
मन्त्र १६ [II.v.16]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच |
SFइदम् वै तद् मधु दध्यङ् अथर्वणस् आश्विभ्याम्
उवाच
तदेतदृषिः पश्यन्नवोचत् .
SFतद् एतद् ऋषिस् पश्यन् अवोचत्
तद्वाम्
SFतद् वां
नरा
SFनरा
सनये दँस उग्रम्
SFसनये दँसस् उग्रम्
आविष्कृणोमि
SFअविस् कृणोमि
तन्यतुर्न वृष्टिम् |
SFतन्यतुस् न वृष्टिम्
दध्यङ् ह यन्मध्वाथर्वणो वाम्
SFदध्यङ् ह यद् मधु अथर्वणस् वाम्
अश्वस्य शीर्ष्णा प्र यदीमुवाचेति || १६ ||
SFअश्वस्य शीर्ष्णा प्र यद् ईम् उवाच इति
मन्त्र १७ [II.v.17]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच |
SFइदम् वै तद् मधु दध्यङ् अथर्वणस् आश्विभ्याम्
उवाच
तदेतदृषिः पश्यन्नवोचत् .
SFतद् एतद् ऋषिस् पश्यन् अवोचत्
आथर्वणायाश्विनौ दधीचेऽश्व्यँ शिरः प्रत्यैरयतम् |
SFअथर्वणाय आश्विना दधीचे अश्व्यम् शिरस् प्रति
ऐरयतम्
स वां मधु प्रवोचदृतायन्
SFस वाम् मधु प्र वोचत् ऋतायन्
त्वाष्ट्रं यद्
SFत्वाष्ट्रम् यद्
दस्राव्
SFदस्रौ
अपि कक्ष्यं वामिति || १७ ||
SFअपिकक्ष्यम् वाम् इति
मन्त्र १८ [II.v.18]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच |
SFइदम् वै तद् मधु दध्यङ् अथर्वणस् आश्विभ्याम्
उवाच
तदेतदृषिः पश्यन्नवोचत्
SFतद् एतद् ऋषिस् पश्यन् अवोचत् .
पुरश्चक्रे द्विपदः
SFपुरस् चक्रे द्विपदस्
पुरश्चक्रे चतुष्पदः |
SFपुरस् चक्रे चतुष्पदस्
पुरः स
SFपुरस् स
पक्षी भूत्वा
SFपक्षी भुत्वा
पुरः पुरुष आविशदिति |
SFपुरस् पुरुषस् आविशत् इति
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो
SFस वै अयम् पुरुषस् सर्वासु पूर्षु पुरिशयस्
नैनेन किंचनानावृतम्
SFन एनेन किम् चन अनावृतम्
नैनेन किंचनासंवृतम् || १८ ||
SFन एनेन किम् चन असम्वृतम्
मन्त्र १९ [II.v.19]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच |
SFइदम् वै तद् मधु दध्यङ् अथर्वणस् आश्विभ्याम्
उवाच
तदेतदृषिः पश्यन्नवोचत् .
SFतद् एतद् ऋषिस् पश्यन् अवोचत्
रूपँरूपं प्रतिरूपो बभूव
SFरूपँ-रूपम् प्रतिरूपस् बभूव
तदस्य रूपं प्रतिचक्षणाय .
SFतद् अस्य रूपम् प्रतिचक्ष्हणाय
इन्द्रो मायाभिः पुरुरूप ईयते
SFइन्द्रस् मायाभिस् पुरुरूपस् ईयते
युक्ता ह्यस्य हरयः शता दशेतिय्
SFयुक्तास् हि अस्य हरयस् शता दश इति
अयं वै हरयो
SFअयम् वै हरयस्
ऽयं वै दश च सहस्रणि बहूनि चानन्तानि च |
SFअयम् वै दश च सहस्रणि बहूनि च अनन्तानि च
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्
SFतद् एतद् ब्रह्म अपूर्वम् अनपरम् अनन्तरम् अबाह्यम्
अयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् || १९ || इति पञ्चमं
ब्राह्मणम् ||
SFअयम् आत्मा ब्रह्म सर्वानुभूस्
षष्ठं ब्राह्मणम्
मन्त्र १ [II.vi.1]
अथ वँशः
SFअथ वँशस्
पौतिमाष्यो गौपवनाद्
SFपशुतिमाष्यस् गौपवनाद्
गौपवनः पौतिमाष्यात्
SFगौपवनस् पशुतिमाष्याद्
पौतिमाष्यो गौपवनाद्
SFपशुतिमाष्यस् गौपवनाद्
गौपवनः कौशिकात्
SFगौपवनस् कौशिकाद्
कौशिकः कौण्डिन्यात्
SFकौशिकस् कौण्डिन्याद्
कौण्डिन्यः शाण्डिल्याच्
SFकौण्डिन्यस् हाण्डिल्याद्
छाण्डिल्यः कौशिकाच्च गौतमाच्च
SFहाण्डिल्यस् कौशिकाद् च गौतमाद् च
गौतमः || १ ||
SFगौतमस्
मन्त्र २ [II.vi.2]
आग्निवेश्याद्
SFअग्निवेश्याद्
अग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च्
SFअग्निवेश्यस् हाण्डिल्याद् च अनभिम्लाताद् च
आनभिम्लात आनभिम्लाताद्
SFअनभिम्लातस् अनभिम्लाताद्
अनभिम्लात अनभिम्लाताद्
SFअनभिम्लातस् अनभिम्लाताद्
अनभिम्लातो गौतमाद्
SFअनभिम्लातस् गौतमाद्
गौतमः सैतवप्राचीनयोग्याभ्याँ,
SFगौतमस् शैतवप्राचीनयोग्याभ्याम्
सैतवप्राचीनयोग्यौ पाराशर्यात्
SFशैतवप्राचीनयोग्यौ पाराशर्याद्
पाराशर्यो भारद्वाजाद्
SFपाराशर्यस् भारद्वाजाद्
भारद्वाजो भारद्वाजाच्च गौतमाच्च
SFभारद्वाजस् भारद्वाजाद् च गौतमाद् च
गौतमो भारद्वाजाद्
SFगौतमस् भारद्वाजाद्
भारद्वाजः पाराशर्यात्
SFभारद्वाजस् पाराशर्याद्
पाराशर्यो वैजवापायनाद्
SFपाराशर्यस् वैजवापायनाद्
वैजवापायनः कौशिकायनेः
SFवैजवापायनस् कौशिकायनेस्
कौशिकायनिः || २ ||
SFकौशिकायनिस्
मन्त्र ३ [II.vi.3]
घृतकौशिकाद्
SFघृतकौशिकाद्
घृतकौशिकः पाराशर्यायणात्
SFघृतकौशिकस् प्राशर्यायणाद्
पारशर्यायणः पाराशर्यात्
SFपारशर्यायणस् पाराशर्याद्
पाराशर्यो जातूकर्ण्याज्
SFपाराशर्यस् जातूकर्ण्याद्
जातूकर्ण्य आसुरायणाच्च यास्काच्च्
SFजातूकर्ण्यस् असुरायणाद् च यास्काद् च
ऽऽसुरायणस्त्रैवणेस्
SFअसुरायणस् त्रैवणेस्
त्रैवणिरौपजन्धनेर्
SFत्रैवणिस् आउपजन्धनेस्
औपजन्धनिरासुर्र्
SFऔपजन्धनिस् असुरेस्
आसुरिर्भारद्वाजाद्
SFअसुरिस् भारद्वाजाद्
भारद्वाज आत्रेयाद्
SFभारद्वाजस् अत्रेयाद्
अत्रेयो माण्टेर्
SFअत्रेयस् माण्टेस्
माण्टिर्गौतमाद्
SFमाण्टिस् गौतमाद्
गौतमो गौतमाद्
SF
गौतमो वात्स्याद्
SFगौतमस् वात्स्याद्
वात्स्यः शाण्डिल्याच्
SFवात्स्यस् हाण्डिल्याद्
छाण्डिल्यः कैशोर्यात्काप्यात्
SFहाण्डिल्यस् कैशोर्याद् काप्याद्
कैशोर्यः काप्यः कुमारहारितात्
SFकैशोर्यस् काप्यस् कुमारहारिताद्
कुमारहारितो गालवाद्
SFकुमारहारितस् गालवाद्
गालवो विदर्भीकौण्डिन्याद्
SFगालवस् विदर्भीकौण्डिन्याद्
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्
SFविदर्भीकौण्डिन्यस् वत्सनपातस् बाभ्रवाद्
वत्सनपाद्बाभ्रवः पथः सौभरात्
SFवत्सनपाद् बाभ्रवस् पथस् शौभराद्
पन्थाः सौभरोऽयास्यादाङ्गिरसाद्
SFपन्थास् शौभरस् आयास्याद् अङ्गिरसाद्
अयास्य आङ्गिरस आभूतेस्त्वाष्ट्राद्
SFअयास्यस् अङ्गिरसस् अभूतेस् त्वाष्ट्राद्
आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्
SFअभूतिस् त्वाष्ट्रस् विश्वरूपाद् त्वाष्ट्राद्
विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम्
SFविश्वरूपस् त्वाष्ट्रस् आश्विभ्याम्
अश्विनौ दधीच आथर्वणाद्
SFअश्विनौ दधीचस् अथर्वणाद्
दध्यङ्ङाथर्वणोऽथर्वणो दैवाद्
SFदध्यङ् अथर्वणस् आथर्वणस् दैवाद्
अथर्वा दैवो मृत्योः प्राध्वँसनान्
SFअथर्वा दैवस् मृत्योस् प्राध्वँसनाद्
मृत्युः प्राध्वँसनः प्रध्वँसनात्
SFमृत्युस् प्राध्वँसनस् प्रध्वँसनाद्
प्रध्वँसन एकर्षेः
SFप्रध्वँसनस् एकर्षेस्
एकर्षिर्विप्रचित्तेर्
SFएकर्षिस् विप्रचित्तेस्
विप्रचित्तिर्व्यष्टेर्
SFविप्रचित्तिस् व्यष्टेस्
व्यष्टिः सनारोः
SFव्यष्टिस् शनारोस्
सनारुः सनातनात्
SFशनारुस् शनातनाद्
सनातनः सनगात्
SFशनातनस् शनगाद्
सनगः परमेष्ठिनः
SFशनगस् परमेष्ठिनस्
परमेष्ठी ब्रह्मणो
SFपरमेष्ठी ब्रह्मणस्
ब्रह्म स्वयंभु
SFब्रह्म स्वयंभु
ब्रह्मणे नमः || ३ || इति षष्ठं ब्राह्मणम् ||
SFब्रह्मणे नमस्
|| इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ||
अथ तृतीयोध्यायः ..
प्रथमं ब्राह्मणम् .
मन्त्र १ [III.i.1]
ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे |
SFजनकस् ह वैदेहस् बहुदक्षिणेन यज्ञेन ईजे
तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्
SFतत्र ह कुरुपञ्चालानाम् ब्राह्मणास् अभिसमेतास् बभूवुः
तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव
SFतस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव
कः स्विदेषां ब्राह्मणानामनूचानतम इति |
SFकस् स्विद् एषाम् ब्राह्मणानाम् अनूचानतमस् इति
स ह गवाँ सहस्रमवरुरोध
SFस ह गवाम् सहस्रम् अवरुरोध
दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः || १ ||
SFदश-दश पादास् एकैकस्यास् शृङ्गयोस् आबद्धास्
बभूवुः
मन्त्र २ [III.i.2]
तान्होवाच
SFतान् ह उवाच
ब्राह्मणा भगवन्तो
SFब्राह्मणास् भगवन्तस्
यो वो ब्रह्मिष्ठः
SFयस् वस् ब्रह्मिष्ठस्
स एता गा उदजतामिति |
SFसस् एतास् गास् उदजताम् इति
ते ह ब्राह्मणा न दधृषुर्
SFते ह ब्राह्मणास् न दधृषुर्
अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः
SFअथ ह याज्ञवल्क्यस् स्वम् एव ब्रह्मचारिणम् उवाच
एतास्
सौम्योदज
SFसौम्य उदज
सामश्रवा३ इति |
SFशामश्रव इति
ता होदाचकार |
SFतास् ह उदाचकार
ते ह ब्राह्मणाश्चुक्रुधुः
SFते ह ब्राह्मणास् चुक्रुधुर्
कथं नु नो ब्रह्मिष्ठो ब्रुवीतेत्य्
SFकथम् नु नस् ब्रह्मिष्ठस् ब्रुवीत इति
अथ ह जनकस्य वैदेहस्य होताऽश्वलो बभूव |
SFअथ ह जनकस्य वैदेहस्य होता आश्वलस् बभूव
स हैनं पप्रच्छ
SFस ह एनम् पप्रच्छ
त्वं नु खलु नो
SFत्वम् नु खलु नस्
याज्ञवल्क्य
SFयाज्ञवल्क्य
ब्रह्मिष्ठोऽसी३ इति |
SFब्रह्मिष्ठस् असि इति
स होवाच
SFस ह उवाच
नमो वयं ब्रह्मिष्ठाय कुर्मो
SFनमस् वयम् ब्रह्मिष्ठाय कुर्मस्
गोकामा एव वयँ स्म इति |
SFगोकामास् एव वयम् स्मस् इति
तँ ह तत एव प्रष्टुं दध्रे होताऽश्वलः || २ ||
SFतम् ह ततस् एव प्रष्टुम् दध्रे होता आश्वलस्
मन्त्र ३ [III.i.3]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यदिदँ सर्वं मृत्युनाऽऽप्तँ,
SFयद् इदम् सर्वम् मृत्युना आप्तम्
सर्वं मृत्युनाऽभिपन्नं
SFसर्वम् मृत्युना अभिपन्नम्
केन यजमानो मृत्योराप्तिमतिमुच्यत इति |
SFकेन यजमानस् मृत्योस् आप्तिम् अतिमुच्यते इति
होत्रर्त्विजाऽइना वाचा
SFहोत्रा ऋत्विजा अग्निना वाचा
वाग्वै यज्ञस्य होता |
SFवाक् वै यज्ञस्य होता
तद्येयं वाक् सोऽयमग्निः स होता सा मुक्तिः साऽतिमुक्तिः || ३ ||
SFतद् या इयम् वाक् सस् अयम् अग्निस् स होता सा मुक्तिस्
सा अतिमुक्तिः
मन्त्र ४ [III.i.4]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यदिदँ सर्वमहोरात्राभ्यामाप्तँ,
SFयद् इदम् सर्वम् अहोरात्राभ्याम् आप्तम्
सर्वमहोरात्राभ्यामभिपन्नं
SFसर्वम् अहोरात्राभ्याम् अभिपन्नम्
केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्य्
SFकेन यजमानस् अहोरात्रयोस् आप्तिम् अतिमुच्यते इति
अध्वर्युणर्त्विजा चक्षुषाऽऽदित्येन
SFअध्वर्युणा ऋत्विजा चक्षुषा आदित्येन
चक्षुर्वै यज्ञस्याध्वर्युस्
SFचक्षुस् वै यज्ञस्य अध्वर्युः
तद्यदिदं चक्षुः
SFतद् यद् इदम् चक्षुस्
सोऽसावादित्यः
SFसस् असौ आदित्यस्
सोऽध्वर्युः सा मुक्तिः साऽतिमुक्तिः || ४ ||
SFसस् अध्वर्युस् सा मुक्तिस् सा अतिमुक्तिस्
मन्त्र ५ [III.i.5]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यदिदँ सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तँ,
SFयद् इदम् सर्वम् पूर्वपक्षापरपक्षाभ्याम् आप्तम्
सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं
SFसर्वम् पूर्वपक्षापरपक्षाभ्याम् अभिपन्नम्
केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्य्
SFकेन यजमानस् पूर्वपक्षापरपक्षयोस् आप्तिम्
अतिमुच्यते इति
उद्गात्रर्त्विजा वायुना प्राणेन
SFब्रह्मणा ऋत्विजा मनसा चन्द्रेण
प्राणो वै यज्ञस्योद्गाता |
SFमनस् वै यज्ञस्य ब्रह्मा
तद्योऽयं प्राणः
SFतद् यद् इदम् मनस्
स वायुः स उद्गाता सा मुक्तिः साऽतिमुक्तिः || ५ ||
SFसस् असौ चन्द्रस् स ब्रह्मा सा मुक्तिस् सा अतिमुक्तिस्
मन्त्र ६ [III.i.6]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यदिदमन्तरिक्षमनारम्बणमिव
SFयद् इदम् अन्तरिक्षम् अनारम्बणम् इव
केनाऽऽक्रमेन यजमानः स्वर्गं लोकमाक्रमत इति
SFकेन आक्रमेण यजमानस् स्वर्गम् लोकम् आक्रमते इति
ब्रह्मणर्त्विजा मनसा चन्द्रेण
SFउद्गात्रा ऋत्विजा वयुना प्राणेन
मनो वै यज्ञस्य ब्रह्मा |
SFप्राणस् वै यज्ञस्य उद्गाता
तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा सा मुक्तिः सातिमुक्तिर्
SFतद् यस् अयम् प्राणस् स वायुस् सस् उद्गाता सा
मुक्तिस् सा अतिमुक्तिस्
इत्यतिमोक्षा
SFइति अतिमोक्षास्
अथ संपदः || ६ ||
SFअथ संपदस्
मन्त्र ७ [III.i.7]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति |
SFकतिभिस् अयम् अद्य ऋग्भिस् होता अस्मिन् यज्ञे
करिष्यति इति
तिसृभिरिति |
SFतिसृभिस् इति
कतमास्तास्तिस्र इति |
SFकतमास् तास् तिस्रस् इति
पुरोनुवाक्या च याज्या च शस्यैव तृतीया |
SFपुरोनुवाक्या च याज्या च शस्या एव तृतीया
किं ताभिर्जयतीति |
SFकिम् ताभिस् जयति इति
यत् किञ्चेदं प्राणभृद् इति || ७ ||
SFयद् किञ्च इदम् प्राणभृत् इति
मन्त्र ८ [III.i.8]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति |
SFकति अयम् अद्य अध्वर्युस् अस्मिन् यज्ञ आहुतीस् होष्यति
इति
तिस्र इति |
SFतिस्रस् इति
कतमास्तास्तिस्र इति |
SFकतमास् तास् तिस्रस् इति
या हुता उज्ज्वलन्ति
SFयास् हुतास् उज्ज्वलन्ति
या हुता अतिनेदन्ते
SFयास् हुतास् अतिनेदन्ति
या हुता अधिशेरते |
SFयास् हुतास् अधिशेरते
किं ताभिर्जयतीति |
SFकिम् ताभिस् जयति इति
या हुता उज्ज्वलन्ति
SFयास् हुतास् उज्ज्वलन्ति
देवलोकमेव ताभिर्जयति
SFदेवलोकम् एव ताभिस् जयति
दीप्यत इव हि देवलोको |
SFदीप्यते इव हि देवलोकस्
या हुता अतिनेदन्ते
SFयास् हुतास् अतिनेदन्ति
पितृलोकमेव ताभिर्जयत्य्
SFमनुष्यलोकम् पितृलोकम् एव ताभिस् जयति
अतीव हि पितृलोको |
SFअति इव हि मनुष्यलोकस् पितृलोकस्
या हुता अधिशेरते
SFयास् हुतास् अधिशेरते
मनुष्यलोकमेव ताभिर्जयत्य्
SFपितृलोकम् मनुष्यलोकम् एव ताभिस् जयति
अध इव हि मनुष्यलोकः || ८ ||
SFअधस् इव हि पितृलोकस् मनुष्यलोकस्
मन्त्र ९ [III.i.9]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्य्
SFकतिभिस् अयम् अद्य ब्रह्मा यज्ञम् दक्षिणतस्
देवताभिस् गोपायिष्यति इति गोपायति इति
एकयेति |
SFएकया इति
कतमा सैकेति |
SFकतमा सा एका इति
मन एवेत्य्
SFमनस् एव इति
अनन्तं वै मनो
SFअनन्तम् वै मनस्
ंअन्ता विश्वे देवा
SFअनन्तास् विश्वे देवास्
अनन्तमेव स तेन लोकं जयति || ९ ||
SFअनन्तम् एव स तेन लोकम् जयति
मन्त्र १० [III.i.10]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
कत्ययमद्योद्गाताऽस्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति |
SFकति अयम् अद्य उद्गाता अस्मिन् यज्ञे स्तोत्रियास् स्तोष्यति इति
तिस्र इति |
SFतिस्रस् इति
कतमास्तास्तिस्र इति |
SFकतमास् तास् तिस्रस् इति
पुरोनुवाक्या च याज्या च शस्यैव तृतीया
SFपुरोनुवाक्या च याज्या च शस्या एव तृतीया अधिदेवतम्
कतमास्ता या अध्यात्ममिति |
SFकतमास् तास् यास् अध्यात्मम् इति
प्राण एव पुरोनुवाक्याऽपानो याज्या
SFप्राणस् एव पुरोनुवाक्या अपानस् याज्या
व्यानः शस्या |
SFव्यानस् शस्या
किं ताभिर्जयतीति |
SFकिम् ताभिस् जयति इति
पृथिवीलोकमेव पुरोनुवाक्यया जयत्य्
SFपृथिवीलोकम् एव पुरोनुवाक्यया जयति
अन्तरिक्षलोकं याज्यया
SFअन्तरिक्षलोकम् याज्यया
द्युलोकँ शस्यया
SFद्युलोकम् शस्यया
ततो ह होताऽश्वल उपरराम || १० || इति प्रथमं ब्राह्मणम् ||
SFततस् ह होता आश्वलस् उपरराम
द्वितीयं ब्राह्मणम् .
मन्त्र १ [III.ii.1]
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ |
SFअथ ह एनम् जारत्कारवस् आर्तभागस् पप्रच्छ
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
कति ग्रहाः
SFकति ग्रहास्
कत्यतिग्रहा इत्य्
SFकति अतिग्रहास् इति
अष्टौ ग्रहा
SFअष्टौ ग्रहास्
अष्टावतिग्रहा इति
SFअष्टौ अतिग्रहास् इति
ये तेऽष्टौ ग्रहा
SFये ते अष्टौ ग्रहास्
अष्टावतिग्रहाः
SFअष्टौ अतिग्रहास्
कतमे त इति || १ ||
SFकतमे ते इति
मन्त्र २ [III.ii.2]
प्राणो वै ग्रहः |
SFप्राणस् वै ग्रहस्
सोऽपानेनातिग्राहेण गृहीतो
SFसस् अपानेन अतिग्रहेण स गन्धेन अतिग्रहेन गृहीतस्
ऽपानेन हि गन्धाञ्जिघ्रति || २ ||
SFअपानेन प्राणेन हि गन्धान् जिघ्रति
मन्त्र ३ [III.ii.3]
वाग्वै ग्रहः |
SFवाक् वै ग्रहस्
स नाम्नातिग्राहेण गृहीतो
SFस नाम्ना अतिग्रहेण गृहीतस्
वाचा हि नामान्यभिवदति || ३ ||
SFवाचा हि नामानि अभिवदति
मन्त्र ४ [III.ii.4]
जिह्वा वै ग्रहः |
SFजिह्वा वै ग्रहस्
स रसेनातिग्राहेण गृहीतो
SFस रसेन अतिग्रहेण गृहीतस्
जिह्वया हि रसान्विजानाति || ४ ||
SFजिह्वया हि रसान् विजानाति
मन्त्र ५ [III.ii.5]
चक्षुर्वै ग्रहः |
SFचक्षुस् वै ग्रहस्
स रूपेणातिग्राहेण गृहीतश्
SFस रूपेण अतिग्रहेण गृहीतस्
चक्षुषा हि रूपाणि पश्यति || ५ ||
SFचक्षुषा हि रूपाणि पश्यति
मन्त्र ६ [III.ii.6]
श्रोत्रं वै ग्रहः |
SFश्रोत्रम् वै ग्रहस्
स शब्देनातिग्राहेण गृहीतः
SFस शब्देन अतिग्रहेण गृहीतस्
श्रोत्रेण हि शब्दाञ्शृणोति |
SFश्रोत्रेण हि शब्दान् शृणोति
मन्त्र ७ [III.ii.7]
मनो वै ग्रहः |
SFमनस् वै ग्रहस्
स कामेनातिग्राहेण गृहीतो
SFस कामेन अतिग्रहेण गृहीतस्
मनसा हि कामान्कामयते || ७ ||
SFमनसा हि कामान् कामयते
मन्त्र ८ [III.ii.8]
हस्तौ वै ग्रहः |
SFहस्तौ वै ग्रहस्
स कर्मणाऽतिग्राहेण गृहीतो
SFस कर्मणा अतिग्रहेण गृहीतस्
हस्ताभ्याँ हि कर्म करोति || ८ ||
SFहस्ताभ्याम् हि कर्म करोति
मन्त्र ९ [II.ii.9]
त्वग्वै ग्रहः |
SFत्वक् वै ग्रहस्
स स्पर्शेनातिग्राहेण गृहीतस्
SFस स्पर्शेन अतिग्रहेण गृहीतः
त्वचा हि स्पर्शान्वेदयत |
SFत्वचा हि स्पर्शान् वेदयते
इत्येतेऽष्टौ ग्रहा
SFइति अष्टौ ग्रहास्
अष्टावतिग्रहाः || ९ ||
SFअष्टौ अतिग्रहास्
मन्त्र १० [III.ii.10]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यदिदँ सर्वं मृत्योरन्नं
SFयद् इदम् सर्वम् मृत्योस् अन्नम्
का स्वित्सा देवता
SFका स्वित् सा देवता
यस्या मृत्युरन्नमित्य्
SFयस्यास् मृत्युस् अन्नम् इति
अग्निर्वै मृत्युः
SFअग्निस् वै मृत्युस्
सोऽपामन्नम्
SFसस् अपाम् अन्नम्
अप पुनर्मृत्युं जयति || १० ||
SFअप पुनर्मृत्युम् जयति
मन्त्र ११ [III.ii.11]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यत्रायं पुरुषो म्रियत
SFयत्र अयम् पुरुषस् म्रियते
उदस्मात्प्राणाः क्रामन्त्य्
SFउद् अस्माद् प्राणास् क्रामन्ति
अहो३ नेति
SFअहो न इति
नेति होवाच याज्ञवल्क्यो
SFन इति ह उवाच याज्ञवल्क्यस्
ऽत्रैव समवनीयन्ते
SFअत्र एव समवनीयन्ते
स उच्छ्वयत्य्
SFस उच्छ्वयति
आध्मायति
SFअध्मायति
आध्मातो मृतः शेते || ११ ||
SFअध्मातस् मृतस् शेते
मन्त्र १२ [III.ii.12]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यत्रायं पुरुषो म्रियते
SFयत्र अयम् पुरुषस् म्रियते
किमेनं न जहातीति |
SFकिम् एनम् न जहाति इति
नामेत्य्
SFनाम इति
अनन्तं वै नामानन्ता विश्वे देवा
SFअनन्तम् वै नाम अनन्तास् विश्वे देवास्
अनन्तमेव स तेन लोकं जयति || १२ ||
SFअनन्तम् एव स तेन लोकम् जयति
मन्त्र १३ [III.ii.13]
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति
SFयत्र अस्य पुरुषस्य मृतस्य अग्निम्
वातं प्राणश्
SFवाक् अप्येति वातम् प्राणस्
चक्षुरादित्यम्
SFचक्षुस् आदित्यम्
मनश्चन्द्रं
SFमनस् चन्द्रम्
दिशः श्रोत्रम्
SFदिशस् श्रोत्रम्
पृथिवीँ शरीरम्
SFपृथिवीम् शरीरम्
आकाशमात्मौषधीर्लोमानि
SFअकाशम् आत्मा ओषधीस् लोमानि
वनस्पतीन्केशा
SFवनस्पतीन् केशास्
अप्सु लोहितं च रेतश्च निधीयते
SFअप्सु लोहितम् च रेतस् च निधीयते
क्वायं तदा पुरुषो भवतीत्य्
SFक्व अयम् तदा पुरुषस् भवति इति
अहर
SFअहर
सौम्य
SFसौम्य
हस्तम्
SFहस्तम्
आर्तभागेति होवाऽऽचावामेवैतस्य वेदिष्यावो
SFअर्तभाग इति ह उवाचk OM. इति ह उवाच अवाम् एव
एतद् k एव एतस्य वेदिष्यावस्
न नावेतत्सजन इति |
SFन नौ एतद् सजन इति
तौ होत्क्रम्य मन्त्रयां चक्राते
SFतौ ह उत्क्रम्य मन्त्रयाम् चक्रतुस् k चक्राते
तौ ह यदूचतुः
SFतौ ह यद् ऊचतुर्
कर्म हैव तदूचतुर्
SFकर्म ह एव तद् ऊचतुर्
अथ ह यत्प्रशँसतुः
SFअथ ह यद् प्रशँसतुर्
कर्म हैव तत् प्रशँसतुः
SFकर्म ह एव तद् प्रशँसतुर्
पुण्यो वै पुण्येन कर्मणा भवति
SFपुण्यस् वै पुण्येन कर्मणा भवति
पापः पापेनेति |
SFपापस् पापेन इति
ततो ह जारत्कारव आर्तभाग उपरराम || १३ ||इति द्वितीयं
राह्मणम् ..
SFततस् ह जारत्कारवस् आर्तभागस् उपरराम
तृतीयं ब्राह्मणम् .
मन्त्र १ [III.iii.1]
अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ |
SFअथ ह एनम् भुज्युस् लाह्यायनिस् पप्रच्छ
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
मद्रेषु चरकाः पर्यव्रजाम
SFमद्रेषु चरकास् पर्यव्रजाम
ते पतञ्चलस्य काप्यस्य गृहानैम |
SFते पतञ्चलस्य काप्यस्य गृहान् ऐम
तस्याऽऽसीद् दुहिता गन्धर्वगृहीता
SFतस्य आसीत् दुहिता गन्धर्वगृहीता
तमपृच्छाम
SFतम् अपृच्छाम
कोऽसीति |
SFकस् असि इति
सोऽब्रवीत्
SFसस् अब्रवीत्
सुधन्वाऽऽङ्गिरस इति |
SFशुधन्वा अङ्गिरसस् इति
तं यदा लोकानामन्तानपृच्छामाथैतदथैनमब्रूम
SFतम् यदा लोकानाम् अन्तान् अपृच्छाम अथ एतद् अथ
एनम् अब्रूम
क्व पारिक्षिता अभवन्निति
SFक्व पारिक्षितास् अभवन् इति
क्व पारिक्षिता अभवन्
SFक्व पारिक्षितास् अभवन् इति k अभवन्
स त्वा पृच्छामि
SFतद् स त्वा पृच्छामि
याज्ञवल्क्य
SFयाज्ञवल्क्य
क्व पारिक्षिता अभवन्निति || १ ||
SFक्व पारिक्षितास् अभवन् इति
मन्त्र २ [III.iii.2]
स होवाचोवाच वै सो
SFस ह उवाच उवाच वै स तद्
ऽगच्छन्वै ते तद्
SFअगच्छन् वै ते तत्र
यत्राश्वमेधयाजिनो गच्छन्तीति |
SFयत्र अश्वमेधयाजिनस् गच्छन्ति इति
क्व न्वश्वमेधयाजिनो गच्छन्तीति |
SFक्व नु अश्वमेधयाजिनस् गच्छन्ति इति
द्वात्रिँशतं वै देवरथाह्न्यान्ययं लोकस्
SFद्वात्रिँशत वै देवरथाह्न्यानि अयम् लोकः
तँ समन्तं पृथिवी द्विस्तावत्पर्येति
SFतम् समन्तम् लोकम् द्विस्तावत् पृथिवी समन्तम्
पृथिवी द्विस्तावत् पर्येति
ताँ समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति |
SFताम् ताम् समन्तम् पृथिवीम् द्विस्तावत् समुद्रस्
पर्येति
तद्यावती क्षुरस्य धारा
SFतद् यावती क्षुरस्य धारा
यावद्वा मक्षिकायाः पत्रं
SFयावत् वा मक्षिकायास् पत्त्रम्
तावानन्तरेणाऽऽकाशस्
SFतावान् अन्तरेण आकाशः
तान् इन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत्
SFतान् ९न्द्रस् सुपर्णस् भूत्वा वायवे प्रायच्छत्
तान् वायुरात्मनि धित्वा तत्रागमयद्यत्र
अश्वमेधयाजिनोऽभवन्नित्य्
SFतान् वायुस् आत्मनि धित्वा तत्र अगमयत् यत्र
परिक्षितास् अश्वमेधयाजिनस् अभवन् इति
एवमिव वै स वायुमेव प्रशशँस
SFएवम् इव वै स वायुम् एव प्रशशँस
तस्माद्वायुरेव व्यष्टिर्
SFतस्माद् वायुस् एव व्यष्टिस्
वायुः समष्टिर्
SFवायुस् समष्टिस्
अप पुनर्मृत्युं जयति
SFअप पुनर्मृत्युम् जयति
य एवं वेद |
SFयस् एवम् वेद
ततो ह भुज्युर्लाह्यायनिरुपरराम || २ || इति तृतीयं
ब्राह्मणम् ..
SFततस् ह भुज्युस् लाह्यायनिस् उपरराम
चतुर्थं ब्रह्मणम् .
मन्त्र १ [III.iv.1]
अथ हैनमूषस्तश्चाक्रायणः पप्रच्छ |
SFअथ ह एनम् ऊषस्तस् चाक्रायणस् पप्रच्छ
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्
SFयद् साक्षाद् अपरोक्षाद् ब्रह्म यस् आत्मा सर्वान्तरः
तं मे व्याचक्ष्वेत्य्
SFतम् मे व्याचक्ष्व इति
एष त आत्मा सर्वान्तरः |
SFएष ते आत्मा सर्वान्तरस्
कतमो
SFकतमस्
याज्ञवल्क्य
SFयाज्ञवल्क्य
सर्वान्तरो |
SFसर्वान्तरस्
यः प्राणेन प्राणिति
SFयस् प्राणेन प्राणिति
स त आत्मा सर्वान्तरो
SFस ते आत्मा सर्वान्तरस्
योऽपानेनापानिति
SFयस् अपानेन अपानिति
स त आत्मा सर्वान्तरो
SFस ते आत्मा सर्वान्तरस्
यो व्यानेन व्यानिति
SFयस् व्यानेन व्यनिति
स त आत्मा सर्वान्तरो
SFस ते आत्मा सर्वान्तरस्
य उदानेनोदानिति
SFयस् उदानेन उदनिति
स त आत्मा सर्वान्तर एष त आत्मा सर्वान्तरः || १ ||
SFस ते आत्मा सर्वान्तरस्
मन्त्र २ [III.iv.2]
स होवाचोषस्तश्चाक्रायणः
SFस ह उवाच ऊषस्तस् चाक्रायणस्
यथा विब्रूयादसौ गौर्
SFयथा वै ब्रूयात् असौ गौस्
असावश्व इत्य्
SFअसौ अश्वस् इति
एवमेवैतद्व्यपदिष्टं भवति |
SFएवम् एव एतद् व्यपदिष्टम् भवति
यदेव साक्षादपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः
SFयद् एव साक्षाद् अपरोक्षाद् ब्रह्म यस् आत्मा सर्वान्तरः
तं मे व्याचक्ष्वेति |
SFतम् मे व्याचक्ष्व इति
एष त आत्मा सर्वान्तरः |
SFएष ते आत्मा सर्वान्तरस्
कतमो
SFकतमस्
याज्ञवल्क्य
SFयाज्ञवल्क्य
सर्वान्तरो |
SFसर्वान्तरस्
न दृष्टेर्द्रष्टारं पश्येर्
SFन दृष्टेस् द्रष्टारम् पश्येस्
न श्रुतेः श्रोतारँ शृणुया
SFन श्रुतेस् श्रोतारम् शृणुयास्
न मतेर्मन्तारं मन्वीथा
SFन मतेस् मन्तारम् मन्वीथास्
न विज्ञातेर्विज्ञातारं विजानीया
SFन विज्ञातेस् विज्ञातारम् विजानीयास्
एष त आत्मा सर्वान्तरो
SFएष ते आत्मा सर्वान्तरस्
ऽतोऽन्यदार्तं
SFअतस् अन्यद् आर्तम्
ततो होषस्तस्चाक्रायण उपरराम || २ || इति चतुर्थं
ब्राह्मणम् ..
SFततस् ह ऊषस्तस् चाक्रायण उपरराम
पञ्चमं ब्राह्मणम् .
मन्त्र १ [III.v.1]
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ
SFअथ ह एनम् कहोडस् कहोलस् कौषीतकेयस्
पप्रच्छ
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्
SFयद्k add. mark 1 एव साक्षाद् अपरोक्षाद् ब्रह्म
यस् आत्मा सर्वान्तरः
तं मे व्याचक्ष्वेत्य्
SFतम् मे व्याचक्ष्व इति
एष त आत्मा सर्वान्तरः |
SFएष ते आत्मा सर्वान्तरस्
कतमो
SFकतमस्
याज्ञवल्क्य
SFयाज्ञवल्क्य
सर्वान्तरो |
SFसर्वान्तरस्
योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येत्य्
SFयस् अशनायापिपासे शोकम् मोहम् जराम् मृत्युम्
अत्येति
एतं वै तमात्मानं विदित्वा
SFएतम् वै तम् आत्मानम् विदित्वा
ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च
व्युत्थायाथ भिक्षाचर्यं चरन्ति |
SFब्राह्मणास् पुत्रैषणायास् च वित्तैषणायास् च
लोकैषणायास् च व्युत्थाय अथ भिक्षाचर्यम् चरन्ति
या ह्येव पुत्रैषणा सा वित्तैषणा
SFया हि एव पुत्रैषणा सा वित्तैषणा
या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतस्
SFया वित्तैषणा सा लोकैषणा उभे हि एते एषणे एव
भवतः
तस्माद्ब्राह्मणः
SFतस्माद् पण्डितस् ब्रामणस्
पाण्डित्यं निर्विद्य
SFपाण्डित्यम् निर्विद्य
बाल्येन तिष्ठासेत्|
SFबाल्येन तिष्ठासेत्
बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिर्
SFबाल्यम् च पाण्डित्यम् च निर्विद्य अथ मुनिस्
अमौनं च मौनं च निर्विद्याथ ब्राह्मणः |
SFअमौनम् च मौनम् च निर्विद्य अथ ब्राह्मणस्
स ब्राह्मणः केन स्याद्
SFस ब्राह्मणस् केन स्यात्
येन स्यात्
SFयेन स्यात्
तेनेदृश एवातोऽन्यदार्तम् |
SFतेन ईदृश एव भवति
य एवं वेद एवातोऽन्यदार्तं |
SFयस् एवम् वेद एव अतस् अन्यद् आर्तम्
ततो ह कहोलः कौषीतकेय उपरराम || १ || इति पञ्चमं
ब्राह्मणम् ..
SFततस् ह कहोडस् कहोलस् कौषीतकेयस् उपरराम
षष्ठं ब्राह्मणम् .
मन्त्र १ [III.vi.1]
अथ हैनं गार्गी वाचक्नवी पप्रच्छ
SFअथ हैनं गार्गी वाचक्नवी पप्रच्छ
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति होवाच
यदिदँ सर्वमप्स्वोतं च प्रोतं च
SFयद् इदम् सर्वम् अप्सु ओतम् च प्रोतम् च
कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति |
SFकस्मिन् नु नु खलु अपस् ओतास् च प्रोतास् च इति
वायौ
SFवायौ
गार्गीति |
SFगार्गि इति
कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्य्
SFकस्मिन् नु नु खलु वायुस् ओतस् च प्रोतस् च इति
अन्तरिक्षलोकेषु
SFअकाशे एव अन्तरिक्षलोकेषु
गार्गीति |
SFगार्गि इति
कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति |
SFकस्मिन् नु आकाशस् नु खलु अन्तरिक्षलोकास् ओतस् च
प्रोतस् च इति
गन्धर्वलोकेषु
SFअन्तरिक्षलोकेषु गन्धर्वलोकेषु
गार्गीति |
SFगार्गि इति
कस्मिन्नु गन्धर्वलोका ओताश्च प्रोताश्चेत्य्
SFकस्मिन् नु खलु अन्तरिक्षलोकास् गन्धर्वलोकास् ओतास्
च प्रोतास् च इति
आदित्यलोकेषु
SFअदित्यलोकेषु
गार्गीति |
SFगार्गि इति
कस्मिन् नु खल्वादित्यलोका ओताश्च प्रोताश्चेति |
SFकस्मिन् नु खलु आदित्यलोकास् ओतास् च प्रोतास् च इति
चन्द्रलोकेषु
SFचन्द्रलोकेषु
गार्गीति |
SFगार्गि इति
कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति |
SFकस्मिन् नु खलु चन्द्रलोकास् ओतास् च प्रोतास् च इति
नक्षत्रलोकेषु
SFनक्षत्रलोकेषु
गार्गीति |
SFगार्गि इति
कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति |
SFकस्मिन् नु खलु नक्षत्रलोकास् ओतास् च प्रोतास् च इति
देवलोकेषु
SFदेवलोकेषु
गार्गीति |
SFगार्गि इति
कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति
SFकस्मिन् नु खलु देवलोकास् ओतास् च प्रोतास् च इति
इन्द्रलोकेषु
SFगन्धर्वलोकेषु इन्द्रलोकेषु
गार्गीति |
SFगार्गि इति
कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति |
SFकस्मिन् नु खलु गन्धर्वलोकास् इन्द्रलोकास् ओतास् च
प्रोतास् च इति
प्रजापतिलोकेषु
SFप्रजापतिलोकेषु
गार्गीति |
SFगार्गि इति
कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति |
SFकस्मिन् नु खलु प्रजापतिलोकास् ओतास् च प्रोतास् च इति
ब्रह्मलोकेषु
SFब्रह्मलोकेषु
गार्गीति |
SFगार्गि इति
कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति |
SFकस्मिन् नु खलु ब्रह्मलोकास् ओतास् च प्रोतास् च इति
स होवाच
SFस होवाच
गार्गि
SFगार्गि
मातिप्राक्षीर्
SFमा अतिप्राक्षीस्
मा ते मूर्धा व्यपप्तद्
SFमा ते मूर्धा व्यपप्तत् विपप्तत्
अनतिप्रश्न्यां वै देवतामतिपृच्छसि |
SFअनतिप्रश्न्याम् वै देवताम् अतिपृच्छसि
गार्गि
SFगार्गि
माऽतिप्राक्षीरिति |
SFमा अतिप्राक्षीस् इति
ततो ह गार्गी वाचक्नव्युपरराम || १ || इति षष्ठं
ब्राह्मणम् ||
SFततस् ह गार्गी वाचक्नवी उपरराम
सप्तमं ब्राह्मणम् .
मन्त्र १ [III.vii.1]
अथ हैनमूद्दालक आरुणिः पप्रच्छ
SFअथ एनम् ऊद्दालकस् आरुणिस् पप्रच्छ
याज्ञवल्क्येति होवाच
SFयाज्ञवल्क्य इति ह उवाच
मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु
SFमद्रेषु अवसाम पतञ्चलस्य काप्यस्य गृहेषु
यज्ञमधीयानास्
SFयज्ञम् अधीयानाः
तस्याऽऽसीद्भार्या गन्धर्वगृहीता |
SFतस्य आसीत् भार्या गन्धर्वगृहीता
तमपृच्छाम
SFतम् अपृच्छाम
कोऽसीति |
SFकस् असि इति
सोऽब्रवीत्
SFसस् अब्रवीत्
कबन्ध आथर्वण इति |
SFकबन्धस् अथर्वणस् इति
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकाँश्च
SFसस् अब्रवीत् पतञ्चलम् काप्यम् याज्ञिकान् च
वेत्थ नु त्वम्
SFवेत्थ नु त्वम्
काप्य
SFकाप्य
तत्सूत्रं येनायं च लोकः परश्च लोकः सर्वाणि च
भूतानि संदृब्धानि भवन्तीति |
SFतद् सूत्रम् यस्मिन् अयम् च लोकस् परस् च
लोकस् सर्वाणि च भूतानि संदृब्धानि भवन्ति इति
सोऽब्रवीत्पतञ्चलः काप्यो
SFसस् अब्रवीत् पतञ्चलस् काप्यस्
नाहं तद्
SFन अहम् तद्
भगवन्
SFभगवन्
वेदेति |
SFवेद इति
सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाँश्चः
SFसस् अब्रवीत् पतञ्चलम् काप्यम् याज्ञिकान् च
वेत्थ नु त्वम्
SFवेत्थ नु त्वम्
काप्य
SFकाप्य
तमन्तर्यामिणम्
SFतम् अन्तर्यामिणम्
य इमं च लोकं परं च लोकँ सर्वाणि च भूतानि योऽन्तरो
यमयतीति |
SFयस् इमम् च लोकम् परम् च लोकम् सर्वाणि च
भूतानि अन्तरस् यमयति इति
सोऽब्रवीत् पतञ्चलः काप्यो
SFसस् अब्रवीत् पतञ्चलस् काप्यस्
नाहं तं
SFन अहम् तम्
भगवन्
SFभगवन्
वेदेति |
SFवेद इति
सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिकाँश्च
SFसस् अब्रवीत् पतञ्चलम् काप्यम् याज्ञिकान् च
यो वै तत्
SFयस् वै तद्
काप्य
SFकाप्य
सूत्रं विद्यात्तं चान्तर्यामिणमिति
SFसूत्रम् विद्यात् तम् च अन्तर्यामिणम्
स ब्रह्मवित्
SFस ब्रह्मविद्
स लोकवित्
SFस लोकविद्
स देववित्
SFस देवविद्
स वेदवित्
SFस वेदविद्
स भूतवित्
SFस भूतविद्
स आत्मवित्
SFस आत्मविद्
स सर्वविदिति तेभ्योऽब्रवीत्
SFस सर्वविद् इति तेभ्यस् अब्रवीत्
तदहं वेद |
SFतद् अहम् वेद
तच्चेत्त्वम्
SFतद् चेद् त्वम्
याज्ञवल्क्य
SFयाज्ञवल्क्य
सूत्रमविद्वाँस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे
SFसूत्रम् अविद्वान् तम् च अन्तर्यामिणम् ब्रह्मगवीस्
उदजसे
मूर्धा ते विपतिष्यतीति |
SFमूर्धा ते विपतिष्यति इति
वेद वा अहम्
SFवेद वै अहम्
गौतम
SFगौतम
तत्सूत्रं तं चान्तर्यामिणमिति |
SFतद् सूत्रम् तम् च अन्तर्यामिणम् इति
यो वा इदं कश्चिद्ब्रूयात्
SFयस् वै इदम् कश्च ब्रूयात्
वेद वेदेति |
SFवेद वेद इति
यथा वेत्थ
SFयथा वेत्थ
तथा ब्रूहीति || १ ||
SFतथा ब्रूहि इति
मन्त्र २ [III.vii.2]
स होवाच वायुर्वै
SFस होवच वायुस् वै
गौतम
SFगौतम
तत्सूत्रम्
SFतद् सूत्रम्
वायुना वै
SFवायुना वै
गौतम
SFगौतम
सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि
संदृब्धानि भवन्ति |
SFसूत्रेण अयम् च लोकस् परस् च लोकस् सर्वाणि च
भूतानि संदृब्धानि भवन्ति
तस्माद्वै
SFतस्माद् वै
गौतम
SFगौतम
पुरुषं प्रेतमाहुर्
SFपुरुषम् प्रेतम् आहुर्
व्यस्रँसिषतास्याङ्गानीति
SFव्यस्रँसिषत अस्य अङ्गानि इति
वायुना हि
SFवायुना हि
गौतम
SFगौतम
सूत्रेण संदृब्धानि भवन्तीत्य्
SFसूत्रेण सम्दृब्धानि भवन्ति इति
एवमेवैतद्
SFएवम् एवk OM. एतद्
याज्ञवल्क्यान्तर्यामिणं ब्रूहीति || २ ||
SFयाज्ञवल्क्य अन्तर्यामिणम् ब्रूहि इति
मन्त्र ३ [III.vii.3]
यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो
SFयस् पृथिव्याम् तिष्ठन् पृथिव्यास् अन्तरस्
यं पृथिवी न वेद
SFयम् पृथिवी न वेद
यस्य पृथिवी शरीरं
SFयस्य पृथिवी शरीरम्
यः पृथिवीमन्तरो यमयत्य्
SFयस् पृथिवीम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || ३ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र ४ [III.vii.4]
योऽप्सु तिष्ठन्नद्भ्योऽन्तरो
SFयस् अप्सु तिष्ठन् अद्भ्यस् अन्तरस्
यमापो न विदुः
SFयम् आपस् न विदुर्
यस्यापः शरीरम्
SFयस्याऽऽपस् शरीरम्
योऽपोऽन्तरो यमयत्य्
SFयस् अपस् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || ४ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र ५ [III.vii.5]
योऽग्नौ तिष्ठन्नग्नेरन्तरो
SFयस् अग्नौ तिष्ठन् अग्नेस् अन्तरस्
यमग्निर्न वेद
SFयम् अग्निस् न वेद
यस्याग्निः शरीरम्
SFयस्य अग्निस् शरीरम्
योऽग्निमन्तरो यमयति
SFयस् अग्निम् अन्तरस् यमयति
एष त आत्मान्तर्याम्यमृतः || ५ ||
SFसkएष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र ६ [III.vii.6]
योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो
SFयस् अन्तरिक्षे तिष्ठन् अन्तरिक्षाद् अन्तरस्
यमन्तरिक्षं न वेद
SFयम् अन्तरिक्षम् न वेद
यस्यान्तरिक्षँ शरीरं
SFयस्य अन्तरिक्षम् शरीरम्
योऽन्तरिक्षमन्तरो यमयत्य्
SFयस् अन्तरिक्षम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || ६ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र ७ [III.vii.7]
यो वायौ तिष्ठन्वायोरन्तरो
SFयस् वायौ तिष्ठन् वायोस् अन्तरस्
यं वायुर्न वेद
SFयम् वायुस् न वेद
यस्य वायुः शरीरं
SFयस्य वायुस् शरीरम्
यो वायुमन्तरो यमयत्य्
SFयस् वायुम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || ७ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र ८ [III.vii.8]
यो दिवि तिष्ठन्दिवोऽन्तरो
SFयस् दिवि तिष्ठन् दिवस् अन्तरस्
यं द्यौर्न वेद
SFयम् द्यौस् न वेद
यस्य द्यौः शरीरं
SFयस्य द्यौस् शरीरम्
यो दिवमन्तरो यमयत्य्
SFयस् दिवम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || ८ ||
SFएष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र ९ [III.vii.9]
य आदित्ये तिष्ठन्नादित्यादन्तरो
SFयस् आदित्ये तिष्ठन् आदित्याद् अन्तरस्
यमादित्यो न वेद
SFयम् आदित्यस् न वेद
यस्याऽऽदित्यः शरीरम्
SFयस्य आदित्यस् शरीरम्
य आदित्यमन्तरो यमयत्य्
SFयस् आदित्यम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || ९ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र १० [III.vii.10]
यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो
SFयस् दिक्षु तिष्ठन् दिग्भ्यस् अन्तरस्
यं दिशो न विदुर्
SFयम् दिशस् न विदुः
यस्य दिशः शरीरं
SFयस्य दिशस् शरीरम्
यो दिशोऽन्तरो यमयत्य्
SFयस् दिशस् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || १० ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र ११ [III.vii.11]
यश्चन्द्रतारके तिष्ठँचन्द्रतारकादन्तरो
SFयस् चन्द्रतारके तिष्ठन् चन्द्रतारकाद् अन्तरस्
यं चन्द्रतारकं न वेद
SFयम् चन्द्रतारकम् न वेद
यस्य चन्द्रतारकँ शरीरं
SFयस्य चन्द्रतारकम् शरीरम्
यश्चन्द्रतारकमन्तरो यमयत्य्
SFयस् चन्द्रतारकम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || ११ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र १२ [III.vii.12]
य आकाशे तिष्ठन्नाकाशादन्तरो
SFयस् आकाशे तिष्ठन् आकाशाद् अन्तरस्
यमाकाशो न वेद
SFयम् आकाशस् न वेद
यस्याऽऽकाशः शरीरं
SFयस्य आकाशस् शरीरम्
य आकाशमन्तरो यमयत्य्
SFयस् आकाशम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || १२ ||
SFएष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र १३ [III.vii.13]
यस्तमसि तिष्ठँस्तमसोऽन्तरो
SFयस् तमसि तिष्ठन् तमसस् अन्तरो
यं तमो न वेद
SFयम् तमस् न वेद
यस्य तमः शरीरं
SFयस्य तमस् शरीरम्
यस्तमोऽन्तरो यमयत्य्
SFयस् तमस् अन्तरस् यमयति
एष त आत्मान्तर्याम्यमृतः || १३ ||
SFस k एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र १४ [III.vii.14]
यस्तेजसि तिष्ठँस्तेजसोऽन्तरो
SFयस् तेजसि तिष्ठन् तेजसः अन्तरः
यं तेजो न वेद
SFयम् तेजस् न वेद
यस्य तेजः शरीरम्
SFयस्य तेजः शरीरम्
यस्तेजोऽन्तरो यमयत्य्
SFयस् तेजः अन्तरः यमयति
स एष त आत्माऽन्तर्याम्यमृत
SFस एष त आत्मा अन्तर्यामी अमृतस्
इत्यधिदैवतम्
SF
अथाधिभूतम् || १४ ||
SF
मन्त्र १५ [III.vii.15]
यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो
SFयस् सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यस्
भूतेभ्यस् अन्तरस्
यँ सर्वाणि भूतानि न विदुर्
SFयम् सर्वाणि भूतानि न विदुः
यस्य सर्वाणि भुतानि शरीरं
SFयस्य सर्वाणि भुतानि शरीरम्
यः सर्वाणि भूतान्यन्तरो यमयत्य्
SFयस् सर्वाणि भूतानि अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृत
SFस एष ते आत्मा अन्तर्यामी अमृतस्
इत्यधिभूतम्
SFइति उ एव अधिभूतम्k OM. उ एव
अथाध्यात्मम् || १५ ||
SFअथ अध्यात्मम्
मन्त्र १६ [III.vii.16]
यः प्राणे तिष्ठन्प्राणादन्तरो
SFयस् प्राणे तिष्ठन् प्राणाद् अन्तरस्
यं प्राणो न वेद
SFयम् प्राणस् न वेद
यस्य प्राणः शरीरं
SFयस्य प्राणस् शरीरम्
यः प्राणमन्तरो यमयत्य्
SFयस् प्राणम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || १६ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र १७ [III.vii.17]
यो वाचि तिष्ठन्वाचोऽन्तरो
SFयस् वाचि तिष्ठन् वाचस् अन्तरस्
यं वाङ्न वेद
SFयम् वाक् न वेद
यस्य वाक् शरीरं
SFयस्य वाक् शरीरम्
यो वाचमन्तरो यमयत्य्
SFयस् वाचम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || १७ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र १८ [III.vii.18]
यश्चक्षुषि तिष्ठँश्चक्षुषोऽन्तरो
SFयस् चक्षुषि तिष्ठन् चक्षुषस् अन्तरस्
यं चक्षुर्न वेद
SFयम् चक्षुस् न वेद
यस्य चक्षुः शरीरं
SFयस्य चक्षुस् शरीरम्
यश्चक्षुरन्तरो यमयत्य्
SFयस् चक्षुस् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || १८ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र १९ [III.vii.19]
यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो
SFयस् श्रोत्रे तिष्ठन् श्रोत्राद् अन्तरस्
यँ श्रोत्रं न वेद
SFयम् श्रोत्रम् न वेद
यस्य श्रोत्रँ शरीरं
SFयस्य श्रोत्रम् शरीरम्
यः श्रोत्रमन्तरो यमयत्य्
SFयस् श्रोत्रम् अन्तरस् यमयति
स एष त आत्माऽन्तर्याम्यमृतः || १९ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र २० [III.vii.20]
यो मनसि तिष्ठन्मनसोऽन्तरो
SFयस् मनसि तिष्ठन् मनसस् अन्तरस्
यं मनो न वेद
SFयम् मनस् न वेद
यस्य मनः शरीरम्
SFयस्य मनस् शरीरं
यो मनोऽन्तरो यमयत्य्
SFयस् मनस् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || २० ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र २१ [III.vii.21]
यस्त्वचि तिष्ठँस्त्वचोऽन्तरो
SFयस् त्वचि तिष्ठन् त्वचस् अन्तरस्
यं त्वङ्न वेद
SFयम् त्वक् न वेद
यस्य त्वक् शरीरम्
SFयस्य त्वक् शरीरम्
यस्त्वचमन्तरो यमयत्य्
SFयस् त्वचम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || २१ ||
SFस एष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र २२ [III.vii.22]
यो विज्ञाने तिष्ठन्विज्ञानादन्तरो
SFयस् विज्ञाने तिष्ठन् विज्ञानाद् अन्तरस्
यँ विज्ञानं न वेद
SFयम् विज्ञानम् न वेद
यस्य विज्ञानँ शरीरं
SFयस्य विज्ञानम् शरीरम्
यो विज्ञानमन्तरो यमयत्य्
SFयस् विज्ञानम् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतः || २२ ||
SFएष ते आत्मा अन्तर्यामी अमृतस्
मन्त्र २३ [III.vii.23]
यो रेतसि तिष्ठन् रेतसोऽन्तरो
SFयस् रेतसि तिष्ठन् रेतसस् अन्तरस्
यँ रेतो न वेद
SFयम् रेतस् न वेद
यस्य रेतः शरीरम्
SFयस्य रेतस् शरीरं
यो रेतोऽन्तरो यमयत्य्
SFयस् रेतस् अन्तरस् यमयति
एष त आत्माऽन्तर्याम्यमृतो
SFस k एष ते आत्मा अन्तर्यामी अमृतस्
ऽदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञतो विज्ञाता |
SFअदृष्टस् द्रष्टा अश्रुतस् श्रोता अमतस् मन्ता
अविज्ञतस् विज्ञाता
नान्योऽतोऽस्ति द्रष्टा
SFन अन्यस् अतस् अस्ति द्रष्टा
नान्योऽतोऽस्ति श्रोता
SFन अन्यस् अतस् अस्ति श्रोता
नान्योऽतोऽस्ति मन्ता
SFन अन्यस् अतस् अस्ति मन्ता
नान्योऽतोऽस्ति विज्ञातैष त आत्माऽन्तर्याम्यमृतो
SFन अन्यस् अतस् अस्ति विज्ञाता एष ते आत्मा अन्तर्यामी
अमृतस्
ऽतोऽन्यदार्तं
SFअतस् अन्यद् आर्तम्
ततो होद्दालक आरुणिरुपरराम || २३ || इति सप्तमं ब्राह्मणम् ..
SFततस् ह ऊद्दालकस् आरुणिस् उपरराम
अष्टमं ब्राह्मणम् .
मन्त्र १ [III.viii.1]
अथ ह वाचक्नव्युवाच
SFअथ ह वाचक्नवी उवाच
ब्राह्मणा भगवन्तो
SFब्राह्मणास् भगवन्तस्
हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि
SFहन्त अहम् इमम् याज्ञवल्क्यम्k OM. द्वौ प्रश्नौ
प्रक्ष्यामि
तौ चेन्मे वक्ष्यति
SFतौ चेद् मे विवक्ष्यति k om.वि
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति |
SFन वैk OM. जातु युष्माकम् इमम् कश्चिद्
पृच्छ गार्गीति || १ ||
SFपृच्छ गार्गि इति
मन्त्र २ [III.viii.2]
सा होवाचाहं वै त्वा याज्ञवल्क्य
SFसा ह उवाच अहम् वै त्वा याज्ञवल्क्य _
यथा काश्यो वा वैदेहो वोग्रपुत्र
SFयथा काश्यस् वा वैदेहस् वा ऊग्रपुत्रस्
उज्ज्यं धनुरधिज्यं कृत्वा
SFउज्ज्यम् धनुस् अधिज्यम् कृत्वा
द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेद्
SFद्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वा
उपोत्तिष्ठेद्
एवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थां |
SFएवम् एव अहम् त्वा द्वाभ्याम् प्रश्नाभ्याम् उपोदस्थाम्
तौ मे ब्रूहीति |
SFतौ मे ब्रूहि इति
पृच्छ गार्गीति || २ ||
SFपृच्छ गार्गि इति
मन्त्र ३ [III.viii.3]
सा होवाच
SFसा ह उवाच
यदूर्ध्वम्
SFयद् ऊर्ध्वम्
याज्ञवल्क्य
SFयाज्ञवल्क्य
दिवो
SFदिवस्
यदवाक्पृथिव्या
SFयद् अवाक् पृथिव्यास्
यदन्तरा द्यावापृथिवी इमे
SFयद् अन्तरा द्यावापृथिवी इमे
यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते
SFयद् भूतम् च भवत् च भविष्यत् च इति
आचक्षते
कस्मिँस्तदोतं च प्रोतं चेति || ३ ||
SFकस्मिन् तद् ओतम् च प्रोतम् च इति
मन्त्र ४ [III.viii.4]
स होवाच
SFस ह उवाच
यदूर्ध्वम्
SFयद् ऊर्ध्वम्
गार्गि
SFगार्गि
दिवो
SFदिवस्
यदवाक्पृथिव्या
SFयद् अवाक् पृथिव्यास्
यदन्तरा द्यावापृथिवी इमे
SFयद् अन्तरा द्यावापृथिवी इमे
यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत
SFयद् भूतम् च भवत् च भविष्यत् च इति
आचक्षते
आकाशे तदोतं च प्रोतं चेति || ४ ||
SFअकाशे तद् ओतम् च प्रोतम् च इति
मन्त्र ५ [III.viii.5]
सा होवाच
SFसा ह उवच
नमस्तेऽस्तु
SFनमस् तेk add. mark 1 अस्तु
याज्ञवल्क्य
SFयाज्ञवल्क्य
यो म एतं व्यवोचो
SFयस् मे एतम् व्यवोचस्
ऽपरस्मै धारयस्वेति |
SFअपरस्मै धारयस्व इति
पृच्छ गार्गीति || ५ ||
SFपृच्छ गार्गि इति
मन्त्र ६ [III.viii.6]
सा होवाच
SFसा ह उवाच
यदूर्ध्वम्
SFयद् ऊर्ध्वम्
याज्ञवल्क्य
SFयाज्ञवल्क्य
दिवो
SFदिवस्
यदवाक् पृथिव्याः
SFयद् अवाक् पृथिव्यास्
यदन्तरा द्यावापृथिवी इमे
SFयद् अन्तरा द्यावापृथिवी इमे
यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते
SFयद् भूतम् च भवत् च भविष्यत् च इति
आचक्षते
कस्मिँस्तदोतं च प्रोतं चेति || ६ ||
SFकस्मिन् तद् ओतम् च प्रोतम् च इति
मन्त्र ७ [III.viii.7]
स होवाच
SFस ह उवाच
यदूर्ध्वम्
SFयद् ऊर्ध्वम्
गार्गि
SFगार्गि
दिवो
SFदिवस्
यदवाक्पृथिव्या
SFयद् अवाक् पृथिव्यास्
यदन्तरा द्यावापृथिवी इमे
SFयद् अन्तरा द्यावापृथिवी इमे
यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत
SFयद् भूतम् च भवत् च भविष्यत् च इति
आचक्षते
आकाश एव तदोतं च प्रोतं चेति |
SFअकाशे एव तद् ओतम् च प्रोतम् च इति
कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति || ७ ||
SFकस्मिन् नु खलु आकाशस् ओतस् च प्रोतस् च इति
मन्त्र ८ [III.viii.8]
स होवाचैतद्वै तदक्षरऽ
SFस ह उवाच एतद् वै तद् अक्षरम्
गार्गि
SFगार्गि
ब्राह्मणा अभिवदन्त्य्
SFब्राह्मणास् अभिवदन्ति
अस्थूलमनण्व्
SFअस्थूलम् अनणु
अह्रस्वमदीर्घम्
SFअह्रस्वम् अदीर्घम्
अलोहितमस्नेहम्
SFअलोहितम् अस्नेहम्
अच्छायमतमो
SFअच्छायम् अतमस्
ऽवाय्वनाकाशम्
SFअवायु अनाकाशम्
असङ्गम्
SFअसङ्गम्
अचक्षुष्कम्
SFअचक्षुष्कम्
अश्रोत्रम्
SFअश्रोत्रम्
अवाग्
SFअवाग्
अमनो
SFअमनस्
ऽतेजस्कम्
SFअतेजस्कम्
अप्राणम्
SFअप्राणम्
अमुखम्
SFअमुखम्
अमात्रम्
SFअमात्रम्
अनन्तरम्
SFअनन्तरम्
अबाह्यं
SFअबाह्यम्
न तदश्नाति किं चन
SFन तद् अश्नोतिkअश्नाति कम् चन kकिम् चन
न तदश्नाति कश्चन |
SFन तद् अश्नोति k अश्नाति कस् चन
मन्त्र ९ [III.viii.9]
एतस्य वा अक्षरस्य प्रशासने
SFएतस्य वै अक्षरस्य प्रशासने
गार्गि
SFगार्गि
सूर्याचन्द्रमसौ विधृतौ तिष्ठत
SFसूर्यचन्द्रमसौ विधृतौ तिष्ठतस्
एतस्य वा अक्षरस्य प्रशासने गार्गि
SFएतस्य वै अक्षरस्य प्रशासने
द्यावापृथिव्यौ विधृते तिष्ठत
SFद्यावापृथिवी विधृते तिष्ठतस्
एतस्य वा अक्षरस्य प्रशासने
SFएतस्य वै अक्षरस्य प्रशासने
गार्गि
SFगार्गि
निमेषा मुहूर्ता अहोरात्राण्यर्धमासा
मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्त्य्
SFनिमेषा मुहूर्ता अहोरात्राणि अर्धम्सा मासा ऋतवः
संवत्सरा इति विधृतास् तिष्ठन्ति
एतस्य वा अक्षरस्य प्रशासने
SFएतस्य वै अक्षरस्य प्रशासने
गार्गि
SFगार्गि
प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः
SFप्राच्यस् अन्यास् नद्यस् स्यन्दन्ते श्वेतेभ्यस्
पर्वतेभ्यस्
प्रतीच्योऽन्या
SFप्रतीच्यस् अन्यास्
यां यां च दिशमन्व्
SFयांयाम् च दिशम्k add. mark 1 अनु
एतस्य वा अक्षरस्य प्रशासने
SFएतस्य वै अक्षरस्य प्रशासने
गार्गि
SFगार्गि
ददतो मनुष्याः प्रशँसन्ति
SFददतम् क् ददतस् मनुष्यास् प्रशसन्ति
यजमानं देवा
SFयजमानं देवास्
दर्वीं पितरोऽन्वायत्ताः || ९ ||
SFदर्व्यम् k दर्वीम् पितरस् अन्वायत्तास्
मन्त्र १० [III.viii.10]
यो वा एतदक्षरं
SFयस् वै एतद् अक्षरम् अविदित्वा
गार्ग्यविदित्वा
SFगार्गि k गार्गि अविदित्वा
ऽस्मिँल्लोके जुहोति
SFअस्मिन् लोके जुहोति
यजते
SFददातिk यजते
तपस्तप्यते बहूनि वर्षसहस्राण्य्
अन्तवदेवास्य तद्भवति
SFतपस्यति अपिkतपस् तप्यते बहूनि वर्षसहस्राणि
अन्तवन् kअन्तवद् एवास्य स लोको kतद् प्रो स
लोको भवति
यो वा एतदक्षरम्
SFयस् वै एतद् अक्षरम् अविदित्वा
गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति
SFगार्गि k गार्गि अविदित्वा अस्माद् लोकाद् प्रैति
स कृपणो
SFस कृपणस्
ऽथ य एतदक्षरं
SFअथ यस् एतद् अक्षरम्
गार्गि
SFगार्गि
विदित्वाऽस्माल्लोकात्प्रैति
SFविदित्वा अस्माद् लोकाद् प्रैति
स ब्राह्मणः || १० ||
SFस ब्राह्मणस्
मन्त्र ११ [III.viii.11]
तद्वा एतदक्षरं
SFतद् वै एतद् अक्षरम्
गार्ग्य्
SFगार्गि
अदृष्टं द्रष्टृश्रुतँ श्रोत्त्रमतं मन्त्रविज्ञातं
विज्ञातृ
SFअदृष्टम् द्रष्टृ अश्रुतम् श्रोतृ अमतम्
मन्तृ अविज्ञातम् विज्ञातृ
नान्यदतोऽस्ति द्रष्टृ
SFन अन्यद्k add. mark 1 अतस् अस्ति द्रष्टृ
नान्यदतोऽस्ति श्रोतृ
SFन अन्यद्k add. mark 1 अतस् अस्ति श्रोतृ
नान्यदतोऽस्ति मन्तृ
SFन अन्यद्k add. mark 1 अतस् अस्ति मन्तृ
नान्यदतोऽस्ति विज्ञात्त्र्
SFन अन्यद्k add. mark 1 अतस् अस्ति विज्ञातृ
एतस्मिन्नु खल्वक्षरे गार्ग्य्
SFयस्मिन् k विज्ञतृ एतस्मिन् नु खलु अक्षरे गार्गि
आकाश ओतश्च प्रोतश्चेति || ११ ||
SFअकाशस् ओतस् च प्रोतस् च
मन्त्र १२ [III.viii.12]
सा होवाच
SFसा ह उवाच
ब्राह्मणा भगवन्तस्
SFब्राह्मणास् भगवन्तः
तदेव बहु मन्येध्वम्
SFतद् एव बहु मन्यध्वम्
यदस्मान्नमस्कारेण मुच्येध्वम्
SFयद् अस्मान् नमस्कारेण मुच्याध्वं k मुचेध्वम्
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति
SFन वै जातु युष्माकम् इमं कश्चिद् ब्रह्मोद्यं जेतेति |
ततो ह वाचक्नव्युपरराम || १२ || इत्यष्टमं ब्राह्मणम् ..
SFततस् ह वाचक्नवी उपरराम
नवमं ब्राह्मणम्
मन्त्र १ [III.ix.1]
अथ हैनं विदग्धः शाकल्यः पप्रच्छ
SFअथ ह एनं विदग्धस् हाकल्यस् पप्रच्छ
कति देवा
SFकति देवास्
याज्ञवल्क्येति |
SFयाज्ञवल्क्य इति
स हैतयैव निविदा प्रतिपेदे
SFस ह एतया एव निविदा प्रतिपेदे
यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च
शता त्रयश्च त्री च सहस्रेत्य्
SFयावन्तस् वैश्वदेवस्य निविदि उच्यन्ते त्रयस् च
त्रि च शता त्रयस् च त्री च सहस्र इति
ओमिति होवाच
SFओम् इति ह उवाच
कत्येव देवा
SFकति एव देवास्
याज्ञवल्क्येति |
SFयाज्ञवल्क्य इति
त्रयस्त्रिँशदित्य्
SFत्रयस्त्रिँशद् इति
ओमिति होवाच |
SFओम् इति ह उवाच
कत्येव देवा
SFकति एव देवास्
याज्ञवल्क्येति |
SFयाज्ञवल्क्य इति
षडित्य्
SFषट् इति
ओमिति होवाच |
SFओम् इति ह उवाच
कत्येव देवा
SFकति एव देवास्
याज्ञवल्क्येति |
SFयाज्ञवल्क्य इति
त्रय इत्य्
SFत्रयस् इति
ओमिति होवाच |
SFओम् इति ह उवाच
कत्येव देवा
SFकति एव देवास्
याज्ञवल्क्येत्य्
SFयाज्ञवल्क्य इति
द्वावित्य्
SFद्वौ इति
ओमिति होवाच |
SFओम् इति ह उवाच
कत्येव देवा
SFकति एव देवास्
याज्ञवल्क्येत्य्
SFयाज्ञवल्क्य इति
अध्यर्ध इत्य्
SFअध्यर्धस् इति
ओमिति होवाच |
SFओम् इति ह उवाच
कत्येव देवा
SFकति एव देवास्
याज्ञवल्क्येत्य्
SFयाज्ञवल्क्य इति
एक इत्य्
SFएकस् इति
ओमिति होवाच |
SFओम् इति ह उवाच
कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति || १
||
SFकतमे ते त्रयस् च त्री च शता त्रयस् च त्री च
सहस्र इति
मन्त्र २ [III.ix.2]
स होवाच
SFस ह उवाच
महिमान एवैषामेते
SFमहिमानस् एव एषाम् एते
त्रयस्त्रिँशत्त्वेव देवा इति
SFत्रयस्त्रिंशद् तु एव देवास् इति
कतमे ते त्रयस्त्रिँशदित्य्
SFकतमे ते त्रयस्त्रिँशद् इति
अष्टौ वसव
SFअष्टौ वसवस्
एकादश रुद्रा
SFएकादश रुद्रास्
द्वादशाऽऽदित्यास्
SFद्वादश अदित्याः
ते एकत्रिँशद्
SFते एकत्रिंशद्
इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिँशाविति || २ ||
SF९न्द्रस् च एव प्रजापतिस् च त्रयस्त्रिंशौ इति
मन्त्र ३ [III.ix.3]
कतमे वसव इत्य्
SFकतमे वसवस् इति
अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च
द्यौश्च
चन्द्रमाश्च नक्षत्राणि चैते वसव
SFअग्निस् च पृथिवी च वायुस् च आन्तरिक्षम् च
अदित्यस् च द्यौस् च चन्द्रमास् च नक्षत्राणि च एते
वसवस्
एतेषु हीदं वसु सर्वँ हितमिति
SFएतेषु हि इदम् सर्वम् वसु k OMहितम्k addइति
तस्माद्वसव इति || ३ ||
SFतस्माद् वसवस् इति
मन्त्र ४ [III.ix.4]
कतमे रुद्रा इति |
SFकतमे रुद्रास् इति
दशेमे पुरुषे प्राणा
SFदश इमे पुरुषे प्राणास्
आत्मैकादशस्
SFआत्मा एकादशः
ते यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्त्य्
SFते यदा अस्माद् मर्त्याद् शरीराद् शरीराद् मर्त्याद्
उत्क्रामन्ति
अथ रोदयन्ति
SFअथ रोदयन्ति
तद्यद्रोदयन्ति
SFतद् यद् रोदयन्ति
तस्माद्रुद्रा इति || ४ ||
SFतस्माद् रुद्रास् इति
मन्त्र ५ [III.ix.5]
कतम आदित्या इति |
SFकतमे अदित्यास् इति
द्वादश वै मासाः संवत्सरस्यैत आदित्या
SFद्वादशk add. mark 1 वै मासास् संवत्सरस्य एते
अदित्यास्
एते हीदँ सर्वमाददाना यन्ति
SFएते हि इदम् सर्वम् आददानास् यन्ति
ते यदिदँ सर्वमाददाना यन्ति
SFतद् ते यद् इदम् सर्वम् आददानास् यन्ति
तस्मादादित्या इति || ५ ||
SFतस्माद् अदित्यास् इति
मन्त्र ६ [III.ix.6]
कतम इन्द्रः
SFकतमस् ९न्द्रस्
कतमः प्रजापतिरिति |
SFकतमस् प्रजापतिस् इति
स्तनयित्नुरेवेन्द्रो
SFस्तनयित्नुस् एव ९न्द्रस्
यज्ञः प्रजापतिरिति |
SFयज्ञस् प्रजापतिस् इति
कतमः स्तनयित्नुरित्य्
SFकतमस् स्तनयित्नुस् इति
अशनिरिति |
SFअशनिस् इति
कतमो यज्ञ इति |
SFकतमस् यज्ञस् इति
पशव इति || ६ ||
SFपशवस् इति
मन्त्र ७ [III.ix.7]
कतमे षडित्य्
SFकतमे षड् इति
अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चाऽऽदित्यश्च
द्यौश्चैते षड्
SFअग्निस् च पृथिवी च वायुस् च आन्तरिक्षस् च
अदित्यस् च द्यौस् च एते षट् इतिk OM. इति
एते हीदँ सर्वं षडिति || ७ ||
SFएते हि एव इदम् हि इदम् सर्वम् षट् इति
मन्त्र ८ [III.ix.8]
कतमे ते त्रयो देवा इति
SFकतमे ते त्रयस् देवास् इति
इम एव त्रयो लोका
SFइमे एव त्रयस् लोकास्
एषु हीमे सर्वे देवा इति |
SFएषु हि इमे सर्वे देवास् इति
कतमौ तौ द्वौ देवावित्य्
SFकतमौk add. mark 1 तौ द्वौ देवौ इति
अन्नं चैव प्राणश्चेति |
SFअन्नम् च एव प्राणस् च इति
कतमोऽध्यर्ध इति |
SFकतमस् अध्यर्धस् इति
योऽयं पवत इति || ८ ||
SFयस् अयम् पवते इति
मन्त्र ९ [III.ix.9]
तदाहुर्
SFतद् आहुर्
यदयमेक एव एक इवैव पवते
SFयद् अयम् एकस्k add. mark 1 इव एव पवते
ऽअथ कथमध्यर्ध इति |
SFअथ कथम् अध्यर्धस् इति
यदस्मिन्निदँ सर्वमध्यार्ध्नोत्
SFयद् अस्मिन् इदम् सर्वम् अध्यार्ध्नोत्
तेनाध्यर्ध इति |
SFतेन अध्यर्धस् इति
कतम एको देव इति |
SFकतमस् एकस् देवस् इति
प्राण इति स ब्रह्म त्यदित्याचक्षते || ९ ||
SFप्राणस् इति स ब्रह्म त्यद् इति आचक्षते
मन्त्र १० [III.ix.10]
पृथिव्येव यस्याऽऽयतनम्
SFपृथिवी एव यस्य आयतनम्
अग्निर्लोको
SFचक्षुस् अग्निस् लोकस्
मनो ज्योतिर्
SFमनस् ज्योतिस्
यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणँ,
SFयस् वै तम् पुरुषम् विद्यात् सर्वस्य आत्मनस्
परायणम्
स वै वेदिता स्याद्
SFस वै वेदिता स्यात्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वेद वा अहं तं पुरुषँ सर्वस्याऽऽत्मनः परायणम्
SFवेद वै अहम् तम् पुरुषम् सर्वस्य आत्मनस्
परायणम्
यमात्थ
SFयम् आत्थ
य एवायँ शारीरः पुरुषः
SFयस् एव अयम् शारीरस् पुरुषस्
स एष |
SFसस् एष
वदैव
SFवद एव
शाकल्य
SFहाकल्य
तस्य का देवतेत्य्
SFतस्य का देवता इति
अमृतम्
SFस्त्रियस् अमृतम्
इति होवाच || १० ||
SFइति ह उवाच
मन्त्र ११ [III.ix.11]
काम एव यस्याऽऽयतनँ
SFकामस् एव यस्य आयतनम्
हृदयं लोको
SFचक्षुस् हृदयम् लोकस्
मनो ज्योतिर्
SFमनस् ज्योतिस्
यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणँ,
SFयस् वै तम् पुरुषम् विद्यात् सर्वस्य आत्मनस्
परायणम्
स वै वेदिता स्याद्
SFस वै वेदिता स्यात्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वेद वा अहं तं पुरुषँ सर्वस्याऽऽत्मनः परायणम्
SFवेद वै अहम् तम् पुरुषम् सर्वस्य आत्मनस्
परायणम्
यमात्थ
SFयम् आत्थ
य एवायं काममयः पुरुषः
SFयस् एव असौ चन्द्रे एव अयम् काममयस् पुरुषस्
स एष
SFसस् एष
वदैव
SFवद एव
शाकल्य
SFहाकल्य
तस्य का देवतेति |
SFतस्य का देवता इति
स्त्रिय इति होवाच || ११ ||
SFमनस् स्त्रियस् इति ह उवाच
मन्त्र १२ [III.ix.12]
रूपाण्येव यस्याऽऽयतनम्
SFरूपाणि एव यस्य आयतनम्
चक्षुर्लोको
SFचक्षुस् लोकस्
मनो ज्योतिर्
SFमनस् ज्योतिस्
यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणँ,
SFयस् वै तम् पुरुषम् विद्यात् सर्वस्य आत्मनस्
परायणम्
स वै वेदिता स्याद्
SFस वै वेदिता स्यात्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वेद वा अहं तं पुरुषँ सर्वस्याऽऽत्मनः परायणम्
SFवेद वै अहम् तम् पुरुषम् सर्वस्य आत्मनस्
परायणम्
यमात्थ
SFयम् आत्थ
य एवासावादित्ये पुरुषः
SFयस् एव असौ आदित्ये पुरुषस्
स एष
SFसस् एष
वदैव
SFवद एव
शाकल्य
SFहाकल्य
तस्य का देवतेति |
SFतस्य का देवता इति
सत्यमिति होवाच || १२ ||
SFचक्षुस् सत्यम् इति ह उवाच
मन्त्र १३ [III.ix.13]
आकाश एव यस्याऽऽयतनँ
SFअकशस् एव यस्य आयतनम्
श्रोत्रं लोको
SFचक्षुस् श्रोत्रम् लोकस्
मनो ज्योतिर्
SFमनस् ज्योतिस्
यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणँ,
SFयस् वै तम् पुरुषम् विद्यात् सर्वस्य आत्मनस्
परायणम्
स वै वेदिता स्याद्
SFस वै वेदिता स्यात्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वेद वा अहं तं पुरुषँ सर्वस्याऽऽत्मनः परायणम्
SFवेद वै अहम् तम् पुरुषम् सर्वस्य आत्मनस्
परायणम्
यमात्थ
SFयम् आत्थ
य एवायँ श्रौत्रः प्रातिश्रुत्कः पुरुषः
SFयस् एव अयम् वायौ श्रौतस् प्रातिश्रुतस् पुरुषस्
स एष
SFसस् एष
वदैव
SFवद एव
शाकल्य
SFहाकल्य
तस्य का देवतेति |
SFतस्य का देवता इति
दिश इति होवाच || १३ ||
SFप्राणस् दिशस् इति होवच
मन्त्र १४ [III.ix.14]
तम एव यस्याऽऽयतनँ
SFतमस् एव यस्य आयतनम्
हृदयं लोको
SFचक्षुस् हृदयम् लोकस्
मनो ज्योतिर्
SFमनस् ज्योतिस्
यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणँ,
SFयस् वै तम् पुरुषम् विद्यात् सर्वस्य आत्मनस्
परायणम्
स वै वेदिता स्याद्
SFस वै वेदिता स्यात्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वेद वा अहं तं पुरुषँ सर्वस्याऽऽत्मनः परायणम्
SFवेद वै अहम् तम् पुरुषम् सर्वस्य आत्मनस्
परायणम्
यमात्थ
SFयम् आत्थ
य एवायं छायामयः पुरुषः
SFयस् एव अयम् छायामयस् पुरुषस्
स एष
SFसस् एष
वदैव
SFवद एव
शाकल्य
SFहाकल्य
तस्य का देवतेति |
SFतस्य का देवता इति
मृत्युरिति होवाच || १४ ||
SFमृत्युस् इति ह उवाच
मन्त्र १५ [III.ix.15]
रूपाण्येव यस्याऽऽयतनम्
SFरूपाणि एव यस्य आयतनम्
चक्षुर्लोको
SFचक्षुस् लोकस्
मनो ज्योतिर्
SFमनस् ज्योतिस्
यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणँ,
SFयस् वै तम् पुरुषम् विद्यात् सर्वस्य आत्मनस्
परायणम्
स वै वेदिता स्याद्
SFस वै वेदिता स्यात्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वेद वा अहं तं पुरुषँ सर्वस्याऽऽत्मनः परायणं
SFवेद वै अहम् तम् पुरुषम् सर्वस्य आत्मनस्
परायणम्
यमात्थ
SFयम् आत्थ
य एवायमादर्शे पुरुषः
SFयस् एव असौ आदित्ये पुरुषस्
स एष
SFसस् एष
वदैव
SFवद एव
शाकल्य
SFहाकल्य
तस्य का देवतेत्य्
SFतस्य का देवता इति
असुरिति होवाच || १५ ||
SFचक्षुस् सत्यम् इति ह उवाच
मन्त्र १६ [III.ix.16]
आप एव यस्याऽऽयतनँ
SFअपस् एव यस्य आयतनम्
हृदयं लोको
SFचक्षुस् हृदयम् लोकस्
मनो ज्योतिर्
SFमनस् ज्योतिस्
यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणँ,
SFयस् वै तम् पुरुषम् विद्यात् सर्वस्य आत्मनस्
परायणम्
स वै वेदिता स्याद्
SFस वै वेदिता स्यात्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वेद वा अहं तं पुरुषँ सर्वस्याऽऽत्मनः परायणम्
SFवेद वै अहम् तम् पुरुषम् सर्वस्य आत्मनस्
परायणम्
यमात्थ
SFयम् आत्थ
य एवायमप्सु पुरुषः
SFयस् एव अयम् अप्सु पुरुषस्
स एष
SFसस् एष
वदैव
SFवद एव
शाकल्य
SFहाकल्य
तस्य का देवतेति |
SFतस्य का देवता इति
वरुण इति होवाच || १६ ||
SFवरुणस् इति ह उवाच
मन्त्र १७ [III.ix.17]
रेत एव यस्याऽऽयतनँ
SFरेतस् एव यस्य आयतनम्
हृदयं लोको
SFचक्षुस् हृदयम् लोकस्
मनो ज्योतिर्
SFमनस् ज्योतिस्
यो वै तं पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायणँ,
SFयस् वै तम् पुरुषम् विद्यात् सर्वस्य आत्मनस्
परायणम्
स वै वेदिता स्याद्
SFस वै वेदिता स्यात्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वेद वा अहं तं पुरुषँ सर्वस्याऽऽत्मनः परायणम्
SFवेद वै अहम् तम् पुरुषम् सर्वस्य आत्मनस्
परायणम्
यमात्थ
SFयम् आत्थ
य एवायं पुत्रमयः पुरुषः
SFयस् एव अयम् पुत्रमयस् पुरुषस्
स एष
SFसस् एष
वदैव
SFवद एव
शाकल्य
SFहाकल्य
तस्य का देवतेति |
SFतस्य का देवता इति
प्रजापतिरिति होवाच || १७ ||
SFप्रजापतिस् इति ह उवाच
मन्त्र १८ [III.ix.18]
शाकल्येति होवाच याज्ञवल्क्यस्
SFहाकल्य इति ह उवाच याज्ञवल्क्यः
त्वाँ स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति || १८ ||
SFत्वाम् स्विद् इमे ब्राह्मणास् अङ्गारावक्षयणम् अक्रत इति
मन्त्र १९ [III.ix.19]
याज्ञवल्क्येति होवाच शाकल्यो
SFयाज्ञवल्क्य इति ह उवाच हाकल्यस्
यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः
SFयद् इदम् कुरुपञ्चालानाम् ब्राह्मनान् अत्यवादीस्
किं ब्रह्म विद्वानिति |
SFकिम् ब्रह्म विद्वान् इति
दिशो वेद सदेवाः सप्रतिष्ठा इति |
SFदिशस् वेद सदेवास् सप्रतिष्ठास् इति
यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः || १९ ||
SFयद् दिशस् वेत्थ सदेवास् सप्रतिष्ठास्
मन्त्र २० [III.ix.20]
किंदेवतोऽस्यां प्राच्यां दिश्यसीत्य्
SFकिंदेवतस् अस्याम् प्राच्याम् दिशि असि इति
आदित्यदेवत इति |
SFआदित्यदेवतस् इति
स आदित्यः कस्मिन्प्रतिष्ठित इति |
SFसस् आदित्यस् कस्मिन् प्रतिष्ठितस् इति
चक्षुषीति |
SFचक्षुषि इति
कस्मिन्नु चक्षुः प्रतिष्ठितमिति|
SFकस्मिन् नु चक्षुस् प्रतिष्ठितम् भवतिk OM.
भवति इति
रूपेष्विति
SFरूपेषु इति
चक्षुषा हि रूपाणि पश्यति |
SFचक्षुषा हि रूपाणि पश्यति
कस्मिन्नु रूपाणि प्रतिष्ठितानीति |
SFकस्मिन् नु रूपाणि प्रतिष्ठितानि भवन्तिk OM. भवन्ति
इति
हृदय इति होवाच
SFहृदये इति ह उवाच
हृदयेन हि रूपाणि जानाति
SFहृदयेन हि रूपाणि जानाति
हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्य्
SFहृदये हि एव रूपाणि प्रतिष्ठितानि भवन्ति इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य || २० ||
SFयाज्ञवल्क्य
मन्त्र २१ [III.ix.21]
किंदेवतोऽस्यां दक्षिणायां दिश्यसीति |
SFकिंदेवतस् अस्याम् दक्षिणायाम् दिशि असि इति
यमदेवत इति |
SFयमदेवतस् इति
स यमः कस्मिन्प्रतिष्ठित इति |
SFस यमस् कस्मिन् प्रतिष्ठितस् इति
यज्ञ इति |
SFk add. mark 1 यज्ञे इति
कस्मिन्नु यज्ञः प्रतिष्ठित इति.
SFकस्मिन् नु यज्ञस् प्रतिष्ठितस् इति
दक्षिणायामिति |
SFदक्षिणायाम् इति
कस्मिन्नु दक्षिणा प्रतिष्ठितेति
SFकस्मिन् नु दक्षिणा प्रतिष्ठिता भवतिk OM. भवति इति
श्रद्धायामिति
SFश्रद्धायाम् इति
यदा ह्येव श्रद्धत्ते
SFयदा हि एव श्रद्धत्ते
ऽथ दक्षिणां ददाति
SFअथ दक्षिणाम् ददाति
श्रद्धायाँ ह्येव दक्षिणा प्रतिष्ठितेति
SFश्रद्धायाम् हि एव दक्षिणा प्रतिष्ठिता भवतिk OM.
भवति इति
कस्मिन्नु श्रद्धा प्रतिष्ठितेति
SFकस्मिन् नु श्रद्धा प्रतिष्ठिता भवतिk OM. भवति इति
हृदय इति होवाच
SFहृदये इति ह उवाच
हृदयेन हि श्रद्धां जानाति
SFहृदयेन हि श्रद्धत्ते श्रद्धाम् जानाति
हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीत्य्
SFहृदये हि एव श्रद्धा प्रतिष्ठिता _ भवति इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य || २१ ||
SFयाज्ञवल्क्य
मन्त्र २२ [III.ix.22]
किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति |
SFकिंदेवतस् अस्याम् प्रतीच्याम् दिशि असि इति
वरुणदेवत इति |
SFवरुणदेवतस् इति
स वरुणः कस्मिन् प्रतिष्ठित इत्य्
SFस वरुणस् कस्मिन् प्रतिष्ठितस् इति
अप्स्विति |
SFअप्सु इति
कस्मिन्न्वापः प्रतिष्ठितेति
SFकस्मिन् नु आपस् प्रतिष्ठितास् भवन्तिk OM. भवन्ति
इति
रेतसीति |
SFरेतसि इति
कस्मिन्नु रेतः प्रतिष्ठितेति
SFकस्मिन् नु रेतस् प्रतिष्ठितम् भवतिk OM. भवन्ति
इति
हृदय
SFहृदये
इति
SFइतिk add. mark 1 ह उवाच
तस्मादपि प्रतिरूपं जातमाहुर्
SFतस्माद् अपि प्रतिरूपम् जातम् आहुर्
हृदयादिव सृप्तो
SFहृदयाद् इव सृप्तस्
हृदयादिव निर्मित इति
SFहृदयाद् इव निर्मितस् इति
हृदये ह्येव रेतः प्रतिष्ठितं भवतीत्य्
SFहृदये हि एव रेतस् प्रतिष्ठितम् भवति इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य || २२ ||
SFयाज्ञवल्क्य
मन्त्र २३ [III.ix.23]
किंदेवतोऽस्यामुदीच्यां दिश्यसीति |
SFकिंदेवतस् अस्याम् उदीच्याम् दिशि असि इति
सोमदेवत इति |
SFसोमदेवतस् इति
स सोमः कस्मिन्प्रतिष्ठित इति |
SFस सोमस् कस्मिन् प्रतिष्ठितस् इति
दीक्षायामिति |
SFदीक्षायाम् इति
कस्मिन्नु दीक्षा प्रतिष्ठितेति
SFकस्मिन् नु दिक्षा प्रतिष्ठिता भवतिk OM. भवति इति
सत्य इति
SFसत्ये इति
तस्मादपि दीक्षितमाहुः
SFतस्माद् अपि दीक्षितम् आहुर्
सत्यं वदेति
SFसत्यम् वद इति
सत्ये ह्येव दीक्षा प्रतिष्ठितेति
SFसत्ये हि एव दीक्षा प्रतिष्ठिता भवतिk OM. भवति इति
कस्मिन्नु सत्यं प्रतिष्ठितमिति
SFकस्मिन् नु सत्यम् प्रतिष्ठितम् भवतिk OM. भवति
इति
हृदय इति होवाच
SFहृदये इतिk add. mark 1 ह उवाच
हृदयेन हि सत्यं जानाति
SFहृदयेन हि सत्यम् जानाति
हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्य्
SFहृदये हि एव सत्यम् प्रतिष्ठितम् भवति इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य || २३ ||
SFयाज्ञवल्क्य
मन्त्र २४ [III.ix.24]
किंदेवतोऽस्यां ध्रुवायां दिश्यसीत्य्
SFकिंदेवतस् अस्याम् ध्रुवायाम् दिशि असि इति
अग्निदेवत इति |
SFअग्निदेवतस् इति
सोऽग्निः कस्मिन्प्रतिष्ठित इति
SFसस् अग्निस् कस्मिन् प्रतिष्ठितस् भवतिk OM.
भवति इति
वाचीति |
SFवाचि इति
कस्मिन्नु वाक्प्रतिष्ठितेति
SFकस्मिन् नु वाक् प्रतिष्ठिता भवतिk OM. भवति इति
हृदय इति |
SFमनसि इति हृदये इति || २४ ||
कस्मिन्नु हृदयं प्रतिष्ठितमिति
SFकस्मिन् नु मनस् हृदयम् प्रतिष्ठितम् भवति k
om.भवति इति
मन्त्र २५ [III.ix.25]
अहल्लिकेति होवाच याज्ञवल्क्यो
SFअहल्लिक इति ह उवाच याज्ञवल्क्यस्
यत्रैतदन्यत्रास्मन्मन्यासै |
SFयत्र एतद् अन्यत्र अस्मद् मन्यासै
यद्ध्येतदन्यत्रास्मत्स्याच्
SFयत्र एतद् यद् धि एतद् अन्यत्र अस्मद् स्यात्
छ्वानो वैनदद्युर्
SFश्वानस् वा एनद् अद्युः
वयाँसि वैनद्विमथ्नीरन्निति || २५ ||
SFवयाँसि वा एनद् विमथ्नीरन् इति
मन्त्र २६ [III.ix.26]
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ _ स्थ इति |
SFकस्मिन् नु त्वम् च आत्मा च प्रतिष्ठितौ _ स्थस् इति
प्राण इति |
SFप्राणे इति
कस्मिन्नु प्राणः प्रतिष्ठित इत्य्
SFकस्मिन् नु प्राणस् प्रतिष्ठितस् इति
अपान इति |
SFअपाने इति
कस्मिन्न्वपानः प्रतिष्ठित इति |
SFकस्मिन् नु अपानस् प्रतिष्ठितस् इति
व्यान इति |
SFव्याने इति
कस्मिन्नु व्यानः प्रतिष्ठित इत्य्
SFकस्मिन् नु व्यानस् प्रतिष्ठितस् इति
उदान इति |
SFउदाने इति
कस्मिन्नूदानः प्रतिष्ठित इति |
SFकस्मिन् नु उदानस् प्रतिष्ठितस् इति
समान इति |
SFसमाने इति
स एष
SFसस् एष
नेति
SFन इति
नेत्यात्माऽगृह्यो
SFन इति आत्मा अगृह्यस्
न हि गृह्यते
SFन हि गृह्यते
ऽशीर्यो
SFअशीर्यस्
न हि शीर्यते
SFन हि शीर्यते
ऽसङ्गो न हि सज्यते
SFअसङ्गस् असितस् न सज्यते
ऽसितो न व्यथते
SFअसितस् न व्यथते
न रिष्यत्य्
SFन रिष्यति
एतान्यष्टावायतनान्य्
SFएतानि अष्टौ आयतनानि
अष्टौ लोका
SFअष्टौ लोकास्
अष्टौ देवा
SFk add. अष्टौ देवास्
अष्टौ पुरुषाः |
SFअष्टौ पुरुषास्
स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्
SFस यस् तान् पुरुषान् व्युदुह्य निरुह्य प्रत्युह्य अत्यक्रामीत्
तं त्वौपनिषदं पुरुषं पृच्छामि |
SFतम् त्वा औपनिषदम् पुरुषम् पृच्छामि
तं चेन्मे न विवक्ष्यसि
SFतम् चेद् मे न विवक्ष्यसि
मूर्धा ते विपतिष्यतीति |
SFमूर्धा ते विपतिष्यति इति
तँ ह न मेने शाकल्यस्
SFतम् ह हाकल्यस् न मेने तम् ह न मेने हाकल्यस्
तस्य ह मूर्धा विपपात
SFतस्य ह मूर्धा विपपात
अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुर्
SFतस्य ह अपि अन्यद् मन्यमानास् परिमोषिणस् अस्थीनि
अपजह्रुर् k अपि ह अस्य परिमोषिणस् अस्थीनि
अन्यन्मन्यमानाः || २६ ||
SFअपजह्रुर् अन्यद् मन्यमानास्
मन्त्र २७ [III.ix.27]
अथ होवाच
SFअथ याज्ञवल्क्यस् ह उवाच ह उवाच याज्ञवल्क्यस्
ब्राह्मणा भगवन्तो
SFब्राह्मणास् भगवन्तस्
यो वः कामयते
SFयस् वस् कामयते
स मा पृच्छतु
SFस मा पृच्छतु
सर्वे वा मा पृच्छत
SFसर्वे वा मा पृच्छत
यो वः कामयते
SFयस् वस् कामयते
तं वः पृच्छामि
SFतम् वस् पृच्छामि
सर्वान्वा वः पृच्छामीति |
SFसर्वान् वा वस् पृच्छामि इति
ते ह ब्राह्मणा न दधृषुः || २७ ||
SFते ह ब्राह्मणास् न दधृषुर्
मन्त्र २८ [III.ix.28]
तान्हैतैः श्लोकैः पप्रच्छ
SFतान् ह एतैस् श्लोकैस् पप्रच्छ
यथा वृक्षो वनस्पतिस्
SFयथा वृक्षस् वनस्पतिः
तथैव पुरुषोऽमृषा
SFतथा एव पुरुषस् अमृषा
तस्य लोमानि पर्णानि
SFतस्य पर्णानि लोमानि लोमानि पर्णानि
त्वगस्योत्पाटिका बहिः || १ ||
SFत्वक् अस्य उत्पाटिका बहिः
त्वच एवास्य रुधिरं
SFत्वचस् एव अस्य रुधिरम्
प्रस्यन्दि त्वच उत्पटः
SFप्रस्यन्दि त्वचस् उत्पटः
तस्मात्तदतृण्णात्प्रैति
SFतस्माद् तद् अतुन्नाद् अतृण्णाद् प्रैति
रसो वृक्षादिवाऽऽहतात् || २ ||
SFरसस् वृक्षाद् इव आहताद्
माँसान्यस्य शकराणि
SFमाँसानि अस्य शकराणि
किनाटँ स्नाव
SFकिनाटम् स्नाव
तत्स्थिरम्|
SFतद् स्थिरम्
अस्थीन्यन्तरतो दारूणि
SFअस्थीनि अन्तरतस् दारुणि
मज्जा मज्जोपमा कृता || ३ ||
SFमज्जा मज्जोपमा कृता
यद्वृक्षो वृक्णो रोहति
SFयद् वृक्षस् वृक्णस् रोहति
मूलान्नवतरः पुनः
SFमूलाद् नवतरस् पुनः
मर्त्यः स्विन्मृत्युना वृक्णः
SFमर्त्यस् स्विद् मृत्युना वृक्णस्
कस्मान्मूलात्प्ररोहति || ४ ||
SFकस्माद् मूलाद् प्ररोहति
रेतस इति मा वोचत
SFरेतसस् इति मा वोचत
जीवतस्तत्प्रजायते
SFजीवतस् तद् प्रजायते
धानारुह इव वै वृक्षो
SFधानारुहk add. mark 1 इव वै वृक्षस्
ऽञ्जसा प्रेत्य सम्भवः || ५ ||
SFअन्यतस्kअञ्जसा प्रेत्य सम्भवस्
यत्समूलमावृहेयुर्
SFयद् समूलम् उद्वृहेयुर् अवृहेयुर्
वृक्षम्
SFवृक्षम्
न पुनराभवेत्|
SFन पुनराभवेत्
मर्त्यः स्विन्मृत्युना वृक्णः
SFमर्त्यस् स्विन् मृत्युना वृक्णस्
कस्मान्मूलात्प्ररोहति || ६ ||
SFकस्माद् मूलाद् प्ररोहति
जात एव न जायते
SFजातस् एव न जायते
को न्वेनं जनयेत्पुनः
SFकस् नु एनम् जनयेत् पुनः
विज्ञानमानन्दं ब्रह्म
SFविज्ञानम् आनन्दम् ब्रह्म
रातिर्दातुः
SFरातेस्kरातिस् दातुर्
परायणम्
SFपरायणम्
तिष्ठमानस्य तद्विद इति || ७ || || २८ || इति नवमं
ब्राह्मणम् ..
SFतिष्ठमानस्य तद्विदस् इति
इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ..
अथ चतुर्तोऽध्यायः .
प्रथमं ब्राह्मणम्
मन्त्र १ [IV.i.1]
ॐ जनको ह वैदेह आसां चक्रे
SFजनकस् ह वैदेहस् आसाम् चक्रे
ऽथ ह याज्ञवल्क्य आवव्राज |
SFअथ ह याज्ञवल्क्य आवव्राज
तँ होवाच
SFस ह उवाच जनकस् वैदेहस् तम् ह उवाच
याज्ञवल्क्य
SFयाज्ञवल्क्य
किमर्थमचारीः
SFकिम् अर्थम् अचारीस्
पशूनिच्छन्नण्वन्तानित्य्
SFपशून् इच्छन् अण्वन्तानि इति
उभयमेव
SFउभयम् एव
सम्राड्
SFसँराट्
इति होवाच || १ ||
SFइति ह उवाच
मन्त्र २ [IV.i.2]
यत्ते कश्चिदब्रवीत्
SFk add. mark 1 यद् ते कश्चिद् अब्रवीत्
तच्छृणवामेत्य्
SFतद् शृणवामेति
अब्रवीन् मे जित्वा शैलिनिर्वाग्वै ब्रह्मेति |
SFअब्रवीत् मे जित्वा हैलिनस् हैलिनिर्वाक् वै ब्रह्म इति
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
SFयथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्
तथा तच्छैलिरब्रवीद्
SFतथा तद् हैलिनस् ःऐलिनिस् अब्रवीत्
वाग्वै ब्रह्मेत्य्
SFवाक् वै ब्रह्म इति
अवदतो हि किँ स्यादित्य्
SFअवदतस् हि किम् स्यात् इति
अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां |
SFअब्रवीत् तु ते तस्य आयतनम् प्रतिष्ठाम्
न मेऽब्रवीदित्य्
SFन मे अब्रवीत् इति
एकपाद्वा एतत्
SFएकपाद् वै एतद्
सम्राड्
SFसम्राट्
इति |
SFइति
स वै नो ब्रूहि
SFस वै नस् ब्रूहि
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वागेवाऽऽयतनम्
SFवाक् एव आयतनम्
आकाशः प्रतिष्ठा
SFअकाशस् प्रतिष्ठा
प्रज्ञेत्येनदुपासीत |
SFप्रज्ञा इति एनद् उपासीत
का प्रज्ञता
SFका प्रज्ञता
याज्ञवल्क्य |
SFयाज्ञवल्क्य
वागेव
SFवाक् एव
सम्राड्
SFसम्राट्
इति होवाच
SFइति ह उवाच
वाचा वै
SFवाचा वै
सम्राड्
SFसम्राट्
बन्धुः प्रज्ञायत
SFबन्धुस् प्रज्ञायते
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या
उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टँ
हुतमाशितं पायितमयं च लोकः परश्च लोकः
सर्वाणि च भूतानि वाचैव
SFऋग्वेदस् यजुर्वेदस् सामवेदस् अथर्वाङ्गिरसस्
इतिहासस् पुराणम् विद्या उपनिषदस् श्लोकास् सूत्राणि
अनुव्याख्यानानि व्याख्यानानिk add. mark 1 इष्टम् हुतम्
आशितम् पायितम् अयम् च लोकस् परस् च लोकस्
सर्वाणि
च भूतानि वाचा एव
सम्राट्
SFसंराट्
प्रज्ञायन्ते
SFप्रज्ञायन्ते
वाग्वै
SFवाक् वै
सम्राट्
SFसम्राट्
परमं ब्रह्म
SFपरमम् ब्रह्म
नैनं वाग्जहाति
SFन एनम् वाक् जहाति
सर्वाण्येनं भूतान्यभिक्षरन्ति |
SFसर्वाणि एनम् भूतानि अभिक्षरन्ति
देवो भूत्वा देवानप्येति
SFदेवस् भूत्वा देवान् अप्येति
य एवं विद्वानेतदुपास्ते |
SFयस् एवम् विद्वान् एतद् उपास्ते
हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः |
SFहस्त्य्षभम् सहस्रम् ददामि इति ह उवाच जनकस्
वैदेहस्
स होवाच याज्ञवल्क्यः
SFस ह उवाच याज्ञवल्क्यस्
पिता मेऽमन्यत
SFपिता मे अमन्यत
नाननुशिष्य हरेतेति || २ ||
SFन अननुशिष्य हरेत इति
मन्त्र ३ [IV.i.3]
यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्य्
SFk add. यद् एव ते कश्चिद् अब्रवीत् तद्
शृणवाम इति
अब्रवीन्म ऊदङ्कः शौल्बायनः
SFअब्रवीत् मे ऊदङ्कस् हौल्वायनस् हौल्बायनः
प्राणो वै ब्रह्मेति |
SFप्राणस् वै ब्रह्म इति
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
SFयथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्
तथा तच्छौल्वायनोऽब्रवीत्
SFतथा तद् हौल्वायनस् ःऔल्बायनस् अब्रवीत्
प्राणो वै ब्रह्मेत्य्
SFप्राणस् वै ब्रह्म इति
अप्राणतो हि किँ स्यादित्य्
SFअप्राणतस् हि किम् स्यात् इति
अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां |
SFअब्रवीत् तु ते तस्य आयतनम् प्रतिष्ठाम्
न मेऽब्रवीदित्य्
SFन मे अब्रवीत् इति
एकपाद्वा एतत्
SFएकपाद् वै एतद्
सम्राड्
SFसम्राट्
इति |
SFइति
स वै नो ब्रूहि
SFस वै नस् ब्रूहि
याज्ञवल्क्य |
SFयाज्ञवल्क्य
प्राण एवाऽऽयतनम्
SFसkप्राणस् एव आयतनम्
आकाशः प्रतिष्ठा
SFअकाशस् प्रतिष्ठा
प्रियमित्येनदुपासीत |
SFप्रियम् इति एनद् उपासीत
का प्रियता
SFका प्रियता
याज्ञवल्क्य |
SFयाज्ञवल्क्य
प्राण एव
SFप्राणस् एव
सम्राड्
SFसम्राट्
इति होवाच
SFइति ह उवाच
प्राणस्य वै
SFप्राणस्य वै
सम्राट्
SFसम्राट्
कामायायाज्यं याजयत्य्
SFकामाय आयाज्यम् याजयति
अप्रतिगृह्यस्य प्रतिगृह्णात्य्
SFअप्रतिगृह्यस्य प्रतिगृह्णाति
अपि तत्र वधाशङ्कं भवति
SFअपि तत्र वधाषङ्गा वधाषङ्का भवति
यां दिशमेति प्राणस्यैव
SFयाम् दिशम् एति प्राणस्य एव
सम्राट्
SFसम्राट्
कामाय
SFकामाय
प्राणो वै
SFप्राणस् वै
सम्राट्
SFसम्राट्
परमं ब्रह्म |
SFपरमम् ब्रह्म
नैनं प्राणो जहाति
SFन एनम् प्राणस् जहाति
सर्वाण्येनं भूतान्यभिक्षरन्ति |
SFसर्वाणि एनम् भूतानि अभिक्षरन्ति
देवो भूत्वा देवानप्येति
SFदेवस् भूत्वा देवान् अप्येति
य एवं विद्वानेतदुपास्ते |
SFयस् एवम् विद्वान् एतद् उपास्ते
हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः |
SFहस्त्य्षभम् सहस्रम् ददामि इति ह उवाच जनकस्
वैदेहस्
स होवाच याज्ञवल्क्यः
SFस ह उवाच याज्ञवल्क्यस्
पिता मेऽमन्यत
SFपिता मे अमन्यत
नाननुशिष्य हरेतेति || ३ ||
SFन अननुशिष्य हरेत इति
मन्त्र ४ [IV.i.4]
यदेव ते कश्चिदब्रवीत्
SFk add. mark 1 यद् एव ते कश्चिद् अब्रवीत्
तच्छृणवामेत्य्
SFतद् शृणवाम इति
अब्रवीन्मे बर्कुर्वार्ष्णश्
SFअब्रवीत् मे बर्कुस् वार्ष्णस्
चक्षुर्वै ब्रह्मेति |
SFचक्षुस् वै ब्रह्म इति
यथा मातृमान्पितृमानाचार्यवान् ब्रूयात्
SFयथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्
तथा तद्वार्ष्णोऽब्रवीत्च्
SFतथा तद् वार्ष्णस् अब्रवीत्
चक्षुर्वै ब्रह्मेत्य्
SFचक्षुस् वै ब्रह्म इति
अपश्यतो हि किँ स्यादित्य्
SFअपश्यतस् हि किम् स्यात् इति
अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां |
SFअब्रवीत् तु ते तस्य आयतनम् प्रतिष्ठाम्
न मेऽब्रवीदित्य्
SFन मे अब्रवीत् इति
एकपाद्वा एतत्
SFएकपाद् वै एतद्
सम्राड्
SFसम्राट्
इति |
SFइति
स वै नो ब्रूहि
SFस वै नस् ब्रूहि
याज्ञवल्क्य |
SFयाज्ञवल्क्य
चक्षुरेवाऽऽयतनम्
SFचक्षुस् एव आयतनम्
आकाशः प्रतिष्ठा
SFअकाशस् प्रतिष्ठा
सत्यमित्येतदुपासीत |
SFसत्यम् इति एतद् उपासीत
का सत्यता
SFका सत्यता
याज्ञवल्क्य |
SFयाज्ञवल्क्य
चक्षुरेव
SFचक्षुस् एव
सम्राड्
SFसम्राट्
इति होवाच
SFइति ह उवाच
चक्षुषा वै
SFचक्षुषा वै
सम्राट्
SFसम्राट्
पश्यन्तमाहुर्
SFपश्यन्तम् आहुर्
अद्राक्षीरिति |
SFअद्राक्षीस् इति
स आहाद्राक्षमिति
SFसस् आह अद्राक्षम् इति
तत्सत्यं भवति
SFतद् सत्यम् भवति
चक्षुर्वै
SFचक्षुस् वै
सम्राट्
SFसम्राट्
परमं ब्रह्म
SFपरमम् ब्रह्म
नैनं चक्षुर्जहाति
SFन एनम् चक्षुस् जहाति
सर्वाण्येनं भूतान्यभिक्षरन्ति |
SFसर्वाणि एनम् भूतानि अभिक्षरन्ति
देवो भूत्वा देवानप्येति
SFदेवस् भूत्वा देवान् अप्येति
य एवं विद्वानेतदुपास्ते |
SFयस् एवम् विद्वान् एतद् उपास्ते
हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः |
SFहस्त्य्षभम् सहस्रम् ददामि इति ह उवाच जनकस्
वैदेहस्
स होवाच याज्ञवल्क्यः
SFस ह उवाच याज्ञवल्क्यस्
पिता मेऽमन्यत
SFपिता मे अमन्यत
नाननुशिष्य हरेतेति ||४ ||
SFन अननुशिष्य हरेत इति
मन्त्र ५ [IV.i.5]
यदेव ते कश्चिदब्रवीत्
SFk add. mark 1 यद् एव ते कश्चिद् अब्रवीत्
तच्छृणवामेत्य्
SFतद् शृणवाम इति
अब्रवीन्मे गर्दभीविपीतो भारद्वाजः
SFअब्रवीत् मे गर्दभीविपीतस् भारद्वाजस्
श्रोत्रं वै ब्रह्मेति
SFश्रोत्रम् वै ब्रह्म इति
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
SFयथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्
तथा तद्भारद्वाजोऽब्रवीच्
SFतथा तद् भारद्वाजस् अब्रवीत्
छ्रोत्रं वै ब्रह्मेत्य्
SFश्रोत्रम् वै ब्रह्म इति
अशृण्वतो हि किँ स्यादित्य्
SFअशृण्वतस् हि किम् स्यात् इति
अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां |
SFअब्रवीत् तु ते तस्य आयतनम् प्रतिष्ठाम्
न मेऽब्रवीदित्य्
SFन मे अब्रवीत् इति
एकपाद्वा एतत्
SFएकपाद् वै एतद्
सम्राड्
SFसम्राट्
इति |
SFइति
स वै नो ब्रूहि
SFस वै नस् ब्रूहि
याज्ञवल्क्य |
SFयाज्ञवल्क्य
श्रोत्रमेवाऽऽयतनम्
SFश्रोत्रम् एव आयतनम्
आकाशः प्रतिष्ठाऽनन्तमित्येनदुपासीत |
SFअकाशस् प्रतिष्ठा अनन्तम् इति एनद् उपासीत
काऽनन्तता
SFका अनन्तता
याज्ञवल्क्य |
SFयाज्ञवल्क्य
दिश एव
SFदिशस् एव
सम्राड्
SFसम्राट्
इति होवाच
SFइति ह उवाच
तस्माद्वै
SFतस्माद् वै
सम्राड्
SFसम्राट्
अपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छत्य्
sN k add. अपि याम् काञ्च दिशम् गच्छति न एव
अस्यास् अन्तम् गच्छति
अनन्ता हि दिशो
SFअनन्तास् हि दिशस्
दिशो वै
SFश्रोत्रम् हि दिशस् k दिशस् वै
सम्राट्
SFसम्राट्
श्रोत्रँश्रोत्रं वै
SFश्रोत्रम्श्रोत्रम् वै
सम्राट्
SFसम्राट्
परमं ब्रह्म |
SFपरमम् ब्रह्म
नैनँ श्रोत्रं जहाति
SFन एनम् श्रोत्रम् जहाति
सर्वाण्येनं भूतान्यभिक्षरन्ति |
SFसर्वाणि एनम् भूतानि अभिक्षरन्ति
देवो भूत्वा देवानप्येति
SFदेवस् भूत्वा देवान् अप्येति
य एवं विद्वानेतदुपास्ते |
SFयस् एवम् विद्वान् एतद् उपास्ते
हस्त्यृषभँ सहस्रं ददामीति
SFहस्त्य्षभम् सहस्रम् ददामि इति
होवाच जनको वैदेहः |
SFह उवाच जनकस् वैदेहस्
स होवाच याज्ञवल्क्यः
SFस ह उवाच याज्ञवल्क्यस्
पिता मेऽमन्यत
SFपिता मे अमन्यत
नाननुशिष्य हरेतेति || ५ ||
SFन अननुशिष्य हरेत इति
मन्त्र ६ [IV.i.6]
यदेव ते कश्चिदब्रवीत्
SFk add. mark 1 यद् एव ते कश्चिद् अब्रवीत्
तच्छृणवामेत्य्
SFतद् शृणवाम इति
अब्रवीन्मे सत्यकामो जाबालो
SFअब्रवीत् मे शत्यकामस् जाबालस्
मनो वै ब्रह्मेति
SFमनस् वै ब्रह्म इति
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
SFयथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्
तथा तज्जाबालो अब्रवीन्
SFतथा तद् जाबालो अब्रवीत्
मनो वै ब्रह्मेत्य्
SFमनस् वै ब्रह्म इति
अमनसो हि किँ स्यादित्य्
SFअमनसस् हि किम् स्यात् इति
अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां |
SFअब्रवीत् तु ते तस्य आयतनम् प्रतिष्ठाम्
न मेऽब्रवीदित्य्
SFन मे अब्रवीत् इति
एकपाद्वा एतत्
SFएकपाद् वै एतद्
सम्राड्
SFसम्राट्
इति |
SFइति
स वै नो ब्रूहि
SFस वै नस् ब्रूहि
याज्ञवल्क्य |
SFयाज्ञावल्क्य
मन एवाऽऽयतनम्
SFमनस् एव आयतनम्
आकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत |
SFअकाशस् प्रतिष्ठा आनन्दस् इति एनद् उपासीत
काऽऽनन्दता
SFका आनन्दता
याज्ञवल्क्य |
SFयाज्ञवल्क्य
मन एव
SFमनस् एव
सम्राड्
SFसम्राट्
इति होवाच
SFइति ह उवाच
मनसा वै
SFमनसा वै
सम्राट्
SFसम्राट्
स्त्रियमभिहार्यते
SFस्त्रियम् अभिहर्यति अभिहार्यते
तस्यां प्रतिरूपः पुत्रो जायते
SFतस्याम् प्रतिरूपस् पुत्रस् जायते
स आनन्दो |
SFसस् आनन्दस्
मनो वै
SFमनस् वै
सम्राट्
SFसम्राट्
परमं ब्रह्म
SFपरमम् ब्रह्म
नैनं मनो जहाति
SFन एनम् मनस् जहाति
सर्वाण्येनं भूतान्यभिक्षरन्ति |
SFसर्वाणि एनम् भूतानि अभिक्षरन्ति
देवो भूत्वा देवानप्येति
SFदेवस् भूत्वा देवानप्येति
य एवं विद्वानेतदुपास्ते |
SFयस् एवम् विद्वानेतद् उपास्ते
हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः |
SFहस्त्य्षभम् सहस्रम् ददामि इति ह उवाच जनकस्
वैदेहस्
स होवाच याज्ञवल्क्यः
SFस ह उवाच याज्ञवल्क्यस्
पिता मेऽमन्यत
SFपिता मे अमन्यत
नाननुशिष्य हरेतेति || ६ ||
SFन अननुशिष्य हरेत इति
मन्त्र ७ [IV.i.7]
यदेव ते कश्चिदब्रवीत्
SFk add. mark 1 यद् एव ते कश्चिद् अब्रवीत्
तच्छृणवामेत्य्
SFतद् शृणवाम इति
अब्रवीन्मे विदग्धः शाकल्यो
SFअब्रवीत् मे विदग्धस् हाकल्यस्
हृदयं वै ब्रह्मेति
SFहृदयम् वै ब्रह्म इति
यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
SFयथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्
तथा तच्छाकल्योऽब्रवीद्
SFतथा तद् हाकल्यस् अब्रवीत्
धृदयं वै ब्रह्मेत्य्
SFहृदयम् वै ब्रह्म इति
अहृदयस्य हि किँ स्यादित्य्
SFअहृदयस्य हि किम् स्यात् इति
अब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां _ |
SFअब्रवीत् तु ते तस्य आयतनम् प्रतिष्ठाम् _
न मेऽब्रवीदित्य्
SFन मे अब्रवीत् इति
एकपाद्वा एतत्
SFएकपाद् वै एतद्
सम्राड्
SFसम्राट्
इति |
SFइति
स वै नो ब्रूहि
SFस वै नस् ब्रूहि
याज्ञवल्क्य |
SFयाज्ञवल्क्य
हृदयमेवाऽऽयतनम्
SFहृदयम् एव आयतनम्
आकाशः प्रतिष्ठा
SFअकाशस् प्रतिष्ठा
स्थितिरित्येनदुपासीत |
SFस्थितिस् इति एनद् उपासीत
का स्थितिता
SFका स्थितिता
याज्ञवल्क्य |
SFयाज्ञवल्क्य
हृदयमेव
SFहृदयम् एव
सम्राड्
SFसम्राट्
इति होवाच
SFइति ह उवाच
हृदयं वै
SFहृदयम् वै
सम्राट्
SFसम्राट्
सर्वेषां भूतानामायतनँ
SFसर्वेषाम् भूतानाम् आयतनँ
हृदयं वै
SFहृदयम् वै
सम्राट्,
SFसम्राट्
सर्वेषां भूतानां प्रतिष्ठा
SFसर्वेषाम् भूतानाम् प्रतिष्ठा
हृदये ह्येव
SFहृदये हि एव
सम्राट्
SFसम्राट्
सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति
SFसर्वाणि भूतानि प्रतिष्ठितानि भवन्ति
हृदयं वै
SFहृदयम् वै
सम्राट्
SFसम्राट्
परमं ब्रह्म
SFपरमम् ब्रह्म
नैनँ हृदयं जहाति
SFन एनम् हृदयम् जहाति
सर्वाण्येनं भूतान्यभिक्षरन्ति |
SFसर्वाणि एनम् भूतानि अभिक्षरन्ति देवस् भूत्वा देवान्
अप्येति
देवो भूत्वा देवानप्येति
SFदेवस् भूत्वा देवान् अप्येति
य एवं विद्वानेतदुपास्ते |
SFयस् एवम् विद्वाएतद् उपास्ते
हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः |
SFहस्त्य्षभम् सहस्रम् ददामि इति ह उवाच जनकस्
वैदेहस्
स होवाच याज्ञवल्क्यः
SFस ह उवाच याज्ञवल्क्यस्
पिता मेऽमन्यत नाननुशिष्य हरेतेति || ७ || इति प्रथमं
ब्राह्मणम् ..
SFपिता मे अमन्यत न अननुशिष्य हरेत इति
द्वितीयं ब्राह्मणम् .
मन्त्र १ [IV.ii.1]
जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच
SFअथ ह जनकस् जनकस् ह वैदेहस् कूर्चाद्
उपावसर्पन् उवाच
नमस्तेऽस्तु
SFनमस् तेk add. mark 1 अस्तु
याज्ञवल्क्यानु मा शाधीति |
SFयाज्ञवल्क्य अनु मा शाधि इति
स होवाच
SFस ह उवाच
यथा वै
SFयथा वै
सम्राण्
SFसम्राट्
महान्तमध्वानमेष्यन्रथं वा नावं वा
समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्य्
SFमहान्तम् अध्वानम् एष्यन् रथम् वा नावम् वा
समाददीत एवम् एव एताभिस् उपनिषद्भिस् समाहितात्मा
असि
एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो
विमुच्यमानः क्व गमिष्यसीति |
SFएवम् वृन्दारकस् आढ्यस् सन् अधीतवेदस्
उक्तोपनिषत्कस् इतस् विमुच्यमानस् क्व गमिष्यसि इति
नाहं तद्
SFन अहम् तद्
भगवन्
SFभगवन्
वेद यत्र गमिष्यामीत्य्
SFवेद यत्र गमिष्यामि इति
अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति |
SFअथ वै ते अहम् तद् वक्ष्यामि यत्र गमिष्यसि इति
ब्रवीतु भगवानिति || १ ||
SFब्रवीतु भगवान् इति
मन्त्र २ [IV.ii.2]
इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्
SFइन्धस् ह वै नाम एष यस् अयम् दक्षिणे अक्षन्
पुरुषः
तं वा एतमिन्धँ सन्तमिन्द्र इत्याचक्षते परोक्षेणैव
SFतम् वै एतम् इन्धम् सन्तम् इन्द्रस् इति आचक्षते
परोक्षेण एव
परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः || २ ||
SFपरोक्षप्रियास् इव हि देवास् प्रत्यक्षद्विषस्
मन्त्र ३ [IV.ii.3]
अथैतद्वामेऽक्षणि पुरुषरूपम्
SFअथ एतद् वामे अक्षिणि अक्षन् पुरुषरूपम्
एषाऽस्य पत्नी विराट्
SFएषा अस्य पत्नी विराट्
तयोरेष सँस्तावो य एषोऽन्तर्हृदय आकाशो
SFतयोस् एष सँस्तावस् यस् एषस् अन्तर्हृदये
आकाशस्
ऽथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डो
SFअथ एनयोस् एतद् अन्नम् यस् एषस् अन्तर्हृदये
लोहितपिण्डस्
ऽथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये
जालकमिवाथैनयोरेषा सृतिः संचरणी यैषा
हृदयादूर्ध्वा नाड्युच्चरति |
SFअथ एनयोस् एतद् प्रावरणम् यद् एतद् अन्तर्हृदये
यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम
नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्त्य्
SFतास् वै अस्य एतास् हितास् नाम नाड्यस् यथ केशस्
सहस्रधा भिन्नस् यथा केशस् सहस्रधा भिन्नस्
एवम् अस्य
एतास् हितास् नाम नाड्यस् अन्तर्हृदये प्रतिष्ठितास्
भवन्ति
एताभिर्वा एतदास्रवदास्रवति
SFएताभिस् वै एतम् एतद् अस्रवत् आस्रवति
तस्मादेष प्रविविक्ताहारतर इवैव भवत्यस्माच्छारीरादात्मनः
|| ३ ||
SFतस्माद् एष प्रविविक्ताहारतरस् इव भवति अस्माद्
शारीराद् आत्मनस्
मन्त्र ४ [IV.ii.4]
तस्य प्राची दिक्प्राञ्चः प्राणाः
SFतस्य वै एतस्य पुरुषस्यk OM. वै ... प्राची दिक्
प्राञ्चस् प्राणास्
दक्षिणा दिग्दक्षिणे प्राणाः
SFदक्षिणा दिक् दक्षिणास् प्राणास्
प्रतीची दिक्प्रत्यञ्चः प्राणा
SFप्रतीची दिक् प्रत्यञ्चस् प्राणास्
उदीची दिगुदञ्चः प्राणाः
SFउदीची दिक् उदञ्चस् प्राणास्
ऊर्ध्वा दिगूर्ध्वाः प्राणाः
SFऊर्ध्वा दिक् ऊर्ध्वास् प्राणास्
अवाची दिगवाञ्चः प्राणाः
SFअवाची दिक् अवाञ्चस् प्राणास्
सर्वा दिशः सर्वे प्राणाः |
SFसर्वास् दिशस् सर्वे प्राणास्
स एष नेति नेत्याऽत्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यते
ऽसङ्गो न हि सज्यतेऽसितो न
व्यथते न रिष्यत्य्
SFसस् एष न इति न इति आत्मा अगृह्यस् न हि गृह्यते
अशीर्यस् न हि शीर्यते असङ्गस् असितस् न सज्यते न
व्यथते
असङ्गस् न हि सज्यते असितस् न व्यथते न रिष्यति
अभयं वै
SFअभयम् वै
जनक
SFजनक
प्राप्तोऽसीति होवाच याज्ञवल्क्यः |
SFप्राप्तस् असि इति ह उवाच याज्ञवल्क्यस्
स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्
SFस ह उवाच जनकस् वैदेहस् अभयम् त्वा आगच्छतात्
याज्ञवल्क्य
SFयाज्ञवल्क्य
यो नो
SFयस् नस्
भगवन्न्
SFभगवन्
अभयं वेदयसे
SFअभयम् वेदयसे
नमस्तेऽस्त्व्
SFनमस् ते अस्तु
इमे विदेहा अयमहमस्मि || ४ || इति द्वितीयं ब्राह्मणम् ..
SFइमे विदेहास् अयम् अहम् अस्मि इति
तृतीयं ब्राह्मणम् .
मन्त्र १ [IV.iii.1]
जनकँ ह वैदेहं याज्ञवल्क्यो जगाम
SFजनकम् ह वैदेहम् याज्ञवल्क्यस् जगाम
स मेने न वदिष्य इति स मेने न वदिष्य इत्य्
SFसम् एनेन वदिष्ये इति स मेने न वदिष्ये इति
अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे
समूदाते
SFअथ ह यद् जनकस् च वैदेहस् याज्ञवल्क्यस् च
अग्निहोत्रे समूदतुर् समूदाते
तस्मै ह याज्ञवल्क्यो वरं ददौ |
SFतस्मै ह याज्ञवल्क्यस् वरम् ददौ
स ह कामप्रश्नमेव वव्रे |
SFस ह कामप्रश्नम् एव वव्रे
तँ हास्मै ददौ |
SFतम् ह अस्मै ददौ
तँ ह सम्राडेव पूर्वं पप्रच्छ || १ ||
SFतम् ह सम्राट् एव पूर्वस् पप्रच्छ
मन्त्र २ [IV.iii.2]
याज्ञवल्क्य
SFयाज्ञवल्क्य
किंज्योतिरयं पुरुष इत्य्
SFकिंज्योतिस् अयम् पुरुषस् इति
आदित्यज्योतिः
SFआदित्यज्योतिस्
सम्राड्
SFसम्राट्
इति होवाचाऽऽदित्येनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते
विपल्येतीत्य्
SFइति ह उवाच आदित्येन एव अयम् ज्योतिषा आस्ते पल्ययते
कर्म कुरुते विपर्येति इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य || २ ||
SFयाज्ञवल्क्य
मन्त्र ३ [IV.iii.3]
अस्तमित आदित्ये
SFअस्तमिते आदित्ये
याज्ञवल्क्य
SFयाज्ञवल्क्य
किंज्योतिरेवायं पुरुष इति |
SFकिंज्योतिस् एव अयम् पुरुषस् इति
चन्द्रमा एवास्य ज्योतिर्भवतीति चन्द्रमसैवायं
ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीत्य्
SFचन्द्रेण एव अयम् चन्द्रमास् एव अस्य ज्योतिस् भवति
चन्द्रमसा एव अयम् ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते
विपर्येति इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य || ३ ||
SFयाज्ञवल्क्य
मन्त्र ४ [IV.iii.4]
अस्तमित आदित्ये
SFअस्तमिते आदित्ये
याज्ञवल्क्य
SFयाज्ञवल्क्य
चन्द्रमस्यस्तमिते
SFचन्द्रमसि अस्तमिते
किंज्योतिरेवायं पुरुष इत्य्
SFकिंज्योतिस् एव अयम् पुरुषस् इति
अग्निरेवास्य ज्योतिर्भवत्य्
SFइति ह उवाच अग्निस् एव अस्य ज्योतिस् भवति
अग्निनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्य्
SFअग्निन एव ज्योतिषा आस्ते पल्ययते कर्म कुरुते विपर्येति इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य || ४ ||
SFयाज्ञवल्क्य
मन्त्र ५ [IV.iii.5]
अस्तमित आदित्ये
SFअस्तमिते आदित्ये
याज्ञवल्क्य
SFयाज्ञवल्क्य
चन्द्रमस्यस्तमिते
SFचन्द्रमसि अस्तमिते
शान्तेऽग्नौ
SFशान्ते अग्नौ
किंज्योतिरेवायं पुरुष इति |
SFकिंज्योतिस् एव अयम् पुरुषस् इति
वागेवास्य ज्योतिर्भवतीति
SFइति ह उवाच वाक् एव अस्य ज्योतिस् भवति
वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति |
SFवाचा एव अयम् ज्योतिषा आस्ते पल्ययते कर्म कुरुते
विपर्येति
तस्माद्वै
SFतस्माद् वै
सम्राड्
SFसम्राट्
अपि यत्र स्वः पाणिर्न विनिर्ज्ञायते
SFअपि यत्र स्वस् पाणिस् न विनिर्ज्ञायते
ऽथ यत्र वागुच्चरत्य्
SFअथ यत्र वाक् उच्चरति
उपैव तत्र न्येतीत्य्
SFउप एव तत्र न्येति इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य || ५ ||
SFयाज्ञवल्क्य
मन्त्र ६ [IV.iii.6]
अस्तमित आदित्ये
SFअस्तमिते आदित्ये
याज्ञवल्क्य
SFयाज्ञवल्क्य
चन्द्रमस्यस्तमिते
SFचन्द्रमसि अस्तमिते
शान्तेऽग्नौ
SFशान्ते अग्नौ
शान्तायां वाचि
SFशान्तायाम् वाचि
किंज्योतिरेवायं पुरुष इत्य्
SFकिंज्योतिस् एव अयम् पुरुषस् इति
आत्मैवास्य ज्योतिर्भवत्य्
SFइति ह उवाच आत्मा एव अस्य ज्योतिस् भवति
आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ||
६ ||
SFआत्मना एव अयम् ज्योतिषा आस्ते पल्ययते कर्म कुरुते
विपर्येति इति
मन्त्र ७ [IV.iii.7]
कतम आत्मेति |
SFकतमस् आत्मा इति
योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः
विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः
SFयस् अयम् विज्ञानमयस् पुरुषस् प्राणेषु हृदि
अन्तर्ज्योतिस् विज्ञानमयस् प्राणेषु हृदि अन्तर्ज्योतिस्
पुरुषस् स समानः सन्नुभौ लोकावनुसंचरति |
SFस समानस् सन् उभौ लोकौ संचरति अनुसंचरति
ध्यायतीव लेलायतीव स हि स्वप्नो भूत्वेमं लोकमतिक्रामति
मृत्यो रूपाणि || ७ ||
SFध्यायति इव लेलायति इव सधीस्kस हि स्वप्नस्
भूत्वा इमम् लोकम् अतिक्रामतिk addमृत्योस् रूपाणि
मन्त्र ८ [IV.iii.8]
स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः
सँसृज्यते |
SFस वै अयम् पुरुषस् जायमानस् शरीरम्
अभिसम्पद्यमानस् पाप्मभिस् सँसृज्यते
स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति || ८ ||
SFसस् उत्क्रामन् म्रियमाणस् पाप्मनस् विजहाति निजहाति
मृत्योस् रूपाणिk OM
मन्त्र ९ [IV.iii.9]
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत
SFतस्य वै एतस्य पुरुषस्य द्वे एव स्थाने भवतस्
इदं च परलोकस्थानं च
SFइदम् च परलोकस्थानम् च
सन्ध्यं तृतीयँ स्वप्नस्थानम्
SFसन्ध्यम् तृतीयम् स्वप्नस्थानम्
तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने पश्यतीदं च
परलोकस्थानं च
SFतस्मिन् सन्ध्ये स्थाने तिष्ठन् उभे स्थाने पश्यति
इदम् च परलोकस्थानम् च
अथ यथाक्रमोऽयं परलोकस्थाने भवति
SFअथ यथाक्रमस् अयम् परलोकस्थाने भवति
तमाक्रममाक्रम्योभयान्पाप्मन आनन्दाँश्च पश्यति |
SFतम् आक्रमम् आक्रम्य उभयान् पाप्मनस् आनन्दान् च
पश्यति
स यत्र प्रस्वपित्य्
SFस यत्र अयम्k OM. प्रस्वपिति
अस्य लोकस्य सर्वावतो मात्रामपादाय
SFअस्य लोकस्य सर्वावतस् मात्राम् अपादाय
स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपित्य्
SFस्वयम् विहत्य स्वयम् निर्माय स्वेन भासा स्वेन
ज्योतिषा प्रस्वपिति
अत्रायं पुरुषः स्वयं ज्योतिर्भवति || ९ ||
SFअत्र अयम् पुरुषस् स्वयंज्योतिस् भवति
मन्त्र १० [IV.iii.10]
न तत्र रथा न रथयोगा न पन्थानो भवन्त्य्
SFन तत्र रथास् न रथयोगास् न पन्थानस् भवन्ति
अथ रथान्रथयोगान्पथः सृजते |
SFअथ रथान् रथयोगान् पथस् सृजते
न तत्राऽऽनन्दा मुदः प्रमुदो भवन्त्य्
SFन तत्र आनन्दास् मुदस् प्रमुदस् भवन्ति
अथाऽऽनन्दान्मुदः प्रमुदः सृजते |
SFअथ आनन्दान् मुदस् प्रमुदस् सृजते
न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्त्य्
SFन तत्र वेशान्तास् स्रवन्त्यस् पुष्करिण्यस्
स्रवन्त्यस् भवन्ति
अथ वेशान्तान्पुष्करिणीः स्रवन्तीः सृजते
SFअथ वेशान्तान् स्रवन्तीस् पुष्करिणीस् पुष्करिणीस्
स्रवन्तीस् सृजते
स हि कर्ता || १० ||
SFस हि कर्ता
मन्त्र ११ [IV.iii.11]
तदेते श्लोका भवन्ति
SFतद् अपि एते श्लोकास् तद् एते श्लोकास् भवन्ति
स्वप्नेन शारीरमभिप्रहत्या
SFस्वप्नेन शारीरम् अभिप्रहत्य
सुप्तः सुप्तानभिचाकशीति |
SFअसुप्तस् सुप्तान् अभिचाकशीति
शुक्रमादाय पुनरैति स्थानँ
SFशुक्रम् आदाय पुनरैति स्थानम्
हिरण्मयः पुरुष एकहँसः || ११ ||
SFहिरण्मयस् पौरुषस् पुरुषस् एकहँसस्
मन्त्र १२ [IV.iii.12]
प्राणेन रक्षन्नपरं कुलायम्
SFप्राणेन रक्षन् अपरम् अवरम् कुलायम्
बहिष्कुलायादमृतश्चरित्वा
SFबहिस् कुलायाद् अमृतस् चरित्वा
स ईयतेऽमृतो यत्रकामँ
SFसस् ईयते अमृतस् यत्रकामम्
हिरण्मयः पुरुष एकहँसः || १२ ||
SFहिरण्मयस् पौरुषस् पुरुषस् एकहँसस्
मन्त्र १३ [IV.iii.13]
स्वप्नान्त उच्चावचमीयमानो
SFस्वप्नान्ते उच्चावचम् ईयमानस्
रूपाणि देवः कुरुते बहूनि |
SFरूपाणि देवस् कुरुते बहूनि
उतेव स्त्रीभिः सह मोदमानो
SFउत इव स्त्रीभिस् सह मोदमानस्
जक्षदुतेवापि भयानि पश्यन् || १३ ||
SFजक्षत् उत इव अपि भयानि पश्यन्
मन्त्र १४ [IV.iii.14]
आराममस्य पश्यन्ति
SFअरामम् अस्य पश्यन्ति
न तं पश्यति कश्चनेति |
SFन तम् कश्चन पश्यति इति पश्यति कस् चन इति
तं नाऽऽयतं बोधयेदित्याहुः |
SFतम् न आयतम् बोधयेत् इति आहुर्
दुर्भिषज्यँ हास्मै भवति
SFदुर्भिषज्यम् ह अस्मै भवति
यमेष न प्रतिपद्यते || १४ ||
SFयम् एष न प्रतिपद्यते
अथो खल्वाहुर्
SFअथ उ खलु आहुर्
जागरितदेश एवास्यैष
SFजागरितदेशस् एव अस्य एस
यानि ह्येव जाग्रत् पश्यति तानि सुप्त इत्यत्रायं पुरुषः
स्वयं ज्योतिर्भवति |
SFयानि हि एव जाग्रत् पश्यति तानि सुप्तस् इति अत्र अयम्
पुरुषस् स्वयंज्योतिस् भवति इति
सोऽहं भगवते सहस्रं ददाम्य्
SFसस् अहम् भगवते सहस्रम् ददामि
अत ऊर्ध्वं विमोक्षाय ब्रूहीति || १४ ||
SFअतस् ऊर्ध्वम् विमोक्षाय एवk OM. ब्रूहि इति
मन्त्र १५ [IV.iii.15]
स वा एष एतस्मिन्संप्रसादे रत्वा चरित्वा
दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं
प्रतियोन्याद्रवति स्वप्नायैव
SFस वै एषस् एतस्मिन् स्वप्नान्तेkसंप्रसादे रत्वा
चरित्वा दृष्ट्वा एव पुण्यम् च पापम् च पुनर्
प्रतिन्यायम् प्रतियोनि आद्रवति बुद्धान्ताय k स्वप्नाय
एव
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्य्
SFस यद् अत्र तत्र किञ्चिद् पश्यति अनन्वागतस् तेन
भवति
असङ्गो ह्ययं पुरुष इत्य्
SFअसङ्गस् हि अयम् पुरुषस् इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
सोऽहं भगवते सहस्रं ददाम्य्
SFसस् अहम् भगवते सहस्रम् ददामि
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति || १५ ||
SFअतस् ऊर्ध्वम् विमोक्षाय एव ब्रूहि इति
मन्त्र १६ [IV.iii.16]
स वा एष एतस्मिन्त्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं
च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव
SFस वै एषस् एतस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वा
एव पुण्यम् च पापम् च पुनर् प्रतिन्यायम् प्रतियोनि
आद्रवति
बुद्धान्ताय एव
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्य्
SFस यद् तत्र किञ्चिद् पश्यति अनन्वागतस् तेन भवति
असङ्गो ह्ययं पुरुष इत्य्
SFअसङ्गस् हि अयम् पुरुषस् इति
एवमेवैतद्
SFएवम् एव एतद्
याज्ञवल्क्य |
SFयाज्ञवल्क्य
सोऽहं भगवते सहस्रं ददाम्य्
SFसस् अहम् भगवते सहस्रम् ददामि
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति || १६ ||
SFअतस् ऊर्ध्वम् विमोक्षाय एव ब्रूहि इति
मन्त्र १७ [IV.iii.17]
स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं
च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ||
१७ ||
SFस वै एषस् एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वा
एव पुण्यम् च पापम् च पुनर् प्रतिन्यायम् प्रतियोनि
आद्रवति
स्वप्नान्ताय एव
मन्त्र १८ [IV.iii.18]
तद्यथा महामत्स्य उभे कूलेऽनुसंचरति पूर्वं चापरं
चैवमेवायं पुरुष एतावुभावन्तावनुसंचरति स्वप्नान्तं च
बुद्धान्तं च || १८ ||
SFतद् यथा महामत्स्यस् उभे कूले अनुसंचरति पूर्वम्
च अपरम् च एवम् एव अयम् पुरुषस् एतौ उभौ
अन्तौ
अनुसंचरति स्वप्नान्तम् च बुद्धान्तम् च
मन्त्र १९ [IV.iii.19]
तद्यथास्मिन्नाऽकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः
सँहत्य पक्षौ संलयायैव ध्रियत
SFतद् यथा अस्मिन् आकाशे श्येनस् वा सुपर्णस् वा
विपरिपत्य रान्तस् सँहत्य पक्षौ संलयाय एव
ध्रियते
एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कं चन
कामं कामयते न कं चन स्वप्नं पश्यति || १९ ||
SFएवम् एव अयम् पुरुषस् एतस्मै अन्ताय धवति यत्र
सुप्तस् न कम् चन कामम् कामयते न कम् चन
स्वप्नम्
पश्यति
मन्त्र २० [IV.iii.20]
ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा
भिन्नस्तावताऽणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य
हरितस्य लोहितस्य पूर्णा |
SFतास् वै अस्य एतास् हितास् नाम नाड्यस् यथा केशस्
सहस्रधा भिन्नस् तावता अणिम्ना तिष्ठन्ति शुक्लस्य
नीलस्य
पिङ्गलस्य हरितस्य लोहितस्य पूर्णास्
अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव
पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते
SFअथ यत्र एनम् घ्नन्ति इव जिनन्ति इव हस्ती इव
विच्छाययति गर्तम् इव पतति यद् एव जाग्रत् भयम्
पश्यति तद् अत्र अविद्यया भयम् मन्यते
ऽथ यत्र देव इव राजेवाहमेवेदँ
सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकाः || २० ||
SFअथ यत्र राजा इव देवस् इव अहम्kदेवस् इव राजा
इव अहम् एव इदम् सर्वम् k सर्वस् अस्मि इति
मन्यते सस् अस्य परमस् लोकस्
मन्त्र २१ [IV.iii.21]
तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयँ रूपं |
SFतद् वै अस्य एतद् आत्मकामम् आप्तकामम् अकामम्
एतद् अतिच्छन्दस् अपहतपाप्म अभयम् रूपम्
तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किं चन वेद
नाऽऽन्तरमेवमेवायं पुरुषः प्राज्ञेनाऽऽत्मना
संपरिष्वक्तो न बाह्यं किं चन वेद नाऽऽन्तरं |
SFतद् यथा प्रियया स्त्रिया संपरिष्वक्तस् न बाह्यम्
किम् चन वेद न अन्तरम् एवम् एव अयम् पुरुषस्
शारिरस् आत्माk OM. अम्बो प्राज्ञेन आत्मना
संपरिष्वक्तस् न
बाह्यम् किम् चन वेद न अन्तरम्
तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपम् शोकान्तरम् || २१ ||
SFतद् वै अस्य एतद् अतिच्छन्दस् अपहतपाप्म
अभयम्kएतद् आप्तकामम् आत्मकामम् अकामम् रूपम्
अशोकान्तरम्kशोकान्तरम्
मन्त्र २२ [IV.iii.22]
अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदा
SFअत्र पिता अपिता भवति माता अमाता लोकास् अलोकास् देवास्
अदेवास् वेदास् अवेदास् यज्ञस् अयज्ञस्k OM. अम्बो
अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा
चाण्डालोऽचण्डालः पौल्कसोऽपौल्कसो श्रमणोऽश्रमण
स्तापसोऽतापसोऽनन्वागतं पुण्येनानन्वागतं पापेन
SFअत्र स्तेनस् अस्तेनस् भवति भ्रूणहा अभ्रूणहा
पौल्कसस् अपौल्कसस् चाण्डालस् अचण्डालस् चाण्ड्यालस्
अचण्ड्यालस् पौल्कसस् अपौल्कसस् श्रमणस्
अश्रमणस्
तापसस् अतापसस् अनन्वागतस् पुण्येन अनन्वागतस्
पापेन
तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति || २२ ||
SFतीर्णस् हि तदा सर्वान् शोकान् हृदयस्य भवति
मन्त्र २३ [IV.iii.23]
यद्वै तन्न पश्यति
SFयद् वै तद् न पश्यति
पश्यन्वै तन्न पश्यति
SFपश्यन् वै तद् द्रष्टव्यम्k OM. न पश्यति
न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्
SFन हि द्रष्टुर्दृष्टेस् विपरिलोपस् विद्यते
अविनाशित्वाद्
न तु तद्द्वितीयमस्ति
SFन तु तद् द्वितीयम् अस्ति
ततोऽन्यद्विभक्तं यत्पश्येत् || २३ ||
SFततस् अन्यद् विभक्तम् यद् पश्येत्
मन्त्र २४ [IV.iii.24]
यद्वै तन्न जिघ्रति
SFयद् वै तद् न जिघ्रति
जिघ्रन्वै तन्न जिघ्रति
SFजिघ्रन् वै तद् घ्रतव्यम्k OM. न जिघ्रति
न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वान्
SFन हि घ्रातुर्घ्रातेस् विपरिलोपस् विद्यते अविनाशित्वाद्
न तु तद्द्वितीयमस्ति
SFन तु तद् द्वितीयम् अस्ति
ततोऽन्यद्विभक्तं यज्जिघ्रेत् || २४ ||
SFततस् अन्यद् विभक्तम् यद् जिघ्रेत्
मन्त्र २५ [IV.iii.25]
यद्वै तन्न रसयते
SFयद् वै तद् न रसयति
रसयन्वै तन्न रसयते
SFविजानन् वै तद् रसम् रसयन् वै तद् न रसयति
न हि रसयितू रसयितेर्विपरिलोपो विद्यतेऽविनाशित्वान्
SFन हि रसयितुर् रसाद् रसयितेस् विपरिलोपस् विद्यते
अविनाशित्वाद्
न तु तद्द्वितीयमस्ति
SFन तु तद् द्वितीयम् अस्ति
ततोऽन्यद्विभक्तं यद्रसयेत् || २५ ||
SFततस् अन्यद् विभक्तम् यद् रसयेत्
मन्त्र २६ [IV.iii.26]
यद्वै तन्न वदति
SFयद् वै तद् न वदति
वदन्वै तन्न वदति
SFवदन् वै तद् वक्तव्यम्k OM. न वदति
न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वान्
SFन हि वक्तुर्वचस् वक्तेस् विपरिलोपस् विद्यते
अविनाशित्वाद्
न तु तद्द्वितीयमस्ति
SFन तु तद् द्वितीयम् अस्ति
ततोऽन्यद्विभक्तं यद्वदेत् || २६ ||
SFततस् अन्यद् विभक्तम् यद् वदेत्
मन्त्र २७ [IV.iii.27]
यद्वै तन्न शृणोति
SFयद् वै तद् न शृणोति
शृण्वन्वै तन्न शृणोति
SFशृण्वन् वै तद् श्रोतव्यम्k OM. न शृणोति
न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान्
SFन हि श्रोतुर् श्रुतेस् विपरिलोपस् विद्यते अविनाशित्वाद्
न तु तद्द्वितीयमस्ति
SFन तु तद् द्वितीयम् अस्ति
ततोऽन्यद्विभक्तं यच्छृणुयात् || २७ ||
SFततस् अन्यद् विभक्तम् यद् शृणुयात्
मन्त्र २८ [IV.iii.28]
यद्वै तन्न मनुते
SFयद् वै तद् न मनुते
मन्वानो वै तन्न मनुते
SFमन्वानस् वै तद् मन्तव्यम्k OM. न मनुते
न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान्
SFन हि मन्तुर्मतेस् विपरिलोपस् विद्यते अविनाशित्वाद्
न तु तद्द्वितीयमस्ति
SFन तु तद् द्वितीयम् अस्ति
ततोऽन्यद्विभक्तं यन्मन्वीत || २८ ||
SFततस् अन्यद् विभक्तम् यद् मन्वीत
मन्त्र २९ [IV.iii.29]
यद्वै तन्न स्पृशति
SFयद् वै तद् न स्पृशति
स्पृशन्वै तन्न स्पृशति
SFस्पृशन् वै तद् स्प्रष्टव्यम्k OM. न स्पृशति
न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्
SFन हि स्प्रष्टुर् स्पृष्टेस् विपरिलोपस् विद्यते
अविनाशित्वाद्
न तु तद्द्वितीयमस्ति
SFन तु तद् द्वितीयम् अस्ति
ततोऽन्यद्विभक्तं यत्स्पृशेत् || २९ ||
SFततस् अन्यद् विभक्तम् यद् स्पृशेत्
मन्त्र ३० [IV.iii.30]
यद्वै तन्न विजानाति
SFयद् वै तद् न विजानाति
विजानन्वै तन्न विजानाति
SFविजानन् वै तद् विज्ञेयम्k OM. न विजानाति
न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्
SFन हि विज्ञातुर्विज्ञानाद् विज्ञातेस् विपरिलोपस् विद्यते
अविनाशित्वाद्
न तु तद्द्वितीयमस्ति
SFन तु तद् द्वितीयम् अस्ति
ततोऽन्यद्विभक्तं यद्विजानीयात् || ३० ||
SFततस् अन्यद् विभक्तम् यद् विजानीयात्
मन्त्र ३१ [IV.iii.31]
यत्र वा अन्यदिव स्यात्
SFयत्र वै अन्यद् इव स्यात्
तत्रान्योऽन्यत्पश्येद्
SFतत्र अन्यस् अन्यद् पश्येत्
अन्योऽन्यज्जिघ्रेद्
SFअन्यस् अन्यद् जिघ्रेत्
अन्योऽन्यद्रसयेद्
SFअन्यस् अन्यद् रसयेत्
अन्योऽन्यद्वदेद्
SFअन्यस् अन्यद् वदेत्
अन्योऽन्यच्छृणुयाद्
SFअन्यस् अन्यद् शृणुयात्
अन्योऽन्यन्मन्वीता
SFअन्यस् अन्यद् मन्वीत
न्योऽन्यत्स्पृशेद्
SFअन्यस् अन्यद् स्पृशेत्
अन्योऽन्यद्विजानीयात् || ३१ ||
SFअन्यस् अन्यद् विजानीयात्
मन्त्र ३२ [IV.iii.32]
सलिल एको द्रष्टाद्वैतो भवत्य्
SFसलिले एकस् द्रष्टा अद्वैतस् भवति
एष ब्रह्मलोकः
SFएष ब्रह्मलोकस्
सम्राड्
SFसम्राट्
इति हैनमनुशशास याज्ञवल्क्य. एषास्य
परमा गतिर्
SFइति ह एनम् उवाच अनुशशास याज्ञवल्क्यस् एषा अस्य
परमा गतिस्
एषास्य परमा संपद्
SFएषा अस्य परमा संपद्
एषोऽस्य परमो लोक
SFएषस् अस्य परमस् लोकस्
एषोऽस्य परम आनन्द
SFएषस् अस्य परमस् आनन्दस्
एतस्यैवाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति || ३२ ||
SFएतस्य एव आनन्दस्य अन्यानि भूतानि मात्राम् उपजीवन्ति
मन्त्र ३३ [IV.iii.33]
स यो मनूष्याणाँ राद्धः समृद्धो भवत्यन्येषामधिपतिः
सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः अन्येषाम्
SFस यस् मनूष्याणाम् राद्धस् समृद्धस् भवति
अधिपतिस् सर्वैस् मानुष्यकैस् भोगैस्
सम्पन्नतमस्
स मनुष्याणां परम आनन्दो
SFस मनुष्याणाम् परमस् आनन्दस्
ऽथ ये शतं मनुष्याणामानन्दाः
SFअथ ये शतम् मनुष्याणाम् आनन्दास्
स एकः पितृणां जितलोकानामानन्दो
SFसस् एकस् पितृणाम् जितलोकानाम् आनन्दस्
ऽथ ये शतं पितृणां जितलोकानामानन्दाः
SFअथ ये शतम् पितृणाम् जितलोकानाम् आनन्दास्
स एको गन्धर्वलोक आनन्दो
SFसस् एकस् गन्धर्वलोके आनन्दस्
ऽथ ये शतं गन्धर्वलोक आनन्दाः
SFअथ ये शतम् गन्धर्वलोके आनन्दास्
स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते
SFसस् एकस् कर्मदेवानाम् आनन्दस् ये कर्मणा देवत्वम्
अभिसम्पद्यन्ते
ऽथ ये शतं कर्मदेवानामानन्दाः
SFअथ ये शतम् कर्मदेवानाम् आनन्दास्
स एक आजानदेवानामानन्दो
SFसस् एकस् आजानदेवानाम् आनन्दस्
यश्च श्रोत्रियोऽवृजिनोऽकामहतो
SFयस् च श्रोत्रियस् अवृजिनस् अकामहतस्
ऽथ ये शतमाजानदेवानामानन्दाः
SFअथ ये शतम् आजानदेवानाम् आनन्दास्
स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो
SFसस् एकस् प्रजापतिलोके आनन्दस् यस् च श्रोत्रियस्
अवृजिनस् अकामहतस्
अथ ये शतं प्रजापतिलोक आनन्दाः
SFअथ ये शतम् प्रजापतिलोके आनन्दास्
स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो
SFसस् एकस् ब्रह्मलोके आनन्दस् यस् च श्रोत्रियस्
अवृजिनस् अकामहतस्
ऽथैष एव परम आनन्द एष ब्रह्मलोकः
SFअथ एषस् एव परमस् आनन्दस् एष ब्रह्मलोकस्
सम्राड्
SFसम्राट्
इति होवाच याज्ञवल्क्यः |
SFइति ह उवाच याज्ञवल्क्यस्
सोऽहं भगवते सहस्रं ददाम्य्
SFसस् अहम् भगवते सहस्रम् ददामि
अत ऊर्ध्वं विमोक्षायैव ब्रूहीत्य्
SFअतस् ऊर्ध्वम् विमोक्षाय एव ब्रूहि इति
अत्र ह याज्ञवल्क्यो बिभयांचकारः
SFअत्र ह याज्ञवल्क्यस् बिभयाम् चकार
मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति || ३३ ||
SFमेधावी राजा सर्वेभ्यस् मा अन्तेभ्यस् उदरौत्सीत् इति
मन्त्र ३४ [IV.iii.34]
स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं
च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ||
३४ ||
SFस वै एषस् एतस्मिन् स्वप्नान्ते रत्वा चरित्वा
दृष्ट्वा एव पुण्यम् च पापम् च पुनर् प्रतिन्यायम्
प्रतियोनि आद्रवति बुद्धान्ताय एव
मन्त्र ३५ [IV.iii.35]
तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवायँ शारीर आत्मा
प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी
भवति
|| ३५ ||
SFतद् यथा अनस् सुसमाहितम् उत्सर्जम् यायात् एवम्
एव अयम् शारीरस् आत्मा प्राज्ञेन आत्मना अन्वारूढस्
उत्सर्जम्
याति यत्र एतद् ऊर्ध्वोच्छ्वासी भवति
मन्त्र ३६ [IV.iii.36]
स यत्रायमणिमानं न्येति जरया वोपतपता वाऽणिमानं निगच्छति
SFस यत्र अयम् अणिमानम् न्येति जरया वा उपतपता वा
अणिमानम् निगच्छति
तद्यथाऽऽम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत
SFतद् यथा आम्रम् वा उदुम्बरम् वा पिप्पलम् वा
बन्धनाद् प्रमुच्यते
एवमेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं
प्रतियोन्याद्रवति प्राणायैव || ३६ ||
SFएवम् एव अयम् पुरुषस् एभ्यस् अङ्गेभ्यस्
संप्रमुच्य पुनर् प्रतिन्यायम् प्रतियोनि आद्रवति
प्राणाय एव
मन्त्र ३७ [IV.iii.37]
तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः
पानैरवसथैः प्रतिकल्पन्ते
SFतद् यथा राजानम् आयन्तम् उग्रास् प्रत्येनसस्
सूतग्रामण्यस् अन्नैस् पानैस् अवसथैस् प्रतिकल्पन्ते
अयमायात्ययमागच्छतीत्य्
SFअयम् आयाति अयम् आगच्छति इति
एवँ हैवंविदँ सर्वाणि भूतानि प्रतिकल्पन्त
SFएवम् ह एवंविदम् सर्वाणि भूतानि प्रतिकल्पन्ते
इदं ब्रह्माऽऽयातीदमागच्छतीति || ३७ ||
SFइदम् ब्रह्म आयाति इदम् आगच्छति इति
मन्त्र ३८ [IV.iii.38]
तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः
सूतग्रामण्योऽभिसमायन्त्य्
SFतद् यथा राजानम् प्रयियासन्तम् उग्रास् प्रत्येनसस्
सूतग्रामण्यस् उपसमायन्ति अभिसमायन्ति
एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति
SFएवम् ह एवंविदम्kएवम् एव इमम् आत्मानम्
अन्तकाले सर्वे प्राणास् उपसमायन्तिkअभिसमायन्ति
यत्रैतदूर्ध्वोच्छ्वासी भवति || ३८ || इति तृतीयं
ब्राह्मणम् ..
SFयत्र एतद् ऊर्ध्वोच्छ्वासी भवति
चतुर्थं ब्राह्मणम् .
मन्त्र १ [IV.iv.1]
स यत्रायमात्माऽबल्यं न्येत्य संमोहमिव न्येत्य्
SFस यत्र अयम् शारिरम् k OMआत्मा अबल्यम् नीत्य k
न्येत्य संमोहम् इव न्येति
अथैनमेते प्राणा अभिसमायन्ति
SFअथ एनम् एते प्राणास् अभिसमायन्ति
स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति
SFसस् एतास् तेजोमात्रास् समभ्याददानस् हृदयम् एव
अन्ववक्रामति
स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते
SFस यत्र एष चाक्षुषस् पुरुषस् पराङ् पर्यावर्तते
ऽथारूपज्ञो भवति || १ ||
SFअथ अरूपज्ञस् भवति
मन्त्र २ [IV.iv.2]
एकीभवति न पश्यतीत्याहुर्
SFएकीभवति न पश्यति इति आहुः
एकीभवति न जिघ्रतीत्याहुर्
SFएकीभवति न जिघ्रति इति आहुः
एकीभवति न रसयतीत्याहुर्
SFएकीभवति न रसयति इति आहुः
एकीभवति न वदतीत्याहुर्
SFएकीभवति न वदति इति आहुः
एकीभवति न शृणोतीत्याहुर्
SFएकीभवति न शृणोति इति आहुः
एकीभवति न मनुत इत्याहुर्
SFएकीभवति न मनुते इति आहुः
एकीभवति न स्पृशतीत्याहुर्
SFएकीभवति न स्पृशति इति आहुः
एकीभवति न विजानातीत्याहुस्
SFएकीभवति न विजानाति इति आहुर्
तस्य हैतस्य हृदयस्याग्रं प्रद्योतते
SFतस्य ह एतस्य हृदयस्य अग्रम् प्रद्योतते
तेन प्रद्योतेनैष आत्मा निष्क्रामति
SFतेन प्रद्योतेन एषस् आत्मा निष्क्रामति
चक्षुष्टो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यस्
SFचक्षुष्टस् वा मूर्ध्नस् वा अन्येभ्यस् वा
शरीरदेशेभ्यः
तमुत्क्रामन्तं प्राणोऽनूत्क्रामति
SFतम् उत्क्रामन्तम् प्राणस् अनूत्क्रामति
प्राणमनूत्क्रामन्तँ सर्वे प्राणा अनूत्क्रामन्ति |
SFप्राणम् अनूत्क्रामन्तम् सर्वे प्राणास् अनूत्क्रामन्ति
सविज्ञानो भवति
SFसविज्ञनस् भवति
सविज्ञानमेवान्ववक्रामति |
SFसविज्ञानम् एव अन्ववक्रामति
तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च || २ ||
SFतम् विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च
मन्त्र ३ [IV.iv.3]
तद्यथा तृणजलायुका तृणस्यान्तं
गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपसँहरत्य्
SFतद् यथा तृणजलायुका तृणस्य अन्तम् गत्वाk add.
mark 1 अन्यम् आक्रमम् आक्रम्य आत्मानम् आत्मनम्
उपसँहरति
एवमेवायमात्मेदँ शरीरं निहत्याविद्यां
गमयित्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपसँहरति || ३ ||
SFएवम् एव अयम् पुरुषस्kआत्मा इदम् शरीरम्
निहत्य अविद्याम् गमयित्वा आत्मनम् k गमयित्वा अन्यम्
आक्रमम् आक्रम्य आत्मानम् उपसँहरति
मन्त्र ४ [IV.iv.4]
तद्यथा पेशस्कारी पेशसो मात्राम् अपादायान्यन्नवतरं
कल्याणतरँ रूपं तनुत
SFतद् यथा पेशस्कारी पेशसस् मात्राम् अपादाय उपादाय
अन्यद् नवतरम् कल्याणतरम् रूपम् तनुते
एवमेवायम् आत्मेदँ शरीरं निहत्याविद्यां
गमयित्वाऽन्यन्नवतरं कल्याणतरँ रूपं कुरुते
पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं
वाऽन्येषां वा भूतानाम् || ४ ||
SFएवम् एव अयम् पुरुषkआत्मा इदम् शरीरम्
निहत्य अविद्याम् गमयित्वा अन्यद् नवतरम् कल्याणतरम्
रूपम् तनुते kकुरुते पित्र्यम् वा गान्धर्वम् वा
ब्राह्मम् वा
प्राजापत्यम् वा दैवम् वा अन्येभ्यस् वा भूतेभ्यस्k
गान्धर्वम् वा दैवम् वा प्राजापत्यम् वा ब्राह्मम्
वान्येषाम्
वा भूतानाम्
मन्त्र ५ [IV.iv.5]
स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः
प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो
वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः
क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयस्
SFस वै अयम् आत्मा ब्रह्म विज्ञानमयस् मनोमयस्
वाङ्मयस् k OMप्राणमयस् चक्षुर्मयस्
श्रोत्रमयस्
आकाशमयस् वायुमयस् तेजोमयस् आपोमयस्
पृथिवीमयस्
क्रोधमयस् अक्रोधमयस् हर्षमयस् अहर्षमयस्
k
श्रोत्रमयस् पृथिवीमयस् आपोमयस् वायुमयस्
आकाशमयस्
तेजोमयस् अतेजोमयस् काममयस् अकाममयस्
क्रोधमयस्
अक्रोधमयस् धर्ममयस् अधर्ममयस् सर्वमयः
तद्यदेतदिदंमयोऽदोमय इति यथाकारी यथाचारी तथा भवति |
SFतद् यदा इदंमयस् तद् यद् एतद् इदंमयस्
अदोमयस् इति यथाकारी यथाचारी तथा भवति
साधुकारी साधुर्भवति
SFसाधुकारी साधुस् भवति
पापकारी पापो भवति
SFपापकारी पापस् भवति
पुण्यः पुण्येन कर्मणा भवति पापः पापेन |
SFपुण्यस् पुण्येन कर्मणा भवति पापस् पापेन
अथो खल्वाहुः
SFअथ उ खलु आहुर्
काममय एवायं पुरुष इति
SFकाममयस् एव अयम् पुरुषस् इति
स यथाकामो भवति
SFस यथाकामस् भवति
तत्क्रतुर्भवति
SFतथाक्रतुस् तत्क्रतुस् भवति
यत्क्रतुर्भवति
SFयथाक्रतुस् यत्क्रतुस् भवति
तत्कर्म कुरुते
SFतद् कर्म कुरुते
यत्कर्म कुरुते
SFयद् कर्म कुरुते
तदभिसंपद्यते || ५ ||
SFतद् अभिसंपद्यते
मन्त्र ६ [IV.iv.6]
तदेष श्लोको भवति |
SFतद् एष श्लोकस् भवति
तदेव सक्तः सह कर्मणैति
SFतद् एव सत् तद् सक्तस् सह कर्मणा एति
लिङ्गं मनो यत्र निषक्तमस्य |
SFलिङ्गम् मनस् यत्र निषक्तम् अस्य
प्राप्यान्तं कर्मणस्तस्य
SFप्राप्य अन्तम् कर्मणस् तस्य
यत्किञ्चेह करोत्ययम् |
SFयद् किञ्च इह करोति अयम्
तस्माल्लोकात्पुनरैत्य्
SFतस्माद् लोकाद् पुनरैति
अस्मै लोकाय कर्मण्
SFअस्मै लोकाय कर्मणे
इति नु कामयमानो
SFइति नु कामयमानस्
ऽथाकामयमानो योऽकामो निष्काम भवति आप्तकाम
आत्मकामो न तस्य प्राणा उत्क्रामन्ति
SFअथ अकामयमानस् यस् अकामस् निष्कामस् आत्मकामस्
आप्तकामस् भवतिkअप्तकामस् आत्मकामस् न तस्माद्
k
तस्य प्राणास् उत्क्रामन्ति
ब्रह्मैव सन्ब्रह्माप्येति || ६ ||
SFअत्र एव समवनीयन्तेk OM. अत्र ... ब्रह्म एव सन्
ब्रह्म अप्येति
मन्त्र ७ [IV.iv.7]
तदेष श्लोको भवति
SFतद् एष श्लोकस् भवति
यदा सर्वे प्रमुच्यन्ते
SFयदा सर्वे प्रमुच्यन्ते
कामा येऽस्य हृदि श्रिताः |
SFकामास् ये अस्य हृदि श्रितास्
अथ मर्त्योऽमृतो भवत्य्
SFअथ मर्त्यस् अमृतस् भवति
अत्र ब्रह्म समश्नुत इति ||
SFअत्र ब्रह्म समश्नुते इति
तद्यथाऽहिनिर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदँ
शरीरँ शेते
SFतद् यथा अहिनिर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीत
एवम् एव इदम् शरीरम् शेते
ऽथायमशरीरोऽमृतः प्राणो
ब्रह्मैव तेज एव
SFअथ अयम् अनस्थिकस् अशरीरस् प्राज्ञस् आत्माk
अयम् अशरीरस् अमृतस् प्राणस् ब्रह्म एव लोकस्
k
तेजस् एव
सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः || ७ ||
SFसस् अहम् भगवते सहस्रानि ददामि इति ह उवाच
जनकस् वैदेहस्
मन्त्र ८ [IV.iv.8]
तदेते श्लोका भवन्ति |
SFतद् अपि एते श्लोकास् तद् एते श्लोकास् भवन्ति
अणुः पन्था विततः पुराणो
SFअणुस् पन्था वितरस् विततस् पुराणस्
माँ स्पृष्टोऽनुवित्तो मयैव |
SFमाम् स्पृष्टस् अनुवित्तस् मया एव
तेन धीरा अपियन्ति ब्रह्मविदः
SFतेन धीरास् अपियन्ति ब्रह्मविदस्
स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः || ८ ||
SFउत्क्रम्य स्वर्गम् लोकम् इतस् विमुक्तास् स्वर्गम्
लोकम् इतस् ऊर्ध्वम् विमुक्तास्
मन्त्र ९ [IV.iv.9]
तस्मिञ्छुक्लमुत नीलमाहुः
SFतस्मिन् शुक्लम् उत नीलम् आहुर्
पिङ्गलँ हरितं लोहितं च |
SFपिङ्गलम् हरितम् लोहितम् च
एष पन्था ब्रह्मणा हानुवित्तस्
SFएष पन्था ब्रह्मणा ह अनुवित्तः
तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च || ९ ||
SFतेन एति ब्रह्मविद् तैजसस् पुण्यकृत् च
पुण्यकृत् तैजसस् च
मन्त्र १० [IV.iv.10]
अन्धं तमः प्रविशन्ति
SFअन्धम् तमस् प्रविशन्ति
येऽविद्यामुपासते |
SFये असम्भूतिम् अविद्याम् उपासते
ततो भूय इव ते तमो
SFततस् भूयस् इव ते तमस्
य उ विद्यायाँ रताः || १० ||
SFये उ सम्भूत्याम् विद्यायाम् रतास्
मन्त्र ११ [IV.iv.11]
अनन्दा नाम ते लोका
SFअसुर्यास् अनन्दास् नाम ते लोकास्
अन्धेन तमसाऽऽवृताः
SFअन्धेन तमसा आवृतास् तान्
ताँस्ते प्रेत्याभिगच्छन्त्य्
SFते प्रेत्य अपिगच्छतिkअभिगच्छन्ति
अविद्वाँसोऽबुधो जनाः || ११ ||
SFअविद्वाँसस् अबुधास् जनास्
मन्त्र १२ [IV.iv.12]
आत्मानं चेद्विजानीयाद्
SFआत्मानम् चेद् विजानीयात्
अयमस्मीति पूरुषः
SFअयम् अस्मि इति पुरुषस्
किमिच्छन्कस्य कामाय
SFकिम् इच्छन् कस्य कामाय
शरीरमनुसंज्वरेत् || १२ ||
SFशरीरम् अनु संचरेत् संज्वरेत्
मन्त्र १३ [IV.iv.13]
यस्यानुवित्तः प्रतिबुद्ध आत्मा
SFयस्य अनुवित्तस् प्रतिबुद्धस् आत्मा
ऽस्मिन्संदेह्ये गहने प्रविष्टः |
SFअस्मिन् संदेह्ये गहने प्रविष्टस्
स विश्वकृत्
SFस विश्वकृत्
स हि सर्वस्य कर्ता
SFस हि सर्वस्य कर्ता
तस्य लोकः
SFतस्य लोकस्
स उ लोक एव || १३ ||
SFसस् उ लोकस् एव
मन्त्र १४ [IV.iv.14]
इहैव सन्तोऽथ विद्मस्तद्वयं
SFतद् एव सन्तस् तद् उ भवामस् इह एव सन्तस् अथ
विद्मस् तद् वयम्
न चेदवेदिर्महती विनष्टिः |
SFन चेद् अवेदी अवेदिस् महती विनष्टिस्
ये तद्विदुरमृतास्ते भवन्त्य्
SFये तद् विदुरमृतास् ते भवन्ति
अथेतरे दुःखमेवापियन्ति || १४ ||
SFअथ इतरे दुःखम् एव उपयन्ति अपियन्ति
मन्त्र १५ [IV.iv.15]
यदैतमनुपश्यत्य्
SFयदा एतम् अनुपश्यति
आत्मानं देवमञ्जसा |
SFअत्मानम् देवम् अङ्जसा
ईशानं भूतभव्यस्य
SFईशानम् भूतभव्यस्य
न ततो विजुगुप्सते || १५ ||
SFन तदा विचिकित्सति ततस् विजुगुप्सते
मन्त्र १६ [IV.iv.16]
यस्मादर्वाक्संवत्सरो
SFयस्माद् अर्वाक् संवत्सरस्
ऽहोभिः परिवर्तते |
SFअहोभिस् परिवर्तते
तद्देवा ज्योतिषां ज्योतिर्
SFतद् देवास् ज्योतिषाम् ज्योतिस्
आयुर्होपासतेऽमृतम् || १६ ||
SFअयुस् हि ह उपासते अमृतम्
मन्त्र १७ [IV.iv.17]
यस्मिन्पञ्च पञ्चजना
SFयस्मिन् पञ्च पञ्चजनास्
आकाशश्च प्रतिष्ठितः |
SFअकाशस् च प्रतिष्ठितः
तमेव मन्य आत्मानं
SFतम् एव मन्ये आत्मानम्
विद्वान्ब्रह्मामृतोऽमृतम् || १७ ||
SFविद्वान् ब्रह्म अमृतस् अमृतम्
मन्त्र १८ [IV.iv.18]
प्राणस्य प्राणमुत चक्षुषश्चक्षुर्
SFप्राणस्य प्राणम् उत चक्षुषस् चक्षुस्
उत श्रोत्रस्य श्रोत्रं
SFउत श्रोत्रस्य श्रोत्रम् अन्नस्य अन्नम्
मनसो ये मनो विदुः |
SFमनसस् ये मनस् विदुर्
ते निचिक्युर्ब्रह्म पुराणमग्र्यम् || १८ ||
SFते निचिक्युर् ब्रह्म पुराणम् अग्र्यम्
मन्त्र १९ [IV.iv.19]
मनसैवानुद्रष्टव्यं
SFमनसा एव आप्तव्यम् अनुद्रष्टव्यम्
नेह नानाऽस्ति किं चन |
SFन इह नाना अस्ति किम् चन
मृत्योः स मृत्युमाप्नोति
SFमृत्योस् स मृत्युम् आप्नोति
य इह नानेव पश्यति || १९ ||
SFयस् इह नाना इव पश्यति
मन्त्र २० [IV.iv.20]
एकधैवानुद्रष्टव्यम्
SFमनसा एव अनुद्रष्टव्यम् एकधा एव अनुद्रष्टव्यम्
एतदप्रमयं ध्रुवम् |
SFएतद् अप्रमयम् ध्रुवम्
विरजः पर आकाशाद्
SFविरजस् परस् आकाशाद्
अज आत्मा महान्ध्रुवः || २० ||
SFअजस् आत्मा महान् ध्रुवः
मन्त्र २१ [IV.iv.21]
तमेव धीरो विज्ञाय
SFतम् एव धीरस् विज्ञाय
प्रज्ञां कुर्वीत ब्राह्मणः |
SFप्रज्ञाम् कुर्वीत ब्राह्मणस्
नानुध्यायाद्बहूञ्छब्दान्
SFन अनुध्यायात् बहून् शब्दान्
वाचो विग्लापनँ हि तद्
SFवाचस् विग्लापनम् हि तद्
इति || २१ ||
SFइति
मन्त्र २२ [IV.iv.22]
स वा एष महानज आत्मा योऽयं
विज्ञानमयः प्राणेषु
SFस वै अयम् आत्मा k स वै एष महान् अजस् आत्मा
यस् अयम् विज्ञानमयस् प्राणेषु
य एषोऽन्तर्हृदय आकाशस्
SFयस् एषस् अन्तर्हृदय आकाशः
तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः
स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष
सर्वेश्वर
SFस न साधुना कर्मणा भूयान् न उ एव असाधुना कनीयान्k
add. mark 1 एष सर्वेश्वरस्
एष भूताधिपतिरेष भूतपाल एष
SFएष भूताधिपतिस्k add. mark 1 एष भूतपालस्
एष लोकेश्वरस् एश लोकपालस्k OM. अम्बो
सेतुर्विधरण एषां लोकानामसंभेदाय |
SFस सेतुस् विधरणस् एषाम् लोकानाम् असंभेदाय
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
SFतम् एतम् वेदानुवचनेनk add. mark 1 ब्राह्मणास्
विविदिषन्ति
यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवत्य्
SFब्रह्मचर्येन तपसा श्रद्धया यज्ञेन अनाशकेन च
ब्रह्मचर्येन यज्ञेन दानेन तपसाऽनाशकेन एतम् एव
विदित्वा
मुनिस् भवति
एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्य्
SFएतम् एव प्रव्राजिनस् लोकम् ईप्सन्तस् इच्छन्तस्
प्रव्रजन्ति
एतद्ध स्म वै तत्पूर्वे विद्वाँसः प्रजां न कामयन्ते
SFएतद् ध स्म वै तद् पूर्वे ब्रह्मणास् अनुचानास्k
अम्बो विद्वाँसस् प्रजाम् न कामयन्ते
किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति |
SFकिम् प्रजया करिष्यामस् येषाम् नस् अयम् आत्मा
अयम् लोकस् इति
ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च
व्युत्थायाथ भिक्षाचर्यं चरन्ति
SFते ह स्म पुत्रैषणायास् च वित्तैषणायास् च
लोकैषणायास् च व्युत्थाय अथ भिक्षाचर्यम् चरन्ति
या ह्येव पुत्रैषणा सा वित्तैषणा
SFया हि एव पुत्रैषणा सा वित्तैषणा
या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः |
SFया वित्तैषणा सा लोकैषणा उभे हि एते एषणे एव
भवतस्
स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते
SFसस् एष न इति न इति आत्मा अगृह्यस् न हि गृह्यते
ऽशीर्यो न हि शीर्यते
SFअशीर्यस् न हि शीर्यते
ऽसङ्गो न हि सज्यते
SFअसङ्गस् असितस् न सज्यते न व्यथते k असङ्गस्
न हि सज्यते
ऽसितो न व्यथते न रिष्यत्य्
SFअसितस् न व्यथते न रिष्यति
एतमु हैवैते न तरत इत्य्
SF
अतः पापमकरवमित्यतः कल्याणमकरवमित्युभे
उ हैवैष एते तरति
SFअतस् mark 2पापम् अकरवम् इति अतस् कल्याणम्
अकरवम् इति उभे-उभे हि एषस् उभे उ ह एव एषस्
एते तरति
नैनं कृताकृते तपतः || २२ ||
SFअमृतस् साध्वसाधुनीk OM. अमृतस् ... न एनम्
कृताकृते तपतस्
मन्त्र २३ [IV.iv.23]
तदेतदृचाभ्युक्तम् |
SFतद् एतद् ऋचा अभ्युक्तम्
एष नित्यो महिमा ब्राह्मणस्य
SFएष नित्यस् महिमा ब्राह्मणस्य
न वर्धते कर्मणा नो कनीयान् |
SFन कर्मणा वर्धते न उ कनीयान्
तस्यैव स्यात् पदवित्तं विदित्वा
SFतस्य एव स्यात्पदवित्तम् विदित्वा
न लिप्यते कर्मणा पापकेनेति |
SFन कर्मणा लिप्यते लिप्यते कर्मणा पापकेन इति
तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो
भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति
SFतस्माद् एवंविद् शान्तस् दान्तस् उपरतस् तितिक्षुस्
श्रद्धावित्तस्kसमाहितस् भूत्वा आत्मनि एव आत्मानम्
पश्येत् kपश्यति
सर्वमात्मानं पश्यति
SFसर्वम् आत्मानम् पश्यति
नैनं पाप्मा तरति
SFन एनम् पाप्मा तरति
सर्वं पाप्मानं तरति
SFसर्वम् पाप्मानम् तरति
नैनं पाप्मा तपति
SFन एनम् पाप्मा तपति
सर्वं पाप्मानं तपति
SFसर्वम् पाप्मानम् तपति
विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति
SFविपापस् विरजस् अविचिकित्सस् ब्राह्मणस् भवति
एष ब्रह्मलोकः
SFएष ब्रह्मलोकस्
सम्राड्
SFसम्राट्
इति होवाच याज्ञवल्क्यः |
SFएनम् प्राप्तस् असि इति ह उवाच याज्ञवल्क्यस्
सोऽहं भगवते विदेहान्ददामि माम् चापि सह दास्यायेति || २३ ||
SFसस् अहम् भगवते विदेहान् ददामि माम् च अपि सह
दास्याय इति
मन्त्र २४ [IV.iv.24]
स वा एष महानज आत्माऽन्नादो वसुदानो
SFस वै एष महान् अजस् आत्मा अन्नादस् वसुदानस्
विन्दते वसु
SFविन्दते वसु
य एवं वेद || २४ ||
SFयस् एवम् वेद
मन्त्र २५ [IV.iv.25]
स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो
ब्रह्माभयं वै
SFस वै एष महान् अजस् आत्मा अजरस् अमरस् अभयस्
अमृतस् अमृतस् अभयस् ब्रह्म अभयम् वै
ब्रह्माभयँ हि वै ब्रह्म भवति य एवं वेद || २५ || इति
चतुर्थं ब्राह्मणम् .
SFक् ब्रह्म अभयम् वै ब्रह्म अभयम् हि वै ब्रह्म
भवति यस् एवम् वेद
पञ्चमं ब्राह्मणम्
मन्त्र १ [IV.v.1]
अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च
SFअथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च
कात्यायनी च
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव
SFतयोस् ह मैत्रेयी ब्रह्मवादिनी बभूव
स्त्रीप्रज्ञैव तर्हि कात्यायन्य्
SFस्त्रीप्रज्ञा एव तर्हि कात्यायनी
अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् || १ ||
SFसस् अन्यद् वृत्तम् उपाकरिष्यमाणस् अथ ह
याज्ञवल्क्यस् अन्यद् वृत्तम् उपाकरिष्यन्
मन्त्र २ [IV.v.2]
मैत्रेयीति होवाच याज्ञवल्क्यः
SFमैत्रेयि इति ह उवाच मैत्रेयि इति ह उवाच याज्ञवल्क्यस्
प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि |
SFप्रव्रजिष्यन् वै अरे अहम् अस्माद् स्थानाद् अस्मि
हन्त तेऽनया कत्यायान्याऽन्तं करवाणीति || २ ||
SFहन्त ते अनया कत्यायन्या अन्तम् करवाणि इति
मन्त्र ३ [IV.v.3]
सा होवाच मैत्रेयी
SFसा ह उवाच मैत्रेयी
यन्नु म इयं
SFयद् नु मे इयम्
भगोः
SFभगोस्
सर्वा पृथिवी वित्तेन पूर्णा स्यात्
SFसर्वा पृथिवी वित्तेन पूर्णा स्यात्
स्यां न्वहं तेनामृताऽऽहो३ नेति
SFस्याम् नु अहम् तेन अमृता आहो न इति
नेति होवाच याज्ञवल्क्यो
SFन इति ह उवाच याज्ञवल्क्यस्
यथैवोपकरणवतां जीवितं
SFयथा एव उपकरणवताम् जीवितम्
तथैव ते जीवितँ स्याद्
SFतथा एव ते जीवितम् स्यात्
अमृतत्वस्य तु नाऽऽशाऽस्ति वित्तेनेति || ३ ||
SFअमृतत्वस्य तु न आशा अस्ति वित्तेन इति
मन्त्र ४ [IV.v.4]
सा होवाच मैत्रेयी
SFसा ह उवाच मैत्रेयी
येनाहं नामृता स्यां
SFयेन अहम् न अमृता स्याम्
किमहं तेन कुर्यां |
SFकिम् अहम् तेन कुर्याम्
यदेव भगवान्वेद
SFयद् एव भगवान् वेद
तदेव मे ब्रूहीति || ४ ||
SFतद् एव मे ब्रूहि इति
मन्त्र ५ [IV.v.5]
स होवाच याज्ञवल्क्यः
SFस ह उवाच याज्ञवल्क्यस्
प्रिया वै खलु नो भवती सती
SFप्रियाk add. mark 1 वै खलु नस् भवती सती
प्रियमवृधद्
SFप्रियम् अवृतत् अवृधत्
धन्त तर्हि
SFधन्त खलु तर्हि
भवत्य्
SFभवति
एतद् व्याख्यास्यामि ते
SFएतद् व्याख्यास्यामि ते
व्याचक्षाणस्य तु मे निदिध्यासस्वेति || ५ ||
SFव्याचक्षाणस्य तु मे निदिध्यासस्व इति
मन्त्र ६ [IV.v.6]
स होवाच
SFस ह उवाच याज्ञवल्क्यस्k OM.
न वा अरे पत्युः कामाय पतिः प्रियो भवत्य्
SFन वै अरे पत्युर् कामाय पतिस् प्रियस् भवति
आत्मनस्तु कामाय पतिः प्रियो भवति |
SFआत्मनस् तु कामाय पतिस् प्रियस् भवति
न वा अरे जायायै कामाय जाया प्रिया भवत्य्
SFन वै अरे जायायै कामाय जाया प्रिया भवति
आत्मनस्तु कामाय जाया प्रिया भवति |
SFआत्मनस् तु कामाय जाया प्रिया भवति
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्य्
SFन वै अरे पुत्राणाम् कामाय पुत्रास् प्रिया भवन्ति
आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति |
SFआत्मनस् तु कामाय पुत्रास् प्रिया भवन्ति
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्य्
SFन वै अरे वित्तस्य कामाय वित्तम् प्रियम् भवति
आत्मनस्तु कामाय वित्तं प्रियं भवति ||
SFआत्मनस् तु कामाय वित्तम् प्रियम् भवति
न वा अरे पशूनां कामाय पशवः प्रिया भवन्ति
SF
आत्मनस्तु कामाय पशवः प्रिया भवन्ति |
SF
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्य्
SFन वै अरे ब्रह्मणस् कामाय ब्रह्म प्रियम् भवति
आत्मनस्तु कामाय ब्रह्म प्रियं भवति |
SFआत्मनस् तु कामाय ब्रह्म प्रियम् भवति
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्य्
SFन वै अरे क्षत्रस्य कामाय क्षत्रम् प्रियम् भवति
आत्मनस्तु कामाय क्षत्रं प्रियं भवति |
SFआत्मनस् तु कामाय क्षत्रम् प्रियम् भवति
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्य्
SFन वै अरे लोकानाम् कामाय लोकास् प्रियास् भवन्ति
आत्मनस्तु कामाय लोकाः प्रिया भवन्ति |
SFआत्मनस् तु कामाय लोकास् प्रियास् भवन्ति
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्य्
SFन वै अरे देवानाम् कामाय देवास् प्रियास् भवन्ति
आत्मनस्तु कामाय देवाः प्रिया भवन्ति |
SFआत्मनस् तु कामाय देवास् प्रियास् भवन्ति
न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्य्
SF
आत्मनस्तु कामाय वेदाः प्रिया भवन्ति |
SF
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्य्
SFन वै अरे भूतानाम् कामाय भूतानि प्रियाणि भवन्ति
आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति |
SFआत्मनस् तु कामाय भूतानि प्रियाणि भवन्ति
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य्
SFन वै अरे सर्वस्य कामाय सर्वम् प्रियम् भवति
आत्मनस्तु कामाय सर्वं प्रियं भवत्य्
SFआत्मनस् तु कामाय सर्वम् प्रियम् भवति
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो
SFअत्मा वै अरे द्रष्टव्यस् श्रोतव्यस् मन्तव्यस्
निदिध्यासितव्यस्
मैत्रेय्य्
SFमैत्रेयि
आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदँ सर्वं
विदितम् |
SFआत्मनस् वै अरे दर्शनेन श्रवणेन मत्या विज्ञानेन
इदम् सर्वम् विदितम्
मन्त्र ७ [IV.v.7]
ब्रह्म तं परादाद्
SFब्रह्म तम् परादात्
योऽन्यत्राऽऽत्मनो ब्रह्म वेद
SFयस् अन्यत्र आत्मनस् वेदान्
क्षत्रं तं परादाद्
SFक्षत्रम् तम् प्रादात्
योऽन्यत्राऽऽत्मनः क्षत्रं वेद
SFयस् अन्यत्र आत्मनस् क्षत्रम् वेद
लोकास्तं परादुः
SFलोकास् तम् परादुः
योऽन्यत्राऽऽत्मनो लोकान्वेद
SFयस् अन्यत्र आत्मनस् लोकान् वेद
देवास्तं परादुः
SFदेवास् तम् परादुः
योऽन्यत्रात्मनो देवान्वेद
SFयस् अन्यत्र आत्मनस् देवान् वेद
वेदास्तं परादुर्
SFवेद वेदास् तम् परादुः
योऽन्यत्रात्मनो वेदान्वेद
SFयस् अन्यत्र आत्मनस् वेदान् वेद
भूतानि तं परादुर्
SFभूतानि तम् परादुः
योऽन्यत्राऽऽत्मनो भूतानि वेद
SFयस् अन्यत्र आत्मनस् भूतानि वेद
सर्वं तं परादाद्
SFसर्वम् तम् परादात्
योऽन्यत्राऽऽत्मनः सर्वं वेद्
SFयस् अन्यत्र आत्मनस् सर्वम् वेद
एदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि
भूतानीदँ सर्वं यदयमात्मा || ७ ||
SFइदम् ब्रह्म इदम् क्षत्रम् इमे लोकास् इमे देवास् इमे
वेदास् इमानि भूतानि इदम् सर्वम् यद् अयम् आत्मा
मन्त्र ८ [IV.v.8]
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
SFस यथा दुन्दुभेस् हन्यमानस्य न बाह्यान् शब्दान्
शक्नुयात् ग्रहणाय
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः || ८ ||
SFदुन्दुभेस् तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दस्
गृहीतस्
मन्त्र ९ [IV.v.9]
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्
ग्रहणाय
SFस यथा षङ्खस्य ध्मायमानस्य न बाह्यान् शब्दान्
शक्नुयात् ग्रहणाय
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः || ९ ||
SFषङ्खस्य तु ग्रहणेन षङ्खध्मस्य वा शब्दस्
गृहीतस्
मन्त्र १० [IV.v.10]
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय
SFस यथा वीणायै वाद्यमानायै न बाह्यान् शब्दान्
शक्नुयात् ग्रहणाय
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः || १० ||
SFवीणायै तु ग्रहणेन वीणावादस्य वा शब्दस् ग्र्हीतस्
मन्त्र ११ [IV.v.11]
स यथाऽऽर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्य्
SFस यथा आर्द्रैधाग्नेस् अभ्याहितस्य पृथक् धूमास्
विनिश्चरन्ति
एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो
यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं
विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि
इष्टँ हुतमाशितं पायितमयं च लोकः परश्च लोकः
सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि निःश्वसितानि || ११ ||
SFएवम् वै अरे अस्य महतस् भूतस्य निश्वसितम्k
निःश्वसितम् एतद् यद् ऋग्वेदस् यजुर्वेदस्
सामवेदस्
अथर्वाङ्गिरसस् इतिहासस् पुराणम् विद्यास्
उपनिषदस्
श्लोकास् सूत्राणि अनुव्याख्यानानि व्याख्याननि दत्तम् k
इष्टम्
हुतम् आशितम् पायितम् अयम् च लोकस् परस् च
लोकस्
सर्वाणि च भूतानि अस्य एव एतानि सर्वाणि निश्वसितानिk
निःश्वसितानि
मन्त्र १२ [IV.v.12]
स यथा सर्वासामपाँ समुद्र एकायनम्
SFस यथा सर्वासाम् अपाम् समुद्रस् एकायनम्
एवँ सर्वेषाँ स्पर्शानां त्वगेकायनम्
SFएवम् सर्वेषाम् स्पर्शानाम् त्वक् एकायनम्
एवँ सर्वेषां गन्धानां नासिकैकायनम्
SFएवम् सर्वेषाम् गन्धानाम् नासिके एकायनम्
एवँ सर्वेषाँ रसानां जिह्वैकायनम्
SFएवम् सर्वेषाम् रसानाम् जिह्वा एकायनम्
एवँ सर्वेषाँ रूपाणां चक्षुरेकायनम्
SFएवम् सर्वेषाम् रूपाणाम् चक्षुस् एकायनम्
एवँ सर्वेषं शब्दानां श्रोत्रमेकायनम्
SFएवम् सर्वेषम् शब्दानाम् श्रोत्रम् एकायनम्
एवँ सर्वेषाँ सङ्कल्पानां मन एकायनम्
SFएवम् सर्वेषाम् सङ्कल्पानाम् मनस् एकायनम् k
मनस् एकायनम्
एवँ सर्वासां विद्यानाँ हृदयमेकायनम्
SFएवम् सर्वासाम् विद्यानाम् हृदयम् एकायनम्
एवँ सर्वेषां कर्मणाँ हस्तावेकायनम्
SFएवम् सर्वेषाम् कर्मणाम् हस्तौ एकायनम्
एवँ सर्वेषामानन्दानामुपस्थ एकायनम्
SFएवम् सर्वेषाम् आनन्दानाम् उपस्थस् एकायनम्
एवँ सर्वेषां विसर्गाणां पायुरेकायनम्
SFएवम् सर्वेषाम् विसर्गाणाम् पायुस् एकायनम्
एवँ सर्वेषामध्वनां पादावेकायनम्
SFएवम् सर्वेषाम् अध्वनाम् पादौ एकायनम्
एवँ सर्वेषां वेदानां वागेकायनम् || १२ ||
SFएवम् सर्वेषाम् वेदानाम् वाक् एकायनम्
मन्त्र १३ [IV.v.13]
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवै
SFस यथा सैन्धवघनस् अनन्तरस् अबाह्यस् कृत्स्नस्
रसघनस् एव स्यात्k OM.
वं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो
भूतेभ्यः समुत्थाय तान्येवानुविनयष्यतिति
SFएवम् वै अरे इदम् महत् भूतम् अनन्तम् अपरम्
अरे अयम् आत्मा अनन्तरस् अबाह्यस् कृत्स्नस्
प्रज्ञानघनस्
एव एतेभ्यस् भूतेभ्यस् समुत्थाय तानि एव अनुविनयति
न प्रेत्य संज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः || १३ ||
SFन प्रेत्य संज्ञा अस्ति इति अरे ब्रविमि इति ह उवाच
याज्ञवल्क्यस्
मन्त्र १४ [IV.v.14]
सा होवाच मैत्रेय्य्
SFसा ह उवाच मैत्रेयी
अत्रैव मा भगवान्मोहान्तमापीपिपन्
SFअत्र एव मा भगवान् मोहान्तम् आपीपदत्
न वा अहमिमं विजानामीति
SFन वै अहम् इमम् विजानामि इति
स होवाच
SFस ह उवाच याज्ञवल्क्यस्k OM.
न वा अरेऽहं मोहं ब्रवीम्य्
SFन वै अरे अहम् मोहम् ब्रवीमि
अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मा || १४ ||
SFअविनाशी वै अरे अयम् आत्मा अनुच्छित्तिधर्मा
मन्त्र १५ [IV.v.15]
यत्र हि द्वैतमिव भवति
SFयत्र हि द्वैतम् इव भवति
तदितर इतरं पश्यति
SFतद् इतरस् इतरम् पश्यति
तदितर इतरं जिघ्रति
SFतद् इतरस् इतरम् जिघ्रति
तदितर इतरँ रसयते
SFतद् इतरस् इतरम् रसयति
तदितर इतरमभिवदति
SFतद् इतरस् इतरम् अभिवदति
तदितर इतरँ शृणोति
SFतद् इतरस् इतरम् शृणोति
तदितर इतरं मनुते
SFतद् इतरस् इतरम् मनुते
तदितर इतरँ स्पृशति
SFतद् इतरस् इतरम् स्पृशति
तदितर इतरं विजानाति |
SFतद् इतरस् इतरम् विजानाति
यत्र त्वस्य सर्वमात्मैवाभूत्
SFयत्र तु अस्य सर्वम् आत्मा एव अभूत्
तत्केन कं पश्येत्
SFतद् केन कम् पश्येत्
तत्केन कं जिघ्रेत्
SFतद् केन कम् जिघ्रेत्
तत्केन कँ रसयेत्
SFतद् केन कम् रसयेत्
तत्केन कमभिवदेत्
SFतद् केन कम् अभिवदेत्
तत्केन कँ शृणुयात्
SFतद् केन कम् शृणुयात्
तत्केन कं मन्वीत
SFतद् केन कम् मन्वीत
तत्केन कँ स्पृशेत्
SFतद् केन कम् स्पृशेत्
तत्केन कं विजानीयाद्येनेदँ सर्वं विजानाति
SFतद् केन कम् विजानीयात्
तं केन विजानीयात्
SFतम् केन विजानीयात्
स एष नेति नेत्याऽत्मागृह्यो न हि गृह्यते
SFसस् एष न इति न इति आत्मा अगृह्यस् न हि गृह्यते
ऽशीर्यो न हि शीर्यते
SFअशीर्यस् न हि शीर्यते
ऽसङ्गो न हि सज्यते
SFअसङ्गस् न हि सज्यते
ऽसितो न व्यथते न रिष्यति |
SFअसितस् न व्यथते न रिष्यति]
विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि
SFविज्ञातारम् अरे केन विजानीयात् इति उक्तानुशासना असि
मैत्रेय्य्
SFमैत्रेयि
एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो
विजहार || १५ ||इति पञ्चमं ब्राह्मणम् ||
SFएतावत् अरे खलु अमृतत्वम् इति ह उक्त्वा याज्ञवल्क्यस्
विजहार
षष्ठं ब्राह्मणम् .
मन्त्र १ [IV.vi.1]
अथ वँशः
SFअथ वँशस्
पौतिमाष्यो गौपवनाद्
SFपशुतिमाष्यस् गौपवनाद्
गौपवनः पौतिमाष्यात्
SFगौपवनस् पशुतिमाष्याद्
पौतिमाष्यो गौपवनाद्
SFपशुतिमाष्यस् गौपवनाद्
गौपवनः कौशिकात्
SFगौपवनः कौशिकाद्
कौशिकः कौण्डिन्यात्
SFकौशिकस् कौण्डिन्याद्
कौण्डिन्यः शाण्डिल्याच्
SFकौण्डिन्यस् हाण्डिल्याद्
छाण्डिल्यः कौशिकाच्च गौतमाच्च
SFहाण्डिल्यस् कौशिकाद् च गौतमाद् च
गौतमः || १ ||
SFगौतमस्
मन्त्र २ [IV.vi.2]
आग्निवेश्याद्
SFअग्निवेश्यस्
अग्निवेश्यो गार्ग्याद्
SFअग्निवेश्याद् गार्ग्याद्
गार्ग्यो गार्ग्याद्
SFगार्ग्यस् गार्ग्याद्
गार्ग्यो गौतमाद्
SFगार्ग्यस् गौतमाद्
गौतमः सैतवात्
SFगौतमस् शैतवाद्
सैतवः पाराशर्यायणात्
SFशैतवस् पाराशर्यायणाद्
पाराशार्यायणो गार्ग्यायणाद्
SFपाराशार्यायणस् गार्ग्यायणाद्
गार्ग्यायण उद्दालकायनाद्
SFगार्ग्यायणस् ऊद्दालकायनाद्
उद्दालकायनो जाबालायनाज्
SFऊद्दालकायनस् जाबालायनाद्
जाबालायनो माध्यन्दिनायनान्
SFजाबालायनस् माध्यन्दिनायनाद्
माध्यन्दिनायनः सौकरायणात्
SFमाध्यन्दिनायनस् शौकरायणाद्
सौकरायणः काषायणात्
SFशौकरायणस् काषायणाद्
काषायणः सायकायनात्
SFकाषायणस् शायकायनाद्
सायकायनः कौशिकायनेः
SFशायकायनस् कौशिकायनेस्
कौशिकायनिः || २ ||
SFकौशिकायनिस्
मन्त्र ३ [IV.vi.3]
घृतकौशिकाद्
SFघृतकौशिकाद्
घृतकौशिकः पाराशर्यायणात्
SFघृतकौशिकस् प्राशर्यायणाद्
पाराशर्यायणः पाराशर्यात्
SFपारशर्यायणस् पाराशर्याद्
पाराशर्यो जातूकर्ण्याज्
SFपाराशर्यस् जातूकर्ण्याद्
जातूकर्ण्य आसुरायणाच्च यास्काच्चा
SFजातूकर्ण्यस् असुरायणाद् च यास्काद् च
ऽऽसुरायणस्त्रैवणेस्
SFअसुरायणस् त्रैवणेः
त्रैवणिरौपजन्धनेर्
SFत्रैवणिस् आउपजन्धनेस्
औपजन्धनिरासुरेर्
SFऔपजन्धनिस् असुरेस्
आसुरिर्भारद्वाजाद्
SFअसुरिस् भारद्वाजाद्
भारद्वाज आत्रेयाद्
SFभारद्वाजस् अत्रेयाद्
आत्रेयो माण्टेर्
SFअत्रेयस् माण्टेस्
माण्टिर्गौतमाद्
SFमाण्टिस् गौतमाद्
गौतमो गौतमाद्
SFगौतमस् गौतमाद्
गौतमो वात्स्याद्
SFगौतमस् वात्स्याद्
वात्स्यः शाण्डिल्याच्
SFवात्स्यस् हाण्डिल्याद्
छाण्डिल्यः कैशोर्यात्काप्यात्
SFहाण्डिल्यस् कैशोर्याद् काप्याद्
कैशोर्यः काप्यः कुमारहारितात्
SFकैशोर्यस् काप्यस् कुमारहारिताद्
कुमारहारितो गालवाद्
SFकुमारहारितस् गालवाद्
गालवो विदर्भीकौण्डिन्याद्
SFगालवस् विदर्भीकौण्डिन्याद्
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्
SFविदर्भी कौण्डिन्यस् वत्सनपातस् बाभ्रवाद्
वत्सनपाद्बाभ्रव पथः सौभरात्
SFवत्सनपाद् बाभ्रवस् पथस् शौभराद्
पन्थाः सौभरोऽयास्यादाङ्गिरसाद्
SFपन्थास् शौभरस् आयास्याद् अङ्गिरसाद्
अयास्य आङ्गिरस आभूतेस्त्वाष्ट्राद्
SFअयास्यस् अङ्गिरसस् अभूतेस् त्वाष्ट्राद्
आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्
SFअभूतिस् त्वाष्ट्रस् विवरूपाद् त्वाष्ट्राद्
विश्वरूपस्त्वाष्ट्रोऽव्श्विभ्याम्
SFविश्वरूपस् त्वाष्ट्रस् आश्विभ्याम्
अश्विनौ दधीच आथर्वणाद्
SFअश्विनौ दधीचस् अथर्वणाद्
दध्यङ्ङाथर्वणोऽथर्वणो दैवाद्
SFदध्यङ् अथर्वणस् आथर्वणस् दैवाद्
अथर्वा दैवो मृत्योः प्राध्वँसनान्
SFअथर्वा दैवस् मृत्योस् प्राध्वँसनाद्
मृत्युः प्राध्वँसनः प्रध्वँसनात्
SFमृत्युस् प्राध्वँसनस् प्रध्वँसनाद्
प्रध्वँसन एकर्षेर्
SFप्रध्वँसनस् एकर्षेस्
एकर्षिर्विप्रचित्तेः
SFएकर्षिस् विप्रचित्तेस्
विप्रचित्तिर्व्यष्टेर्
SFविप्रचित्तिस् व्यष्टेस्
व्यष्टिः सनारोः
SFव्यष्टिस् शनारोस्
सनारुः सनातनात्
SFशनारुस् शनातनाद्
सनातनः सनगात्
SFशनातनस् शनगाद्
सनगः परमेष्ठिनः
SFशनगस् परमेष्ठिनस्
परमेष्ठी ब्रह्मणो
SFपरमेष्ठी ब्रह्मणस्
ब्रह्म स्वयंभु
SFब्रह्म स्वयंभु
ब्रह्मणे नमः || ३ || इति षष्ठं ब्राह्मणम् ||
SFब्रह्मणे नमस्
|| इति बृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ||
अथ पञ्चमोऽध्यायः .
प्रथमं ब्राह्मणम् . [V.i.1]
ॐ पूर्णमदः
SFपूर्णम् अदस्
पूर्णमिदं
SFपूर्णम् इदम्
पूर्णात्पूर्णमुदच्यते |
SFपूर्णाद् पूर्णम् उदच्यते
पूर्णस्य पूर्णमादाय
SFपूर्णस्य पूर्णम् आदाय
पूर्णमेवावशिष्यते |
SFपूर्णम् एव अवशिष्यते
ॐ३ खं ब्रह्म
SFखम् ब्रह्म
खं पुराणं
SFखम् पुराणम्
वायुरं खम्
SFवायुरम् खम्
इति ह स्माऽऽह कौरव्यायणीपुत्रो |
SFइति ह स्म आह कौरव्यायणीपुत्रस्
वेदोऽयम्ं
SFवेदस् अयम्
ब्राह्मणा विदुर्
SFब्राह्मणास् विदुर्
वेदैनेन यद्वेदितव्यम् || १ || इति प्रथमं ब्राह्मणम् ..
SFवेद एनेन यद् वेदितव्यम्
द्वितीयं ब्राह्मणम् .
मन्त्र १ [V.ii.1]
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्
SFत्रयास् प्राजापत्यास् प्रजापतौ पितरि ब्रह्मचर्यम्
ऊषुर्
देवा मनुष्या असुरा
SFदेवास् मनुष्यास् असुरास्
उषित्वा ब्रह्मचर्यं देवा ऊचुर्
SFउषित्वा ब्रह्मचर्यम् देवास् ऊचुर्
ब्रवीतु नो भवानिति |
SFब्रवीतु नस् भवान् इति
तेभ्यो हैतदक्षरमुवाच
SFतेभ्यस् ह एतद् अक्षरम् उवाच
द इति
SFदस् इति
व्यज्ञासिष्टा३ इति |
SFव्यज्ञासिष्ट इति
व्यज्ञासिष्मेति होचुर्
SFव्यज्ञासिष्म इति ह ऊचुर्
दाम्यतेति न आत्थेत्य्
SFदाम्यत इति नस् आत्थ इति
ओमिति होवाच
SFओम् इति ह उवाच
व्यज्ञासिष्टेति || १ ||
SFव्यज्ञासिष्ट इति
मन्त्र २ [V.ii.2]
अथ हैनं मनुष्या ऊचुर्
SFअथ ह एनम् मनुष्यास् ऊचुर्
ब्रवीतु नो भवानिति |
SFब्रवीतु नस् भवान् इति
तेभ्यो हैतदेवाक्षरमुवाच
SFतेभ्यस् ह एतद् एव अक्षरम् उवाच
द इति
SFदस् इति
व्यज्ञासिष्टा३ इति |
SFव्यज्ञासिष्ट इति
व्यज्ञासिष्मेति होचुर्
SFव्यज्ञासिष्म इति ह ऊचुर्
दत्तेति न आत्थेत्य्
SFदत्त इति नस् आत्थ इति
ओमिति होवाच
SFओम् इति ह उवाच
व्यज्ञासिष्टेति || २ ||
SFव्यज्ञासिष्ट इति
मन्त्र ३ [V.ii.3]
अथ हैनमसुरा ऊचुर्
SFअथ ह एनम् असुरास् ऊचुर्
ब्रवीतु नो भवानिति |
SFब्रवीतु नस् भवान् इति
तेभ्यो हैतदेवाक्षरमुवाच
SFतेभ्यस् ह एतद् एव अक्षरम् उवाच
द इति
SFदस् इति
व्यज्ञासिष्टा३ इति |
SFव्यज्ञासिष्ट इति
व्यज्ञासिष्मेति होचुर्
SFव्यज्ञासिष्म इति ह ऊचुर्
दयध्वमिति न आत्थेत्य्
SFदयध्वम् इति नस् आत्थ इति
ओमिति होवाच
SFओम् इति ह उवाच
व्यज्ञासिष्टेति |
SFव्यज्ञासिष्ट इति
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्
SFतद् एतद् एव एषा दैवी वाक् अनुवदति स्तनयित्नुस्
द द द इति
SFदददस् इति
दाम्यत दत्त दयध्वमिति |
SFदम्यत दत्त दयध्वम् इति
तदेतत्त्रयँ शिक्षेद्
SFतद् एतद् त्रयम् शिक्षेत्
दमं
SFदमम्
दानं
SFदानम्
दयामिति || ३ || इति द्वितीयं ब्राह्मणम् ||
SFदयाम् इति
तृतीयं ब्राह्मणम् . [V.iii.1]
एष प्रजापतिर्यद्धृदयम्
SFएष प्रजापतिस् यद् धृदयम्
एतद्ब्रह्मैतत्सर्वं |
SFएतद् ब्रह्म एतद् सर्वम्
तदेतत्त्र्यक्षरँ
SFतद् एतद् त्र्यक्षरम्
हृदयमिति |
SFहृदयम् इति
हृ इत्येकमक्षरम्
SFहृस् इति एकम् अक्षरम्
अभिहरन्त्यस्मै स्वाश्चान्ये च
SFअभिहरन्ति अस्मै स्वास् च अन्ये च
य एवं वेद |
SFयस् एवम् वेद
द इत्येकमक्षरम्
SFदस् इति एकम् अक्षरम्
ददत्यस्मै स्वाश्चान्ये च
SFददन्ति ददति अस्मै स्वास् च अन्ये च
य एवं वेद |
SFयस् एवम् वेद
यमित्येकमक्षरम्
SFयम् इति एकम् अक्षरम्
एति स्वर्गं लोकं
SFएति स्वर्गम् लोकम्
य एवं वेद || १ || इति तृतीयं ब्राह्मणम् ||
SFयस् एवम् वेद
चतुर्थं ब्राह्मणम् . [V.iv.1]
तद्वै तद्
SFतद् वै तद्
एतदेव तदास
SFएतद् एव तद् आस
सत्यमेव |
SFसत्यम् एव
स यो हैतं महद्यक्षं प्रथमजं वेद
SFस यस् ह एवम् महत् यक्षम् प्रथमजम् वेद
सत्यं ब्रह्मेति
SFसत्यम् ब्रह्म इति
जयतीमाँल्लोकाञ्
SFजयति इमान् लोकान्
जित इन्न्वसावसद्
SFजितस् इद् नु असौ असत्
य एवमेतन्महद्यक्षं प्रथमजं वेद
SFयस् एवम् एतद् महत् यक्षम् प्रथमजम् वेद
सत्यं ब्रह्मेति
SFसत्यम् ब्रह्म इति
सत्यँ ह्येव ब्रह्म || १ || इति चतुर्थं ब्राह्मणम् ..
SFसत्यम् हि एव ब्रह्म
पञ्चमं ब्राह्मणम् .
मन्त्र १ [v.V.1]
अप एवेदमग्र आसुस्
SFअपस् एव इदम् अग्रे आसुर्
ता आपः सत्यमसृजन्त
SFतास् आपस् सत्यम् असृजन्त
सत्यं ब्रह्म
SFसत्यम् ब्रह्म
ब्रह्म प्रजापतिम्
SFब्रह्म प्रजापतिम्
प्रजापतिर्देवाँस्
SFप्रजापतिस् देवान्
ते देवाः सत्यमेवोपासते
SFते देवास् सत्यम् इति एव उपासते
तदेतत्त्र्यक्षरँ
SFतद् एतद् त्र्यक्षरम्
सत्यमिति |
SFसत्यम् सतियम् इति
स इत्येकमक्षरम्
SFस इति एकम् अक्षरम्
तीत्येकमक्षरम्
SFति इति एकम् अक्षरम्
यमित्येकमक्षरं |
SFअम् यम् इति एकम् अक्षरम्
प्रथमोत्तमे अक्षरे सत्यम्
SFप्रथमोत्तमे अक्षरे सत्यम्
मध्यतोऽनृतम् तदेतदनृतमुभयतः
सत्येन परिगृहीतँ
SFमध्यतस् अनृतम् तद् एतद्
अनृतम्k add. mark 1 उभयतस्
सत्येन परिगृहीतम्
सत्यभूयमेव भवति |
SFसत्यभूयम् एव भवति
नैनंविद्वाँसमनृतँ हिनस्ति || १ ||
SFन एवंविद्वाँसम् अनृतम् हिनस्ति
मन्त्र २ [V.v.2]
तद्यत्तत्सत्यमसौ स आदित्यो |
SFतद् यद् तद् सत्यम् असौ सस् आदित्यस्
य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्
पुरुषस्
SFयस् एषस् एतस्मिन् मण्डले पुरुषस् यस्च अयम्
दक्षिणे अक्षन् पुरुषः
तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ
SFतौ एतौ अन्यस् अन्यस्मिन् प्रतिष्ठितौ
रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः
SFरश्मिभिस् एषस् अस्मिन् प्रतिष्ठितस्
प्राणैरयममुष्मिन्
SFप्राणैस् अयम् अमुष्मिन्
स यदोत्क्रमिष्यन्भवति
SFस यदा उत्क्रमिष्यन् भवति
शुद्धमेवैतन्मण्डलं पश्यति
SFशुद्धम् एव एतद् मण्डलम् पश्यति
नैनमेते रश्मयः प्रत्यायन्ति || २ ||
SFन एनम् एते रश्मयस् प्रत्यायन्ति
मन्त्र ३ [V.v.3]
य एष एतस्मिन्मण्डले पुरुषस्
SFयस् एषस् एतस्मिन् मण्डले पुरुषः
तस्य भूरिति शिर
SFतस्य भूस् इति शिरस्
एकँ शिर
SFएकम् शिरस्
एकमेतदक्षरं
SFएकम् एतद् अक्षरम्
भुव इति बाहू
SFभुवस् इति बाहू
द्वौ बाहू
SFद्वौ बाहू
द्वे एते अक्षरे
SFद्वे एते अक्षरे
स्वरिति प्रतिष्ठा
SFस्वरिति प्रतिष्ठा
द्वे प्रतिष्ठे द्वे एते अक्षरे |
SFद्वे प्रतिष्ठे द्वे एते अक्षरे
तस्योपनिषदहरिति |
SFतस्य उपनिषद् अहरिति
हन्ति पाप्मानं जहाति च
SFहन्ति पाप्मानम् जहाति च
य एवं वेद || ३ ||
SFयस् एवम् वेद
मन्त्र ४ [V.v.4]
योऽयं दक्षिणेऽक्षन्पुरुषस्
SFअथk OM. यस् अयम् दक्षिणे अक्षन् पुरुषः
तस्य भूरिति शिरः
SFतस्य भूस् इति शिरस्
एकँ शिर
SFएकम् शिरस्
एकमेतदक्षरम्
SFएकम् एतद् अक्षरम्
भुव इति बाहू
SFभुवस् इति बाहू
द्वौ बाहू
SFद्वौ बाहू
द्वे एते अक्षरे
SFद्वे एते अक्षरे
स्वरिति प्रतिष्ठा
SFस्वरिति प्रतिष्ठा
द्वे प्रतिष्ठे
SFद्वे प्रतिष्ठे
द्वे एते अक्षरे |
SFद्वे एते अक्षरे
तस्योपनिषदहमिति |
SFतस्य उपनिषद् अहम् इति
हन्ति पाप्मानं जहाति च
SFहन्ति पाप्मानम् जहाति च
य एवं वेद || ४ || इति पज्ञ्चमं ब्राह्मणम् ..
SFयस् एवम् वेद
षष्ठं ब्राह्मणम् [V.vi.1]
मनोमयोऽयं पुरुषो
SFमनोमयस् अयम् पुरुषस्
भाःसत्यस्
SFभाःसत्यः
तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा
SFतस्मिन् अन्तर्हृदये यथा व्रीहिस् वा यवस् वा एवम्
अयम् अन्तरात्मन् पुरुषस्k OM. एवम्
स एष सर्वस्य सर्वस्येशानः
SFस एष सर्वस्य सर्वस्य ईशानस्
सर्वस्याधिपतिः
SFसर्वस्य अधिपतिस्
सर्वमिदं प्रशास्ति यदिदं किञ्च || १ || इति षष्ठं
ब्राह्मणम् ||
SFसर्वम् इदम् प्रशास्ति यद् इदम् किञ्च
सप्तमं ब्राह्मणम् . [V.vii.1]
विद्युद् ब्रह्मेत्याहुर्
SFविद्युत् ब्रह्म इति आहुर्
विदानाद्विद्युद्
SFविदानाद् विद्युत्
विद्यत्येनं पाप्मनो
SFविद्यति एनम् पाप्मनस्
य एवं वेद
SFयस् एवम् वेद
विद्युद्ब्रह्मेति |
SFविद्युत् ब्रह्म इति
विद्युद्ध्येव ब्रह्म || १ || इति सप्तमं ब्राह्मणम् ||
SFविद्युत् धि एव ब्रह्म
अष्टमं ब्राह्मणम् . [V.viii.1]
वाचं धेनुमुपासीत |
SFवाचम् धेनुम् उपासीत
तस्याश्चत्वारः स्तनाः
SFतस्यास् चत्वारस् स्तनास्
स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्
SFस्वाहाकारस् वषट्कारस् हन्तकारस् स्वधाकारः
तस्यै द्वौ स्तनौ देवा उपजीवन्ति
SFतस्यै द्वौ स्तनौ देवास् उपजीवन्ति
स्वाहाकारं च वषट्कारं च
SFस्वाहाकारम् च वषट्कारम् च
हन्तकारं मनुष्याः
SFहन्तकारम् मनुष्यास्
स्वधाकारं पितरः |
SFस्वधाकारम् पितरस्
तस्याः प्राण ऋषभो
SFतस्यास् प्राणस् ऋषभस्
मनो वत्सः || १ || इत्यष्टमं ब्राह्मणम् ||
SFमनस् वत्सस्
नवमं ब्राह्मणम् . [V.ix.1]
अयमाग्निर्वैश्वानरो योऽयमन्तः पुरुषे
SFअयम् आग्निस् वैश्वानरस् यस् अयम् अन्तर् पुरुषे
येनेदमन्नं पच्यते यदिदमद्यते |
SFयेन इदम् अन्नम् पच्यते यद् इदम् अद्यते
तस्यैष घोषो भवति
SFतस्य एष घोषस् भवति
यमेतत्कर्णावपिधाय शृणोति |
SFयम् एतद् कर्णौ अपिधाय शृणोति
स यदोत्क्रमिष्यन्भवति
SFस यदा उत्क्रमिष्यन् भवति
नैनं घोषँ शृणोति || १ || इति नवमं ब्राह्मणम् ||
SFन एनम् घोषम् शृणोति
दशमं ब्राह्मणम् . [V.x.1]
यदा वै पुरुषोऽस्माल्लोकात्प्रैति
SFयदा वै पुरुषस् अस्माद् लोकाद् प्रैति
स वायुमागच्छति
SFस वायुम् आगच्छति
तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं
SFतस्मै स तत्र विजिहीते यथा रथचक्रस्य खम्
तेन स ऊर्ध्व आक्रमते |
SFतेन सस् ऊर्ध्वस् आक्रमते
स आदित्यमागच्छति
SFसस् आदित्यम् आगच्छति
तस्मै स तत्र विजिहीते यथालम्बरस्य खम्
SFतस्मै स तत्र विजिहीते यथा अडम्बरस्य अलम्बरस्य खम्
तेन स ऊर्ध्व आक्रमते |
SFतेन सस् ऊर्ध्वस् आक्रमते
स चन्द्रमसमागच्छति
SFस चन्द्रमसम् आगच्छति
तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम्
SFतस्मै स तत्र विजिहीते यथा दुन्दुभेस् खम्
तेन स ऊर्ध्व आक्रमते |
SFतेन सस् ऊर्ध्वस् आक्रमते
स लोकमागच्छत्यशोकमहिमम्
SFस लोकम् आगच्छति अशोकम् अहिमम्
तस्मिन्वसति शाश्वतीः समाः || १ || इति दशमं ब्राह्मणम् ||
SFतस्मिन् वसति शाश्वतीस् समास्
एकादशं ब्राह्मणम् . [V.xi.1]
एतद्वै परमं तपो यद्व्याहितस्तप्यते
SFएतद् वै परमम् तपस् यद् व्याहितस् तप्यते
परमँ हैव लोकं जयति
SFपरमम् ह एव लोकम् जयति
य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यँ हरन्ति
SFयस् एवम् वेद एतद् वै परमम् तपस् यम्
प्रेतम् अरण्यम् हरन्ति
परमँ हैव लोकं जयति
SFपरमम् ह एव लोकम् जयति
य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति
SFयस् एवम् वेद एतद् वै परमम् तपस् यम्
प्रेतम् अग्नौ अभ्यादधति
परमँ हैव लोकं जयति
SFपरमम् ह एव लोकम् जयति
य एवं वेद || ११ || इति एकादशं ब्राह्मणम् ||
SFयस् एवम् वेद
द्वादशं ब्राह्मणम् . [V.xii.1]
अन्नं ब्रह्मेत्येक आहुस्
SFअन्नम् ब्रह्म इति एके आहुर्
तन्न तथा
SFतद् न तथा
पूयति वा अन्नमृते प्राणात्
SFपूयति वै अन्नम् ऋते प्राणाद्
प्राणो ब्रह्मेत्येक आहुस्
SFप्राणस् ब्रह्म इति एके आहुर्
तन्न तथा
SFतद् न तथा
शुष्यति वै प्राण ऋतेऽन्नाद्
SFशुष्यति वै प्रणस् ऋते अन्नाद्
एते ह त्वेव देवते
SFएते ह तु एव देवते
एकधाभूयं भूत्वा
SFएकधाभूयम् भूत्वा
परमतां गच्छतस्
SFपरमताम् गच्छतः
तद्ध स्माऽऽह प्रातृदः पितरम्
SFतद् ध स्म आह प्रातृदस् पितरम्
किँ स्विदेवैवं विदुषे साधु कुर्याम्
SFकिम् स्विद् एव एवंविदुषे साधु कुर्याम्
किमेवास्मा असाधु कुर्यामिति |
SFकिम् एव अस्मै असाधु कुर्याम् इति
स ह स्माह पाणिना
SFस ह स्म आह पाणिना
मा
SFमा
प्रातृद
SFप्रातृद
कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति |
SFकस् तु एनयोस् एकधाभूयम् भूत्वा परमताम्
गच्छति इति
तस्मा उ हैतदुवाच
SFतस्मै उ ह एतद् उवाच
वीत्य्
SFवि इति
अन्नं वै वि
SFअन्नम् वै वि
अन्ने हीमानि सर्वाणि भूतानि विष्टानि |
SFअन्ने हि इमानि सर्वाणि भूतानि विष्टानि
रमिति
SFरम् इति
प्राणो वै रं
SFप्राणस् वै रम्
प्राणे हीमानि सर्वाणि भूतानि रमन्ते |
SFप्राणे हि इमानि सर्वाणि भूतानि रतानि रमन्ते
सर्वाणि ह वा अस्मिन् भूतानि विशन्ति
SFसर्वाणि ह वै अस्मिन् भूतानि विशन्ति
सर्वाणि भूतानि रमन्ते
SFसर्वाणि भूतानि रमन्ते
य एवं वेद || १२ || इति द्वादशं ब्राह्मणम् ||
SFयस् एवम् वेद
त्रयोदशं ब्राह्मणम्
मन्त्र १ [V.xiii.1]
उक्थम्
SFउक्थम्
प्राणो वा उक्थम्
SFप्राणस् वै उक्थम्
प्राणो हीदँ सर्वमुत्थापयत्य्
SFप्राणस् हि इदम् सर्वम् उत्थापयति
उद्धास्मा धस्मादुक्थविद्वीरस्तिष्ठत्य्
SFउद् ध अस्मै अस्माद् उक्थविद् वीरस् तिष्ठति
उक्थस्य सायुज्यँ सलोकतां जयति
SFउक्थस्य सायुज्यम् सलोकताम् जयति
य एवं वेद || १ ||
SFयस् एवम् वेद
मन्त्र २ [V.xiii.2]
यजुः
SFयजुस्
प्राणो वै यजुः
SFप्राणस् वै यजुस्
प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते |
SFप्राणे हि इमानि सर्वाणि भूतानि युज्यन्ते
युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय
SFयुज्यन्ते ह अस्मै सर्वाणि भूतानि श्रैष्ठ्याय
यजुषः सायुज्यँ सलोकतां जयति
SFयजुषस् सायुज्यम् सलोकताम् जयति
य एवं वेद || २ ||
SFयस् एवम् वेद
मन्त्र ३ [V.xiii.3]
साम
SFसाम
प्राणो वै साम
SFप्राणस् वै साम
प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि |
SFप्राणे हि इमानि सर्वाणि भूतानि सम्यञ्चि
सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते
SFसम्यञ्चि ह अस्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते
साम्नः सायुज्यँ सलोकतां जयति
SFसाम्नस् सायुज्यम् सलोकताम् जयति
य एवं वेद || ३ ||
SFयस् एवम् वेद
मन्त्र ४ [V.xiii.4]
क्षत्रम्
SFक्षत्रम्
प्राणो वै क्षत्रम्
SFप्राणस् वै क्षत्रम्
प्राणो हि वै क्षत्रम्
SFप्राणस् हि वै क्षत्रम्
त्रायते हैनं प्राणः क्षणितोः |
SFत्रायते ह एनम् प्राणस् क्ष्हणितोस्
प्र क्षत्रमत्रमप्नोति
SFप्र क्षत्रम् अत्रम् अत्रम् अप्नोति
क्षत्रस्य सायुज्यँ सलोकतां जयति
SFक्षत्रस्य सायुज्यम् सलोकताम् जयति
य एवं वेद || ४ || इति त्रयोदशं ब्राह्मणम् ||
SFयस् एवम् वेद
चतुर्दशं ब्राह्मणम् .
मन्त्र १ [V.xiv.1]
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्य्
SFभूमिस् अन्तरिक्षम् द्यौस् इति अष्टौ _ अक्षराणि
अष्टाक्षरँ ह वा एकं गायत्र्यै पदम्
SFअष्टाक्षरम् ह वै एकम् गायत्र्यै पदम्
एतदु हैवास्या एतत्
SFएतद् उ ह एव अस्यास् एतद्
स यावदेषु त्रिषु लोकेषु
SFस यावत् एषु त्रिषु लोकेषु
तावद्ध जयति योऽस्या एतदेवं पदं वेद || १ ||
SFतावत् ध जयति यस् अस्यास् एतद् एवम् पदम् वेद
मन्त्र २ [V.xiv.2]
ऋचो यजूँषि सामानीत्यष्टावक्षराण्य्
SFऋचस् यजूषि सामानि इति अष्टौ अक्षराणि
अष्टाक्षरँ ह वा एकं गायत्र्यै पदम्|
SFअष्टाक्षरम् ह वै एकम् गायत्र्यै पदम्
एतदु हैवास्या एतत्
SFएतद् उ ह एव अस्यास् एतद्
स यावतीयं त्रयी विद्या
SFस यावती इयम् त्रयी विद्या
तावद्ध जयति
SFतावत् ध जयति
योऽस्या एतदेवं पदं वेद || २ ||
SFयस् अस्यास् एतद् एवम् पदम् वेद
मन्त्र ३ [V.xiv.3]
प्राणोऽपानो व्यान इत्यष्टावक्षराणि
SFप्राणस् अपानस् व्यानस् इति अष्टौ अक्षराणि
अष्टाक्षरँ ह वा एकं गायत्र्यै पदम्
SFअष्टाक्षरम् ह वै एकम् गायत्र्यै पदम्
एतदु हैवास्या एतत्
SFएतद् उ ह एव अस्यास् एतद्
स यावदिदं प्राणि
SFस यावत् इदम् प्राणि
तावद्ध जयति
SFतावत् ध जयति
योऽस्या एतदेवं पदं वेद
SFयस् अस्यास् एतद् एवम् पदम् वेद
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति
SFअथ अस्यास् एतद् एव तुरीयम् दर्शतम् पदम्
परोरजास् यस् एष तपति
यद्वै चतुर्थं तत्तुरीयम्
SFयद् वै चतुर्थम् तद् तुरीयम्
दर्शतं पदमिति
SFदर्शतम् पदम् इति
ददृश इव ह्येष
SFददृशे इव हि एषस्
परोरजा इति
SFपरोरजास् इति
सर्वमु ह्येवैष रज उपर्युपरि तपत्य्
SFसर्वम् उ हि एव एष रजस् उपर्युपरि तपति
एवँ हैव श्रिया यशसा तपति
SFएवम् ह एव श्रिया यशसा तपति
योऽस्या एतदेवं पदं वेद || ३ ||
SFयस् अस्यास् एतद् एवम् पदम् वेद
मन्त्र ४ [V.xiv.4]
सैषा गायत्र्येतस्मिँस्तुरीये दर्शते पदे परोरजसि
प्रतिष्ठिता
SFसा एषा गायत्री एतस्मिन् तुरीये दर्शते पदे परोरजसि
प्रतिष्ठिता
तद्वै तत्सत्ये प्रतिष्ठितं
SFतद् वै तद् सत्ये प्रतिष्ठिता प्रतिष्ठितम्
चक्षुर्वै सत्यम्
SFचक्षुस् वै सत्यम्
चक्षुर्हि वै सत्यम्
SFचक्षुस् हि वै सत्यम्
तस्माद्यदिदानीं द्वौ विवदमानावेयाताम्
SFतस्माद् यद् इदानीम् द्वौ विवदमानौ एयातम्
अहम् अदर्शम्
SFअहम् अद्राक्षम् अदर्शम्
अहमश्रौषमिति
SFअहम् अश्रौषम् इति
य एव एवं ब्रूयाद्
SFयस् एव एवम् ब्रूयात्
अहम् अदर्शमिति
SFअहम् अद्राक्षम् अदर्शम् इति
तस्मा एव श्रद्दध्याम |
SFतस्मै एव श्रद्दध्यात् श्रद्दध्याम
तद्वै तत्सत्यं बले प्रतिष्ठितम्
SFतद् वै तद् सत्यम् बले प्रतिष्ठितम्
प्राणो वै बलम्
SFप्राणस् वै बलम्
तत्प्राणे प्रतिष्ठितम्
SFतद् प्राणे प्रतिष्ठितम्
तस्मादाहुर्
SFतस्माद् आहुर्
बलँ सत्यादोगीय इत्य्
SFबलम् सत्याद् ओजीयस् इति
एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता |
SFएवम् उ एषा गायत्री अध्यात्मम् प्रतिष्ठिता
सा हैषा गयाँस्तत्रे
SFसा ह एषा गयान् तत्रे
प्राणा वै गयास्
SFप्राणास् वै गयाः
तत्प्राणाँस्तत्रे
SFतद् प्राणास् तत्रे
तद्यद्गयाँस्तत्रे
SFतद् यद् गयान् तत्रे
तस्माद् गायत्री नाम |
SFतस्माद् गायत्री नाम
स यामेवामूँ सावित्रीमन्वाहैषैव सा |
SFस याम् एव अमूम्k add. mark 1 सावित्रीम् अन्वाह
एषा एव सा
स यस्मा अन्वाह
SFस यस्मै अन्वाह
तस्य प्राणाँस्त्रायते || ४ ||
SFतस्य प्राणास् त्रायते
मन्त्र ५ [V.xiv.5]
ताँ हैतामेके सावित्रीमनुष्टुभमन्वाहुर्
SFताम् हk add. mark 1 एताम् एके सावित्रीम्
अनुष्टुभम् अन्वाहुर्
वागनुष्टुब्
SFवाक् अनुष्टुब्
एतद्वाचमनुब्रूम इति |
SFएतद् वाचम् अनुब्रूमस् इति
न तथा कुर्याद्
SFन तथा कुर्यात्
गायत्रीमेवानुब्रूयाद् |
SFगायत्रीम् एवk add. mark 1 सावित्रीम् अनुब्रूयात्
यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति
SFयदि ह वै अपिk add. mark 1 एवंविद् बहु इव
प्रतिगृह्णाति
न हैव तद्गायत्र्या एकं चन पदं प्रति || ५ ||
SFन ह एव तद् गायत्र्यै एकम् चन पदम् प्रति
मन्त्र ६ [V.xiv.6]
स य इमाँस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात्
SFस यस् इमान् त्रीन् लोकान् पूर्णान् प्रतिगृह्णीयात्
सोऽस्या एतत्प्रथमं पदमाप्नुयाद्|
SFसस् अस्यास् एतद् प्रथमम् पदम् आप्नुयात्
अथ यावतीयं त्रयी विद्या
SFअथ यावती इयम् त्रयी विद्या
यस्तावत्प्रतिगृह्णीयात्
SFयस् तावत् प्रतिगृह्णीयात्
सोऽऽस्या एतद्द्वितीयं पदमाप्नुयाद्
SFसस् अस्यास् एतद् द्वितीयम् पदम् आप्नुयात्
अथ यावदिदं प्राणि
SFअथ यावत् इदम् प्राणि
यस्तावत्प्रतिगृह्णीयात्
SFयस् तावत् प्रतिगृह्णीयात्
सोऽस्या एतत्तृतीयं पदमाप्नुयाद्
SFसस् अस्यास् एतद् तृतीयम् पदम् आप्नुयात्
अथास्या एतदेव तुरीयं दर्शतं पदम्
SFअथ अस्यास् एतद् एव तुरीयम् दर्शतम् पदम्
परोरजा य एष तपति
SFपरोरजास् यस् एष तपति
नैव केन चनाप्यम्
SFन एव केन चनाऽऽप्यम्
कुत उ एतावत्प्रतिगृह्णीयात् || ६ ||
SFकुतस् उ एतावत् प्रतिगृह्णीयाद्
मन्त्र ७ [V.xiv.7]
तस्या उपस्थानम्
SFतस्यै उपस्थानम्
गायत्र्य्
SFगायत्रि
अस्येकपदी द्विपदी त्रिपदी चतुष्पद्य्
SFअसि एकपदी द्विपदी त्रिपदी चतुष्पदि
अपदसि
SFअपद् असि
न हि पद्यसे |
SFन हि पद्यसे
नमस्ते तुरीयाय दर्शताय पदाय परोरजसे
SFनमस् ते तुरीयाय दर्शताय पदाय परोरजसे
ऽसावदो मा प्रापदिति
SFअसौ अदस् मा प्रापत् इति
यं द्विष्याद्
SFयम् द्विष्यात्
असावस्मै कामो मा समृद्धीति वा
SFअसौ अस्मै कामस् मा समर्धि इति वा
न हैवास्मै स कामः समृद्ध्यते यस्मा एवमुपतिष्ठते
SFन ह एव अस्मै स कामस् समृध्यते यस्मै एवम्
उपतिष्ठते
ऽहमदः प्रापमिति वा || ७ ||
SFअहम् अदस् प्रापम् इति वा
मन्त्र ८ [V.xiv.8]
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच
SFएतद् ध वै तद् जनकस् वैदेहस् बुढिलम्
आश्वतराश्विम् उवाच
यन्नु हो तद्गायत्रीविदब्रूथा
SFयद् नु ह उ तद् गायत्रीविद् अब्रूथास्
अथ कथँ हस्ती भूतो वहसीति |
SFअथ कथम् हस्ती भूतस् वहसि इति
मुखँ ह्यस्याः
SFमुखम् हि अस्यास्
सम्राण्
SFसम्राट्
न विदां चकारेति होवाच |
SFन विदाम् चकर इति ह उवाच
तस्या अग्निरेव मुखम्
SFतस्यै आग्निस् एव मुखम्
यदि ह वा अपि बह्विवाग्नावभ्यादधति
SFयदि ह वै अपि बहु इव आग्नौ अभ्यादधति
सर्वमेव तत्संदहत्य्
SFसर्वम् एव तद् संदहति
एवँ हैवैवंविद्
SFएवम् ह एव एवंविद्
यद्यपि बह्विव पापं कुरुते
SFयदि अपि बहु इव पापम् करोति कुरुते
सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः
संभवति || ८ || इति चतुर्दशं ब्राह्मणम् ||
SFसर्वम् एव तद् संप्साय शुद्धस् पूतस् अजरस्
अमृतस् संभवति
पञ्चदशं ब्राह्मणम् . [V.xv.1]
हिरण्मयेन पात्रेण
SFहिरण्मयेन पात्रेण
सत्यस्यापिहितं मुखम् |
SFसत्यस्य अपिहितम् मुखम्
तत्त्वम्
SFतद् त्वम्
पूषन्न्
SFपूषन्
अपावृणु
SFअपावृणु
सत्यधर्माय दृष्टये |
SFसत्यधर्माय दृष्टये
पूषन्न्
SFपूषन्
एकर्षे
SFएकर्षे
यम
SFयम
सूर्य
SFसूर्य
प्राजापत्य
SFप्राजापत्य
व्यूह रश्मीन् |
SFव्यूह रश्मीन्
समूह तेजो
SFसमूह तेजस्
यत्ते रूपं
SFयद् ते रूपम्
कल्याणतमं
SFकल्याणतमम्
तत्ते पश्यामि |
SFतद् ते पश्यामि
योऽसावसौ पुरुषः
SFयस् असौ असौ पुरुषस्
सोऽहमस्मि |
SFसस् अहम् अस्मि
वायुरनिलममृतम्
SFवायुस् अनिलम् अमृतम्
अथेदं भस्मान्तँ शरीरम् |
SFअथ इदम् भस्मान्तम् शरीरम्
ॐ३ क्रतो
SFक्रतस्
स्मर
SFस्मर
कृतँ स्मर
SFकृतम् स्मर
क्रतो
SFक्रतस्
स्मर
SFस्मर
कृतँ स्मर |
SFकृतम् स्मर
अग्ने
SFअग्ने
नय सुपथा रायेऽस्मान्
SFनय सुपथा राये अस्मान्
विश्वानि
SFविश्वानि
देव
SFदेव
वयुनानि विद्वान्|
SFवयुनानि विद्वान्
युयोध्यस्मज्जुहुराणमेनो
SFयुयोधि अस्मद् जुहूराणम् एनस्
भूयिष्ठां ते नम उक्तिं विधेम || १ || इति पञ्चदशं
ब्राह्मणम् ||
SFभूयिष्ठाम् ते नमःउक्तिम् विधेम
|| इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ||
अथ षष्ठोऽध्यायः .
प्रथमं ब्राह्मणम्
मन्त्र १ [VI.1.1]
ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद
SFयस् ह वै ज्येष्ठम् च श्रेष्ठम् च वेद
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति |
SFज्येष्ठस् च श्रेष्ठस् च स्वानाम् भवति
प्राणो वै ज्येष्ठश्च श्रेष्ठश्च |
SFप्राणस् वै ज्येष्ठस् च श्रेष्ठस् च
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्य्
SFज्येष्ठस् च श्रेष्ठस् च स्वानाम् भवति
अपि च येषां बुभूषति
SFअपि च येषाम् बुभूषति
य एवं वेद || १ ||
SFयस् एवम् वेद
मन्त्र २ [VI.i.2]
यो ह वै वसिष्ठां वेद
SFयस् ह वै वसिष्ठाम् वेद
वसिष्ठः स्वानां भवति |
SFवसिष्ठस् स्वानाम् भवति
वाग्वै वसिष्ठा |
SFवाक् वै वसिष्ठा
वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति ,
SFवसिष्ठस् स्वानाम् भवतिk add. mark 1 अपि च
येषाम् बुभूषति
य एवं वेद || २ ||
SFयस् एवम् वेद
मन्त्र ३ [VI.i.3]
यो ह वै प्रतिष्ठां वेद
SFयस् ह वै प्रतिष्ठाम् वेद
प्रतितिष्ठति समे
SFप्रतितिष्ठति समे
प्रतितिष्ठति दुर्गे |
SFप्रतितिष्ठति दुर्गे
चक्षुर्वै प्रतिष्ठा
SFचक्षुस् वै प्रतिष्ठा
चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति |
SFचक्षुषा हि समे च दुर्गे च प्रतितिष्ठति
प्रतितिष्ठति समे
SFप्रतितिष्ठति समे
प्रतितिष्ठति दुर्गे
SFप्रतितिष्ठति दुर्गे
य एवं वेद || ३ ||
SFयस् एवम् वेद
मन्त्र ४ [VI.i.4]
यो ह वै संपदं वेद
SFयस् ह वै संपदम् वेद
सँ हास्मै पद्यते
SFसम् ह अस्मै पद्यते
यं कामं कामयते |
SFयम् कामम् कामयते
श्रोत्रं वै संपच्
SFश्रोत्रम् वै संपद्
छ्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः |
SFश्रोत्रे हि इमे सर्वे वेदास् अभिसंपन्नास्
सँ हास्मै पद्यते
SFसम् ह अस्मै पद्यते
यं कामं कामयते
SFयम् कामम् कामयते
य एवं वेद || ४ ||
SFयस् एवम् वेद
मन्त्र ५ [VI.i.5]
यो ह वा आयतनं वेदाऽऽयतनँ स्वानां भवति
SFयस् ह वै आयतनम् वेद आयतनम् स्वानाम् भवति
आयतनं जनानां |
SFअयतनम् जनानाम्
मनो वा आयतनम्
SFमनस् वै आयतनम्
आयतनँ स्वानां भवत्य्
SFअयतनम् स्वानाम् भवति
आयतनं जनानाम्
SFअयतनम् जनानाम्
य एवं वेद || ५ ||
SFयस् एवम् वेद
मन्त्र ६ [VI.i.6]
यो ह वै प्रजातिं वेद
SFयस् ह वै प्रजातिम् वेद
प्रजायते ह प्रजया पशुभी
SFप्रजायते ह प्रजया पशुभिस्
रेतो वै प्रजातिः |
SFरेतस् वै प्रजातिस्
प्रजायते ह प्रजया पशुभिर्
SFप्रजायतेk add. mark 1 ह प्रजया पशुभिस्
य एवं वेद || ६ ||
SFयस् एवम् वेद
मन्त्र ७ [VI.i.7]
ते हेमे प्राणा
SFते ह इमे प्राणास्
अहँश्रेयसे विवदमाना
SFअहँश्रेयसे विवदमानास्
ब्रह्म जग्मुस्तद्धोचुः
SFब्रह्म जग्मुर्k add. mark 1 तद् ध ऊचुर्
को नो वसिष्ठ इति |
SFकस् नस् वसिष्ठस् इति
तद्धोवाच
sN editio una indicha etk add. mark 1 तद् ध उवाच
यस्मिन्व उत्क्रान्त इदँ शरीरं पापीयो मन्यते
SFयस्मिन् वस् उत्क्रान्ते इदम् शरीरम् पापियस् मन्यते
स वो वसिष्ठ इति || ७ ||
SFस वस् वसिष्ठस् इति
मन्त्र ८ [vi.I.8]
वाग्घोच्चक्राम |
SFवाक् ध उच्चक्राम
सा संवत्सरं प्रोष्या.आ.आगत्योवाच
SFसा संवत्सरम् प्रोष्य आगत्य उवाच
कथमशकत मदृते जीवितुमिति |
SFकथम् अशकत मद् ऋते जीवितुम् इति
ते होचुऱ्
SFते ह ऊचुर्
यथाऽकला
SFयथा कडास् कलास्
अवदन्तो वाचा
SFअवदन्तस् वाचा
प्राणन्तः प्राणेन
SFप्राणन्तस् प्राणेन
पश्यन्तश्चक्षुषा
SFपश्यन्तस् चक्षुषा
शृण्वन्तः श्रोत्रेण
SFशृण्वन्तस् श्रोत्रेण
विद्वाँसो मनसा
SFविद्वाँसस् मनसा
प्रजायमाना रेतसैवमजीविष्मेति |
SFप्रजायमानास् रेतसा एवम् अजीविष्म इति
प्रविवेश ह वाक् || ८ ||
SFप्रविवेश ह वाक्
मन्त्र ९ [VI.i.9]
चक्षुर्होच्चक्राम |
SFचक्षुस् ह उच्चक्राम
तत्संवत्सरं प्रोष्याऽऽगत्योवाच
SFतद् संवत्सरम् प्रोष्य आगत्य उवाच
कथमशकत मदृते जीवितुमिति |
SFकथम् अशकत मद् ऋते जीवितुम् इति
ते होचुर्
SFते ह ऊचुर्
यथान्धा
SFयथा अन्धास्
अपश्यन्तश्चक्षुषा
SFअपश्यन्तस् चक्षुषा
प्राणन्तः प्राणेन
SFप्राणन्तस् प्राणेन
वदन्तो वाचा
SFवदन्तस् वाचा
शृण्वन्तः श्रोत्रेण
SFशृण्वन्तस् श्रोत्रेण
विद्वाँसो मनसा
SFविद्वाँसस् मनसा
प्रजायमाना रेतसैवमजीविष्मेति |
SFप्रजायमानास् रेतसा एवम् अजीविष्म इति
प्रविवेश ह चक्षुः || ९ ||
SFप्रविवेश ह चक्षुस्
मन्त्र १० [VI.i.10]
श्रोत्रँ होच्चक्राम |
SFश्रोत्रम् ह उच्चक्राम
तत्संवत्सरं प्रोष्याऽऽगत्योवाच
SFतद् संवत्सरम् प्रोष्य आगत्य उवाच
कथमशकत मदृते जीवितुमिति |
SFकथम् अशकत मद् ऋते जीवितुम् इति
ते होचुर्
SFते ह ऊचुर्
यथा बधिरा
SFयथा बधिरास्
अशृण्वन्तः श्रोत्रेण
SFअशृण्वन्तस् श्रोत्रेण
प्राणन्तः प्राणेन
SFप्राणन्तस् प्राणेन
वदन्तो वाचा
SFवदन्तस् वाचा
पश्यन्तश्चक्षुषा
SFपश्यन्तस् चक्षुषा
विद्वाँसो मनसा
SFविद्वाँसस् मनसा
प्रजायमाना रेतसैवमजीविष्मेति |
SFप्रजायमानास् रेतसा एवम् अजीविष्म इति
प्रविवेश ह श्रोत्रम् || १० ||
SFप्रविवेश ह श्रोत्रम्
मन्त्र ११ [VI.i.11]
मनो होच्चक्राम |
SFमनस् ह उच्चक्राम
तत्संवत्सरं प्रोष्याऽऽगत्योवाच
SFतद् संवत्सरम् प्रोष्य आगत्य उवाच
कथमशकत मदृते जीवितुमिति |
SFकथम् अशकत मद् ऋते जीवितुम् इति
ते होचुर्
SFते ह ऊचुर्
यथा मुग्धा
SFयथा मुग्धास्
अविद्वाँसो मनसा
SFअविद्वाँसस् मनसा
प्राणन्तः प्राणेन
SFप्राणन्तस् प्राणेन
वदन्तो वाचा
SFवदन्तस् वाचा
पश्यन्तश्चक्षुषा
SFपश्यन्तस् चक्षुषा
शृण्वन्तः श्रोत्रेण
SFशृण्वन्तस् श्रोत्रेण
प्रजायमाना रेतसैवमजीविष्मेति |
SFप्रजायमानास् रेतसा एवम् अजीविष्म इति
प्रविवेश ह मनः || ११ ||
SFप्रविवेश ह मनस्
मन्त्र १२ [VI.i.12]
रेतो होच्चक्राम |
SFरेतस् ह उच्चक्राम
तत्संवत्सरं प्रोष्याऽऽगत्योवाच
SFतद् संवत्सरम् प्रोष्य आगत्य उवाच
कथमशकत मदृते जीवितुमिति |
SFकथम् अशकत मद् ऋते जीवितुम् इति
ते होचुर्
SFते ह ऊचुर्
यथा क्लीबा
SFयथा क्लीबास्
अप्रजायमाना रेतसा
SFअप्रजायमानास् रेतासा
प्राणन्तः प्राणेन
SFप्राणन्तस् प्राणेन
वदन्तो वाचा
SFवदन्तस् वाचा
पश्यन्तश्चक्षुषा
SFपश्यन्तस् चक्षुषा
शृण्वन्तः श्रोत्रेण
SFशृण्वन्तस् श्रोत्रेण
विद्वाँसो मनसैवमजीविष्मेति |
SFविद्वाँसस् मनसा एवम् अजीविष्म इति
प्रविवेश ह रेतः || १२ ||
SFप्रविवेश ह रेतस्
मन्त्र १३ [VI.i.13]
अथ ह प्राण उत्क्रमिष्यन्
SFअथ ह प्राणस् उत्क्रमिष्यन्
यथा महासुहयः सैन्धवः पड्वीशशङ्कून्संवृहेद्
SFयथा महासुहयस् सैन्धवस् पड्वीशषङ्खून्
संवृहेत्
एवँ हैवेमान्प्राणान्संववर्ह |
SFएवम् ह एव इमान् प्राणान् संववर्ह
ते होचुर्
SFते ह ऊचुर्
मा
SFमा
भगव
SFभगवस्
उत्क्रमीर्
SFउत्क्रमीस्
न वै शक्ष्यामस्त्वदृते जीवितुमिति |
SFन वै शक्ष्यामस् त्वद् ऋते जीवितुम् इति
तस्यो मे बलिं कुरुतेति
SFतस्य उ मे बलिम् कुरुत इति
तथेति || १३ ||
SFतथा इति
मन्त्र १४ [VI.i.14]
सा ह वागुवाच
SFसा ह वाक् उवाच
यद्वा अहं वसिष्ठाऽस्मि
SFयद् वै अहम् वसिष्ठा अस्मि
त्वं तद्वसिष्ठोऽसीति |
SFत्वम् तद् वसिष्ठस् असि इति
यद् वा अहं प्रतिष्ठास्मि
SFयद् वै अहम् प्रतिष्ठा अस्मि
त्वं तत्प्रतिष्ठोऽसीति चक्षुर्
SFत्वम् तत् प्रतिष्ठस् _ असि इति
यद्वा अहँ संपदस्मि
SFश्रोत्रम् क् इन् फ़िने यद् वै अहम् संपद् अस्मि
त्वं तत् संपदसीति श्रोत्रम् |
SFत्वम् तद् संपद् असि इति
यद् वा अहमायतनमस्मि
SFयद् वै अहम् आयतनम् अस्मि
त्वं तदायतनमसीति मनो
SFत्वम् तद् आयतनम् असि इति
यद्वा अहं प्रजातिरस्मि
SFयद् वै अहम् प्रजातिस् अस्मि
त्वं तत् प्रजातिरसीति रेतस्
SFत्वम् तद् प्रजातिस् असि इति
तस्यो मे किमन्नम्
SFतस्य उ मे किम् अन्नम्
किं वास इति |
SFकिम् वासस् इति
यदिदं किञ्चाऽऽश्वभ्य
SFयद् इदम् किञ्च आ श्वभ्यस्
आ कृमिभ्य
SFअ क्रिमिभ्यस् कृमिभ्यस्
आ कीटपतङ्गेभ्यस्
SFअ कीटपतङ्गेभ्यः
तत्तेऽन्नम्
SFतद् ते अन्नम्
आपो वास इति |
SFअपस् वासस् इति
न ह वा अस्यानन्नं जग्धं भवति
SFन ह वै अस्य अनन्नम् जग्धम् भवति
नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद |
SFन अनन्नम् प्रतिगृहीतम् यस् एवम् एतद् अनस्य
अन्नम् वेद
तद् विद्वाँसः श्रोत्रिया अशिष्यन्त आचामन्त्य्
SFतद् विद्वाँसस् श्रोत्रियास् अशिष्यन्तस् आचामन्ति
अशित्वाऽऽचामन्त्य्
SFअशित्वा आचामन्ति
एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते || १४ || इति प्रथमं
ब्राह्मणम् ||
SFएतम् एव तद् अन्नम् अनग्नम् कुर्वन्तस् मन्यन्ते
द्वितीयं ब्राह्मण्
मन्त्र १ [VI.ii.1]
श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम |
SFह्वेतकेतुस् हk OM. वै अरुणेयस् पन्चालानाम्
परिषदम् आजगाम
स आजगाम जैवलिं प्रवाहणं परिचारयमाणं |
SFसस् आजगाम जैवलम् प्रवाहणम् परिचारयमाणम्
तमुदीक्ष्याभ्युवाद
SFतम् उदीक्ष्य अभ्युवाद
कुमारा३ इति |
SFकुमार इति
स भोः ३ इति प्रतिशुश्राव
SFस भोस् इति प्रतिशुश्राव
अनुशिष्टोऽन्वसि पित्रेत्य्
SFअनुशिष्टस् नु असि पित्रा इति
ओमिति होवाच || १ ||
SFओम् इति ह उवाच
मन्त्र २ [VI.ii.2]
वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति |
SFवेत्थ यथा इमास् प्रजास् प्रयत्यस् विप्रतिपद्यन्ते इति
नेति होवाच |
SFन इति ह उवाच
वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति |
SFवेत्थ वेत्थ उ यथा इमम् लोकम् पुनरापद्यन्ते इति
नेति हैवोवाच |
SFन इति ह एव उवाच
वेत्थो यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिर्न
संपूर्यता३ इति
SFवेत्थ वेत्थ उ यथा असौ लोकस् एवम् बहुभिस् पुनः
पुनर् प्रयद्भिस् न संपूर्यते इति
नेति हैवोवाच |
SFन इति ह एव उवाच
वेत्थो यतिथ्यामाहुत्याँ हुतायामापः पुरुषवाचो भूत्वा
समुत्थाय वदन्ती३ इति |
SFवेत्थ वेत्थ उ यतिथ्याम् आहुत्याम् हुतायाम् आपस्
पुरुषवाचस् भूत्वा समुत्थाय वदन्ति इति
नेति हैवोवाच |
SFन इति ह एव उवाच
वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा
SFवेत्थ उ देवयानस्य वा पथस् प्रतिपदम् पितृयाणस्य वा
यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा
SFयद् कृत्वा देवयानम् वा पन्थानम् प्रतिपद्यन्ते
पितृयाणम् वा
ऽपि हि न ऋषेर्वचः श्रुतम्
SFअपि हि नस् ऋषेस् वचस् श्रुतम्
द्वे सृती अशृणवं पितृणाम्
SFद्वे सृती अशृणवम् पित्र्णाम्
अहं देवानामुत मर्त्यानाम्
SFअहम् देवानाम् उत मर्त्यानाम्
ताभ्यामिदं विश्वमेजत्समेति
SFताभ्याम् इदम् विश्वम् एजत् समेति
यदन्तरा पितरं मातरं चेति |
SFयद् अन्तरा पितरम् मातरम् च इति
नाहमत एकं चन वेदेति होवाच || २ ||
SFन अहम् अतस् एकम् चन वेद इति ह उवाच
मन्त्र ३ [VI.ii.3]
अथैनं वसत्योपमन्त्रयां चक्रे
SFअथ हk OM. एनम् वसत्या उपमन्त्रयाम् चक्रे
ऽनादृत्य वसतिं कुमारः प्रदुद्राव |
SFअनादृत्य वसतिम् कुमारस् प्रदुद्राव
स आजगाम पितरम्
SFसस् आजगाम पितरम्
तँ होवाचेति वाव किल नो भवान्पुराऽनुशिष्टानवोच इति |
SFतम् ह उवाच इति वाव किल नस् भवान् पुरा अनुशिष्टान्
अवोचस् इति
कथँ,
SFकथम्
सुमेध इति |
SFसुमेधस् इति
पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत्
SFपञ्च मा प्रश्नान् राजन्यबन्धुस् अप्राक्षीत्
ततो नैकञ्चन वेदेति |
SFततस् न एकम् चन वेद इति ह उवाचk OM. ह उवाच
कतमे त इति
SFकतमे ते इति
इम इति ह प्रतीकान्युदाजहार || ३ ||
SFइमे इति ह प्रतीकानि उदाजहार
मन्त्र ४ [VI.ii.4]
स होवाच
SFस ह उवाच
तथा नस्त्वम्
SFतथा नस् त्वम्
तात
SFतत
जानीथा यथा
SFजानीथास् यथा
यदहं किंच वेद
SFयद् अहम् किंच वेद
सर्वमहं तत्तुभमवोचं |
SFसर्वम् अहम् तद् तुभम् अवोचम्
प्रेहि तु
SFप्रेहि तु
तत्र प्रतीत्य
SFतत्र प्रतीत्य
ब्रह्मचर्यं वत्स्याव इति |
SFब्रह्मचर्यम् वत्स्यावस् इति
भवानेव गच्छत्विति |
SFभवान् एव गच्छतु इति
स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास |
SFसस् आजगाम गौतमस् यत्र प्रवाहणस्य जैवलेस् आस
तस्मा आसनमाहृत्योदकमहारयां चकाराथ हास्मा
अर्घ्यं चकार |
SFतस्मै आसनम् अहार्यkअहृत्य उदकम् आहारयाम्
चकार अथ ह अस्मै अर्घम् k अर्घ्यम् चकार
तँ होवाच
SFतम् ह उवाच
वरं भगवते गौतमाय दद्म इति || ४ ||
SFवरम् भवतेk bhagavateगौतमाय दद्मस् इति
मन्त्र ५ [VI.ii.5]
स होवाच
SFस ह उवाच
प्रतिज्ञातो म एष वरो
SFप्रतिज्ञतस् मे एष वरस्
यां तु कुमारस्यान्ते वाचमभाषथास्
SFयाम् तु कुमारस्य अन्ते वाचम् अभाषथाः
तां मे ब्रूहीति || ५ ||
SFताम् मे ब्रूहि इति
मन्त्र ६ [VI.ii.6]
स होवाच
SFस ह उवाच
दैवेषु वै
SFदैवेषु वै
गौतम
SFगौतम
तद्वरेषु
SFतद् वरेषु
मानुषाणां ब्रूहीति || ६ ||
SFमानुषाणाम् ब्रूहि इति
मन्त्र ७ [VI.ii.7]
स होवाच
SFस ह उवाच
विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां
परिधानस्य
SFविज्ञायते ह अस्ति हिरण्यस्य अपात्तम् गोअश्वानाम्
दासीनाम् प्रवाराणाम् परिधानानाम्
मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति |
SFमा नस् भवान् बहोस् अनन्तस्य अपर्यन्तस्य
अभ्यवदान्यस् भूत् इति
स वै
SFस वै
गौतम
SFगौतम
तीर्थेनेच्छासा इत्य्
SFतीर्थेन इच्छसै इति
उपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति |
SFउपैमि अहम् भवन्तम् इति वाचा ह स्म एव पूर्वे उपयन्ति
स होपायनकीर्त्योवास || ७ ||
SFस ह उपायनकीर्तौ उवाच सस् उपायनकीर्त्या उवास
मन्त्र ८ [VI.ii.8]
स होवाच
SF
तथा नस्त्वम्
SFतथा नस् त्वम्
गौतम
SFगौतम
माऽपराधास्तव च पितामहा
SFमा अपराधास् अपराधस् तव च पितामहास्
यथेयं विद्येतः पूर्वं न कस्मिँश्चन ब्राह्मण उवास
SFयथा इयम् विद्या इतस् पूर्वम् न कस्मिन् चन
ब्राह्मनस् उवास
तां त्वहं तुभ्यं वक्ष्यामि
SFताम् तु अहम् तुभ्यम् वक्ष्यामि
को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति || ८ ||
SFकस् हि त्वा एवम् ब्रुवन्तम् अर्हति प्रत्याख्यातुम् इति
मन्त्र ९ [VI.ii.9]
असौ वै लोकोऽग्निर्
SFअसौ वै लोकस् अग्निस्
गौतम |
SFगौतम
तस्याऽऽदित्य एव समिद्
SFतस्य आदित्यस् एव समिद्
रश्मयो धूमो
SFरश्मयस् धूमस्
ऽहरर्चिर्
SFअहरर्चिस्
दिशोऽङ्गारा
SFचन्द्रमास् दिशस् अङ्गारास्
अवान्तरदिशो विस्फुलिङ्गास्
SFनक्षत्राणि अवान्तरदिशस् विष्फुलिङ्गाः
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति
SFतस्मिन् एतस्मिन् अग्नौ देवास् श्रद्धाम् जुह्वति
तस्या आहुत्यै सोमो राजा संभवति || ९ ||
SFतस्यै आहुतेस् सोमस् राजा संभवति
मन्त्र १० [VI.ii.10]
पर्जन्यो वा अग्निर्
SFपर्जन्यस् वै अग्निस्
गौतम |
SFगौतम
तस्य संवत्सर एव समिद्
SFतस्य संवत्सरस् एव समिद्
अभ्राणि धूमो
SFअभ्राणि धूमस्
विद्युदर्चिर्
SFविद्युत् अर्चिस्
अशनिरङ्गारा
SFअशनिस् अङ्गारास्
ह्रादुनयो विस्फुलिङ्गास्
SFह्रादुनयस् विष्फुलिङ्गाः
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमँ राजानं जुह्वति
SFतस्मिन् एतस्मिन् अग्नौ देवास् सोमम्k add. mark 1
राजानम् जुह्वति
तस्या आहुत्यै वृष्टिः संभवति || १० ||
SFतस्यै आहुतेस् वृष्टिस् संभवति
मन्त्र ११ [VI.ii.11]
अयं वै लोकोऽग्निर्
SFअयम् वै लोकस् अग्निस्
गौतम |
SFगौतम
तस्य पृथिव्येव समिद्
SFतस्य पृथिवी एव समिद्
अग्निर्धूमो
SFवायुस् अग्निस् धूमस्
रात्रिरर्चिश्
SFरात्रिस् अर्चिः
चन्द्रमा अङ्गारा
SFदिशस् चन्द्रमास् अङ्गारास्
नक्षत्राणि विष्फुलिङ्गास्
SFअवन्तरदिशस्nakshatrANiविष्फुलिङ्गाः
तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति
SFतस्मिन् एतस्मिन् अग्नौ देवास् वृष्टिम् जुह्वति
तस्या आहुत्या अन्नँ संभवति || ११ ||
SFतस्यै आहुतेस् अन्नम् संभवति
मन्त्र १२ [VI.ii.12]
पुरुषो वा अग्निर्
SFपुरुषस् वै अग्निस्
गौतम |
SFगौतम
तस्य व्यात्तमेव समित्
SFतस्य व्यात्तम् एव समित्
प्राणो धूमो
SFप्राणस् धूमस्
वागर्चिश्
SFवाक् अर्चिस्
चक्षुरङ्गाराः
SFचक्षुस् अङ्गारास्
श्रोत्रं विस्फुलिङ्गास्
SFश्रोत्रम् विष्फुलिङ्गाः
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति
SFतस्मिन् एतस्मिन् अग्नौ देवास् अन्नम् जुह्वति
तस्या आहुत्यै रेतः संभवति || १२ ||
SFतस्यै आहुतेस् रेतस् संभवति
मन्त्र १३ [VI.ii.13]
योषा वा आग्निर्
SFयोषा वै आग्निस्
गौतम |
SFगौतम
तस्या उपस्थ एव समिल्
SFतस्यै उपस्थस् एव समिद्
लोमानि धूमो
SFलोमानि धूमस्
योनिरर्चिर्
SFयोनिस् अर्चिस्
यदन्तः करोति
SFयद् अन्तर् करोति
तेऽङ्गारा
SFते अङ्गारास्
अभिनन्दा विस्फुलिङ्गास्
SFअभिनन्दा विष्फुलिङ्गाः
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति
SFतस्मिन् एतस्मिन् अग्नौ देवास् रेतस् जुह्वति
तस्या आहुत्यै पुरुषः संभवति |
SFतस्यै आहुतेस् पुरुषस् संभवति
स जीवति यावज्जीवत्य्
SFस जीवति यावत् जीवति
अथ यदा म्रियते | १३ ||
SFअथ यदा म्रियते
मन्त्र १४ [VI.ii.14]
अथैनमग्नये हरन्ति |
SFअथ एनम् अग्नये हरन्ति
तस्याग्निरेवाग्निर्भवति
SFतस्य अग्निस् एव अग्निस् भवति
समित्समिद्
SFसमिद् समिद्
धूमो धूमो
SFधूमस् धूमस्
ऽर्चिरर्चिर्
SFअर्चिस् अर्चिस्
अङ्गारा अङ्गारा
SFअङ्गारास् अङ्गारास्
विस्फुलिङ्गा विस्फुलिङ्गास्
SFविष्फुलिङ्गास् विष्फुलिङ्गाः
तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति
SFतस्मिन् एतस्मिन् अग्नौ देवास् पुरुषम् जुह्वति
तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति || १४ ||
SFतस्यै आहुतेस् पुरुषस् भास्वरवर्णस् संभवति
मन्त्र १५ [VI.ii.15]
ते य एवमेतद्विदुर्
SFते ये एवम् एतद् विदुः
ये चामी अरण्ये श्रद्धाँ सत्यमुपासते
SFये च अमी अरण्ये श्रद्धाम् सत्यम् उपासते
तेऽर्चिरभिसंभवन्त्य्
SFते अर्चिस् अभिसंभवन्ति
अर्चिषोऽहो
SFअर्चिषस् अहः
ऽह्न आपूर्यमाणपक्षम्
SFअह्नस् आपूर्यमाणपक्षम्
आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति
SFअपूर्यमाणपक्षाद् यान् षट् मासान् उदङ् आदित्यस् एति
मासेभ्यो देवलोकम्
SFमासेभ्यस् देवलोकम्
देवलोकादादित्यम्
SFदेवलोकाद् आदित्यम्
आदित्याद्वैद्युतम्
SFआदित्याद् वैद्युतम्
तान्वैद्युतान्पुरुषो मानस एत्य ब्रह्मलोकान्
गमयति
SFतान् वैद्युताद् वैद्युतान् पुरुषस् मानसस् एत्य
ब्रह्मलोकान् गमयति
ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति |
SFते तेषु ब्रह्मलोकेषु परास् परावतस् वसन्ति
तेषां न पुनरावृत्तिः |
SFतेषाम् इहk OMन पुनरावृत्तिस् अस्तिk OM
मन्त्र १६ [VI.ii.16]
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति
SFअथ ये यज्ञेन दानेन तपसा लोकम् लोकान् जयन्ति
ते धूममभिसंभवन्ति
SFते धूमम् अभिसंभवन्ति
धूमाद्रात्रिँ,
SFधूमाद् रात्रिम्
रात्रेरपक्षीयमाणपक्षम्
SFरात्रेस् अपक्षीयमाणपक्षम्
अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति
SFअपक्षीयमाणपक्षाद् यान् षट् मासान् दक्षिणा आदित्यस् एति
मासेभ्यः पितृलोकम्
SFमासेभ्यस् पितृलोकम्
पितृलोकाच्चन्द्रम्
SFपितृलोकाद् चन्द्रम्
ते चन्द्रं प्राप्यान्नं भवन्ति
SFते चन्द्रम् प्राप्य अन्नम् भवन्ति
ताँस्तत्र देवा यथा सोमँ राजानम्
SFतान् तत्र देवास् यथा सोमम् राजानम्
आप्यायस्व
SFअप्यायस्व
अपक्षीयस्वेत्य्
SFअपक्षीयस्व इति
एवमेनाँस्तत्र भक्षयन्ति |
SFएवम् एनान् तत्र भक्षयन्ति
तेषां यदा तत्पर्यवैत्य्
SFतेषाम् यदा तद् पर्यवैति
अथेममेवाऽऽकाशमभिनिष्पद्यन्ते
SFअथ इमम् एव आकाशम् अभिनिष्पद्यन्ते
आकाशाद्वायुम्
SFअकाशाद् वायुम्
वायोर्वृष्टिम्
SFवायोस् वृष्टिम्
वृष्टेः पृथिवीम्
SFवृष्टेस् पृथिवीम्
ते पृथिवीं प्राप्यान्नं भवन्ति
SFते पृथिवीम् प्राप्य अन्नम् भवन्ति
ते पुनः पुरुषाग्नौ हूयन्ते
SFk add. mark 1 ते पुनर् पुरुषाग्नौ हूयन्ते
ततो योषाग्नौ जायन्ते
SFततस् योषाग्नौ जायन्ते
ते लोकान्प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते
SFलोकान्रत्युथायिनस् ते एवम् एव अनुपरिवर्तन्ते
ऽथ य एतौ पन्थानौ न विदुस्
SFअथ यस् एतौ पन्थानौ न विदुर्
ते कीटाः
SFते कीटास्
पतङ्गा
SFपतङ्गास्
यदिदं दन्दशूकम् || १६ || इति द्वितीयं ब्राह्मणम् ||
SFयद् इदम् दन्दशूकम्
तृतीयं ब्राह्मणम्
मन्त्र १ [VI.iii.1]
स यः कामयते
SFस यस् कामयते
महत्प्राप्नुयामित्य्
SFमहत् प्राप्नुयाम् इति
उदगयन आपूर्यमाणपक्षस्य पुण्याहे
SFउदगयने अपूर्यमाणपक्षे अपूर्यमाणपक्षस्य पुण्याहे
द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कँसे चमसे वा
सर्वौषधं फलानीति संभृत्य
SFद्वादशाहम् उपसद्व्रती भूत्वा औदुम्बरे कँसे चमसे
वा सर्वौषधम् फलानि इति संभृत्य
परिसमुह्य
SFपरिसमुह्य
परिलिप्याग्निमुपसमाधाय
परिस्तीर्याऽऽवृताऽऽज्यँ सँस्कृत्य
SFपरिलिप्य अग्निम् उपसमाधायk add. mark 1 परिस्तीर्य
अवृता आज्यम् सँस्कृत्य
पुँसा नक्षत्रेण मन्थँ संनीय
SFपुँसा नक्षत्रेण मन्थम् संनीय
जुहोति |
SFजुहोति
यावन्तो देवास्त्वयि
SFयावन्तस् देवास् त्वयि
जातवेदस्
SFजातवेदः
तिर्यञ्चो घ्नन्ति पुरुषस्य कामान्
SFतिर्यञ्चस् घ्नन्ति पुरुषस्य कामान्
तेभ्योऽहं भागधेयं जुहोमि
SFतेभ्यस् अहम् भागधेयम् जुहोमि
ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु
SFते मा तृप्तास्k add. mark 1 सर्वैस् कामैस्
तर्पयन्तु
स्वाहा |
SFस्वाहा
या तिरश्ची निपद्यते
SFया तिरश्ची निपद्यसे
ऽहं विधरणी इति
SFअहम् विधरणी इति
तां त्वा घृतस्य धारया
SFताम् त्वा घृतस्य धारया
यजे सँराधनीमहँ |
SFयजे सँराधनीम् अहम्
स्वाहा || १ ||
SFस्वाहा
मन्त्र २ [VI.iii.2]
ज्येष्ठाय स्वाहा
SFज्येष्ठाय स्वाहा
श्रेष्ठाय स्वाहेत्य्
SFश्रेष्ठाय स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
प्राणाय स्वाहा
SFप्राणाय स्वाहा
वसिष्ठायै स्वाहेत्य्
SFवसिष्ठायै स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
वाचे स्वाहा
SFवाचे स्वाहा
प्रतिष्ठायै स्वाहेत्य्
SFप्रतिष्ठायै स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
चक्षुषे स्वाहा
SFचक्षुषे स्वाहा
संपदे स्वाहेति
SFसंपदे स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
श्रोत्राय स्वाहाऽऽयतनाय स्वाहेत्य्
SFश्रोत्राय स्वाहा आयतनाय स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
मनसे स्वाहा
SFमनसे स्वाहा
प्रजात्यै स्वाहेत्य्
SFप्रजात्यै स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
रेतसे स्वाहेति
SFरेतसे स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति || २ ||
SFमन्थे सँस्रवम् अवनयति
मन्त्र ३ [VI.iii.3]
अग्नये स्वाहेत्य्
SFअग्नये स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
सोमाय स्वाहेत्य्
SFसोमाय स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
भूः स्वाहेत्य्
SFभूस् स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
भुवः स्वाहेत्य्
SFभुवस् स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
स्वः स्वाहेत्य्
SFस्वर् स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
भूर्भुवः स्वः स्वाहेत्य्
SFभूस् भुवस् स्वर् स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
ब्रह्मणे स्वाहेत्य्
SFब्रह्मणे स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
क्षत्राय स्वाहेत्य्
SFक्षत्राय स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
भूताय स्वाहेत्य्
SFभूताय स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
भविष्यते स्वाहेत्य्
SFभविष्यते स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
विश्वाय स्वाहेत्य्
SFविश्वाय स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
सर्वाय स्वाहेत्य्
SFसर्वाय स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति |
SFमन्थे सँस्रवम् अवनयति
प्रजापतये स्वाहेत्य्
SFप्रजापतये स्वाहा इति
अग्नौ हुत्वा
SFअग्नौ हुत्वा
मन्थे सँस्रवमवनयति || ३ ||
SFमन्थे सँस्रवम् अवनयति
मन्त्र ४ [VI.ii.4]
अथैनमभिमृशति
SFअथ एनम् अभिमृशति
भ्रमदसि
SFभ्रम् भ्रमत् असि
ज्वलदसि
SFज्वलत् असि
पूर्णमसि
SFपूर्णम् असि
प्रस्तब्धमस्य्
SFप्रस्तब्धम् असि
एकसभमसि
SFएकसभम् असि
हिङ्कृतमसि
SFहिङ्कृतम् असि
हिङ्क्रियमाणमस्य्
SFहिङ्क्रियमानम् असि
उद्गीथमस्य्
SFउद्गीथम् असि
उद्गीयमानमसि
SFउद्गीयमानम् असि
श्रावितमसि
SFश्रावितम् असि
प्रत्याश्रावितमस्य्
SFप्रत्याश्रावितम् असि
अर्द्रे संदीप्तमसि
SFअर्द्रे संदीप्तम् असि
विभूरसि
SFविभूस् असि
प्रभूरस्य्
SFप्रभूस् असि
अन्नमसि ज्योतिरसि
sN k variato ordineH अन्नम् असि ज्योतिस् असि
निधनमसि
SFनिधनम् असि
संवर्गोऽसीति || ४ ||
SFसंवर्गस् असि इति
मन्त्र ५ [VI.iii.5]
अथैनमुद्यच्छत्य्
SFअथ एनम् उद्यच्छति
अमँस्य्
SFअमस् असि अमँसि
आमँ हि ते महि |
SFअमम् हि ते मयि महि
स हि राजेशानोऽधिपतिः
SFस हि राजा ईशानस् अधिपतिस्
स माँ राजेशनोऽधिपतिं करोत्विति || ५ ||
SFस माम् राजा ईशनस् अधिपतिम् करोतु इति
मन्त्र ६ [Vi.iii.6]
अथैनमाचामति
SFअथ एनम् आचामति
तत्सवितुर्वरेण्यम् |
SFतद् शवितुर्वरेण्यम्
मधु वाता ऋतायते
SFमधु वातास् ऋतायते
मधु क्षरन्ति सिन्धवः |
SFमधु क्षरन्ति सिन्धवस्
माध्वीर्नः सन्त्वोषधीः |
SFमाध्वीस् नस् सन्तु ओषधीस्
भूः स्वाहा |
SFभूस् स्वाहा
भर्गो देवस्य धीमहि
SFभर्गस् देवस्य धीमहि
मधु नक्तमुतोषसो
SFमधु नक्तम् उत उषसस्
मधुमत्पार्थिवँ रजः |
SFमधुमत् पार्थिवम् रजस्
मधु द्यौरस्तु नः पिता |
SFमधु द्यौस् अस्तु नस् पिता
भुवः स्वाहा |
SFभुवस् स्वाहा
धियो यो नः प्रचोदयात् |
SFधियस् यस् नस् प्रचोदयात्
मधुमान्नो वनस्पतिर्
SFमधुमान् नस् वनस्पतिस्
मधुमाँ अस्तु सूर्यः |
SFमधुमान् अस्तु सूर्यस्
माध्वीर्गावो भवन्तु नः |
SFमाध्वीस् गवस् भवन्तु नस्
स्वः स्वाहेति |
SFस्वर् स्वाहा इति
सर्वां च सावित्रीमन्वाह
SFसर्वाम् च सावित्रीम् अन्वाह
सर्वाश्च मधुमतीर्
SFसर्वास् च मधुमतीस् सर्वास् च व्याहृतीस्k
OM.सर्वास्
अहमेवेदँ सर्वं भूयासं |
SFअहम् एव इदम् सर्वम् भूयासम्
भूर्भुवः स्वः स्वाहेत्य्
SFभूस् भुवस् स्वर् स्वाहा इति
अन्तत आचम्य
SFअन्ततस् आचम्य
पाणी प्रक्षाल्य
SFप्रक्षाल्य पाणी पाणी प्रक्षाल्य
जघनेनाग्निं प्राक्षिराः संविशति |
SFजघनेन अग्निम् प्राक्षिरास् संविशति
प्रातरादित्यमुपतिष्ठते
SFप्रातरादित्यम् उपतिष्ठते
दिशामेकपुण्डरीकमसि
SFदिशाम् एकपुण्डरीकम् असि
अहं मनुष्याणामेकपुण्डरीकं भूयासमिति |
SFअहम् मनुष्याणाम् एकपुण्डरीकम् भूयासम् इति
यथेतमेत्य
SFयथा इतम् एत्य
जघनेनाग्निमासीनो वँशं जपति || ६ ||
SFजघनेन अग्निम् आसीनस् वँशम् जपति
मन्त्र ७ [VI.iii.7]
तँ हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन
उक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषिञ्चेज्
SFतम् ह एतम् ऊद्दालकस् आरुणिस् वाजसनेयाय
याज्ञवल्क्याय अन्तेवासिने उक्त्वा उवाच अपि यस् एनम्
शुष्के
स्थाणौ निषिञ्चेत्
जायेरञ्छाखाः
SFजायेरन् शाखास्
प्ररोहेयुः पलाशानीति || ७ ||
SFप्ररोहेयुर् पलाशानि इति
मन्त्र ८ [VI.iii.8]
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन
उक्त्वोवाचापि य एनँ शुष्के स्थाणौ निषिञ्चेज्
SFएतम् उ ह एव वाजसनेयस् याज्नवल्क्यस् मधुकाय
पैङ्ग्याय अन्तेवासिने उक्त्वा उवाच अपि यस् एनम् शुष्के
स्थाणौ
निषिञ्चेत्
जायेरञ्छाखाः
SFजायेरन् शाखास्
प्ररोहेयुः पलाशानीति || ८ ||
SFप्ररोहेयुर् पलाशानि इति
मन्त्र ९ [VI.iii.9]
एतमु हैव मधुकः पैङ्ग्यश्चूलाय
भागवित्तयेऽन्तेवासिन उक्त्वोवाचापि य एनँ शुष्के स्थाणौ
निषिञ्चेज्
SFएतम् उ ह एव मधुकस् पैङ्ग्यस् चूडाय चूलाय
भागवित्तये अन्तेवासिने उक्त्वा उवाच अपि यस् एनम् शुष्के
स्थाणौ निषिञ्चेत्
जायेरञ्छाखाः
SFजायेरन् शाखास्
प्ररोहेयुः पलाशानीति || ९ ||
SFप्ररोहेयुर् पलाशानि इति
मन्त्र १० [VI.iii.10]
एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन
उक्त्वोवाचापि य एनँ शुष्के स्थाणौ
निषिञ्चेज्
SFएतम् उ ह एव चूडस्kचूलस् भागवित्तिस् जानकये
अयस्थूणाय k अयःस्थूणाय अन्तेवासिने उक्त्वा उवाच अपि
यस्
एनम् शुष्के स्थाणौ निषिञ्चेत्
जायेरञ्छाखाः
SFजायेरन् शाखास्
प्ररोहेयुः पलाशानीति || १० ||
SFप्ररोहेयुर् पलाशानि इति
मन्त्र ११ [VI.iii.11]
एतमु हैव जानकिरयस्थूणः सत्यकामाय
जाबालायान्तेवासिन उक्त्वोवाचापि य एनँ शुष्के स्थाणौ
निषिञ्चेज्
SFएतम् उ ह एव जानकिस् अयस्थूणस् अयःस्थूणस्
शत्यकामाय जाबालाय अन्तेवासिने उक्त्वा उवाच अपि यस् एनम्
शुष्के स्थाणौ निषिञ्चेत्
जायेरञ्छाखाः
SFजायेरन् शाखास्
प्ररोहेयुः पलाशानीति || ११ ||
SFप्ररोहेयुर् पलाशानि इति
मन्त्र १२ [VI.iii.12]
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनँ
शुष्के स्थाणौ निषिञ्चेज्
SFएतम् उ ह एव शत्यकामस् जाबालस् अन्तेवासिभ्यस्
उक्त्वा उवाच अपि यस् एनम् शुष्के स्थाणौ निषिञ्चेत्
जायेरञ्छाखाः
SFजायेरन् शाखास्
प्ररोहेयुः पलाशानीति |
SFप्ररोहेयुर् पलाशानि इति
तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् || १२ ||
SFतम् एतम् न अपुत्राय वा अनन्तेवासिने वा ब्रूयात्
मन्त्र १३ [VI.iii.13]
चतुरौदुम्बरो भवत्य्
SFचतुरौदुम्बरस् भवति
औदुम्बरः स्रुव
SFऔदुम्बरस् स्रुवस्
औदुम्बरश्चमस
SFऔदुम्बरस् चमसस्
औदुम्बर इध्म
SFऔदुम्बरस् इध्मस्
औदुम्बर्या उपमन्थन्यौ |
SFऔदुम्बर्यास् उपमन्थन्यौ
दश ग्राम्याणि धान्यानि भवन्ति
SFदश ग्राम्याणि धान्यानि भवन्ति
व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च
खल्वाश्च खलकुलाश्च
SFव्रीहियवास् तिलमाषास् अणुप्रियंगवस् गोधूमास् च
मसूरास् च खल्वास् च खलकुलास् च
तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्य्
SFतान् सार्धम् पिष्ट्वा दध्ना मधुना घृतेन
उपसिञ्चति तान् पिष्टान् दधनि मधुनि घृते उपसिञ्चति
आज्यस्य जुहोति || १३ || इति तृतीयं ब्राह्मणम् ||
SFअज्यस्य जुहोति
चतुर्थं ब्राह्मणम्
मन्त्र १ [VI.iv.1]
एषां वै भूतानां पृथिवी रसः
SFएषाम् वै भूतानाम् पृथिवी रसस्
पृथिव्या आपो
SFपृथिव्यास् आपस्
ऽपामोषधय
SFअपाम् ओषधयस्
ओषधीनां पुष्पाणि
SFओषधीनाम् पुष्पाणि
पुष्पाणां फलानि
SFपुष्पाणाम् फलानि
फलानां पुरुषः
SFफलानाम् पुरुषस्
पुरुषस्य रेतः || १ ||
SFपुरुषस्य रेतस्
मन्त्र २ [VI.iv.2]
स ह प्रजापतिरीक्षांचक्रे
SFस ह प्रजापतिस् ईक्षाम् चक्रे
हन्तास्मै प्रतिष्ठां कल्पयानीति
SFहन्त अस्मै प्रतिष्ठाम् कल्पयानि इति
स स्त्रियँ ससृजे |
SFस स्त्रियम् ससृजे
ताँ सृष्ट्वाऽध उपास्त
SFताम् सृष्ट्वा अधस् उपास्त
तस्मात्स्त्रियमध उपासीत
SFतस्माद् स्त्रियम् अधस् उपासीत
स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्
SFस एतम् प्राञ्चम् ग्रावाणम् आत्मने एव समुदपारयद्
तेनैनामभ्यसृजत् || २ ||
SFतेन एनाम् अभ्यसृजत
मन्त्र ३ [VI.iv.3]
तस्या वेदिरुपस्थो
SFतस्यास् वेदिस् उपस्थस्
लोमानि बर्हिश्
SFलोमानि बर्हिस्
चर्माधिषवणे
SFचर्म अधिषवणे
समिद्धो मध्यतस्तौ मुष्कौ |
SFसमिद्धस् मध्यतस् तौ मुष्कौ
स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति
SFस यावान् ह वै वाजपेयेन यजमनस्य लोकस् भवति
तावानस्य लोको भवति
SFतावान् अस्य लोकस् भवति
य एवं विद्वानधोपहासं चरत्य्
SFयस् एवम् विद्वान् अधोपहासम् चरति
आसाँ स्त्रीणाँ सुकृतं वृङ्क्ते
SFअ स अ आसाम् स्त्रीणाम् सुकृतम् वृङ्क्ते
ऽथ य इदमविद्वानधोपहासं चरत्य्
SFअथ यस् इदम् अविद्वानधोपहासम् चरति
आऽस्य स्त्रियः सुकृतं वृञ्जते || ३ ||
SFअ अस्य स्त्रियस् सुकृतम् वृञ्जते
मन्त्र ४ [VI.iv.4]
एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म
वै तद्विद्वान्नाको मौद्गल्य आहैतद्ध स्म वै
तद्विद्वान् कुमारहारित आह
SFएतद् ध स्म वै तद् विद्वान् ऊद्दालकस् आरुनिस् आह
एतद् ध स्म वै तद् विद्वान् नाकस् मौद्गल्यस् आह
एतद् ध
स्म वै तद् विद्वान् कुमारहारितस् आह
बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति
SFबहवस् मर्यास् ब्राह्मनायनास् निरिन्द्रियास्
विसुकृतस् अस्माद् लोकाद् प्रयन्ति
य इदमविद्वाँसोऽधोपहासं चरन्तीति |
SFये इदम् अविद्वाँसस् अधोपहासम् चरन्ति इति
बहु वा इदँ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति || ४ ||
SFबहु वै इदम् सुप्तस्य वा जाग्रतस् वा रेतस् स्कन्दति
मन्त्र ५ [VI.iv.5]
तदभिमृशेद्
SFतद् अभिमृशेत्
अनु वा मन्त्रयेत
SFअनु वा मन्त्रयेत
यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्
SFयद् मे अद्य रेतस् पृथिवीम् अस्कान्त्सीत्
यदोषधीरप्यसरद्
SFयद् ओषधीस् अपि असरत्
यदपः |
SFयद् अपस्
इदमहं तद्रेत आददे
SFइदम् अहम् तद् रेतस् आददे
पुनर्मामैत्विन्द्रियम्
SFपुनर्माम् ऐतु इन्द्रियम्
पुनस्तेजः
SFपुनर् तेजस्
पुनर्भगः |
SFपुनर्भगस्
पुनरग्निर्धिष्ण्या
SFपुनरग्नयस् धिष्ण्यास्
यथास्थानं कल्पन्तामित्य्
SFयथास्थानम् कल्पन्ताम् इति
अनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात्
|| ५ ||
SFअनामिकाङ्गुष्ठाभ्याम् आदाय अन्तरेण स्तनौ वा भ्रुवौ वा
निमृज्यात्
मन्त्र ६ [VI.iv.6]
अथ यद्युदक आत्मानं पश्येत्
SFअथ यदि उदके आत्मानम् पश्येत्
तदभिमन्त्रयेत
SFतद् अभिमन्त्रयेत
मयि तेज इन्द्रियं यशो द्रविणँ सुकृतमिति |
SFमयि तेजस् इन्द्रियम् यशस् द्रविणम् सुकृतम् इति
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासास्
SFश्रीस् ह वै एषा स्त्रीणाम् यद् मलोद्वासाः
तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत || ६ ||
SFतस्माद् मलोद्वाससम् यशस्विनीम् अभिक्रम्य उपमन्त्रयेत
मन्त्र ७ [VI.iv.7]
सा चेदस्मै न दद्यात्
SFसा चेद् अस्मै न दद्यात्
काममेनामवक्रिणीयात्
SFकामम् एनाम् अपक्रिणीयात् अवक्रिणीयात्
सा चेदस्मै नैव दद्यात्
SFसा चेद् अस्मै न एव दद्यात्
काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेद्
SFकामम् एनाम् यष्ट्या वा पाणिना वा उपहत्य अतिक्रामेत्
इन्द्रियेण ते यशसा यश आदद
SFइन्द्रियेन ते यशसा यशस् आददे
इत्य्
SFइति
अयशा एव भवति || ७ ||
SFअयशास् एव भवति
मन्त्र ८ [VI.iv.8]
सा चेदस्मै दद्याद्
SFसा चेद् अस्मै दद्यात्
इन्द्रियेण ते यशसा यश आदधामीति
SFइन्द्रियेण ते यशसा यशस् आदधामि इति
यशस्विनावेव भवतः || ८ ||
SFयशस्विनौ एव भवतः
मन्त्र ९ [VI.iv.9]
स यामिच्छेत्
SFस याम् इच्छेत्
कामयेत मेति
SFकामयेत मा इति
तस्यामर्थं निष्ठाय
SFतस्याम् अर्थम् निष्ठाप्य _ निष्ठाय
मुखेन मुखँ संधायोपस्थमस्या अभिमृश्य
SFमुखेन मुखम् संधाय उपस्थम् अस्यास् अभिमृश्य
जपेद्
SFजपेत्
अङ्गादङ्गात्संभवसि
SFअङ्गाद् अङ्गाद् संभवसि
हृदयादधिजायसे |
SFहृदयाद् अधिजायसे
स त्वमङ्गकषायोऽसि
SFस त्वम् अङ्गकषायस् असि
दिग्धविद्धमिव मादय्
SFदिग्धविद्धाम् इव मादय इति
एमाममूं मयीति || ९ ||
SFइमाम् अमूम् मयि इति
मन्त्र १० [VI.iv.10]
अथ यामिच्छेन्
SFअथ याम् इच्छेत्
न गर्भं दधीतेति
SFन गर्भम् दधीत इति
तस्यामर्थं निष्ठाय
SFतस्याम् अर्थम् निष्ठाप्य निष्ठाय
मुखेन मुखँ संधायाभिप्राण्यापान्याद्
SFमुखेन मुखम् संधाय अभिप्राण्य अपान्यात्
इन्द्रियेण ते रेतसा रेत आदद
SFइन्द्रियेण ते रेतसा रेतस् आददे
इत्यरेता एव भवति || १० ||
SFइति अरेतास् एव भवति
मन्त्र ११ [VI.iv.11]
अथ यामिच्छेद्
SFअथ याम् इच्छेत्
दधीतेति
SFगर्भम् दधीत इति
तस्यामर्थं निष्ठाय
SFतस्याम् अर्थम् निष्ठाप्य निष्ठाय
मुखेन मुखँ संधायापान्याभिप्राण्याद्
SFमुखेन मुखम् संधाय अपान्य अभिप्राण्यात्
इन्द्रियेण ते रेतसा रेत आदधामीति
SFइन्द्रियेण ते रेतसा रेतस् आदधामि इति
गर्भिण्येव भवति || ११ ||
SFगर्भिणी एव भवति
मन्त्र १२ [VI.iv.12]
अथ यस्य जायायै जारः स्यात्
SFअथ यस्य जायायै जारस् स्यात्
तं चेद् द्विष्याद्
SFतम् चेद् द्विष्यात्
आमपात्रेऽग्निमुपसमाधाय
SFअमपात्रे अग्निम् उपसमाधाय
प्रतिलोमँ शरबर्हिस्तीर्त्वा
SFप्रतिलोमम् शरबर्हिस् स्तीर्त्वा
तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाऽक्ता जुहुयान्
SFतस्मिन् एतास् शरभृष्टीस् प्रतिलोमास् सर्पिषा
अक्तास् जुहुयात्
मम समिद्धेऽहौषीः
SFमम समिद्धे अहौषीस्
प्राणापानौ त आददे
SFप्राणापानौ ते आददे
ऽसाविति |
SFअसौ इति
मम समिद्धेऽहौषीः
SFमम समिद्धे अहौषीस्
पुत्रपशूँस्त आददे
SFपुत्रपशून् ते आददे
ऽसाविति |
SFअसौ इति
मम समिद्धेऽहौषीर्
SFमम समिद्धे अहौषीस्
इष्टासुकृते त आददे
SFइष्टासुकृते ते आददे
ऽसाविति |
SFअसौ इति
मम समिद्धेऽहौषीर्
SFमम समिद्धे अहौषीस्
आशापराकाशौ त आददे
SFअशापराकाशौ ते आददे
ऽसाविति |
SFअसौ इति
स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति
SFस वै एष निरिन्द्रियस् विसुकृतस् अस्माद् लोकाद्
प्रैति
यमेवंविद्ब्राह्मणः शपति |
SFयम् एवंविद् ब्राह्मणस् शपति
तस्मादेवंवित्छ्रोत्रियस्य दारेण नोपहासमिच्छेद्
SFतस्माद् एवंवित्श्रोत्रियस्य दारेण न उपहासम् इच्छेत्
उत ह्येवंवित्परो भवति || १२ ||
SFउत हि एवंविद् परस् भवति
मन्त्र १३ [VI.iv.13]
अथ यस्य जायामार्तवं विन्देत्
SFअथ यस्य जायाम् आर्तवम् विन्देत्
त्र्यहं कँसे न पिबेदहतवासा
SFत्र्यहम् कँसे न पिबेत् अहतवासास्
नैनां वृषलो
SFन एनाम् वृषलस्
न वृषल्युपहन्यात् अपहन्यात्
SFन वृषली उपहन्यात् अपहन्याद्
त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् || १३ ||
SFत्रिरात्रान्ते अप्लूय अप्लुत्य व्रीहीन् अवघातयेद्
मन्त्र १४ [VI.iv.14]
स य इच्छेत्
SFस यस् इच्छेत्
पुत्रो मे शुक्लो जायेत
SFपुत्रस् मे गौरस् शुक्लस् जायेत
वेदमनुब्रुवीत
SFवेदम् अनुब्रुवीत
सर्वमायुरियादिति
SFसर्वम् आयुस् इयात् इति
क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
SFक्षीरौदनम् पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम्
ईश्वरौ जनयितवै || १४ ||
SFईश्वरौ जनयितवै
मन्त्र १५ [VI.iv.15]
अथ य इच्छेत्
SFअथ यस् इच्छेत्
पुत्रो मे कपिलः पिङ्गलो जायेत
SFपुत्रस् मे कपिलस् पिङ्गलस् जायेत
द्वौ वेदावनुब्रुवीत
SFद्वौ वेदौ अनुब्रुवीत
सर्वमायुरियादिति
SFसर्वम् आयुस् इयात् इति
दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
SFदध्योदनम् पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम्
ईश्वरौ जनयितवै || १५ ||
SFईश्वरौ जनयितवै
मन्त्र १६ [VI.iv.16]
अथ य इच्छेत्
SFअथ यस् इच्छेत्
पुत्रो मे श्यामो लोहिताक्षो जायेत
SFपुत्रस् मे श्यामस् लोहिताक्षस् जायेत
त्रीन्वेदाननुब्रुवीत
SFत्रीन् वेदान् अनुब्रुवीत
सर्वमायुरियादित्य्
SFसर्वम् आयुस् इयात् इति
उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
SFउदौदनम् पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम्
ईश्वरौ जनयितवै || १६ ||
SFईश्वरौ जनयितवै
मन्त्र १७ [VI.iv.17]
अथ य इच्छेद्
SFअथ यस् इच्छेत्
दुहिता मे पण्डिता जायेत
SFदुहिता मे पण्डिता जायेत
सर्वमायुरियादिति
SFसर्वम् आयुस् इयात् इति
तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
SFतिलौदनम् पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम्
ईश्वरौ जनयितवै || १७ ||
SFईश्वरौ जनयितवै
मन्त्र १८ [VI.iv.18]
अथ य इच्छेत्
SFअथ यस् इच्छेत्
पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां
वाचं भाषिता जायेत
SFपुत्रस् मे पण्डितस् विजिगीथस् विगीतस् समितिंगमस्
शुश्रूषिताम् वाचम् भाषिता जायेत
सर्वान्वेदाननुब्रुवीत
SFसर्वान् वेदान् अनुब्रुवीत
सर्वमायुरियादिति
SFसर्वम् आयुस् इयात् इति
माँसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्
SFमाँसौदनम् पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम्
ईश्वरौ जनयितवै |
SFईश्वरौ जनयितवै
औक्षेण वाऽऽर्षभेण वा || १८ ||
SFऔक्ष्णेण औक्षेण वा आर्षभेण वा
मन्त्र १९ [VI.iv.19]
अथाभिप्रातरेव स्थालीपाकावृताऽऽज्यं चेष्टित्वा
SFअथ अभिप्रातरेव स्थालीपाकावृता आज्यम् चेष्टित्वा
स्थालीपाकस्योपघातं जुहोत्य्
SFस्थालीपाकस्य उपघातम् जुहोति
अग्नये स्वाहा
SFअग्नये स्वाहा
ऽनुमतये स्वाहा
SFअनुमतये स्वाहा
देवाय सवित्रे सत्यप्रसवाय स्वाहेति
SFदेवाय शवित्रे सत्यप्रसवाय स्वाह इति
हुत्वोद्धृत्य प्राश्नाति |
SFहुत्वा उद्धृत्य प्राश्नाति
प्राश्येतरस्याः प्रयच्छति |
SFप्राश्य इतरस्यास् प्रयच्छति
प्रक्षाल्य पाणी
SFप्रक्षाल्य पाणी
उदपात्रं पूरयित्वा
SFउदपात्रम् पूरयित्वा
तेनैनां त्रिरभ्युक्षत्य्
SFतेन एनाम् त्रिस् अभ्युक्षति
उत्तिष्ठातो
SFउत्तिष्ठ अतस्
विश्वावसो
SFविश्वावसो
ऽन्यामिच्छ प्रपूर्व्याँ
SFअन्याम् इच्छ प्रपूर्व्याम्
सं जायां पत्या सहेति || १९ ||
SFसम् जायाम् पत्या सह _ इति
मन्त्र २० [VI.iv.20]
अथैनामभिपद्यते
SFअथ एनाम् अभिपद्यते
ऽमोऽहमस्मि
SFअमस् अहम् अस्मि
सा त्वँ
SFसा त्वम्
सा त्वमस्य्
SFसा त्वम् असि
अमोऽहँ
SFअमस् अहम्
सामाहमस्मि
SFसाम अहम् अस्मि
ऋक्त्वम्
SFऋक् त्वम्
द्यौरहम्
SFद्यौस् अहम्
पृथिवी त्वं |
SFपृथिवी त्वम्
तावेहि सँरभावहै
SFतौ एहि सँरभावहै
सह रेतो दधावहै
SFसह रेतस् दधावहै
पुँसे पुत्राय वित्तय इति || २० ||
SFपुँसे पुत्राय वित्तये इति
मन्त्र २१ [VI.iv.21]
अथास्या ऊरू विहापयति
SFअथ अस्यै ऊरू विहापयति
विजिहीथां द्यावापृथिवी इति |
SFविजिहीथाम् द्यावापृथिवी इति
तस्यामर्थं निष्ठाय
SFतस्याम् अर्थम् निष्ठाप्य निष्ठाय
मुखेन मुखँ संधाय
SFमुखेन मुखम् संधाय
त्रिरेनामनुलोमामनुमार्ष्टि
SFत्रिस् एनाम् अनुलोमाम् अनुमार्ष्टि
विष्णुर्योनिं कल्पयतु
SFविष्णुस् योनिम् कल्पयतु
त्वष्टा रूपाणि पिँशतु
SFत्वष्टा रूपाणि पिंशतु
आसिञ्चतु प्रजापतिर्
SFअसिन्चतु प्रजापतिस्
धाता गर्भं दधातु ते |
SFधाता गर्भम् दधातु ते
गर्भं धेहि
SFगर्भम् धेहि
सिनीवालि
SFशिनीवालि
गर्भं धेहि
SFगर्भम् धेहि
पृथुष्टुके |
SFपृथुष्टुके
गर्भं ते आश्विनौ देवाव्
SFगर्भम् ते आश्विनौ देवौ
आधत्तां पुष्करस्रजौ || २१ ||
SFअधत्ताम् पुष्करस्रजौ
मन्त्र २२ [VI.iv.22]
हिरण्मयी अरणी
SFहिरण्यनी हिरण्मयी अरणी
याभ्यां निर्मन्थतामाश्विनौ
SFयाभ्याम् निर्मन्थताम् आश्विनौ देवौk OM.
तं ते गर्भँ हवामहे
SFतम् ते गर्भम् हवामहे
दशमे मासि सूतये |
SFदशमे मासि सूतवे सूतये
यथाऽग्निगर्भा पृथिवी
SFयथा अग्निगर्भा पृथिवी
यथा द्यौरिन्द्रेण गर्भिणी
SFयथा द्यौस् ९न्द्रेण गर्भिणी
वायुर्दिशां यथा गर्भ
SFवायुस् दिशाम् यथा गर्भस्
एवं गर्भं दधामि ते
SFएवम् गर्भम् दधामि ते
ऽसाविति || २२ ||
SFअसौ इति नाम गृह्णातिk OM. नाम
मन्त्र २३ [VI.iv.23]
सोष्यन्तीमद्भिरभ्युक्षति
SFसोष्यन्तीम् अद्भिस् अभ्युक्षति
यथा वायुः पुष्करिणीँ
SFयथा वातस् वायुस् पुष्करिणीम्
समिङ्गयति सर्वतः |
SFसमिङ्गयति सर्वतस्
एवा ते गर्भ एजतु
SFएव आ ते गर्भस् एजतु
सहावैतु जरायुणा |
SFसह अवैतु जरायुणा
इन्द्रस्यायं व्रजः कृतः
SF९न्द्रस्य अयम् व्रजस् कृतस्
सार्गलः सपरिश्रयः |
SFसार्गलस् सपरिश्रयः
तम्
SFतम्
ईन्द्र
SFईन्द्र
निर्जहि
SFनिर्जहि
गर्भेण सावराँ सहेति || २३ ||
SFगर्भेण सावराम् सह इति
मन्त्र २४ [VI.iv.24]
जातेऽग्निमुपसमाधायाङ्क आधाय
SFजाते अग्निम् उपसमाधाय अङ्के आधाय
कँसे पृषदाज्यँ संनीय
SFकँसे पृषदाज्यम् संनीय
पृषदाज्यस्योपघातं जुहोत्य्
SFपृषदाज्यस्य उपघातम् जुहोति
अस्मिन्सहस्रं पुष्यासम्
SFअस्मिन् सहस्रम् पुष्यासम्
एधमानः स्वे गृहे |
SFएधमानस् स्वगृहे स्वे गृहे
अस्योपसन्द्यां मा च्छैत्सीत्
SFअस्य उपसद्याम् उपसन्द्याम् मा छैत्सीत्
प्रजया च पशुभिश्च
SFप्रजया च पशुभिस् च
स्वाहा |
SFस्वाहा
मयि प्राणाँस्त्वयि मनसा जुहोमि
SFमयि प्राणान् त्वयि मनसा जुहोमि
स्वाहा |
SFस्वाहा
यत् कर्मणाऽत्यरीरिचम्
SFयद् कर्मणा अत्यरीरिचम्
यद्वा न्यूनमिहाकरम् |
SFयद् वा न्यूनम् इह अकरम्
अग्निष्टत्स्विष्टकृद्विद्वान्
SFअग्निस् तद् स्विष्टकृत् विद्वान्
स्विष्टँ सुहुतं करोतु नः
SFस्विष्टम् सुहुतम् करोतु नस्
स्वाहेति || २४ ||
SFस्वाहा इति
मन्त्र २५ [VI.iv.25]
अथास्य दक्षिणं कर्णमभिनिधाय
SFअथ अस्य दक्षिणम् कर्णम् अभिनिधाय
वाग्वागिति त्रिर्
SFवाक् वाक् इति त्रिस्
अथ
SFअथ
दधि मधु घृतँ संनीयानन्तर्हितेन जातरूपेण प्राशयति |
SFदधि मधु घृतम् संनीय अनन्तर्हितेन जातरूपेण
प्राशयति
भूस्ते दधामि
SFभूस् ते दधामि
भुवस्ते दधामि
SFभुवस् ते दधामि
स्वस्ते दधामि
SFस्वर् ते दधामि
भूर्भुवः स्वः सर्वं त्वयि दधामीति || २५ ||
SFभूस् भुवस् स्वर् सर्वम् त्वयि दधामि इति
मन्त्र २६ [VI.iv.26]
अथास्य नाम करोति
SFअथ अस्य नाम करोति
वेदोऽसीति |
SFवेदस् असि इति
तदस्यैतद्गुह्यमेव नाम भवति || २६ ||
SFतद् अस्य एतद् गुह्यम् एव नाम भवति
मन्त्र २७ [VI.iv.27]
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति
SFअथ एनम् मात्रे प्रदाय स्तनम् प्रयच्छति
यस्ते स्तनः शशयो यो मयोभूर्
SFयस् ते स्तनस् शशयस् यस् मयोभूस्
यो रत्नधा वसुविद्यः सुदत्रो
SFयस् रत्नधा वसुविद् यस् सुदत्रस्
येन विश्वा पुष्यसि वार्याणि
SFयेन विश्वा पुष्यसि वार्याणि
सरस्वति
SFशरस्वति
तमिह धातवे करिति || २७ ||
SFतम् इह धातवे कर् इति
मन्त्र २८ [VI.iv.28]
अथास्य मातरमभिमन्त्रयते |
SFअथ अस्य मातरम् अभिमन्त्रयते
इलाऽसि मैत्रावरुणी
SF९डा असि मैत्रावरुणी
वीरे वीरमजीजनत् |
SFवीरे वीरम् अजीजनथास् अजीजनत्
सा त्वं वीरवती भव
SFसा त्वम् वीरवती भव
याऽस्मान्वीरवतोऽकरदिति |
SFया अस्मान् वीरवतस् अकरत् इति
तं वा एतमाहुर्
SFतम् वै एतम् आहुर्
अतिपिता बताभूर्
SFअतिपिता बत अभूस्
अतिपितामहो बताभूः |
SFअतिपितामहस् बत अभूस्
परमां बत काष्ठां प्रापयच्छ्रिया यशसा ब्रह्मवर्चसेन
SFपरमाम् बत काष्ठाम् प्राप श्रिया यशसा
ब्रह्मवर्चसेन
य एवंविदो ब्राह्मणस्य पुत्रो जायत इति || २८ || इति चतुर्थं
ब्राह्मणम् ||
SFयस् एवंविदस् ब्राह्मणस्य पुत्रस् जायते इति
पञ्चमं ब्राह्मणम्
मन्त्र १ [VI.v.1]
अथ वँशः |
SFअथ वँशस्
पौतिमाषीपुत्रः कात्यायनीपुत्रात्
SFपौतिमाषीपुत्रस् कात्यायनीपुत्राद्
कात्यायनीपुत्रो गौतमीपुत्राद्
SFकात्यायनीपुत्रस् गौतमीपुत्राद्
गौतमीपुत्रो भारद्वाजीपुत्राद्
SFगौतमीपुत्रस् भारद्वाजीपुत्राद्
भारद्वाजीपुत्रः पाराशरीपुत्रात्
SFभारद्वाजीपुत्रस् पाराशरीपुत्राद्
पाराशरीपुत्र औपस्वस्तीपुत्राद्
SFपाराशरीपुत्रस् आउपस्वस्तीपुत्राद्
औपस्वस्तीपुत्रः पाराशरीपुत्रात्
SFऔपस्वस्तीपुत्रस् पाराशरीपुत्राद्
पाराशरीपुत्रः कात्यायनीपुत्रात्
SFपाराशरीपुत्रस् कात्यायनीपुत्राद्
कात्यायनीपुत्रः कौशिकीपुत्रात्
SFकात्यायनीपुत्रस् कौशिकीपुत्राद्
कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च
SFकौशिकीपुत्रस् आलम्बीपुत्राद् च वैयाघ्रपदीपुत्राद् च
वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च
SFवैयाघ्रपदीपुत्रस् काण्वीपुत्राद् च कापीपुत्राद् च
कापीपुत्रः || १ ||
SFकापीपुत्रस्
मन्त्र २ [VI.v.2]
आत्रेयीपुत्राद्
SFअत्रेयीपुत्राद्
आत्रेयीपुत्रो गौतमीपुत्राद्
SFअत्रेयीपुत्रस् गौतमीपुत्राद्
गौतमीपुत्रो भारद्वाजीपुत्राद्
SFगौतमीपुत्रस् भारद्वाजीपुत्राद्
भारद्वाजीपुत्रः पाराशरीपुत्रात्
SFभारद्वाजीपुत्रस् पाराशरीपुत्राद्
पाराशरीपुत्रो वात्सीपुत्राद्
SFपाराशरीपुत्रस् वात्सीपुत्राद्
वात्सीपुत्रः पाराशरीपुत्रात्
SFवात्सीपुत्रस् पाराशरीपुत्राद्
पाराशरीपुत्रो वार्कारुणीपुत्राद्
SFपाराशरीपुत्रस् वार्कारुनीपुत्राद्
वार्कारुणीपुत्रो वार्कारुणीपुत्राद्
SFवार्कारुणीपुत्रस् वार्कारुणीपुत्राद्
वार्कारुणीपुत्र आर्तभागीपुत्राद्
SFवार्कारुणीपुत्रस् अर्तभागीपुत्राद्
आर्तभागीपुत्रः शौङ्गीपुत्राच्
SFअर्तभागीपुत्रस् हौङ्गीपुत्राद्
चौङ्गीपुत्रः साङ्कृतीपुत्रात्
SFहौङ्गीपुत्रस् शान्कृतिपुत्राद्
साङ्कृतीपुत्र आलम्बायनीपुत्राद्
SFशाङृतिपुत्रस् अलम्बायनीपुत्राद्
आलम्बायनीपुत्र आलम्बीपुत्राद्
SFअलम्बायनीपुत्रस् अलम्बीपुत्राद्
आलम्बीपुत्रो जायन्तीपुत्राज्
SFअलम्बीपुत्रस् जायन्तीपुत्राद्
जायन्तीपुत्रो माण्डूकायनीपुत्रान्
SFजायन्तीपुत्रस् माण्डूकायनीपुत्राद्
माण्डूकायनीपुत्रो माण्डूकीपुत्रान्
SFमाण्डूकायनीपुत्रस् माण्डूकीपुत्राद्
माण्डूकीपुत्रः शाण्डिलीपुत्राच्
SFमाण्डूकीपुत्रस् हाण्डिलीपुत्राद्
छाण्डिलीपुत्रो राथीतरीपुत्राद्
SFहाण्डिलीपुत्रस् राथीतरीपुत्राद्
राथीतरीपुत्रो भालुकीपुत्राद्
SFराथीतरीपुत्रस् भालुकीपुत्राद्
भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां
SFभालुकीपुत्रस् क्रौञ्चिकीपुत्राभ्याम्
क्रौञ्चिकीपुत्रौ वैदभृतीपुत्राद्
SFक्रौञ्चिकीपुत्रौ वैदभृतीपुत्राद्
वैदभृतीपुत्रः कार्शकेयीपुत्रात्
SFवैदभृतीपुत्रस् कार्शकेयीपुत्राद्
कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात्
SFकार्शकेयीपुत्रस् प्राचीनयोगीपुत्राद्
प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात्
SFप्राचीनयोगीपुत्रस् साञ्जीवीपुत्राद्
साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः
SFसाञ्जीवीपुत्रस् प्राश्नीपुत्राद् असुरिवासिनस्
प्राश्नीपुत्र आसुरायणाद्
SFप्राश्नीपुत्रस् असुरायणाद्
आसुरायण आसुरेर्
SFअसुरायणस् असुरेस्
आसुरिः || २ ||
SFअसुरिस्
मन्त्र ३ [VI.v.3]
याज्ञवल्क्याद्
SFयाज्ञवल्क्याद्
याज्ञवल्क्य ऊद्दालकाद्
SFयाज्ञवल्क्यस् ऊद्दालकाद्
ऊद्दालकोऽरुणाद्
SFऊद्दालकस् आरुणाद्
अरुण उपवेशेर्
SFअरुणस् ऊपवेशेस्
उपवेशिः कुश्रेः
SFऊपवेशिस् कुश्रेस्
कुश्रिर्वाजश्रवसो
SFकुश्रिस् वाजश्रवसस्
वाजश्रवा जीह्वावतो बाध्योगाज्
SFवाजश्रवास् जीह्वावतस् बाध्योगाद्
जीह्वावान्बाध्योगोऽसिताद्वार्षगणाद्
SFजीह्वावान् बाध्योगस् आसिताद् वार्षगणाद्
असितो वार्षगणो हरितात्कश्यपाद्द्
SFअसितस् वार्षगणस् हरिताद् कश्यपाद्
हरितः कश्यपः शिल्पात्कश्यपाच्
SFहरितस् कश्यपस् हिल्पात् कश्यपाद्
छिल्पः कश्यपः कश्यपान्नैध्रुवेः
SFहिल्पस् कश्यपस् कश्यपान् नैध्रुवेस्
कश्यपो नैध्रुविर्वाचो
SFकश्यपस् नैध्रुविस् वाचस्
वागम्भिण्याः
SFवाक् आम्भिण्यास्
अम्भिण्यादित्याद्
SFअम्भिणी आदित्याद्
आदित्यानीमानि शुक्लानि यजूँषि वाजसनेयेन
याज्ञवल्क्येनाऽऽख्ययन्ते || ३ ||
SFआदित्यानि इमानि शुक्लानि यजूँषि वाजसनेयेन
याज्ञवल्क्येन आख्ययन्ते
मन्त्र ४ [VI.v.4]
समानमा साञ्जीवीपुत्रात्
SFशमानम् आ साञ्जीवीपुत्राद्
सञ्जिवीपुत्रो माण्डूकायनेर्
SFसञ्जिवीपुत्रस् माण्डूकायनेस्
माण्डूकायनिर्माण्डव्यान्
SFमाण्डूकायनिस् माण्डव्याद्
माण्डव्यः कौत्सात्
SFमाण्डव्यस् कौत्साद्
कौत्सो माहित्थेर्
SFकौत्सस् माहित्थेस्
माहित्थिर्वामकक्षायणाद्
SFमाहित्थिस् वामकक्षायणाद्
वामकक्षायणः शाण्डिल्याच्
SFवामकक्षायणस् शाण्डिल्याद्
छाण्डिल्यो वात्स्याद्
SFहाण्डिल्यस् वात्स्याद्
वात्स्यः कुश्रेः
SFवात्स्यस् कुश्रेस्
कुश्रिर्यज्ञवचसो राजस्तम्बायनाद्
SFकुश्रिस् यज्ञवचसस् राजस्तम्बायनाद्
यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात्
SFयज्ञवचा राजस्तम्बायनस् तुराद् कावषेयाद्
तुरः कावषेयः प्रजापतेः
SFतुरस् कावषेयस् प्रजापतेस्
प्रजापतिर्ब्रह्मणो
SFप्रजापतिस् ब्रह्मणस्
ब्रह्म स्वयंभु |
SFब्रह्म स्वयंभु
ब्रह्मणे नमः || ४ || इति पञ्चमं ब्राह्मणम् ||
SFब्रह्मणे नमस्
इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः ||
इति वाजसनेयके बृहदारण्यकोपनिषत्समाप्ता ||
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com