.. धाराह्यनुग्रहाष्टकम् ..
ईश्वर उवाच
मातर्जगद्रचन- नाटक- सूत्रधार
स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् |
ईशोऽप्यमीश्वरपदं समुपैति तादृक्
कोऽन्यः स्तवं किमिव तावकमादधातु || १||
नामानि किन्तु गृणतस्तव लोकतुण्डे
नाडम्बरं स्पृशति दण्डधरस्य दण्डः |
यल्लेशलम्बित- भवाम्बुनिधिर्यतो यत्
त्वन्नामसंसृतिरियं ननु नः स्तुतिस्ते || २||
त्वच्चिन्तनादर- समुल्लसदप्रमेया-
ऽऽनन्दोदयात् समुदितः स्फुटरामहर्षः |
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-
मभ्यर्थयेऽर्थमिति पूरयताद् दयालो || ३||
इन्द्रेन्दुमौलि- विजि- केशवमौलिरत्न-
रोचिश्चयोज्ज्वलित पादसरोजयुग्मे |
चेतो मतौ मम सदा प्रतिविम्बिता त्वं
भूया भवानि विदधातु सदोरुहारे || ४ ||
लीलोद्धृतक्षितितलस्य वराहमूर्ते-
र्वाराहमूर्तिरखिलार्थकरी त्वमेव |
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं देवि वामतनुभागहरा रहस्य || ५||
त्वामम्ब तप्तकन कोज्ज्वलकान्तिमन्त-
र्ये चिन्तयन्ति युवतीतनुमागलान्ताम् |
चक्रायुधत्रिनयनाम्बरपोतृवक्त्रां
तेषां पदाम्बुजयुगं प्रणमन्ति देवाः || ६||
त्वत्सेवनस्खलित पापचयस्य घास-
र्मोक्षोऽपि यत्र न सतां गणनानुफैति |
देवासुरोरगनृपालनमस्य पाद-
स्तत्र श्रियः पटुगिरः कियषेवमस्तु || ७||
किं दुष्करं त्वयि मनोविषयं गतायां
किं दुर्लभं त्वयि विधानवदर्चितायाम् |
किं दुष्करं त्वयि सकृत्स्मृतिमागतायां
किं दुर्जयं त्वयि कृतस्तुतिवादपुसाम् || ८||
|| इति श्री धाराह्यनुग्रहाष्टकं सम्पूर्णम् ||
Visit http://www.webdunia.com for additional texts with Hindi meanings.
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com