||वाल्मीकि रामायण बालकाण्ड ||
||ध्यान श्लोकाः ||
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् |
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ||||
सर्वविघ्नप्रशमनं सर्वसिद्धिकरं परम् |
सर्वजीवप्रणेतारं वंदे विजयदं हरिम् ||||
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् |
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसांतकम् ||||
वेदवेद्ये परे पुंसि जाते दशरथात्मजे |
वेदः प्राचेदसादासीत् साक्षाद्रामायणात्मना ||||
आपदामपहर्तारं दातारं सर्वसंपदाम् |
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ||||
तदुपगत समाससन्धि योगम् |
सममधुरोपनतार्थवाक्यबद्धम् |
रघुवरचरितं मुनिप्रणीतम् |
दशशिरश्च वधं निशामयद्ध्वम् ||||
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे |
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् |
अग्रे वाचयति प्रभञ्जनसुतेतत्त्वम्मुनिभ्यः परम् |
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ||||
वाल्मीकेर्मुनिसिंहस्य कविता वनचारिणः |
श्रुण्वन्रामकथानादं को न याति परां गतिम् ||||
हनूमानञ्जनीसूनुः वायुपुत्रो महाबलः |
रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ||||
उदधिक्रमणश्चैव सीतासंदेश हारकः |
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ||||
महाव्याकरणांभोधि मंथमानसमंदरम् |
कवयन्तं रामकीर्त्या हनूमंतमुपास्महे ||||
वायुर्भीमो भीमनादो महूजाः सर्वेशां च प्राणिनां प्राणभूतः |
अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः ||||
ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषि योगे |
बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्वचकश्च नैव ||||
वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहंता |
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ||||
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतांवरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ||||
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः |
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ||||
आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् |
पारिजाततरुमूलवासिनं भावयामि पवमाननंदनम् ||||
यः सर्वगुणसंपूर्णः सर्वदोष विवर्जितः |
प्रीयतां प्रीतयेवालं विष्णुर्मे परमः सुहृत् ||||
सूक्तिरत्नाकरे रम्ये मूलरामायणार्णवे |
विहरन्तो महीयांसः प्रियंतां गुरवो मम ||||
बुद्धिर्बलं यशो धैर्यं निर्भयत्वं अरोगता |
अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ||||
||सङ्कल्प ||
श्री सीतालक्ष्मणभरतशत्रुघ्नहनुमत्समेत श्री रामचंद्र प्रभोः
प्रसादेन अस्मच्चिन्तित सकलाभीष्टसिद्ध्यर्थं भार्गवविजयात्मक
श्रीमद्रामायणघट्टपारायणमहं करिष्ये |
||अथ पञ्चसप्ततितमः सर्गः ||
राम दाशरथे रामो विर्यं ते श्रूयतेऽद्भुतम् |
धनुषो भेदनं चैव निखिलेन मया श्रुतम् ||१||
तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया |
तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम् ||२||
तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः |
पूजयस्व शरेणैव स्वबलं दर्शयस्व च ||३||
तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे |
द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्ळाघ्यस्य राघव ||४||
तस्य तद् वचनं श्रुत्वा राजा दशरथस्तदा |
विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत् ||५||
क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महायशाः |
बालानां मम पुत्राणामभयं दातुमर्हसि ||६||
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम् |
सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि ||७||
स त्वं धर्मपरो भूत्वा कश्यपाय वसुंधराम् |
दत्वा वनमुपागम्य महेन्द्रकृतकेतनः ||८||
मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने |
न चैकस्मिन् हते रामे सर्वे जीवामहे वयम् ||९||
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान् |
अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत ||१०||
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते |
दृढे बलवती मुख्ये सुकृते विश्वकर्मणा ||११||
अतिसृष्टं सुरैरेकं त्रयम्बकाय युयुत्सवे |
त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया ||१२||
इदं द्वितीयं दुर्धर्षं विष्णोर्दत्ते सुरोत्तमैः ||१३||
तदिदं वैष्णवं राम धनुः परपुरञ्जयम् |
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदं ||१४||
तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम् |
शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया ||१५||
अभिप्रायं तु विज्ञाय देवतानां पितामहः |
विरोधं जनयामास तयोः सत्यवतां वरः ||१६||
विरोधे च महद्युद्धमभवद् रोमहर्षणम् |
शितिकण्ठस्य विष्णोश्च परस्परजिगीषिणोः ||१७||
तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम् |
हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ||१८||
देवैस्तदा समागम्य सर्षिसङ्घैः सचारणैः |
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ ||१९||
जृम्भितं तद् धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः |
अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा ||२०||
धनू रुद्रस्तु सङ्क्रुद्धो विदेहेषु महायशाः |
देवरातस्य राजर्षेः ददौ हस्ते ससायकं ||२१||
इदं च वैष्णवं राम धनुः परपुरञ्जयम् |
ऋचीके भार्गवे प्रादाद् विष्णुः संन्यासमुत्तमम् ||२२||
ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः |
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः ||२३||
न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते |
अर्जुनो विदधे मृत्युं प्राकृताः बुद्धिमास्थितः ||२४||
वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम् |
क्षत्रमुत्सादयन् रोषात् जातं जातमनेकशः ||२५||
पृथिवीं चाखिलां प्राप्य कश्यपाय महात्मने |
यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे ||२६||
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः |
श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः ||२७||
तदिदं वैष्णवं राम पितृपैतामहं महत् |
क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम् ||२८||
योजयस्व धनुःश्रेष्ठे शरं परपुरञ्जयम् |
यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः ||२९||
||इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये ||
||बालकाण्डे पञ्चसप्ततितमः सर्गः ||
||अथ षट्सप्ततितमः सर्गः ||
श्रुत्त्वा तद् जामदग्न्यस्य वाक्यं दाशरथिस्तदा |
गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ||१||
कृतवानसि यत् कर्म श्रुतवानस्मि भार्गव |
अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः ||२||
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव |
अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम् ||३||
इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम् |
शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः ||४||
आरोप्य तद्धनू रामः शरं सज्यं चकार ह |
जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः ||५||
ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च |
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ||६||
इमां पादगतिं राम तपोबलसमार्जितान् |
लोकानप्रतिमान् वाते हनिष्यामि यदिच्छसि ||७||
न ह्ययं वैष्णवो दिव्यः शरः परपुरञ्जयः |
मोघः पतति वीर्येण बलदर्पविनाशनः ||८||
वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः |
पितामहं पुरस्कृत्य समेतास्तत्र सङ्घशः ||९||
गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः |
यक्षराक्षसनागाश्च तद् द्रष्टुं महदद्भुतम् ||१०||
जडीकृते तदा लोके रामे वरधनुर्धरे |
निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत ||११||
तेजोऽभिहतवीर्यत्वात् जामदग्न्यो जडीकृतः |
रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह ||१२||
कश्यपाय मया दत्ता यदा पूर्वं वसुंधरा |
विषये मे न वस्तव्यमिति मां कश्यपोऽब्रवीत् ||१३||
सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसेऽनिशम् |
कृता प्रतिज्ञा काकुत्स्थ कृता भूः काश्यपस्य ह ||१४||
तादिमां त्वंगतिं वीर हन्तुं नार्हसि राघव |
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ||१५||
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया |
जहि ताञ्छरमुख्येन मा भूत् कालस्य पर्ययः ||१६||
अक्षयं मधुहन्तारं जानामि त्वां सुरोत्तमम् |
धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप ||१७||
एते सुरगणाः सर्वे निरीक्षन्ते समागताः |
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ||१८||
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति |
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ||१९||
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत |
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ||२०||
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् |
रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ||२१||
स हतान् दृश्य रामेण स्वाँल्लोकांस्तपसार्जितान् |
जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम् ||२२||
ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा |
सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ||२३||
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च |
ततः प्रदक्षिणं कृत्वा जगामात्मगतिं प्रभुः ||२४||
||इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये ||
||बालकाण्डे षट्सप्ततितमः सर्गः ||
||भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु ||
Encoded and proofread by Shrisha Rao shrao at dvaita.org
%@@1
% File name : chp75_76.itx
%--------------------------------------------
% Text title : vAlmIki rAmAyaNa bAlakANDa
% Author :
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Description/comments : ????Source
% Transliterated by : Shrisha Rao shrao at dvaita.org May 16, 1996
% Proofread by : Shrisha Rao shrao at dvaita.org May 16, 1996
% Latest update : November 1, 2010
% Send corrections to : sanskrit@cheerful.com
%
% Special Instructions:
% i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty
% Transliteration scheme: ITRANS 5.2
% Site access :
% http://sanskritdocuments.org
% http://sanskrit.gde.to/
%-----------------------------------------------------
% The text is to be used for personal studies and research only.
% Any use for commercial purpose is prohibited as a 'gentleman's'
% agreement.
% @@2
%
% Commands upto engtitle are
% needed for devanaagarii output and formatting.
%--------------------------------------------------------
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Some help is available at Notes
on Viewing and Creating Devanagari Documents with Unicode Support.
Some of the Unicode fonts for Devanagari are linked at http://devanaagarii.net and for
Sanskrit Transliteration/Diacritics are available at IndUni
Fonts.
Questions, comments? Write to sanskrit@cheerful.com .