.. देवी उपनिषत् ..
.. अथ देव्युपनिषत् ..
अथर्ववेदीय शाक्तोपनिषत् ..
श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति .
त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभि-
व्यर्शेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दध्हातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. सर्वे वै देवा देवीमुपतस्थुः . कासि त्वं महादेवि .
साब्रवीदहं ब्रह्मस्वरूपिणी . मत्तः प्रकृतिपुरुषात्मकं
जगच्छून्यं चाशून्यं च .
अहमानन्दानानन्दाः विज्ञानाविज्ञाने अहम् . ब्रह्मा ब्रह्मणि
वेदितव्ये .
इत्याहाथर्वणि श्रुतिः .. १..
अहं पञ्चभूतान्यभूतानि . अहमखिलं जगत् .
वेदोऽहमवेदोऽहम् . विद्याहमविद्याहम् . अजाहमनजाहम् .
अधश्चोर्ध्वं च तिर्यक्चाहम् .
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः . अहं
मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी
अहमश्विनावुभौ . अहं सोमं त्वष्टारं पूषणं भगं
दधाम्यहम् .
विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि . अहं
दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते .. २..
अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य
मूर्धन्मम योनिरप्स्वन्तः समुद्रे . य एवं वेद स
देवीपदमाप्नोति . ते देवा अब्रुवन् . नमो देव्यै महादेव्यै
सततं नमः . नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म
ताम् .. ३..
तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु
जुष्टाम् . दुर्गां देवीं शरणमहं प्रपद्ये
सुतरां नाशयते तमः .. ४..
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति
. सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु
.. ५..
कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् .
सरस्वतीमदितिं दक्षदुहितरं नमामः
पावनां शिवाम् .. ६..
महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि . तन्नो देवी
प्रचोदयात् .. ७..
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव . तां देवा
अन्वजायन्त भद्रा अमृतबन्धवः .. ८..
कामो योनिः कामकला वज्रपाणिर्गुहा हसा .
मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया च
पुनः कोशा विश्वमाता दिवि द्योम् .. ९..
एषात्मशक्तिः . एषा विश्वमोहिनी
पाशाङ्कुशधनुर्बाणधरा . एषा श्रीमहाविद्या .
य एवं वेद स शोकं तरति . नमस्ते अस्तु भगवति भवति
मातरस्मान्पातु सर्वतः .
सैषाष्टौ वसवः . सैषैकादश रुद्राः . सैषा
द्वादशादित्याः . सैषा विश्वेदेवाः
सोमपा असोमपाश्च . सैषा यातुधानु असुरा रक्षांसि
पिशाचयक्षाः सिद्धाः .
सैषा सत्त्वरजस्तमांसि . सैषा प्रजापतीन्द्रमनवः .
सैषा ग्रहा नक्षत्रज्योतींषि
कलाकाष्ठादिकालरूपिणी . तामहं प्रणौमि नित्यम् .
तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् .
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ..
१०..
वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् . अर्धेन्दुलसितं
देव्या बीजं सर्वार्थसाधकम् .. ११..
एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः . ध्यायन्ति
परमानन्दमया ज्ञानाम्बुराशयः .. १२..
वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् . सूर्यो
वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकः .. १३..
नारायणेन संयुक्तो वायुश्चाधरसंयुतः . विच्चे
नवार्णकोऽर्णः स्यान्महदानन्ददायकः .. १४..
हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् .
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् .
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे .. १५..
नमामि त्वामहं देवीं महाभयविनाशिनीम् .
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् .. १६..
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया .
यस्या अन्तो न विद्यते तस्मादुच्यते अनन्ता .
यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या . यस्या
जननं नोपलभ्यते तस्मादुच्यतेऽजा .
एकैव सर्वत्र वर्तते तस्मादुच्यत एका . एकैव विश्वरूपिणी
तस्मादुच्यते नैका ऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका
नैकेति .
मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी .
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी .. १७..
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता .
[दुर्गात्संत्रायते यस्माद्देवी दुर्गेति कथ्यते .. १८..
प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ..]
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् .
नमामि भवभीतोऽहं संसारार्णवतारिणीम् .. १९..
इदमथर्वशीर्षं योऽधीते
पञ्चाथर्वशीर्षजपफलमवाप्नोति .
इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति .
शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति .
शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः .. २०..
दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते . महादुर्गाणि
तरति महादेव्याः प्रसादतः .. २१..
प्रातरधीयानो रात्रिकृतं पापं नाशयति .
सायमधीयानो दिवसकृतं पापं नाशयति .
तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति . निशीथे
तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति .
नूतनप्रतिमायां जप्त्वा देवतासांनिध्यं भवति .
प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति .
भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति
. य एवं वेदेत्युपनिषत् .. २२..
ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्राः .
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभि-
र्व्यशेम देवहितं यदायुः ..
स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः .
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु ..
ॐ शान्तिः शान्तिः शान्तिः ..
.. इति श्रीदेव्युपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com