\Large Drig-Drishya-Viveka
क्ष्तित्ले .. दृग्दृश्यविवेकः ..
रूपं दृश्यं लोचनं दृक् तद्दृश्यं दृक्तु मानसम् .
दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते .. १..
नीलपीतस्थूलसूक्ष्मह्रस्वदीर्घादिभेदतः .
नानाविधानि रूपाणि पश्येल्लोचनमेकधा .. २..
आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चैकधा .
संकल्पयेन्मनः श्रोत्रत्वगादौ योज्यतामिदम् .. ३..
कामः संकल्पसन्देहौ श्रद्धाऽश्रद्धे धृतीतरे .
ह्रीर्धीर्भीरित्येवमादीन् भासयत्येकधा चितिः .. ४..
नोदेति नास्तमेत्येषा न वृद्धिं याति न क्षयम् .
स्वयं विभात्यथानन्यानि भासयेत् साधनं विना .. ५..
चिच्छायाऽऽवेशतो बुदौ भानं धीस्तु द्विधा स्थिता .
एकाहंकृतिरन्या स्यादन्तःकरणरूपिणी .. ६..
छायाऽहंकारयोरैक्यं तप्तायःपिण्डवन्मतम् .
तदहंकारतादात्म्यद्देहश्चेतनतामगात् .. ७..
अहंकारस्य तादात्म्यं चिच्छायादेहसाक्षिभिः .
सहजं कर्मजं भ्रान्तिजन्यं च त्रिविधं क्रमात् .. ८..
संबन्धिनोः सतोर्नास्ति निवृत्तिः सहजस्य तु .
कर्मक्षयात् प्रबोधाच्च निवर्तेते क्रमादुभे .. ९..
अहंकारलये सुप्तौ भवेद्देहोऽप्यचेतनः .
अहंकारविकासार्धः स्वप्नः सर्वस्तु जागरः .. १०..
अन्तःकरणवृत्तिश्च चितिच्चछायैक्यमागता .
वासनाः कल्पयेत् स्वप्ने बोधेऽक्षैर्विषयान् बहिः .. ११..
मनोऽहंकृत्युपादानं लिङ्गमेकं जडात्मकम् .
अवस्थात्रयमन्वेति जायते म्रियते तथा .. १२..
शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् .
विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत् सृजेत् .. १३..
सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि .
अब्धौ फेनादिवत् सर्वनामरूपप्रसारणा .. १४..
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसत्गयोः .
आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् .. १५..
साक्षिणः पुरतो भाति लिङ्गं देहेन संयुतम् .
चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः .. १६..
अस्य जीवत्वमारोपात् साक्षिण्यप्यवभासते .
आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् .. १७..
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति .
या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते .. १८..
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः .
भेदस्तयोर्विकारः स्यात् सर्गे न ब्रह्मणि क्वचित् .. १९..
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् .
आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् .. २०..
खवाय्वग्निजलोर्वीषु देवतिर्यङ्नरादिषु .
अभिन्नाः सच्चिदानन्दाः भिद्यते रूपनामनि .. २१..
उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः .
समाधिं सर्वदा कुर्याद्धृतये वाऽथवा बहिः .. २२..
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि .
दृश्यशब्दानुवेधेन सविकल्पः पुनर्द्विधा .. २३..
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् .
ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः .. २४..
असंगः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः .
अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः .. २५..
स्वानुभूतिरसावेशाद्दृश्यशब्दावुपेक्ष्य तु .
निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् .. २६..
हृदीव बाह्यदेशेऽपि यस्मिन् कस्मिंश्च वस्तुनि .
समाधिराद्यः सन्मात्रान्नामरूपपृथक्कृतिः .. २७..
अखण्डैकरसं वस्तु सच्चिदानन्दलक्षणम् .
इत्यविच्छिन्नचिन्तेयं समाधिर्मध्यमो भवेत् .. २८..
स्तब्धीभावोरसास्वादात्तृतीयः पूर्ववन्मतः .
एतैः समाधिभिः षड्भिर्नयेत् कालं निरन्तरम् .. २९..
देहाभिमाने गलिते विज्ञाते परमात्मनि .
यत्र यत्र मनो याति तत्र तत्र समाधयः .. ३०..
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः .
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे .. ३१..
अवच्छिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः .
विज्ञेयस्त्रिविधो जीवस्तत्राद्यः पारमार्थिकः .. ३२..
अवच्छेदः कल्पितः स्यादवच्छेद्यं तु वास्तवम् .
तस्मिन् जीवत्वमारोपाद्ब्रह्मत्वं तु स्वभावतः .. ३३..
अवच्छिन्नस्य जीवस्य पूर्णेन ब्रह्मणैकताम् .
तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः .. ३४..
ब्रह्मण्यवस्थिता माया विक्षेपावृतिरूपिणी .
आवृत्यखण्डतां तस्मिन् जगज्जीवौ प्रकल्पयेत् .. ३५..
जीवो धीस्थचिदाभासो भवेद्भोक्ता हि कर्मकृत् .
भोग्यरूपमिदं सर्वं जगत् स्याद्भूतभौतिकम् .. ३६..
अनादिकालमारभ्य मोक्षात् पूर्वमिदं द्वयम् .
व्यवहारे स्थितं तस्मादुभयं व्यावहारिकम् .. ३७..
चिदाभासस्थिता निद्रा विक्षेपावृतिरूपिणी .
आवृत्य जीवजगती पूर्वे नूत्ने तु कल्पयेत् .. ३८..
प्रतीतिकाल एवैते स्थितत्वात् प्रातिभासिके .
न हि स्वप्नप्रबुद्धस्य पुनः स्वप्ने स्थितिस्तयोः .. ३९..
प्रातिभासिकजीवो यस्तज्जगत् प्रातिभासिकम् .
वास्तवं मन्यतेऽन्यस्तु मिथ्येति व्यावहारिकः .. ४०..
व्यावहारिकजीवो यस्तज्जगद्व्यावहारिकम् .
सत्यं प्रत्येति मिथ्येति मन्यते पारमार्थिकः .. ४१..
पारमार्थिकजीवस्तु ब्रह्मैक्यं पारमार्थिकम् .
प्रत्येति वीक्षते नान्यद्वीक्षते त्वनृतात्मना .. ४२..
माधुर्यद्रवशैत्यानि नीरधर्मास्तरङ्गके .
अनुगम्याथ तन्निष्टे फेनेऽप्यनुगता यथा .. ४३..
साक्षिस्थाः सच्चिदानन्दाः संबन्धाद्व्यावहारिके .
तद्द्वारेणानुगच्छन्ति तथैव प्रातिभासिके .. ४४..
लये फेनस्य तद्धर्मा द्रवाद्याः स्युस्तरङ्गके .
तस्यापि विलये नीरे निष्ठन्त्येते यथा पुरा .. ४५..
प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके .
तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणि .. ४६..
इति भारती तीर्थ स्वामिना विरचितः
दृग्दृश्यविवेकः समाप्तः ..
Encoded and proofread by Sunder Hattangadi sunderh@hotmail.com
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com