.. ध्वन्यालोकः ४ ..
एवं ध्वनिं सप्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य तद्व्युत्पादने
प्रयोजनान्तरमुच्यते - - -
ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः .
अनेनानन्त्यमायाति कवीनां प्रतिभागुणः .. १..
य एष ध्वनेर्गुणीभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फला-
न्तरं कविप्रतिभानन्त्यम् .
कथमिति चेत् - - -
अतो ह्यन्यतमेनापि प्रकारेण विभूषिता .
वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि .. २..
अतो ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती
वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति . तथाह्यविव-
क्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयेण नवत्वं पूर्वार्थानुगमेऽपि
यथा - - -
स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः
परिस्पन्दो वाचामभिनवविलासोर्मिसरसः .
गतानामारम्भः किसलयितलीलापरिमलः
स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः ..
इत्यस्य,
सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्गिरः .
नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः ..
इत्येवमादिषु श्लोकेषु सत्स्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणा-
पूर्वत्वमेव प्रतिभासते. तथा - - -
यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी .
श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते ..
इत्यस्य,
स्वतेजःक्रीतमहिमा केनान्येनातिशय्यते .
महद्भिरपि मातङ्गैः सिंहः किमभिभूयते ..
इत्येवमादिषु श्लोकेषु सत्स्वप्यर्थान्तरसङ्क्रमितवाच्यध्वनिसमाश्र-
येण नवत्वम् . विवक्षितान्यपरवाच्यस्याप्युक्तप्रकारसमाश्रयेण नवत्वं
यथा - - -
निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्त्रं वधू-
र्बोधत्रासनिरुद्धचुम्बनरसाप्याभोगलोलं स्थिता .
वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः
साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः ..
इत्यादेः श्लोकस्य,
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् .
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ..
इत्यादिषु श्लोकेषु सत्स्वपि नवत्वम् . यथा वा - - - ' तरङ्गभ्रूभङ्गा'
इत्यादिश्लोकस्य ' नानाभङ्गिभ्रमद्भ्रूः' इत्यादिश्लोकापेक्षयान्यत्वम् .. २..
युक्त्याऽनयानुसर्तव्यो रसादिर्बहुविस्तरः .
मिथोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् .. ३..
बहुविस्तारोऽयं रसभावतदाभासतत्प्रशमलक्षणो मार्गो यथास्वं
विभावानुभावप्रभेदकलनया यथोक्तं प्राक् . स सर्व एवानया युक्त्यानु-
सर्तव्यः . यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्र-
संख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मितोऽप्यनन्ततामेति . रसभावा-
दीनां हि प्रत्येकं विभावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् .
तेषां चैकैकप्रभेदापेक्षयापि तावज्जगद्वृत्तमुपनिबध्यमानं सुकविभिस्त-
दिच्छावशादन्यथा स्थितमप्यन्यथैव विवर्तते . प्रतिपादितं चैतच्चित्र-
विचारावसरे . गाथा चात्र कृतैव महाकविना - - -
अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति .
अर्थविशेषान् सा जयति विकटकविगोचरा वाणी ..
तदित्थं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादितम् .
एतदेवोपपादयितुमुच्यते - - -
दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् .
सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः .. ४..
तथा हि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणन-
रूपव्यङ्ग्यप्रकारसमाश्रयेण नवत्वम् . यथा - - - ' धरणीधारणायाधुना
त्वं शेषः' इत्यादेः .
शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः .
यदलङ्घितमर्यादाश्चलन्तीं बिभ्रते भुवम् ..
इत्यादिषु सत्स्वपि . तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यसमाश्र-
येण नवत्वम् . यथा - - - ' एवंवादिनि देवर्षौ' इत्यादि श्लोकस्य .
कृते वरकथालापे कुमार्यः पुलकोद्गमैः .
सूचयन्ति स्पृहामन्तर्लज्जयावनताननाः ..
इत्यादिषु सत्सु अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविप्रौढो-
क्तिनिर्मितशरीरत्वेन नवत्वम् . यथा - - - ' सज्जयति सुरभिमासो' इत्यादेः .
सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः .
रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः ..
इत्यादिषु सत्स्वप्यपूर्वत्वमेव .
अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविनिबद्धवक्तृप्रौढोक्तिमात्र-
निष्पन्नशरीरत्वेन नवत्वम् . यथा ' ' वाणिज्य हस्तिदन्ताः' इत्यादिगा-
थार्थस्य .
करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती .
हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति ..
एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव .
यथा व्यङ्ग्यभेदसमाश्रयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते,
तथा व्यञ्जकभेदसमाश्रयेणापि . तत्तु ग्रन्थविस्तरभयान्न लिख्यते,
स्वयमेव सहृदयैरभ्यूह्यम् . अत्र च पुनःपुनरुक्तमपि सारतयेदमुच्यते - - -
व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे सम्भवत्यपि .
रसादिमय एकस्मिन् कविः स्यादवधानवान् .. ५..
अस्मिन्नर्थानन्त्यहेतौ व्यङ्ग्यव्यञ्जकभावे विचित्रे शब्दानां सम्भव-
त्यपि कविरपूर्वार्थलाभार्थी रसादिमय एकस्मिन् व्यङ्ग्यव्यञ्जकभावे
यत्नादवदधीत . रसभावतदाभासरूपे हि व्यङ्ग्ये तद्व्यञ्जकेषु च यथा-
निर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वं काव्यं
सम्पद्यते . तथा च रामायणमहाभारतादिषु सङ्ग्रामादयः पुनःपुनर-
भिहिता अपि नवनवाः प्रकाशन्ते . प्रबन्धे चाङ्गी रस एक एवोपनि-
बध्यमानोऽर्थविशेषलाभं छायातिशयं च पुष्णाति . कस्मिन्निवेति
चेत् - - - यथा रामायणे यथा वा महाभारते . रामायणे हि करुणो रसः
स्वयमादिकविना सूत्रितः ' शोकः श्लोकत्वमागतः' इत्येवंवादिना .
निर्व्यूढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता .
महाभारतेऽपि शास्त्रकाव्यरूपच्छायान्वयिनि वृष्णिपाण्डवविरसावसा-
नवैमनस्यदायिनीं समाप्तिमुपनिबध्नता महामुनिना वैराग्यजननतात्पर्यं
प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च
मुख्यतया विवक्षाविषयत्वेन सूचितः . एतच्चांशेन विवृतमेवान्यैर्व्या-
ख्याविधायिभिः . स्वयमेव चैतदुद्गीर्णं तेनोदीर्णमहामोहमग्नमुज्जिहीर्षता
लोकमतिविमलज्ञानालोकदायिना लोकनाथेन - - -
यथा यथा विपर्येति लोकतन्त्रमसारवत् .
तथा तथा विरागोऽत्र जायते नात्र संशयः ..
इत्यादि बहुशः कथयता . ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणः
पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानोऽङ्गित्वेन विवक्षा-
विषय इति महाभारततात्पर्यं सुव्यक्तमेवावभासते . अङ्गाङ्गिभावश्च
यथा रसानां तथा प्रतिपादितमेव .
पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषा-
र्थस्य च स्वप्राधान्येन चारुत्वमप्यविरुद्धम् . ननु महाभारते यावान्वि-
वक्षाविषयः सोऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत्तत्र दृश्यते, प्रत्युत
सर्वपुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भत्वं च महाभारतस्य तस्मिन्नुद्देशे
स्वशब्दनिवेदितत्वेन प्रतीयते . अत्रोच्यते - - - सत्यं शान्तस्यैव रसस्या-
ङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थेभ्यः प्राधान्यमित्येतन्न स्व-
शब्दाभिधेयत्वेनानुक्रमण्या दर्शितम्, दर्शितं तु व्यङ्ग्यत्वेन - - -
' भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः'
इत्यस्मिन् वाक्ये . अनेन ह्ययमर्थो व्यङ्ग्यत्वेन विवक्षितो यदत्र
महाभारते पाण्डवादिचरितं यत्कीर्त्यते तत्सर्वमवसानविरसमविद्याप्र-
पञ्चरूपञ्च, परमार्थसत्यस्वरूपस्तु भगवान्वासुदेवोऽत्र कीर्त्यते .
तस्मात्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो, मा भूत विभू-
तिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु
केषुचित्सर्वात्मना प्रतिनिविष्टधियः . तथा चाग्रे - - पश्यत निःसारतां
संसारस्येत्यमुमेवार्थं द्योतयन् स्फुटमेवावभासते व्यञ्जकशक्त्यनुगृहीतश्च
शब्दः . एवंविधमेवार्थं गर्भीकृतं सन्दर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते - -
' स हि सत्यम्' इत्यादयः .
अयं च निगूढरमणीयोऽर्थो महाभारतावसाने हरिवंशवर्णनेन
समाप्तिं विदधता तेनैव कविवेधसा कृष्णद्वैपायनेन सम्यक्स्फुटीकृतः .
अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल
एव सांसारिको व्यवहारः पूर्वपक्षीकृतो न्यक्षेण प्रकाशते . देवतातीर्थ-
तपःप्रभृतीनां च प्रभावातिशयवर्णनं तस्यैव परब्रह्मणः प्राप्त्युपायत्वेन
तद्विभूतित्वेनैव देवताविशेषाणामन्येषां च . पाण्डवादिचरितवर्णन-
स्यापि वैराग्यजननतात्पर्याद्वैराग्यस्य च मोक्षमूलत्वान्मोक्षस्य च
भगवत्प्राप्त्युपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात्परब्रह्मप्राप्त्यु-
पायत्वमेव परम्परया . वासुदेवादिसञ्ज्ञाभिधेयत्वेन चापरिमितशक्त्या-
स्पदं परं ब्रह्म गीतादिप्रदेशान्तरेषु तदभिधानत्वेन लब्धप्रसिद्धि माथु-
रप्रादुर्भावानुकृतसकलस्वरूपं विवक्षितं न तु माथुरप्रादुर्भावांश एव,
सनातनशब्दविशेषितत्वात् . रामायणादिषु चानया सञ्ज्ञया भगवन्मू-
र्त्यन्तरे व्यवहारदर्शनात् . निर्णीतश्चायमर्थः शब्दतत्त्वविद्भिरेव .
तदेवमनुक्रमणीनिर्दिष्टेन वाक्येन भगवद्व्यतिरेकिणः सर्वस्यान्य-
स्यानित्यतां प्रकाशयता मोक्षलक्षण एवैकः परः पुरुषार्थः शास्त्रनये,
काव्यनये च तृष्णाक्षयसुखपरिपोषलक्षणः शान्तो रसो महाभारतस्या-
ङ्गित्वेन विवक्षित इति सुप्रतिपादितम् . अत्यन्तसारभूतत्वाच्चायमर्थो
व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन . सारभूतो ह्यर्थः स्वशब्दानभि-
धेयत्वेन प्रकाशितः सुतरामेव शोभामावहति . प्रसिद्धिश्चेयमस्त्येव
विदग्धविद्वत्परिषत्सु यदभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न
साक्षाच्छब्दवाच्यत्वेन . तस्मात्स्थितमेतत् - - - अङ्गिभूतरसाद्याश्रयेण
काव्ये क्रियमाणे नवार्थलाभो भवति बन्धच्छाया च महती सम्पद्यत
इति . अत एव च रसानुगुणार्थविशेषोपनिबन्धमलङ्कारान्तरविरहेऽपि
छायातिशययोगि लक्ष्ये दृश्यते . यथा - - -
मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः .
येनैकचुलके दृष्टौ तौ दिव्यौ मत्स्यकच्छपौ ..
इत्यादौ . अत्र ह्यद्भुतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं
छायातिशयं पुष्णाति . तत्र ह्येकचुलके सकलजलधिसन्निधानादपि
दिव्यमत्स्यकच्छपदर्शनमक्षुण्णत्वादद्भुतरसानुगुणतरम् . क्षुण्णं हि
वस्तु लोकप्रसिद्ध्याद्भुतमपि नाश्चर्यकारि भवति . न चाक्षुण्णं वस्तूप-
निबध्यमानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि . तद्यथा - - -
स्विद्यति रोमाञ्चते वेपते रथ्यायान्तुलाग्रेण .
स पार्श्वोऽद्यापि सुभग तस्या येनास्यतिक्रान्तः ..
एतद्गाथार्थाद्भाव्यमानाद्या रसप्रतीतिर्भवति, सा त्वां स्पृष्ट्वा स्विद्य-
ति रोमाञ्चते वेपते इत्येवंविधादर्थात्प्रतीयमानान्मनागपि नो जायते .
तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा
प्रतिपादितम् . गुणीभूतव्यङ्ग्यस्यापि त्रिभेदव्यङ्ग्यापेक्षया ये प्रकारा-
स्तत्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव . तत्त्वतिविस्तारका-
रीति नोदाहृतं सहृदयैः स्वयमुत्प्रेक्षणीयम् .. ५..
ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् .
न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः .. ६..
सत्स्वपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः, तस्मिंस्त्व-
सति न किञ्चिदेव कवेर्वस्त्वस्ति . बन्धच्छायाप्यर्थद्वयानुरूपशब्द-
सन्निवेशोऽर्थप्रतिभानाभावे कथमुपपद्यते . अनपेक्षितार्थविशेषाक्षररचनैव
बन्धच्छायेति नेदं नेदीयः सहृदयानाम् . एवं हि सत्यर्थानपेक्षचतुर-
मधुरवचनरचनायामपि काव्यव्यपदेशः प्रवर्तेत . शब्दार्थयोः साहित्येन
काव्यत्वे कथं तथाविधे विषये काव्यव्यवस्थेति चेत् - - - परोपनिबद्धार्थ-
विरचने यथा तत्काव्यत्वव्यवहारस्तथा तथाविधानां काव्यसन्द-
र्भाणाम् .. ६..
न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति
प्रतिपादयितुमुच्यते - - -
अवस्थादेशकालादिविशेषैरपि जायते .
आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः .. ७..
शुद्धस्यानपेक्षितव्यङ्ग्यस्यापि वाच्यस्यानन्त्यमेव जायते स्वभा-
वतः . स्वभावो ह्ययं वाच्यानां चेतनानामचेतनानां च यदवस्थाभेदा-
द्देशभेदात्कालभेदात्स्वालक्षण्यभेदाच्चानन्तता भवति . तैश्च तथाव्यव-
स्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि ताव-
दुपनिबध्यमानैर्निरवधिः काव्यार्थः सम्पद्यते . तथा ह्यवस्थाभेदान्नवत्वं
यथा - - - भगवती पार्वती कुमारसम्भवे ' सर्वोपमाद्रव्यसमुच्चयेन' इत्या-
दिभिरुक्तिभिः प्रथममेव परिसमापितरूपवर्णनापि पुनर्भगवतः शम्भो-
र्लोचनगोचरमायान्ती ' वसन्तपुष्पाभरणं वहन्ती' मन्मथोपकरणभूतेन
भङ्ग्यन्तरेणोपवर्णिता . सैव च पुनर्नवोद्वाहसमये प्रसाध्यमाना ' तां
प्राङ्मुखीं तत्र निवेश्य तन्वीम्' इत्याद्युक्तिभिर्नवेनैव प्रकारेण निरूपि-
तरूपसौष्ठवा . न च ते तस्य कवेरेकत्रैवासकृत्कृता वर्णनप्रकारा अपुन-
रुक्तत्वेन वा नवनवार्थनिर्भरत्वेन वा प्रतिभासन्ते . दर्शितमेव चैतद्वि-
षमबाणलीलायाम् - - -
न च तेषां घटतेऽवधिः, न च ते दृश्यन्ते कथमपि पुनरुक्ताः .
ये विभ्रमाः प्रियाणामर्था वा सुकविवाणीनाम् ..
अयमपरश्चावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीयं
रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनाम् . तच्चोचितचेतनविषयस्वरूप-
योजनयोपनिबध्यमानमन्यदेव सम्पद्यते . यथा कुमारसम्भव एव
पर्वतस्वरूपस्य हिमवतो वर्णनं, पुनः सप्तर्षिप्रियोक्तिषु चेतनतत्स्वरूपा-
पेक्षया प्रदर्शितं तदपूर्वमेव प्रतिभाति . प्रसिद्धश्चायं सत्कवीनां मार्गः .
इदं च प्रस्थानं कविव्युत्पत्तये विषमबाणलीलायां सप्रपञ्चं दर्शितम् .
चेतनानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव . चेतना-
नामवस्थाभेदेऽप्यवान्तरावस्थाभेदान्नानात्वम् . यथा कुमारीणां कुसुम-
शरभिन्नहृदयानामन्यासां च . तत्रापि विनीतानामविनीतानां च .
अचेतनानां च भावानामारम्भाद्यवस्थाभेदभिन्नानामेकैकशः स्वरूपमुप-
निबध्यमानमानन्त्यमेवोपयाति . यथा - - -
हंसानां निनदेषु यैः कवलितैरासज्यते कूजता-
मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः .
ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो
निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ..
एवमन्यत्रापि दिशानयानुसर्तव्यम् .
देशभेदान्नानात्वमचेतनानां तावत् . यथा वायूनां नानादिग्देश-
चारिणामन्येषामपि सलिलकुसुमादीनां प्रसिद्धमेव . चेतनानामपि
मानुषपशुपक्षिप्रभृतीनां ग्रामारण्यसलिलादिसमेधितानां परस्परं महा-
न्विशेषः समुपलक्ष्यत एव . स च विविच्य यथायथमुपनिबध्यमान-
स्तथैवानन्त्यमायाति . तथा हि - - - मानुषाणामेव तावद्दिग्देशादि-
भिन्नानां ये व्यवहारव्यापारादिषु विचित्रा विशेषास्तेषां केनान्तः
शक्यते गन्तुम्, विशेषतो योषिताम् . उपनिबध्यते च तत्सर्वमेव
सुकविभिर्यथाप्रतिभम् .
कालभेदाच्च नानात्वम् . यथर्तुभेदाद्दिग्व्योमसलिलादीनामचेतना-
नाम् . चेतनानां चौत्सुक्यादयः कालविशेषाश्रयिणः प्रसिद्धा एव .
स्वालक्षण्यप्रभेदाच्च सकलजगद्गतानां वस्तूनां विनिबन्धनं प्रसिद्धमेव .
तच्च यथावस्थितमपि तावदुपनिबध्यमानमनन्ततामेव काव्यार्थ-
स्यापादयति .
अत्र केचिदाचक्षीरन् - - - यथा सामान्यात्मना वस्तूनि वाच्यतां
प्रतिपद्यन्ते न विशेषात्मना ; तानि हि स्वयमनुभूतानां सुखादीनां
तन्निमित्तानां च स्वरूपमन्यत्रारोपयद्भिः स्वपरानुभूतरूपसामान्य-
मात्राश्रयेणोपनिबध्यन्ते कविभिः . न हि तैरतीतमनागतं वर्तमानञ्च
परिचितादिस्वलक्षणं योगिभिरिव प्रत्यक्षीक्रियते ; तच्चानुभाव्यानु-
भवसामान्यं सर्वप्रतिपत्तृसाधारणं परिमितत्वात्पुरातनानामेव गोचरी-
भूतम्, तस्याविषयत्वानुपपत्तेः . अत एव स प्रकारविशेषो यैरद्यतनै-
रभिनवत्वेन प्रतीयते तेषामभिमानमात्रमेव भणितिकृतं वैचित्र्यमात्रम-
त्रास्तीति .
तत्रोच्यते - - - यत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च
परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यवस्तूनामिति,
तदयुक्तम् ; यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किङ्कृत-
स्तर्हि महाकविनिबध्यमानानां काव्यार्थानामतिशयः . वाल्मीकिव्य-
तिरिक्तस्यान्यस्य कविव्यपदेश एव वा सामान्यव्यतिरिक्तस्या-
न्यस्य काव्यार्थस्याभावात्, सामान्यस्य चादिकविनैव प्रदर्शित-
त्वात् . उक्तिवैचित्र्यान्नैष दोष इति चेत् - - - किमिदमुक्तिवैचित्र्यम् ?
उक्तिर्हि वाच्यविशेषप्रतिपादि वचनम् . तद्वैचित्र्ये कथं न वाच्यवै-
चित्र्यम् . वाच्यवाचकयोरविनाभावेन प्रवृत्तेः . वाच्यानां च काव्ये-
प्रतिभासमानानां यद्रूपं तत्तु ग्राह्यविशेषाभेदेनैव प्रतीयते . तेनो-
क्तिवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छताप्यवश्यमेवाभ्युपगन्तव्यम् .
तदयमत्र सङ्क्षेपः - - -
वाल्मीकिव्यतिरिक्तस्य यद्येकस्यापि कस्यचित् .
इष्यते प्रतिभार्थेषु तत्तदानन्त्यमक्षयम् ..
किञ्च, उक्तिवैचित्र्यं यत्काव्यनवत्वे निबन्धनमुच्यते तदस्मत्पक्षा-
नुगुणमेव . यतो यावानयं काव्यार्थानन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः
स सर्व एव पुनरुक्तिवैचित्र्याद् द्विगुणतामापद्यते . यश्चायमुपमाश्लेषादि-
रलङ्कारवर्गः प्रसिद्धः स भणितिवैचित्र्यादुपनिबध्यमानः स्वयमेवानव-
धिर्धत्ते पुनः शतशाखताम्. भणितिश्च स्वभाषाभेदेन व्यवस्थिता सती
प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामान-
न्त्यमापादयति . यथा ममैव - - -
मम मम इति भणतो व्रजति कालो जनस्य .
तथापि न देवो जनार्दनो गोचरो भवति मनसः .. ७..
इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यतेऽन्तः काव्यार्था-
नाम् . इदं तूच्यते - - -
अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् .
यत्प्रदर्शितं प्राक्
भूम्नैव दृश्यते लक्ष्ये - -
न तच्छक्यमपोहितुम् .
- - तत्तु भाति रसाश्रयात् .. ८..
तदिदमत्र सङ्क्षेपेणाभिधीयते सत्कवीनामुपदेशाय - - -
रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी .
अन्वीयते वस्तुगतिर्देशकालादिभेदिनी .. ९..
तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् .
वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः .
निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव .. १०..
यथा हि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा
सती पुनरिदानीं परिक्षीणा परपदार्थनिर्माणशक्तिरिति न शक्यतेऽभि-
धातुम् . तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदा-
नीं परिहीयते, प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते . इत्थं
स्थितेऽपि
संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् .
स्थितं ह्येतत् संवादिन्य एव मेधाविनां बुद्धयः . किन्तु - - -
नैकरूपतया सर्वे ते मन्तव्या विपश्चिता .. ११..
कथमिति चेत् - - -
संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् .
आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् .. १२..
संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना
सादृश्यम् . तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च
त्रिधा व्यवस्थितम् . किञ्चिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः
प्रतिबिम्बकल्पम्, अन्यदालेख्यप्रख्यम्, अन्यत्तुल्येन शरीरिणा
सदृशम् .
तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् .
तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः .. १३..
तत्र पूर्वं प्रतिबिम्बकल्पं काव्यवस्तु परिहर्तव्यं सुमतिना . यत-
स्तदनन्यात्म तात्त्विकशरीरशून्यम् . तदनन्तरमालेख्यप्रख्यमन्यसाम्यं
शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् . तृतीयं तु विभिन्नकम-
नीयशरीरसद्भावे सति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना .
न हि शरीरी शरीरिणान्येन सदृशोऽप्येक एवेति शक्यते वक्तुम् .. १३..
एतदेवोपपादयितुमुच्यते - - -
आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि .
वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् .. १४..
तत्त्वस्य सारभूतस्यात्मनः सद्भावेऽन्यस्य पूर्वस्थित्यनुयाय्यपि
वस्तु भातितराम् . पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां
शोभां पुष्यति . न तु पुनरुक्तत्वेनावभासते . तन्व्याः शशिच्छायमि-
वाननम् .
एवं तावत्ससंवादानां समुदायरूपाणां वाक्यार्थानां विभक्ताः सी-
मानः . पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव
दोष इति प्रतिपादयितुमुच्यते - - -
अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी .
नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सा न दुष्यति .. १५..
न हि वाचस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घट-
यितुं शक्यन्ते . तानि तु तान्येवोपनिबद्धानि न काव्यादिषु नवतां
विरुध्यन्ति . तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि .
तस्मात् - -
यदपि तदपि रम्यं यत्र लोकस्य किञ्चित्-
स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते .
स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते .
अनुगतमपि पूर्वच्छायया वस्तु तादृक्
सुकविरुपनिबध्नन्निन्द्यतां नोपयाति .. १६..
तदनुगतमपि पूर्वच्छायया वस्तु तादृक् तादृक्षं सुकविर्विवक्षितव्य-
ङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्द्यतां
नैव याति . तदित्थं स्थितम् - - -
प्रतीयन्तां वाचो निमितविविधार्थामृतरसा
न सादः कर्तव्यः कविभिरनवद्ये स्वविषये .
सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण
इति भावयित्वा .
परस्वादानेच्छाविरतमनसो वस्तु सुकवेः
सरस्वत्येवैषा घटयति यथेष्टं भगवती .. १७..
परस्वादानेच्छाविरतमनसः सुकवेः सरस्वत्येषा भगवती यथेष्टं
घटयति वस्तु . येषां सुकवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन
प्रवृत्तिस्तेषां परोपरचितार्थपरिग्रहनिःस्पृहाणां स्वव्यापारो न क्वचिदु-
पयुज्यते . सैव भगवती सरस्वती स्वयमभिमतमर्थमाविर्भावयति .
एतदेव हि महाकवित्वं महाकवीनामित्योम् .
इत्यक्लिष्टरसाश्रयोचितगुणालङ्कारशोभाभृतो
यस्माद्वस्तु समीहितं सुकृतिभिः सर्वं समासाद्यते .
काव्याख्येऽखिलसौख्यधाम्नि विबुधोद्याने ध्वनिर्दर्शितः
सोऽयं कल्पतरूपमानमहिमा भोग्योऽस्तु भव्यात्मनाम् ..
सत्काव्यतत्त्वनयवर्त्मचिरप्रसुप्त
कल्पं मनस्सु परिपक्वधियां यदासीत् .
तद्व्याकरोत्सहृदयोदयलाभहेतो-
रानन्दवर्धन इति प्रथिताभिधानः ..
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्द्योतः .
Encoded by Rajani Arjun Shankar rajani\__arjun@yahoo.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com