.. श्री धर्मशास्तुः पञ्चरत्नम् ..
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् .
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् .. १..
विप्रपूज्यं विश्ववन्द्यं विष्णुशंभोः प्रियं सुतम् .
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् .. २..
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् .
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् .. ३..
अस्मत्कुलेश्वरं देवमस्मच्छत्रु विनाशनम् .
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् .. ४..
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् .
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् .. ५..
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः .
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ..
.. इति श्री धर्मशास्तुःपञ्चरत्नं समाप्तम् ..
Please send corrections to Sunder Hattangadi (sunderh@hotmail.com OR sanskrit@cheerful.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com